This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..1..
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ १॥
जनकस्य वचः श्रुत्वा विश्वामित्रः महा-मुनिः। धनुः दर्शय रामाय इति ह उवाच पार्थिवम्॥ १॥
janakasya vacaḥ śrutvā viśvāmitraḥ mahā-muniḥ. dhanuḥ darśaya rāmāya iti ha uvāca pārthivam.. 1..
ततः स राजा जनकः सचिवान् व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्॥ २॥
ततस् स राजा जनकः सचिवान् व्यादिदेश ह। धनुः आनीयताम् दिव्यम् गन्ध-माल्य-अनुलेपितम्॥ २॥
tatas sa rājā janakaḥ sacivān vyādideśa ha. dhanuḥ ānīyatām divyam gandha-mālya-anulepitam.. 2..
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः॥ ३॥
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तत् धनुः पुरतस् कृत्वा निर्जग्मुः अमित-ओजसः॥ ३॥
janakena samādiṣṭāḥ sacivāḥ prāviśan puram. tat dhanuḥ puratas kṛtvā nirjagmuḥ amita-ojasaḥ.. 3..
नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन॥ ४॥
नृणाम् शतानि पञ्चाशत् व्यायतानाम् महात्मनाम्। मञ्जूषाम् अष्ट-चक्राम् ताम् समूहुः ते कथंचन॥ ४॥
nṛṇām śatāni pañcāśat vyāyatānām mahātmanām. mañjūṣām aṣṭa-cakrām tām samūhuḥ te kathaṃcana.. 4..
तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ ५॥
ताम् आदाय सु मञ्जूषाम् आयसीम् यत्र तत् धनुः। सुर-उपमम् ते जनकम् ऊचुः नृपति-मन्त्रिणः॥ ५॥
tām ādāya su mañjūṣām āyasīm yatra tat dhanuḥ. sura-upamam te janakam ūcuḥ nṛpati-mantriṇaḥ.. 5..
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः। मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि॥ ६॥
इदम् धनुः वरम् राजन् पूजितम् सर्व-राजभिः। मिथिला-अधिप राज-इन्द्र दर्शनीयम् यदि इच्छसि॥ ६॥
idam dhanuḥ varam rājan pūjitam sarva-rājabhiḥ. mithilā-adhipa rāja-indra darśanīyam yadi icchasi.. 6..
तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ॥ ७॥
तेषाम् नृपः वचः श्रुत्वा कृताञ्जलिः अभाषत। विश्वामित्रम् महात्मानम् तौ उभौ राम-लक्ष्मणौ॥ ७॥
teṣām nṛpaḥ vacaḥ śrutvā kṛtāñjaliḥ abhāṣata. viśvāmitram mahātmānam tau ubhau rāma-lakṣmaṇau.. 7..
इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्। राजभिश्च महावीर्यैरशक्तैः पूरितं तदा॥ ८॥
इदम् धनुः वरम् ब्रह्मन् जनकैः अभिपूजितम्। राजभिः च महा-वीर्यैः अशक्तैः पूरितम् तदा॥ ८॥
idam dhanuḥ varam brahman janakaiḥ abhipūjitam. rājabhiḥ ca mahā-vīryaiḥ aśaktaiḥ pūritam tadā.. 8..
नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९॥
न एतत् सुर-गणाः सर्वे स असुराः न च राक्षसाः। गन्धर्व-यक्ष-प्रवराः स किन्नर-महोरगाः॥ ९॥
na etat sura-gaṇāḥ sarve sa asurāḥ na ca rākṣasāḥ. gandharva-yakṣa-pravarāḥ sa kinnara-mahoragāḥ.. 9..
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा॥ १०॥
क्व गतिः मानुषाणाम् च धनुषः अस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा॥ १०॥
kva gatiḥ mānuṣāṇām ca dhanuṣaḥ asya prapūraṇe. āropaṇe samāyoge vepane tolane tathā.. 10..
तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव। दर्शयैतन्महाभाग अनयो राजपुत्रयोः॥ ११॥
तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनि-पुंगव। दर्शय एतत् महाभाग अनयोः राज-पुत्रयोः॥ ११॥
tat etat dhanuṣām śreṣṭham ānītam muni-puṃgava. darśaya etat mahābhāga anayoḥ rāja-putrayoḥ.. 11..
विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम्। वत्स राम धनुः पश्य इति राघवमब्रवीत्॥ १२॥
विश्वामित्रः सरामः तु श्रुत्वा जनक-भाषितम्। वत्स राम धनुः पश्य इति राघवम् अब्रवीत्॥ १२॥
viśvāmitraḥ sarāmaḥ tu śrutvā janaka-bhāṣitam. vatsa rāma dhanuḥ paśya iti rāghavam abravīt.. 12..
महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्॥ १३॥
महा-ऋषेः वचनात् रामः यत्र तिष्ठति तत् धनुः। मञ्जूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत्॥ १३॥
mahā-ṛṣeḥ vacanāt rāmaḥ yatra tiṣṭhati tat dhanuḥ. mañjūṣām tām apāvṛtya dṛṣṭvā dhanuḥ atha abravīt.. 13..
इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा॥ १४॥
इदम् धनुः वरम् दिव्यम् संस्पृशामि इह पाणिना। यत्नवान् च भविष्यामि तोलने पूरणे अपि वा॥ १४॥
idam dhanuḥ varam divyam saṃspṛśāmi iha pāṇinā. yatnavān ca bhaviṣyāmi tolane pūraṇe api vā.. 14..
बाढमित्यब्रवीद् राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५॥
बाढम् इति अब्रवीत् राजा मुनिः च समभाषत। लीलया स धनुः मध्ये जग्राह वचनात् मुनेः॥ १५॥
bāḍham iti abravīt rājā muniḥ ca samabhāṣata. līlayā sa dhanuḥ madhye jagrāha vacanāt muneḥ.. 15..
पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः॥ १६॥
पश्यताम् नृ-सहस्राणाम् बहूनाम् रघुनन्दनः। आरोपयत् स धर्म-आत्मा स लीलम् इव तत् धनुः॥ १६॥
paśyatām nṛ-sahasrāṇām bahūnām raghunandanaḥ. āropayat sa dharma-ātmā sa līlam iva tat dhanuḥ.. 16..
आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः॥ १७॥
आरोपयित्वा मौर्वीम् च पूरयामास तत् धनुः। तत् बभञ्ज धनुः-मध्ये नर-श्रेष्ठः महा-यशाः॥ १७॥
āropayitvā maurvīm ca pūrayāmāsa tat dhanuḥ. tat babhañja dhanuḥ-madhye nara-śreṣṭhaḥ mahā-yaśāḥ.. 17..
तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः॥ १८॥
तस्य शब्दः महान् आसीत् निर्घात-सम-निःस्वनः। भूमिकम्पः च सु महान् पर्वतस्य इव दीर्यतः॥ १८॥
tasya śabdaḥ mahān āsīt nirghāta-sama-niḥsvanaḥ. bhūmikampaḥ ca su mahān parvatasya iva dīryataḥ.. 18..
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥ १९॥
निपेतुः च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनि-वरम् राजानम् तौ च राघवौ॥ १९॥
nipetuḥ ca narāḥ sarve tena śabdena mohitāḥ. varjayitvā muni-varam rājānam tau ca rāghavau.. 19..
प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्॥ २०॥
प्रत्याश्वस्ते जने तस्मिन् राजा विगत-साध्वसः। उवाच प्राञ्जलिः वाक्यम् वाक्य-ज्ञः मुनि-पुंगवम्॥ २०॥
pratyāśvaste jane tasmin rājā vigata-sādhvasaḥ. uvāca prāñjaliḥ vākyam vākya-jñaḥ muni-puṃgavam.. 20..
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया॥ २१॥
भगवन् दृष्ट-वीर्यः मे रामः दशरथ-आत्मजः। अत्यद्भुतम् अचिन्त्यम् च अ तर्कितम् इदम् मया॥ २१॥
bhagavan dṛṣṭa-vīryaḥ me rāmaḥ daśaratha-ātmajaḥ. atyadbhutam acintyam ca a tarkitam idam mayā.. 21..
जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्॥ २२॥
जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता। सीता भर्तारम् आसाद्य रामम् दशरथ-आत्मजम्॥ २२॥
janakānām kule kīrtim āhariṣyati me sutā. sītā bhartāram āsādya rāmam daśaratha-ātmajam.. 22..
मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता॥ २३॥
मम सत्या प्रतिज्ञा सा वीर्य-शुल्का इति कौशिक। सीता प्राणैः बहु-मता देया रामाय मे सुता॥ २३॥
mama satyā pratijñā sā vīrya-śulkā iti kauśika. sītā prāṇaiḥ bahu-matā deyā rāmāya me sutā.. 23..
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः॥ २४॥
भवतः अनुमते ब्रह्मन् शीघ्रम् गच्छन्तु मन्त्रिणः। मम कौशिक भद्रम् ते अयोध्याम् त्वरिताः रथैः॥ २४॥
bhavataḥ anumate brahman śīghram gacchantu mantriṇaḥ. mama kauśika bhadram te ayodhyām tvaritāḥ rathaiḥ.. 24..
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः॥ २५॥
राजानम् प्रश्रितैः वाक्यैः आनयन्तु पुरम् मम। प्रदानम् वीर्य-शुल्कायाः कथयन्तु च सर्वशस्॥ २५॥
rājānam praśritaiḥ vākyaiḥ ānayantu puram mama. pradānam vīrya-śulkāyāḥ kathayantu ca sarvaśas.. 25..
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः॥ २६॥
मुनि-गुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीति-युक्तम् तु राजानम् आनयन्तु सु शीघ्र-गाः॥ २६॥
muni-guptau ca kākutsthau kathayantu nṛpāya vai. prīti-yuktam tu rājānam ānayantu su śīghra-gāḥ.. 26..
कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तथा॥ २७॥
कौशिकः तु तथा इति आह राजा च आभाष्य मन्त्रिणः। अयोध्याम् प्रेषयामास धर्म-आत्मा कृत-शासनान्। यथावृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा॥ २७॥
kauśikaḥ tu tathā iti āha rājā ca ābhāṣya mantriṇaḥ. ayodhyām preṣayāmāsa dharma-ātmā kṛta-śāsanān. yathāvṛttam samākhyātum ānetum ca nṛpam tathā.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In