This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..1..
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्॥ १॥
अथ हैमवतीम् राम दिशम् त्यक्त्वा महा-मुनिः। पूर्वाम् दिशम् अनुप्राप्य तपः तेपे सु दारुणम्॥ १॥
atha haimavatīm rāma diśam tyaktvā mahā-muniḥ. pūrvām diśam anuprāpya tapaḥ tepe su dāruṇam.. 1..
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तपः परमदुष्करम्॥ २॥
मौनम् वर्ष-सहस्रस्य कृत्वा व्रतम् अनुत्तमम्। चकार अप्रतिमम् राम तपः परम-दुष्करम्॥ २॥
maunam varṣa-sahasrasya kṛtvā vratam anuttamam. cakāra apratimam rāma tapaḥ parama-duṣkaram.. 2..
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्॥ ३॥
पूर्णे वर्ष-सहस्रे तु काष्ठ-भूतम् महा-मुनिम्। विघ्नैः बहुभिः आधूतम् क्रोधः ना अन्तरम् आविशत्॥ ३॥
pūrṇe varṣa-sahasre tu kāṣṭha-bhūtam mahā-munim. vighnaiḥ bahubhiḥ ādhūtam krodhaḥ nā antaram āviśat.. 3..
स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः॥ ४॥
स कृत्वा निश्चयम् राम तपः आतिष्ठत अव्ययम्। तस्य वर्ष-सहस्रस्य व्रते पूर्णे महाव्रतः॥ ४॥
sa kṛtvā niścayam rāma tapaḥ ātiṣṭhata avyayam. tasya varṣa-sahasrasya vrate pūrṇe mahāvrataḥ.. 4..
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत॥ ५॥
भोक्तुम् आरब्धवान् अन्नम् तस्मिन् काले रघूत्तम। इन्द्रः द्विजातिः भूत्वा तम् सिद्धम् अन्नम् अयाचत॥ ५॥
bhoktum ārabdhavān annam tasmin kāle raghūttama. indraḥ dvijātiḥ bhūtvā tam siddham annam ayācata.. 5..
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः॥ ६॥
तस्मै दत्त्वा तदा सिद्धम् सर्वम् विप्राय निश्चितः। निःशेषिते अन्ने भगवान् अ भुक्त्वा एव महा-तपाः॥ ६॥
tasmai dattvā tadā siddham sarvam viprāya niścitaḥ. niḥśeṣite anne bhagavān a bhuktvā eva mahā-tapāḥ.. 6..
न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह॥ ७॥
न किंचिद् अवदत् विप्रम् मौन-व्रतम् उपास्थितः। तथा एव आसीत् पुनर् मौनम् अनुच्छ्वासम् चकार ह॥ ७॥
na kiṃcid avadat vipram mauna-vratam upāsthitaḥ. tathā eva āsīt punar maunam anucchvāsam cakāra ha.. 7..
अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत॥ ८॥
अथ वर्ष-सहस्रम् च ना उच्छ्वसन् मुनि-पुंगवः। तस्य अन् उच्छ्वसमानस्य मूर्ध्नि धूमः व्यजायत॥ ८॥
atha varṣa-sahasram ca nā ucchvasan muni-puṃgavaḥ. tasya an ucchvasamānasya mūrdhni dhūmaḥ vyajāyata.. 8..
त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः॥ ९॥
त्रैलोक्यम् येन सम्भ्रान्तम् आतापितम् इव अभवत्। ततस् देव-ऋषि-गन्धर्वाः पन्नग-उरग-राक्षसाः॥ ९॥
trailokyam yena sambhrāntam ātāpitam iva abhavat. tatas deva-ṛṣi-gandharvāḥ pannaga-uraga-rākṣasāḥ.. 9..
मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन्॥ १०॥
मोहिताः तपसा तस्य तेजसा मन्द-रश्मयः। कश्मल-उपहताः सर्वे पितामहम् अथ अब्रुवन्॥ १०॥
mohitāḥ tapasā tasya tejasā manda-raśmayaḥ. kaśmala-upahatāḥ sarve pitāmaham atha abruvan.. 10..
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते॥ ११॥
बहुभिः कारणैः देव विश्वामित्रः महा-मुनिः। लोभितः क्रोधितः च एव तपसा च अभिवर्धते॥ ११॥
bahubhiḥ kāraṇaiḥ deva viśvāmitraḥ mahā-muniḥ. lobhitaḥ krodhitaḥ ca eva tapasā ca abhivardhate.. 11..
नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम्॥ १२॥
न हि अस्य वृजिनम् किंचिद् दृश्यते सूक्ष्मम् अपि उत। न दीयते यदि तु अस्य मनसा यत् अभीप्सितम्॥ १२॥
na hi asya vṛjinam kiṃcid dṛśyate sūkṣmam api uta. na dīyate yadi tu asya manasā yat abhīpsitam.. 12..
विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते॥ १३॥
विनाशयति त्रैलोक्यम् तपसा सचराचरम्। व्याकुलाः च दिशः सर्वाः न च किंचिद् प्रकाशते॥ १३॥
vināśayati trailokyam tapasā sacarācaram. vyākulāḥ ca diśaḥ sarvāḥ na ca kiṃcid prakāśate.. 13..
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः। प्रकम्पते च वसुधा वायुर्वातीह संकुलः॥ १४॥
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः। प्रकम्पते च वसुधा वायुः वाति इह संकुलः॥ १४॥
sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ. prakampate ca vasudhā vāyuḥ vāti iha saṃkulaḥ.. 14..
ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः। सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्॥ १५॥
ब्रह्मन् न प्रतिजानीमः नास्तिकः जायते जनः। सम्मूढम् इव त्रैलोक्यम् सम्प्रक्षुभित-मानसम्॥ १५॥
brahman na pratijānīmaḥ nāstikaḥ jāyate janaḥ. sammūḍham iva trailokyam samprakṣubhita-mānasam.. 15..
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा। बुद्धिं न कुरुते यावन्नाशे देव महामुनिः॥ १६॥
भास्करः निष्प्रभः च एव महा-ऋषेः तस्य तेजसा। बुद्धिम् न कुरुते यावत् नाशे देव महा-मुनिः॥ १६॥
bhāskaraḥ niṣprabhaḥ ca eva mahā-ṛṣeḥ tasya tejasā. buddhim na kurute yāvat nāśe deva mahā-muniḥ.. 16..
तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः। कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्॥ १७॥
तावत् प्रसादः भगवन् अग्नि-रूपः महा-द्युतिः। कालाग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते अखिलम्॥ १७॥
tāvat prasādaḥ bhagavan agni-rūpaḥ mahā-dyutiḥ. kālāgninā yathā pūrvam trailokyam dahyate akhilam.. 17..
देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः। ततः सुरगणाः सर्वे पितामहपुरोगमाः॥ १८॥
देव-राज्यम् चिकीर्षेत दीयताम् अस्य यत् मनः। ततस् सुर-गणाः सर्वे पितामह-पुरोगमाः॥ १८॥
deva-rājyam cikīrṣeta dīyatām asya yat manaḥ. tatas sura-gaṇāḥ sarve pitāmaha-purogamāḥ.. 18..
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्। ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः॥ १९॥
विश्वामित्रम् महात्मानम् वाक्यम् मधुरम् अब्रुवन्। ब्रह्मर्षे स्वागतम् ते अस्तु तपसा स्म सु तोषिताः॥ १९॥
viśvāmitram mahātmānam vākyam madhuram abruvan. brahmarṣe svāgatam te astu tapasā sma su toṣitāḥ.. 19..
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक। दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः॥ २०॥
ब्राह्मण्यम् तपसा उग्रेण प्राप्तवान् असि कौशिक। दीर्घम् आयुः च ते ब्रह्मन् ददामि स मरुत्-गणः॥ २०॥
brāhmaṇyam tapasā ugreṇa prāptavān asi kauśika. dīrgham āyuḥ ca te brahman dadāmi sa marut-gaṇaḥ.. 20..
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्। पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम्॥ २१॥
स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथासुखम्। पितामह-वचः श्रुत्वा सर्वेषाम् त्रिदिवौकसाम्॥ २१॥
svasti prāpnuhi bhadram te gaccha saumya yathāsukham. pitāmaha-vacaḥ śrutvā sarveṣām tridivaukasām.. 21..
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः। ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च॥ २२॥
कृत्वा प्रणामम् मुदितः व्याजहार महा-मुनिः। ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घम् आयुः तथा एव च॥ २२॥
kṛtvā praṇāmam muditaḥ vyājahāra mahā-muniḥ. brāhmaṇyam yadi me prāptam dīrgham āyuḥ tathā eva ca.. 22..
ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि॥ २३॥
ओंकारः अथ वषट्कारः वेदाः च वरयन्तु माम्। क्षत्र-वेद-विदाम् श्रेष्ठः ब्रह्मवेद-विदाम् अपि॥ २३॥
oṃkāraḥ atha vaṣaṭkāraḥ vedāḥ ca varayantu mām. kṣatra-veda-vidām śreṣṭhaḥ brahmaveda-vidām api.. 23..
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः॥ २४॥
ब्रह्म-पुत्रः वसिष्ठः माम् एवम् वदतु देवताः। यदि एवम् परमः कामः कृतः यान्तु सुर-ऋषभाः॥ २४॥
brahma-putraḥ vasiṣṭhaḥ mām evam vadatu devatāḥ. yadi evam paramaḥ kāmaḥ kṛtaḥ yāntu sura-ṛṣabhāḥ.. 24..
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्॥ २५॥
ततस् प्रसादितः देवैः वसिष्ठः जपताम् वरः। सख्यम् चकार ब्रह्मर्षिः एवम् अस्तु इति च अब्रवीत्॥ २५॥
tatas prasāditaḥ devaiḥ vasiṣṭhaḥ japatām varaḥ. sakhyam cakāra brahmarṣiḥ evam astu iti ca abravīt.. 25..
ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्॥ २६॥
ब्रह्मर्षिः त्वम् न संदेहः सर्वम् सम्पद्यते तव। इति उक्त्वा देवताः च अपि सर्वाः जग्मुः यथागतम्॥ २६॥
brahmarṣiḥ tvam na saṃdehaḥ sarvam sampadyate tava. iti uktvā devatāḥ ca api sarvāḥ jagmuḥ yathāgatam.. 26..
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्॥ २७॥
विश्वामित्रः अपि धर्म-आत्मा लब्ध्वा ब्राह्मण्यम् उत्तमम्। पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम्॥ २७॥
viśvāmitraḥ api dharma-ātmā labdhvā brāhmaṇyam uttamam. pūjayāmāsa brahmarṣim vasiṣṭham japatām varam.. 27..
कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना॥ २८॥
कृत-कामः महीम् सर्वाम् चचार तपसि स्थितः। एवम् तु अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना॥ २८॥
kṛta-kāmaḥ mahīm sarvām cacāra tapasi sthitaḥ. evam tu anena brāhmaṇyam prāptam rāma mahātmanā.. 28..
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम्॥ २९॥
एष राम मुनि-श्रेष्ठः एष विग्रहवान् तपः। एष धर्मः परः नित्यम् वीर्यस्य एष परायणम्॥ २९॥
eṣa rāma muni-śreṣṭhaḥ eṣa vigrahavān tapaḥ. eṣa dharmaḥ paraḥ nityam vīryasya eṣa parāyaṇam.. 29..
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ॥ ३०॥
एवम् उक्त्वा महा-तेजाः विरराम द्विजोत्तमः। शतानन्द-वचः श्रुत्वा राम-लक्ष्मण-संनिधौ॥ ३०॥
evam uktvā mahā-tejāḥ virarāma dvijottamaḥ. śatānanda-vacaḥ śrutvā rāma-lakṣmaṇa-saṃnidhau.. 30..
जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव॥ ३१॥
जनकः प्राञ्जलिः वाक्यम् उवाच कुशिक-आत्मजम्। धन्यः अस्मि अनुगृहीतः अस्मि यस्य मे मुनि-पुंगव॥ ३१॥
janakaḥ prāñjaliḥ vākyam uvāca kuśika-ātmajam. dhanyaḥ asmi anugṛhītaḥ asmi yasya me muni-puṃgava.. 31..
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने॥ ३२॥
यज्ञम् काकुत्स्थ-सहितः प्राप्तवान् असि कौशिक। पावितः अहम् त्वया ब्रह्मन् दर्शनेन महा-मुने॥ ३२॥
yajñam kākutstha-sahitaḥ prāptavān asi kauśika. pāvitaḥ aham tvayā brahman darśanena mahā-mune.. 32..
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः॥ ३३॥
गुणाः बहुविधाः प्राप्ताः तव संदर्शनात् मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानम् महत् तपः॥ ३३॥
guṇāḥ bahuvidhāḥ prāptāḥ tava saṃdarśanāt mayā. vistareṇa ca vai brahman kīrtyamānam mahat tapaḥ.. 33..
श्रुतं मया महातेजो रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः॥ ३४॥
श्रुतम् मया महा-तेजः रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुताः ते बहवः गुणाः॥ ३४॥
śrutam mayā mahā-tejaḥ rāmeṇa ca mahātmanā. sadasyaiḥ prāpya ca sadaḥ śrutāḥ te bahavaḥ guṇāḥ.. 34..
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज॥ ३५॥
अप्रमेयम् तपः तुभ्यम् अप्रमेयम् च ते बलम्। अप्रमेयाः गुणाः च एव नित्यम् ते कुशिक-आत्मज॥ ३५॥
aprameyam tapaḥ tubhyam aprameyam ca te balam. aprameyāḥ guṇāḥ ca eva nityam te kuśika-ātmaja.. 35..
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्॥ ३६॥
तृप्तिः आश्चर्य-भूतानाम् कथानाम् ना अस्ति मे विभो। कर्म-कालः मुनि-श्रेष्ठ लम्बते रवि-मण्डलम्॥ ३६॥
tṛptiḥ āścarya-bhūtānām kathānām nā asti me vibho. karma-kālaḥ muni-śreṣṭha lambate ravi-maṇḍalam.. 36..
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः। स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि॥ ३७॥
श्वस् प्रभाते महा-तेजः द्रष्टुम् अर्हसि माम् पुनर्। स्वागतम् जपताम् श्रेष्ठ माम् अनुज्ञातुम् अर्हसि॥ ३७॥
śvas prabhāte mahā-tejaḥ draṣṭum arhasi mām punar. svāgatam japatām śreṣṭha mām anujñātum arhasi.. 37..
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्। विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ ३८॥
एवम् उक्तः मुनि-वरः प्रशस्य पुरुष-ऋषभम्। विससर्ज आशु जनकम् प्रीतम् प्रीत-मनाः तदा॥ ३८॥
evam uktaḥ muni-varaḥ praśasya puruṣa-ṛṣabham. visasarja āśu janakam prītam prīta-manāḥ tadā.. 38..
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः। प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः॥ ३९॥
एवम् उक्त्वा मुनि-श्रेष्ठम् वैदेहः मिथिला-अधिपः। प्रदक्षिणम् चकार आशु स उपाध्यायः स बान्धवः॥ ३९॥
evam uktvā muni-śreṣṭham vaidehaḥ mithilā-adhipaḥ. pradakṣiṇam cakāra āśu sa upādhyāyaḥ sa bāndhavaḥ.. 39..
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः। स्ववासमभिचक्राम पूज्यमानो महात्मभिः॥ ४०॥
विश्वामित्रः अपि धर्म-आत्मा सहरामः स लक्ष्मणः। स्व-वासम् अभिचक्राम पूज्यमानः महात्मभिः॥ ४०॥
viśvāmitraḥ api dharma-ātmā saharāmaḥ sa lakṣmaṇaḥ. sva-vāsam abhicakrāma pūjyamānaḥ mahātmabhiḥ.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In