This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्विषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..1..
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन॥ १॥
शुनःशेपम् नर-श्रेष्ठ गृहीत्वा तु महा-यशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन॥ १॥
śunaḥśepam nara-śreṣṭha gṛhītvā tu mahā-yaśāḥ. vyaśramat puṣkare rājā madhyāhne raghunandana.. 1..
तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह॥ २॥
तस्य विश्रममाणस्य शुनःशेपः महा-यशाः। पुष्करम् ज्येष्ठम् आगम्य विश्वामित्रम् ददर्श ह॥ २॥
tasya viśramamāṇasya śunaḥśepaḥ mahā-yaśāḥ. puṣkaram jyeṣṭham āgamya viśvāmitram dadarśa ha.. 2..
तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च॥ ३॥
तप्यन्तम् ऋषिभिः सार्धम् मातुलम् परम-आतुरः। विषण्ण-वदनः दीनः तृष्णया च श्रमेण च॥ ३॥
tapyantam ṛṣibhiḥ sārdham mātulam parama-āturaḥ. viṣaṇṇa-vadanaḥ dīnaḥ tṛṣṇayā ca śrameṇa ca.. 3..
पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः॥ ४॥
पपात अङ्के मुनेः राम वाक्यम् च इदम् उवाच ह। न मे अस्ति माता न पिता ज्ञातयः बान्धवाः कुतस्॥ ४॥
papāta aṅke muneḥ rāma vākyam ca idam uvāca ha. na me asti mātā na pitā jñātayaḥ bāndhavāḥ kutas.. 4..
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव। त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः॥ ५॥
त्रातुम् अर्हसि माम् सौम्य धर्मेण मुनि-पुंगव। त्राता त्वम् हि नर-श्रेष्ठ सर्वेषाम् त्वम् हि भावनः॥ ५॥
trātum arhasi mām saumya dharmeṇa muni-puṃgava. trātā tvam hi nara-śreṣṭha sarveṣām tvam hi bhāvanaḥ.. 5..
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्॥ ६॥
राजा च कृत-कार्यः स्यात् अहम् दीर्घ-आयुः अव्ययः। स्वर्ग-लोकम् उपाश्नीयाम् तपः तप्त्वा हि अनुत्तमम्॥ ६॥
rājā ca kṛta-kāryaḥ syāt aham dīrgha-āyuḥ avyayaḥ. svarga-lokam upāśnīyām tapaḥ taptvā hi anuttamam.. 6..
स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्॥ ७॥
स मे नाथः हि अनाथस्य भव भव्येन चेतसा। पिता इव पुत्रम् धर्म-आत्मन् त्रातुम् अर्हसि किल्बिषात्॥ ७॥
sa me nāthaḥ hi anāthasya bhava bhavyena cetasā. pitā iva putram dharma-ātman trātum arhasi kilbiṣāt.. 7..
तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ ८॥
तस्य तत् वचनम् श्रुत्वा विश्वामित्रः महा-तपाः। सान्त्वयित्वा बहुविधम् पुत्रान् इदम् उवाच ह॥ ८॥
tasya tat vacanam śrutvā viśvāmitraḥ mahā-tapāḥ. sāntvayitvā bahuvidham putrān idam uvāca ha.. 8..
यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः॥ ९॥
यद्-कृते पितरः पुत्रान् जनयन्ति शुभ-अर्थिनः। परलोक-हित-अर्थाय तस्य कालः अयम् आगतः॥ ९॥
yad-kṛte pitaraḥ putrān janayanti śubha-arthinaḥ. paraloka-hita-arthāya tasya kālaḥ ayam āgataḥ.. 9..
अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ १०॥
अयम् मुनि-सुतः बालः मत्तः शरणम् इच्छति। अस्य जीवित-मात्रेण प्रियम् कुरुत पुत्रकाः॥ १०॥
ayam muni-sutaḥ bālaḥ mattaḥ śaraṇam icchati. asya jīvita-mātreṇa priyam kuruta putrakāḥ.. 10..
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ ११॥
सर्वे सु कृत-कर्माणः सर्वे धर्म-परायणाः। पशु-भूताः नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत॥ ११॥
sarve su kṛta-karmāṇaḥ sarve dharma-parāyaṇāḥ. paśu-bhūtāḥ narendrasya tṛptim agneḥ prayacchata.. 11..
नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ १२॥
नाथवान् च शुनःशेपः यज्ञः च अविघ्नतः भवेत्। देवताः तर्पिताः च स्युः मम च अपि कृतम् वचः॥ १२॥
nāthavān ca śunaḥśepaḥ yajñaḥ ca avighnataḥ bhavet. devatāḥ tarpitāḥ ca syuḥ mama ca api kṛtam vacaḥ.. 12..
मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ १३॥
मुनेः तत् वचनम् श्रुत्वा मधुच्छन्द-आदयः सुताः। स अभिमानम् नर-श्रेष्ठ स लीलम् इदम् अब्रुवन्॥ १३॥
muneḥ tat vacanam śrutvā madhucchanda-ādayaḥ sutāḥ. sa abhimānam nara-śreṣṭha sa līlam idam abruvan.. 13..
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ १४॥
कथम् आत्म-सुतान् हित्वा त्रायसे अन्य-सुतम् विभो। अकार्यम् इव पश्यामः श्व-मांसम् इव भोजने॥ १४॥
katham ātma-sutān hitvā trāyase anya-sutam vibho. akāryam iva paśyāmaḥ śva-māṃsam iva bhojane.. 14..
तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ १५॥
तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् मुनि-पुंगवः। क्रोध-संरक्त-नयनः व्याहर्तुम् उपचक्रमे॥ १५॥
teṣām tat vacanam śrutvā putrāṇām muni-puṃgavaḥ. krodha-saṃrakta-nayanaḥ vyāhartum upacakrame.. 15..
निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ १६॥
निःसाध्वसम् इदम् प्रोक्तम् धर्मात् अपि विगर्हितम्। अतिक्रम्य तु मद्-वाक्यम् दारुणम् रोम-हर्षणम्॥ १६॥
niḥsādhvasam idam proktam dharmāt api vigarhitam. atikramya tu mad-vākyam dāruṇam roma-harṣaṇam.. 16..
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु। पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ॥ १७॥
श्व-मांस-भोजिनः सर्वे वासिष्ठाः इव जातिषु। पूर्णम् वर्ष-सहस्रम् तु पृथिव्याम् अनुवत्स्यथ॥ १७॥
śva-māṃsa-bhojinaḥ sarve vāsiṣṭhāḥ iva jātiṣu. pūrṇam varṣa-sahasram tu pṛthivyām anuvatsyatha.. 17..
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ १८॥
कृत्वा शाप-समायुक्तान् पुत्रान् मुनि-वरः तदा। शुनःशेपम् उवाच आर्तम् कृत्वा रक्षाम् निरामयाम्॥ १८॥
kṛtvā śāpa-samāyuktān putrān muni-varaḥ tadā. śunaḥśepam uvāca ārtam kṛtvā rakṣām nirāmayām.. 18..
पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ १९॥
पवित्र-पाशैः आबद्धः रक्त-माल्य-अनुलेपनः। वैष्णवम् यूपम् आसाद्य वाग्भिः अग्निम् उदाहर॥ १९॥
pavitra-pāśaiḥ ābaddhaḥ rakta-mālya-anulepanaḥ. vaiṣṇavam yūpam āsādya vāgbhiḥ agnim udāhara.. 19..
इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि॥ २०॥
इमे च गाथे द्वे दिव्ये गायेथाः मुनि-पुत्रक। अम्बरीषस्य यज्ञे अस्मिन् ततस् सिद्धिम् अवाप्स्यसि॥ २०॥
ime ca gāthe dve divye gāyethāḥ muni-putraka. ambarīṣasya yajñe asmin tatas siddhim avāpsyasi.. 20..
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ २१॥
शुनःशेपः गृहीत्वा ते द्वे गाथे सु समाहितः। त्वरया राज-सिंहम् तम् अम्बरीषम् उवाच ह॥ २१॥
śunaḥśepaḥ gṛhītvā te dve gāthe su samāhitaḥ. tvarayā rāja-siṃham tam ambarīṣam uvāca ha.. 21..
राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्। निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर॥ २२॥
राज-सिंह महाबुद्धे शीघ्रम् गच्छावहे वयम्। निवर्तयस्व राज-इन्द्र दीक्षाम् च समुदाहर॥ २२॥
rāja-siṃha mahābuddhe śīghram gacchāvahe vayam. nivartayasva rāja-indra dīkṣām ca samudāhara.. 22..
तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः। जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ २३॥
तत् वाक्यम् ऋषि-पुत्रस्य श्रुत्वा हर्ष-समन्वितः। जगाम नृपतिः शीघ्रम् यज्ञ-वाटम् अतन्द्रितः॥ २३॥
tat vākyam ṛṣi-putrasya śrutvā harṣa-samanvitaḥ. jagāma nṛpatiḥ śīghram yajña-vāṭam atandritaḥ.. 23..
सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ २४॥
सदस्य-अनुमते राजा पवित्र-कृत-लक्षणम्। पशुम् रक्त-अम्बरम् कृत्वा यूपे तम् समबन्धयत्॥ २४॥
sadasya-anumate rājā pavitra-kṛta-lakṣaṇam. paśum rakta-ambaram kṛtvā yūpe tam samabandhayat.. 24..
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ २५॥
स बद्धः वाग्भिः अग्र्याभिः अभितुष्टाव वै सुरौ। इन्द्रम् इन्द्रानुजम् च एव यथावत् मुनि-पुत्रकः॥ २५॥
sa baddhaḥ vāgbhiḥ agryābhiḥ abhituṣṭāva vai surau. indram indrānujam ca eva yathāvat muni-putrakaḥ.. 25..
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः॥ २६॥
ततस् प्रीतः सहस्राक्षः रहस्य-स्तुति-तोषितः। दीर्घम् आयुः तदा प्रादात् शुनःशेपाय वासवः॥ २६॥
tatas prītaḥ sahasrākṣaḥ rahasya-stuti-toṣitaḥ. dīrgham āyuḥ tadā prādāt śunaḥśepāya vāsavaḥ.. 26..
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ २७॥
स च राजा नर-श्रेष्ठ यज्ञस्य च समाप्तवान्। फलम् बहुगुणम् राम सहस्राक्ष-प्रसाद-जम्॥ २७॥
sa ca rājā nara-śreṣṭha yajñasya ca samāptavān. phalam bahuguṇam rāma sahasrākṣa-prasāda-jam.. 27..
विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ २८॥
विश्वामित्रः अपि धर्म-आत्मा भूयस् तेपे महा-तपाः। पुष्करेषु नर-श्रेष्ठ दश-वर्ष-शतानि च॥ २८॥
viśvāmitraḥ api dharma-ātmā bhūyas tepe mahā-tapāḥ. puṣkareṣu nara-śreṣṭha daśa-varṣa-śatāni ca.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In