This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षष्ठः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣaṣṭhaḥ sargaḥ ..1..
तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥१-६-१॥
तस्याम् पुर्याम् अयोध्यायाम् वेद-विद् सर्व-संग्रहः । ॥१॥
tasyām puryām ayodhyāyām veda-vid sarva-saṃgrahaḥ . ..1..
इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
इक्ष्वाकूणाम् अतिरथः यज्वा धर्म-परः वशी । महा-ऋषि-कल्पः राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१॥
ikṣvākūṇām atirathaḥ yajvā dharma-paraḥ vaśī . mahā-ṛṣi-kalpaḥ rājarṣiḥ triṣu lokeṣu viśrutaḥ ..1..
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः । धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥१-६-३॥
बलवान् निहत-अमित्रः मित्रवान् विजित-इन्द्रियः । धनैः च संचयैः च अन्यैः शक्र-वैश्रवण-उपमः ॥१॥
balavān nihata-amitraḥ mitravān vijita-indriyaḥ . dhanaiḥ ca saṃcayaiḥ ca anyaiḥ śakra-vaiśravaṇa-upamaḥ ..1..
यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
यथा मनुः महा-तेजाः लोकस्य परिरक्षिता । तथा दशरथः राजा लोकस्य परिरक्षिता ॥१॥
yathā manuḥ mahā-tejāḥ lokasya parirakṣitā . tathā daśarathaḥ rājā lokasya parirakṣitā ..1..
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥१-६-५॥
तेन सत्य-अभिसंधेन त्रिवर्गम् अनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेण इव अमरावती ॥१॥
tena satya-abhisaṃdhena trivargam anutiṣṭhatā . pālitā sā purī śreṣṭhā indreṇa iva amarāvatī ..1..
तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥१-६-६॥
तस्मिन् पुर-वरे हृष्टाः धर्म-आत्मानः बहु-श्रुताः । नराः तुष्टाः धनैः स्वैः स्वैः अलुब्धाः सत्य-वादिनः ॥१॥
tasmin pura-vare hṛṣṭāḥ dharma-ātmānaḥ bahu-śrutāḥ . narāḥ tuṣṭāḥ dhanaiḥ svaiḥ svaiḥ alubdhāḥ satya-vādinaḥ ..1..
नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥१-६-७॥
न अल्प-संनिचयः कश्चिद् आसीत् तस्मिन् पुर-उत्तमे । कुटुम्बी यः हि अ सिद्ध-अर्थः अगव-अश्व-धन-धान्यवान् ॥१॥
na alpa-saṃnicayaḥ kaścid āsīt tasmin pura-uttame . kuṭumbī yaḥ hi a siddha-arthaḥ agava-aśva-dhana-dhānyavān ..1..
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् । द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥१-६-८॥
कामी वा न कदर्यः वा नृशंसः पुरुषः क्वचिद् । द्रष्टुम् शक्यम् अयोध्यायाम् न अ विद्वान् न च नास्तिकः ॥१॥
kāmī vā na kadaryaḥ vā nṛśaṃsaḥ puruṣaḥ kvacid . draṣṭum śakyam ayodhyāyām na a vidvān na ca nāstikaḥ ..1..
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥१-६-९॥
सर्वे नराः च नार्यः च धर्म-शीलाः सु संयताः । मुदिताः शील-वृत्ताभ्याम् महा-ऋषयः इव अमलाः ॥१॥
sarve narāḥ ca nāryaḥ ca dharma-śīlāḥ su saṃyatāḥ . muditāḥ śīla-vṛttābhyām mahā-ṛṣayaḥ iva amalāḥ ..1..
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥१-६-१०॥
न अकुण्डली न अमुकुटी न अस्रग्वी न अल्प-भोगवान् । न अमृष्टः न न लिप्त-अङ्गः न असुगन्धः च विद्यते ॥१॥
na akuṇḍalī na amukuṭī na asragvī na alpa-bhogavān . na amṛṣṭaḥ na na lipta-aṅgaḥ na asugandhaḥ ca vidyate ..1..
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥१-६-११॥
न अमृष्ट-भोजी न अदाता न अपि अनङ्गद-निष्कधृक् । न अ हस्त-आभरणः वा अपि दृश्यते न अपि अनात्मवान् ॥१॥
na amṛṣṭa-bhojī na adātā na api anaṅgada-niṣkadhṛk . na a hasta-ābharaṇaḥ vā api dṛśyate na api anātmavān ..1..
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥१-६-१२॥
न अनाहिताग्निः न अयज्वा न क्षुद्रः वा न तस्करः । कश्चिद् आसीत् अयोध्यायाम् न चारु-ऋत्तः न संकरः ॥१॥
na anāhitāgniḥ na ayajvā na kṣudraḥ vā na taskaraḥ . kaścid āsīt ayodhyāyām na cāru-ṛttaḥ na saṃkaraḥ ..1..
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥१-६-१३॥
स्व-कर्म-निरताः नित्यम् ब्राह्मणाः विजित-इन्द्रियाः । दान-अध्ययन-शीलाः च संयताः च प्रतिग्रहे ॥१॥
sva-karma-niratāḥ nityam brāhmaṇāḥ vijita-indriyāḥ . dāna-adhyayana-śīlāḥ ca saṃyatāḥ ca pratigrahe ..1..
नास्तिको नानृती वापि न कश्चिदबहुश्रुतः । नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥१-६-१४॥
नास्तिकः न अनृती वा अपि न कश्चिद् अबहु-श्रुतः । न असूयकः न च अशक्तः न अ विद्वान् विद्यते क्वचिद् ॥१॥
nāstikaḥ na anṛtī vā api na kaścid abahu-śrutaḥ . na asūyakaḥ na ca aśaktaḥ na a vidvān vidyate kvacid ..1..
नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥१-६-१५॥
न अ षष्-अङ्ग-विद् अत्र अस्ति न अ व्रतः न अ सहस्र-दः । न दीनः क्षिप्त-चित्तः वा व्यथितः वा अपि कश्चन ॥१॥
na a ṣaṣ-aṅga-vid atra asti na a vrataḥ na a sahasra-daḥ . na dīnaḥ kṣipta-cittaḥ vā vyathitaḥ vā api kaścana ..1..
कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥१-६-१६॥
कश्चिद् नरः वा नारी वा न अश्रीमान् न अपि अरूपवान् । द्रष्टुम् शक्यम् अयोध्यायाम् ना अपि राजनि अभक्तिमान् ॥१॥
kaścid naraḥ vā nārī vā na aśrīmān na api arūpavān . draṣṭum śakyam ayodhyāyām nā api rājani abhaktimān ..1..
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥१-६-१७॥
वर्णेषु अग्र्य-चतुर्थेषु देवता-अतिथि-पूजकाः । कृतज्ञाः च वदान्याः च शूराः विक्रम-संयुताः ॥१॥
varṇeṣu agrya-caturtheṣu devatā-atithi-pūjakāḥ . kṛtajñāḥ ca vadānyāḥ ca śūrāḥ vikrama-saṃyutāḥ ..1..
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः । सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
दीर्घ-आयुषः नराः सर्वे धर्मम् सत्यम् च संश्रिताः । सहिताः पुत्र-पौत्रैः च नित्यम् स्त्रीभिः पुर-उत्तमे ॥१॥
dīrgha-āyuṣaḥ narāḥ sarve dharmam satyam ca saṃśritāḥ . sahitāḥ putra-pautraiḥ ca nityam strībhiḥ pura-uttame ..1..
क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥१-६-१९॥
क्षत्रम् ब्रह्म-मुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः । शूद्राः स्वधर्म-निरताः त्रीन् वर्णान् उपचारिणः ॥१॥
kṣatram brahma-mukham ca āsīt vaiśyāḥ kṣatram anuvratāḥ . śūdrāḥ svadharma-niratāḥ trīn varṇān upacāriṇaḥ ..1..
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
सा तेन इक्ष्वाकु-नाथेन पुरी सु परिरक्षिता । यथा पुरस्तात् मनुना मानव-इन्द्रेण धीमता ॥१॥
sā tena ikṣvāku-nāthena purī su parirakṣitā . yathā purastāt manunā mānava-indreṇa dhīmatā ..1..
योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥१-६-२१॥
योधानाम् अग्नि-कल्पानाम् पेशलानाम् अमर्षिणाम् । सम्पूर्णा कृतविद्यानाम् गुहा केसरिणाम् इव ॥१॥
yodhānām agni-kalpānām peśalānām amarṣiṇām . sampūrṇā kṛtavidyānām guhā kesariṇām iva ..1..
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः । वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥१-६-२२॥
काम्बोज-विषये जातैः वाह्लीकैः च हय-उत्तमैः । वनायु-जैः नदी-जैः च पूर्णा हरि-हय-उत्तमैः ॥१॥
kāmboja-viṣaye jātaiḥ vāhlīkaiḥ ca haya-uttamaiḥ . vanāyu-jaiḥ nadī-jaiḥ ca pūrṇā hari-haya-uttamaiḥ ..1..
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥१-६-२३॥
विन्ध्य-पर्वत-जैः मत्तैः पूर्णा हैमवतैः अपि । मद-अन्वितैः अतिबलैः मातङ्गैः पर्वत-उपमैः ॥१॥
vindhya-parvata-jaiḥ mattaiḥ pūrṇā haimavataiḥ api . mada-anvitaiḥ atibalaiḥ mātaṅgaiḥ parvata-upamaiḥ ..1..
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा । अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥१-६-२४॥
ऐरावत-कुलीनैः च महा-पद्म-कुलैः तथा । अञ्जनात् अपि निष्क्रान्तैः वामनात् अपि च द्विपैः ॥१॥
airāvata-kulīnaiḥ ca mahā-padma-kulaiḥ tathā . añjanāt api niṣkrāntaiḥ vāmanāt api ca dvipaiḥ ..1..
भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा । भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥१-६-२५॥
भदैः मन्द्रैः मृगैः च एव भद्र-मन्द्र-मृगैः तथा । भद्र-मन्द्रैः भद्रमृगैः मृगमन्द्रैः च सा पुरी ॥१॥
bhadaiḥ mandraiḥ mṛgaiḥ ca eva bhadra-mandra-mṛgaiḥ tathā . bhadra-mandraiḥ bhadramṛgaiḥ mṛgamandraiḥ ca sā purī ..1..
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः । सा योजने द्वे च भूयः सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसञ्जगदपालयत् ॥१-६-२६॥
नित्य-मत्तैः सदा पूर्णा नागैः अचल-संनिभैः । सा योजने द्वे च भूयस् सत्यनामा प्रकाशते । यस्याम् दशरथः राजा वसन् जगत् अपालयत् ॥१॥
nitya-mattaiḥ sadā pūrṇā nāgaiḥ acala-saṃnibhaiḥ . sā yojane dve ca bhūyas satyanāmā prakāśate . yasyām daśarathaḥ rājā vasan jagat apālayat ..1..
तां पुरीं स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
ताम् पुरीम् स महा-तेजाः राजा दशरथः महान् । शशास शमिता अमित्रः नक्षत्राणि इव चन्द्रमाः ॥१॥
tām purīm sa mahā-tejāḥ rājā daśarathaḥ mahān . śaśāsa śamitā amitraḥ nakṣatrāṇi iva candramāḥ ..1..
तां सत्यनामां दृढतोरणार्गलाम् गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥१-६-२८॥
ताम् सत्यनामाम् दृढ-तोरण-अर्गलाम् गृहैः विचित्रैः उपशोभिताम् शिवाम् । पुरीम् अयोध्याम् नृ-सहस्र-संकुलाम् शशास वै शक्र-समः महीपतिः ॥१॥
tām satyanāmām dṛḍha-toraṇa-argalām gṛhaiḥ vicitraiḥ upaśobhitām śivām . purīm ayodhyām nṛ-sahasra-saṃkulām śaśāsa vai śakra-samaḥ mahīpatiḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṣṭhaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In