This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..1..
ततः प्रभाते विमले कृतकर्मा नराधिपः। विश्वामित्रं महात्मानमाजुहाव सराघवम्॥ १॥
ततस् प्रभाते विमले कृत-कर्मा नराधिपः। विश्वामित्रम् महात्मानम् आजुहाव स राघवम्॥ १॥
tatas prabhāte vimale kṛta-karmā narādhipaḥ. viśvāmitram mahātmānam ājuhāva sa rāghavam.. 1..
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह॥ २॥
तम् अर्चयित्वा धर्म-आत्मा शास्त्र-दृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यम् उवाच ह॥ २॥
tam arcayitvā dharma-ātmā śāstra-dṛṣṭena karmaṇā. rāghavau ca mahātmānau tadā vākyam uvāca ha.. 2..
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्॥ ३॥
भगवन् स्वागतम् ते अस्तु किम् करोमि तव अनघ। भवान् आज्ञापयतु माम् आज्ञाप्यः भवता हि अहम्॥ ३॥
bhagavan svāgatam te astu kim karomi tava anagha. bhavān ājñāpayatu mām ājñāpyaḥ bhavatā hi aham.. 3..
एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः॥ ४॥
एवम् उक्तः स धर्म-आत्मा जनकेन महात्मना। प्रत्युवाच मुनि-श्रेष्ठः वाक्यम् वाक्य-विशारदः॥ ४॥
evam uktaḥ sa dharma-ātmā janakena mahātmanā. pratyuvāca muni-śreṣṭhaḥ vākyam vākya-viśāradaḥ.. 4..
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति॥ ५॥
पुत्रौ दशरथस्य इमौ क्षत्रियौ लोक-विश्रुतौ। द्रष्टु-कामौ धनुः-श्रेष्ठम् यत् एतत् त्वयि तिष्ठति॥ ५॥
putrau daśarathasya imau kṣatriyau loka-viśrutau. draṣṭu-kāmau dhanuḥ-śreṣṭham yat etat tvayi tiṣṭhati.. 5..
एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः॥ ६॥
एतत् दर्शय भद्रम् ते कृत-कामौ नृप-आत्मजौ। दर्शनात् अस्य धनुषः यथेष्टम् प्रतियास्यतः॥ ६॥
etat darśaya bhadram te kṛta-kāmau nṛpa-ātmajau. darśanāt asya dhanuṣaḥ yatheṣṭam pratiyāsyataḥ.. 6..
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति॥ ७॥
एवम् उक्तः तु जनकः प्रत्युवाच महा-मुनिम्। श्रूयताम् अस्य धनुषः यत् अर्थम् इह तिष्ठति॥ ७॥
evam uktaḥ tu janakaḥ pratyuvāca mahā-munim. śrūyatām asya dhanuṣaḥ yat artham iha tiṣṭhati.. 7..
देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः॥ ८॥
देवरातः इति ख्यातः निमेः ज्येष्ठः महीपतिः। न्यासः अयम् तस्य भगवन् हस्ते दत्तः महात्मनः॥ ८॥
devarātaḥ iti khyātaḥ nimeḥ jyeṣṭhaḥ mahīpatiḥ. nyāsaḥ ayam tasya bhagavan haste dattaḥ mahātmanaḥ.. 8..
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत्॥ ९॥
दक्ष-यज्ञ-वधे पूर्वम् धनुः आयम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् स लीलम् इदम् अब्रवीत्॥ ९॥
dakṣa-yajña-vadhe pūrvam dhanuḥ āyamya vīryavān. vidhvaṃsya tridaśān roṣāt sa līlam idam abravīt.. 9..
यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः॥ १०॥
यस्मात् भाग-अर्थिनः भागम् न अकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः॥ १०॥
yasmāt bhāga-arthinaḥ bhāgam na akalpayata me surāḥ. varāṃgāni mahārhāṇi dhanuṣā śātayāmi vaḥ.. 10..
ततो विमनसः सर्वे देवा वै मुनिपुंगव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः॥ ११॥
ततस् विमनसः सर्वे देवाः वै मुनि-पुंगव। प्रसादयन्त देवेशम् तेषाम् प्रीतः अभवत् भवः॥ ११॥
tatas vimanasaḥ sarve devāḥ vai muni-puṃgava. prasādayanta deveśam teṣām prītaḥ abhavat bhavaḥ.. 11..
प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्। तदेतद् देवदेवस्य धनूरत्नं महात्मनः॥ १२॥
प्रीति-युक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम्। तत् एतत् देवदेवस्य धनुः-रत्नम् महात्मनः॥ १२॥
prīti-yuktaḥ tu sarveṣām dadau teṣām mahātmanām. tat etat devadevasya dhanuḥ-ratnam mahātmanaḥ.. 12..
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ। अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः॥ १३॥
न्यास-भूतम् तदा न्यस्तम् अस्माकम् पूर्वजे विभौ। अथ मे कृषतः क्षेत्रम् लांगलात् उत्थिता ततस्॥ १३॥
nyāsa-bhūtam tadā nyastam asmākam pūrvaje vibhau. atha me kṛṣataḥ kṣetram lāṃgalāt utthitā tatas.. 13..
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता। भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा॥ १४॥
क्षेत्रम् शोधयता लब्धा नाम्ना सीता इति विश्रुता। भू-तलात् उत्थिता सा तु व्यवर्धत मम आत्मजा॥ १४॥
kṣetram śodhayatā labdhā nāmnā sītā iti viśrutā. bhū-talāt utthitā sā tu vyavardhata mama ātmajā.. 14..
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा। भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्॥ १५॥
वीर्य-शुल्का इति मे कन्या स्थापिता इयम् अयोनिजा। भू-तलात् उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम्॥ १५॥
vīrya-śulkā iti me kanyā sthāpitā iyam ayonijā. bhū-talāt utthitām tām tu vardhamānām mama ātmajām.. 15..
वरयामासुरागत्य राजानो मुनिपुंगव। तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्॥ १६॥
वरयामासुः आगत्य राजानः मुनि-पुंगव। तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम्॥ १६॥
varayāmāsuḥ āgatya rājānaḥ muni-puṃgava. teṣām varayatām kanyām sarveṣām pṛthivīkṣitām.. 16..
वीर्यशुल्केति भगवन् न ददामि सुतामहम्। ततः सर्वे नृपतयः समेत्य मुनिपुंगव॥ १७॥
वीर्य-शुल्का इति भगवत् न ददामि सुताम् अहम्। ततस् सर्वे नृपतयः समेत्य मुनि-पुंगव॥ १७॥
vīrya-śulkā iti bhagavat na dadāmi sutām aham. tatas sarve nṛpatayaḥ sametya muni-puṃgava.. 17..
मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा। तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम्॥ १८॥
मिथिलाम् अपि उपागम्य वीर्यम् जिज्ञासवः तदा। तेषाम् जिज्ञासमानानाम् शैवम् धनुः उपाहृतम्॥ १८॥
mithilām api upāgamya vīryam jijñāsavaḥ tadā. teṣām jijñāsamānānām śaivam dhanuḥ upāhṛtam.. 18..
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा। तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने॥ १९॥
न शेकुः ग्रहणे तस्य धनुषः तोलने अपि वा। तेषाम् वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महा-मुने॥ १९॥
na śekuḥ grahaṇe tasya dhanuṣaḥ tolane api vā. teṣām vīryavatām vīryam alpam jñātvā mahā-mune.. 19..
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन। ततः परमकोपेन राजानो मुनिपुंगव॥ २०॥
प्रत्याख्याताः नृपतयः तत् निबोध तपोधन। ततस् परम-कोपेन राजानः मुनि-पुंगव॥ २०॥
pratyākhyātāḥ nṛpatayaḥ tat nibodha tapodhana. tatas parama-kopena rājānaḥ muni-puṃgava.. 20..
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः। आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः॥ २१॥
अरुन्धन् मिथिलाम् सर्वे वीर्य-संदेहम् आगताः। आत्मानम् अवधूतम् मे विज्ञाय नृप-पुंगवाः॥ २१॥
arundhan mithilām sarve vīrya-saṃdeham āgatāḥ. ātmānam avadhūtam me vijñāya nṛpa-puṃgavāḥ.. 21..
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्। ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः॥ २२॥
रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम्। ततस् संवत्सरे पूर्णे क्षयम् यातानि सर्वशस्॥ २२॥
roṣeṇa mahatā āviṣṭāḥ pīḍayan mithilām purīm. tatas saṃvatsare pūrṇe kṣayam yātāni sarvaśas.. 22..
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः। ततो देवगणान् सर्वांस्तपसाहं प्रसादयम्॥ २३॥
साधनानि मुनि-श्रेष्ठ ततस् अहम् भृश-दुःखितः। ततस् देव-गणान् सर्वान् तपसा अहम् प्रसादयम्॥ २३॥
sādhanāni muni-śreṣṭha tatas aham bhṛśa-duḥkhitaḥ. tatas deva-gaṇān sarvān tapasā aham prasādayam.. 23..
ददुश्च परमप्रीताश्चतुरंगबलं सुराः। ततो भग्ना नृपतयो हन्यमाना दिशो ययुः॥ २४॥
ददुः च परम-प्रीताः चतुरंग-बलम् सुराः। ततस् भग्नाः नृपतयः हन्यमानाः दिशः ययुः॥ २४॥
daduḥ ca parama-prītāḥ caturaṃga-balam surāḥ. tatas bhagnāḥ nṛpatayaḥ hanyamānāḥ diśaḥ yayuḥ.. 24..
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः। तदेतन्मुनिशार्दूल धनुः परमभास्वरम्॥ २५॥
अवीर्याः वीर्य-संदिग्धाः स अमात्याः पाप-कारिणः। तत् एतत् मुनि-शार्दूल धनुः परम-भास्वरम्॥ २५॥
avīryāḥ vīrya-saṃdigdhāḥ sa amātyāḥ pāpa-kāriṇaḥ. tat etat muni-śārdūla dhanuḥ parama-bhāsvaram.. 25..
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत। यद्यस्य धनुषो रामः कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम्॥ २६॥
राम-लक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत। यदि अस्य धनुषः रामः कुर्यात् आरोपणम् मुने। सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम्॥ २६॥
rāma-lakṣmaṇayoḥ ca api darśayiṣyāmi suvrata. yadi asya dhanuṣaḥ rāmaḥ kuryāt āropaṇam mune. sutām ayonijām sītām dadyām dāśaratheḥ aham.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In