This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..1..
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्॥ १॥
जनकेन समादिष्टाः दूताः ते क्लान्त-वाहनाः। त्रि-रात्र-मुषिताः मार्गे ते अयोध्याम् प्राविशन् पुरीम्॥ १॥
janakena samādiṣṭāḥ dūtāḥ te klānta-vāhanāḥ. tri-rātra-muṣitāḥ mārge te ayodhyām prāviśan purīm.. 1..
ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः। ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्॥ २॥
ते राज-वचनात् गत्वा राज-वेश्म प्रवेशिताः। ददृशुः देव-संकाशम् वृद्धम् दशरथम् नृपम्॥ २॥
te rāja-vacanāt gatvā rāja-veśma praveśitāḥ. dadṛśuḥ deva-saṃkāśam vṛddham daśaratham nṛpam.. 2..
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः। राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्॥ ३॥
बद्धाञ्जलि-पुटाः सर्वे दूताः विगत-साध्वसाः। राजानम् प्रश्रितम् वाक्यम् अब्रुवन् मधुर-अक्षरम्॥ ३॥
baddhāñjali-puṭāḥ sarve dūtāḥ vigata-sādhvasāḥ. rājānam praśritam vākyam abruvan madhura-akṣaram.. 3..
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा॥ ४॥
मैथिलः जनकः राजा स अग्निहोत्र-पुरस्कृतः। मुहुर् मुहुर् मधुरया स्नेह-संरक्तया गिरा॥ ४॥
maithilaḥ janakaḥ rājā sa agnihotra-puraskṛtaḥ. muhur muhur madhurayā sneha-saṃraktayā girā.. 4..
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। जनकस्त्वां महाराज पृच्छते सपुरःसरम्॥ ५॥
कुशलम् च अव्ययम् च एव स उपाध्याय-पुरोहितम्। जनकः त्वाम् महा-राज पृच्छते स पुरःसरम्॥ ५॥
kuśalam ca avyayam ca eva sa upādhyāya-purohitam. janakaḥ tvām mahā-rāja pṛcchate sa puraḥsaram.. 5..
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्॥ ६॥
पृष्ट्वा कुशलम् अव्यग्रम् वैदेहः मिथिला-अधिपः। कौशिक-अनुमते वाक्यम् भवन्तम् इदम् अब्रवीत्॥ ६॥
pṛṣṭvā kuśalam avyagram vaidehaḥ mithilā-adhipaḥ. kauśika-anumate vākyam bhavantam idam abravīt.. 6..
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः॥ ७॥
पूर्वम् प्रतिज्ञा विदिता वीर्य-शुल्का मम आत्मजा। राजानः च कृत-आमर्षाः निर्वीर्याः विमुखीकृताः॥ ७॥
pūrvam pratijñā viditā vīrya-śulkā mama ātmajā. rājānaḥ ca kṛta-āmarṣāḥ nirvīryāḥ vimukhīkṛtāḥ.. 7..
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः॥ ८॥
सा इयम् मम सुता राजन् विश्वामित्र-पुरस्कृतैः। यदृच्छया आगतैः राजन् निर्जिता तव पुत्रकैः॥ ८॥
sā iyam mama sutā rājan viśvāmitra-puraskṛtaiḥ. yadṛcchayā āgataiḥ rājan nirjitā tava putrakaiḥ.. 8..
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि॥ ९॥
तत् च रत्नम् धनुः दिव्यम् मध्ये भग्नम् महात्मना। रामेण हि महा-बाहो महत्याम् जन-संसदि॥ ९॥
tat ca ratnam dhanuḥ divyam madhye bhagnam mahātmanā. rāmeṇa hi mahā-bāho mahatyām jana-saṃsadi.. 9..
अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि॥ १०॥
अस्मै देया मया सीता वीर्य-शुल्का महात्मने। प्रतिज्ञाम् तर्तुम् इच्छामि तत् अनुज्ञातुम् अर्हसि॥ १०॥
asmai deyā mayā sītā vīrya-śulkā mahātmane. pratijñām tartum icchāmi tat anujñātum arhasi.. 10..
सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ॥ ११॥
स उपाध्यायः महा-राज पुरोहित-पुरस्कृतः। शीघ्रम् आगच्छ भद्रम् ते द्रष्टुम् अर्हसि राघवौ॥ ११॥
sa upādhyāyaḥ mahā-rāja purohita-puraskṛtaḥ. śīghram āgaccha bhadram te draṣṭum arhasi rāghavau.. 11..
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे॥ १२॥
प्रतिज्ञाम् मम राज-इन्द्र निर्वर्तयितुम् अर्हसि। पुत्रयोः उभयोः एव प्रीतिम् त्वम् उपलप्स्यसे॥ १२॥
pratijñām mama rāja-indra nirvartayitum arhasi. putrayoḥ ubhayoḥ eva prītim tvam upalapsyase.. 12..
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः॥ १३॥
एवम् विदेह-अधिपतिः मधुरम् वाक्यम् अब्रवीत्। विश्वामित्र-अभ्यनुज्ञातः शतानन्द-मते स्थितः॥ १३॥
evam videha-adhipatiḥ madhuram vākyam abravīt. viśvāmitra-abhyanujñātaḥ śatānanda-mate sthitaḥ.. 13..
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्॥ १४॥
दूत-वाक्यम् तु तत् श्रुत्वा राजा परम-हर्षितः। वसिष्ठम् वामदेवम् च मन्त्रिणः च एवम् अब्रवीत्॥ १४॥
dūta-vākyam tu tat śrutvā rājā parama-harṣitaḥ. vasiṣṭham vāmadevam ca mantriṇaḥ ca evam abravīt.. 14..
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ॥ १५॥
गुप्तः कुशिक-पुत्रेण कौसल्या-आनन्द-वर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसति असौ॥ १५॥
guptaḥ kuśika-putreṇa kausalyā-ānanda-vardhanaḥ. lakṣmaṇena saha bhrātrā videheṣu vasati asau.. 15..
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति॥ १६॥
दृष्ट-वीर्यः तु काकुत्स्थः जनकेन महात्मना। सम्प्रदानम् सुतायाः तु राघवे कर्तुम् इच्छति॥ १६॥
dṛṣṭa-vīryaḥ tu kākutsthaḥ janakena mahātmanā. sampradānam sutāyāḥ tu rāghave kartum icchati.. 16..
यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः॥ १७॥
यदि वः रोचते वृत्तम् जनकस्य महात्मनः। पुरीम् गच्छामहे शीघ्रम् मा भूत् कालस्य पर्ययः॥ १७॥
yadi vaḥ rocate vṛttam janakasya mahātmanaḥ. purīm gacchāmahe śīghram mā bhūt kālasya paryayaḥ.. 17..
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः॥ १८॥
मन्त्रिणः बाढम् इति आहुः सह सर्वैः महा-ऋषिभिः। सु प्रीतः च अब्रवीत् राजा श्वस् यात्रा इति च मन्त्रिणः॥ १८॥
mantriṇaḥ bāḍham iti āhuḥ saha sarvaiḥ mahā-ṛṣibhiḥ. su prītaḥ ca abravīt rājā śvas yātrā iti ca mantriṇaḥ.. 18..
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः॥ १९॥
मन्त्रिणः तु नरेन्द्रस्य रात्रिम् परम-सत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः॥ १९॥
mantriṇaḥ tu narendrasya rātrim parama-satkṛtāḥ. ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In