This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣaṣṭhitamaḥ sargaḥ ..1..
तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्। ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥ १॥
तपः-बल-हतान् ज्ञात्वा वासिष्ठान् स महोदयान्। ऋषि-मध्ये महा-तेजाः विश्वामित्रः अभ्यभाषत॥ १॥
tapaḥ-bala-hatān jñātvā vāsiṣṭhān sa mahodayān. ṛṣi-madhye mahā-tejāḥ viśvāmitraḥ abhyabhāṣata.. 1..
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥ २॥
अयम् इक्ष्वाकु-दायादः त्रिशङ्कुः इति विश्रुतः। धर्मिष्ठः च वदान्यः च माम् च एव शरणम् गतः॥ २॥
ayam ikṣvāku-dāyādaḥ triśaṅkuḥ iti viśrutaḥ. dharmiṣṭhaḥ ca vadānyaḥ ca mām ca eva śaraṇam gataḥ.. 2..
स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति॥ ३॥
स्वेन अनेन शरीरेण देव-लोक-जिगीषया। यथा अयम् स्व-शरीरेण देव-लोकम् गमिष्यति॥ ३॥
svena anena śarīreṇa deva-loka-jigīṣayā. yathā ayam sva-śarīreṇa deva-lokam gamiṣyati.. 3..
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ४॥
तथा प्रवर्त्यताम् यज्ञः भवद्भिः च मया सह। विश्वामित्र-वचः श्रुत्वा सर्वे एव महा-ऋषयः॥ ४॥
tathā pravartyatām yajñaḥ bhavadbhiḥ ca mayā saha. viśvāmitra-vacaḥ śrutvā sarve eva mahā-ṛṣayaḥ.. 4..
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः॥ ५॥
ऊचुः समेताः सहसा धर्म-ज्ञाः धर्म-संहितम्। अयम् कुशिक-दायादः मुनिः परम-कोपनः॥ ५॥
ūcuḥ sametāḥ sahasā dharma-jñāḥ dharma-saṃhitam. ayam kuśika-dāyādaḥ muniḥ parama-kopanaḥ.. 5..
यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ ६॥
यत् आह वचनम् सम्यक् एतत् कार्यम् न संशयः। अग्नि-कल्पः हि भगवान् शापम् दास्यति रोषतः॥ ६॥
yat āha vacanam samyak etat kāryam na saṃśayaḥ. agni-kalpaḥ hi bhagavān śāpam dāsyati roṣataḥ.. 6..
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ ७॥
तस्मात् प्रवर्त्यताम् यज्ञः स शरीरः यथा दिवि। गच्छेत् इक्ष्वाकु-दायादः विश्वामित्रस्य तेजसा॥ ७॥
tasmāt pravartyatām yajñaḥ sa śarīraḥ yathā divi. gacchet ikṣvāku-dāyādaḥ viśvāmitrasya tejasā.. 7..
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत। एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा॥ ८॥
ततस् प्रवर्त्यताम् यज्ञः सर्वे समधितिष्ठत। एवम् उक्त्वा महा-ऋषयः संजह्रुः ताः क्रियाः तदा॥ ८॥
tatas pravartyatām yajñaḥ sarve samadhitiṣṭhata. evam uktvā mahā-ṛṣayaḥ saṃjahruḥ tāḥ kriyāḥ tadā.. 8..
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः॥ ९॥
याजकः च महा-तेजाः विश्वामित्रः अभवत् क्रतौ। ऋत्विजः च आनुपूर्व्येण मन्त्रवत् मन्त्र-कोविदाः॥ ९॥
yājakaḥ ca mahā-tejāḥ viśvāmitraḥ abhavat kratau. ṛtvijaḥ ca ānupūrvyeṇa mantravat mantra-kovidāḥ.. 9..
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः॥ १०॥
चक्रुः सर्वाणि कर्माणि यथाकल्पम् यथाविधि। ततस् कालेन महता विश्वामित्रः महा-तपाः॥ १०॥
cakruḥ sarvāṇi karmāṇi yathākalpam yathāvidhi. tatas kālena mahatā viśvāmitraḥ mahā-tapāḥ.. 10..
चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः॥ ११॥
चकार आवाहनम् तत्र भाग-अर्थम् सर्व-देवताः। न अभ्यागमन् तदा तत्र भाग-अर्थम् सर्व-देवताः॥ ११॥
cakāra āvāhanam tatra bhāga-artham sarva-devatāḥ. na abhyāgaman tadā tatra bhāga-artham sarva-devatāḥ.. 11..
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥ १२॥
ततस् कोप-समाविष्टः विश्वामित्रः महा-मुनिः। स्रुवम् उद्यम्य स क्रोधः त्रिशङ्कुम् इदम् अब्रवीत्॥ १२॥
tatas kopa-samāviṣṭaḥ viśvāmitraḥ mahā-muniḥ. sruvam udyamya sa krodhaḥ triśaṅkum idam abravīt.. 12..
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा॥ १३॥
पश्य मे तपसः वीर्यम् स्व-अर्जितस्य नरेश्वर। एष त्वाम् स्व-शरीरेण नयामि स्वर्गम् ओजसा॥ १३॥
paśya me tapasaḥ vīryam sva-arjitasya nareśvara. eṣa tvām sva-śarīreṇa nayāmi svargam ojasā.. 13..
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्॥ १४॥
दुष्प्रापम् स्व-शरीरेण स्वर्गम् गच्छ नरेश्वर। स्व-अर्जितम् किंचिद् अपि अस्ति मया हि तपसः फलम्॥ १४॥
duṣprāpam sva-śarīreṇa svargam gaccha nareśvara. sva-arjitam kiṃcid api asti mayā hi tapasaḥ phalam.. 14..
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ १५॥
राजन् त्वम् तेजसा तस्य स शरीरः दिवम् व्रज। उक्त-वाक्ये मुनौ तस्मिन् स शरीरः नरेश्वरः॥ १५॥
rājan tvam tejasā tasya sa śarīraḥ divam vraja. ukta-vākye munau tasmin sa śarīraḥ nareśvaraḥ.. 15..
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः॥ १६॥
दिवम् जगाम काकुत्स्थ मुनीनाम् पश्यताम् तदा। स्वर्ग-लोकम् गतम् दृष्ट्वा त्रिशङ्कुम् पाकशासनः॥ १६॥
divam jagāma kākutstha munīnām paśyatām tadā. svarga-lokam gatam dṛṣṭvā triśaṅkum pākaśāsanaḥ.. 16..
सह सर्वैः सुरगणैरिदं वचनमब्रवीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ १७॥
सह सर्वैः सुर-गणैः इदम् वचनम् अब्रवीत्। त्रिशङ्को गच्छ भूयस् त्वम् न असि स्वर्ग-कृत-आलयः॥ १७॥
saha sarvaiḥ sura-gaṇaiḥ idam vacanam abravīt. triśaṅko gaccha bhūyas tvam na asi svarga-kṛta-ālayaḥ.. 17..
गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ १८॥
गुरु-शाप-हतः मूढ पत भूमिम् अवाक्शिराः। एवम् उक्तः महा-इन्द्रेण त्रिशङ्कुः अपतत् पुनर्॥ १८॥
guru-śāpa-hataḥ mūḍha pata bhūmim avākśirāḥ. evam uktaḥ mahā-indreṇa triśaṅkuḥ apatat punar.. 18..
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ १९॥
विक्रोशमानः त्राहि इति विश्वामित्रम् तपोधनम्। तत् श्रुत्वा वचनम् तस्य क्रोशमानस्य कौशिकः॥ १९॥
vikrośamānaḥ trāhi iti viśvāmitram tapodhanam. tat śrutvā vacanam tasya krośamānasya kauśikaḥ.. 19..
रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ २०॥
रोषम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत्। ऋषि-मध्ये स तेजस्वी प्रजापतिः इव अपरः॥ २०॥
roṣam āhārayat tīvram tiṣṭha tiṣṭha iti ca abravīt. ṛṣi-madhye sa tejasvī prajāpatiḥ iva aparaḥ.. 20..
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः॥ २१॥
सृजन् दक्षिण-मार्ग-स्थान् सप्तर्षीन् अपरान् पुनर्। नक्षत्र-वंशम् अपरम् असृजत् क्रोध-मूर्च्छितः॥ २१॥
sṛjan dakṣiṇa-mārga-sthān saptarṣīn aparān punar. nakṣatra-vaṃśam aparam asṛjat krodha-mūrcchitaḥ.. 21..
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ २२॥
दक्षिणाम् दिशम् आस्थाय ऋषि-मध्ये महा-यशाः। सृष्ट्वा नक्षत्र-वंशम् च क्रोधेन कलुषीकृतः॥ २२॥
dakṣiṇām diśam āsthāya ṛṣi-madhye mahā-yaśāḥ. sṛṣṭvā nakṣatra-vaṃśam ca krodhena kaluṣīkṛtaḥ.. 22..
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥ २३॥
अन्यम् इन्द्रम् करिष्यामि लोकः वा स्यात् अन् इन्द्रकः। दैवतानि अपि स क्रोधात् स्रष्टुम् समुपचक्रमे॥ २३॥
anyam indram kariṣyāmi lokaḥ vā syāt an indrakaḥ. daivatāni api sa krodhāt sraṣṭum samupacakrame.. 23..
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ २४॥
ततस् परम-सम्भ्रान्ताः स ऋषि-सङ्घाः सुर-असुराः। विश्वामित्रम् महात्मानम् ऊचुः स अनुनयम् वचः॥ २४॥
tatas parama-sambhrāntāḥ sa ṛṣi-saṅghāḥ sura-asurāḥ. viśvāmitram mahātmānam ūcuḥ sa anunayam vacaḥ.. 24..
अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातुं नार्हत्येव तपोधन॥ २५॥
अयम् राजा महाभाग गुरु-शाप-परिक्षतः। स शरीरः दिवम् यातुम् न अर्हति एव तपोधन॥ २५॥
ayam rājā mahābhāga guru-śāpa-parikṣataḥ. sa śarīraḥ divam yātum na arhati eva tapodhana.. 25..
तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः॥ २६॥
तेषाम् तत् वचनम् श्रुत्वा देवानाम् मुनि-पुंगवः। अब्रवीत् सु महत् वाक्यम् कौशिकः सर्व-देवताः॥ २६॥
teṣām tat vacanam śrutvā devānām muni-puṃgavaḥ. abravīt su mahat vākyam kauśikaḥ sarva-devatāḥ.. 26..
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥ २७॥
स शरीरस्य भद्रम् वः त्रिशङ्कोरस्य भूपतेः। आरोहणम् प्रतिज्ञातम् न अनृतम् कर्तुम् उत्सहे॥ २७॥
sa śarīrasya bhadram vaḥ triśaṅkorasya bhūpateḥ. ārohaṇam pratijñātam na anṛtam kartum utsahe.. 27..
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ २८॥
स्वर्गः अस्तु स शरीरस्य त्रिशङ्कोः अस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाणि अथ॥ २८॥
svargaḥ astu sa śarīrasya triśaṅkoḥ asya śāśvataḥ. nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇi atha.. 28..
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ २९॥
यावत् लोकाः धरिष्यन्ति तिष्ठन्तु एतानि सर्वशस्। यत् कृतानि सुराः सर्वे तत् अनुज्ञातुम् अर्हथ॥ २९॥
yāvat lokāḥ dhariṣyanti tiṣṭhantu etāni sarvaśas. yat kṛtāni surāḥ sarve tat anujñātum arhatha.. 29..
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ ३०॥
एवम् उक्ताः सुराः सर्वे प्रत्यूचुः मुनि-पुंगवम्। एवम् भवतु भद्रम् ते तिष्ठन्तु एतानि सर्वशस्॥ ३०॥
evam uktāḥ surāḥ sarve pratyūcuḥ muni-puṃgavam. evam bhavatu bhadram te tiṣṭhantu etāni sarvaśas.. 30..
गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ ३१॥
गगने तानि अनेकानि वैश्वानर-पथात् बहिस्। नक्षत्राणि मुनि-श्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ ३१॥
gagane tāni anekāni vaiśvānara-pathāt bahis. nakṣatrāṇi muni-śreṣṭha teṣu jyotiḥṣu jājvalan.. 31..
अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ ३२॥
अवाक्शिराः त्रिशङ्कुः च तिष्ठतु अमर-संनिभः। अनुयास्यन्ति च एतानि ज्योतींषि नृप-सत्तमम्॥ ३२॥
avākśirāḥ triśaṅkuḥ ca tiṣṭhatu amara-saṃnibhaḥ. anuyāsyanti ca etāni jyotīṃṣi nṛpa-sattamam.. 32..
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ३३॥
कृतार्थम् कीर्तिमन्तम् च स्वर्ग-लोक-गतम् यथा। विश्वामित्रः तु धर्म-आत्मा सर्व-देवैः अभिष्टुतः॥ ३३॥
kṛtārtham kīrtimantam ca svarga-loka-gatam yathā. viśvāmitraḥ tu dharma-ātmā sarva-devaiḥ abhiṣṭutaḥ.. 33..
ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो ऋषयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ ३४॥
ऋषि-मध्ये महा-तेजाः बाढम् इति एव देवताः। ततस् देवाः महात्मानः ऋषयः च तपोधनाः। जग्मुः यथागतम् सर्वे यज्ञस्य अन्ते नरोत्तम॥ ३४॥
ṛṣi-madhye mahā-tejāḥ bāḍham iti eva devatāḥ. tatas devāḥ mahātmānaḥ ṛṣayaḥ ca tapodhanāḥ. jagmuḥ yathāgatam sarve yajñasya ante narottama.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In