This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुःषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..1..
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्॥ १॥
सुर-कार्यम् इदम् रम्भे कर्तव्यम् सु महत् त्वया। लोभनम् कौशिकस्य इह काम-मोह-समन्वितम्॥ १॥
sura-kāryam idam rambhe kartavyam su mahat tvayā. lobhanam kauśikasya iha kāma-moha-samanvitam.. 1..
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्॥ २॥
तथा उक्ता सा अप्सराः राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिः वाक्यम् प्रत्युवाच सुरेश्वरम्॥ २॥
tathā uktā sā apsarāḥ rāma sahasrākṣeṇa dhīmatā. vrīḍitā prāñjaliḥ vākyam pratyuvāca sureśvaram.. 2..
अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥ ३॥
अयम् सुरपते घोरः विश्वामित्रः महा-मुनिः। क्रोधम् उत्स्रक्ष्यते घोरम् मयि देव न संशयः॥ ३॥
ayam surapate ghoraḥ viśvāmitraḥ mahā-muniḥ. krodham utsrakṣyate ghoram mayi deva na saṃśayaḥ.. 3..
ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि। एवमुक्तस्तया राम सभयं भीतया तदा॥ ४॥
ततस् हि मे भयम् देव प्रसादम् कर्तुउम् अर्हसि। एवम् उक्तः तया राम स भयम् भीतया तदा॥ ४॥
tatas hi me bhayam deva prasādam kartuum arhasi. evam uktaḥ tayā rāma sa bhayam bhītayā tadā.. 4..
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्॥ ५॥
ताम् उवाच सहस्राक्षः वेपमानाम् कृत-अञ्जलिम्। मा भैषीः रम्भे भद्रम् ते कुरुष्व मम शासनम्॥ ५॥
tām uvāca sahasrākṣaḥ vepamānām kṛta-añjalim. mā bhaiṣīḥ rambhe bhadram te kuruṣva mama śāsanam.. 5..
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥ ६॥
कोकिलः हृदय-ग्राही माधवे रुचिर-द्रुमे। अहम् कन्दर्प-सहितः स्थास्यामि तव पार्श्वतस्॥ ६॥
kokilaḥ hṛdaya-grāhī mādhave rucira-drume. aham kandarpa-sahitaḥ sthāsyāmi tava pārśvatas.. 6..
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्॥ ७॥
त्वम् हि रूपम् बहु-गुणम् कृत्वा परम-भास्वरम्। तम् ऋषिम् कौशिकम् भद्रे भेदयस्व तपस्विनम्॥ ७॥
tvam hi rūpam bahu-guṇam kṛtvā parama-bhāsvaram. tam ṛṣim kauśikam bhadre bhedayasva tapasvinam.. 7..
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥ ८॥
सा श्रुत्वा वचनम् तस्य कृत्वा रूपम् अनुत्तमम्। लोभयामास ललिता विश्वामित्रम् शुचि-स्मिता॥ ८॥
sā śrutvā vacanam tasya kṛtvā rūpam anuttamam. lobhayāmāsa lalitā viśvāmitram śuci-smitā.. 8..
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत॥ ९॥
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा स च एनाम् अन्ववैक्षत॥ ९॥
kokilasya tu śuśrāva valgu vyāharataḥ svanam. samprahṛṣṭena manasā sa ca enām anvavaikṣata.. 9..
अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिः संदेहमागतः॥ १०॥
अथ तस्य च शब्देन गीतेन अप्रतिमेन च। दर्शनेन च रम्भायाः मुनिः संदेहम् आगतः॥ १०॥
atha tasya ca śabdena gītena apratimena ca. darśanena ca rambhāyāḥ muniḥ saṃdeham āgataḥ.. 10..
सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥ ११॥
सहस्राक्षस्य तत् सर्वम् विज्ञाय मुनि-पुंगवः। रम्भाम् क्रोध-समाविष्टः शशाप कुशिक-आत्मजः॥ ११॥
sahasrākṣasya tat sarvam vijñāya muni-puṃgavaḥ. rambhām krodha-samāviṣṭaḥ śaśāpa kuśika-ātmajaḥ.. 11..
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥ १२॥
यत् माम् लोभयसे रम्भे काम-क्रोध-जय-एषिणम्। दश-वर्ष-सहस्राणि शैली स्थास्यसि दुर्भगे॥ १२॥
yat mām lobhayase rambhe kāma-krodha-jaya-eṣiṇam. daśa-varṣa-sahasrāṇi śailī sthāsyasi durbhage.. 12..
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥ १३॥
ब्राह्मणः सु महा-तेजाः तपः-बल-समन्वितः। उद्धरिष्यति रम्भे त्वाम् मद्-क्रोध-कलुषीकृताम्॥ १३॥
brāhmaṇaḥ su mahā-tejāḥ tapaḥ-bala-samanvitaḥ. uddhariṣyati rambhe tvām mad-krodha-kaluṣīkṛtām.. 13..
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं कोपं संतापमात्मनः॥ १४॥
एवम् उक्त्वा महा-तेजाः विश्वामित्रः महा-मुनिः। अशक्नुवन् धारयितुम् कोपम् संतापम् आत्मनः॥ १४॥
evam uktvā mahā-tejāḥ viśvāmitraḥ mahā-muniḥ. aśaknuvan dhārayitum kopam saṃtāpam ātmanaḥ.. 14..
तस्य शापेन महता रम्भा शैली तदाभवत्। वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १५॥
तस्य शापेन महता रम्भा शैली तदा भवत्। वचः श्रुत्वा च कन्दर्पः महा-ऋषेः स च निर्गतः॥ १५॥
tasya śāpena mahatā rambhā śailī tadā bhavat. vacaḥ śrutvā ca kandarpaḥ mahā-ṛṣeḥ sa ca nirgataḥ.. 15..
कोपेन च महातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥ १६॥
कोपेन च महा-तेजाः तपः-अपहरणे कृते। इन्द्रियैः अजितैः राम न लेभे शान्तिम् आत्मनः॥ १६॥
kopena ca mahā-tejāḥ tapaḥ-apaharaṇe kṛte. indriyaiḥ ajitaiḥ rāma na lebhe śāntim ātmanaḥ.. 16..
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते। नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन॥ १७॥
बभूव अस्य मनः-चिन्ता तपः-अपहरणे कृते। न एवम् क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन॥ १७॥
babhūva asya manaḥ-cintā tapaḥ-apaharaṇe kṛte. na evam krodham gamiṣyāmi na ca vakṣye kathaṃcana.. 17..
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि। अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः॥ १८॥
अथवा ना उच्छ्वसिष्यामि संवत्सर-शतानि अपि। अहम् हि शोषयिष्यामि आत्मानम् विजित-इन्द्रियः॥ १८॥
athavā nā ucchvasiṣyāmi saṃvatsara-śatāni api. aham hi śoṣayiṣyāmi ātmānam vijita-indriyaḥ.. 18..
तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्। अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः॥ १९॥
तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा अर्जितम्। अन् उच्छ्वसन् अ भुञ्जानः तिष्ठेयम् शाश्वतीः समाः॥ १९॥
tāvat yāvat hi me prāptam brāhmaṇyam tapasā arjitam. an ucchvasan a bhuñjānaḥ tiṣṭheyam śāśvatīḥ samāḥ.. 19..
नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः। एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥ २०॥
नहि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः। एवम् वर्ष-सहस्रस्य दीक्षाम् स मुनि-पुंगवः। चकार अप्रतिमाम् लोके प्रतिज्ञाम् रघुनन्दन॥ २०॥
nahi me tapyamānasya kṣayam yāsyanti mūrtayaḥ. evam varṣa-sahasrasya dīkṣām sa muni-puṃgavaḥ. cakāra apratimām loke pratijñām raghunandana.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In