This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकोनसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekonasaptatitamaḥ sargaḥ ..1..
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥ १॥
ततस् रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः। राजा दशरथः हृष्टः सुमन्त्रम् इदम् अब्रवीत्॥ १॥
tatas rātryām vyatītāyām sa upādhyāyaḥ sa bāndhavaḥ. rājā daśarathaḥ hṛṣṭaḥ sumantram idam abravīt.. 1..
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥ २॥
अद्य सर्वे धन-अध्यक्षाः धनम् आदाय पुष्कलम्। व्रजन्तु अग्रे सु विहिताः नाना रत्न-समन्विताः॥ २॥
adya sarve dhana-adhyakṣāḥ dhanam ādāya puṣkalam. vrajantu agre su vihitāḥ nānā ratna-samanvitāḥ.. 2..
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम्॥ ३॥
चतुर्-अंग-बलम् च अपि शीघ्रम् निर्यातु सर्वशस्। मम आज्ञा-सम-कालम् च यानम् युग्यम् अनुत्तमम्॥ ३॥
catur-aṃga-balam ca api śīghram niryātu sarvaśas. mama ājñā-sama-kālam ca yānam yugyam anuttamam.. 3..
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा॥ ४॥
वसिष्ठः वामदेवः च जाबालिः अथ कश्यपः। मार्कण्डेयः तु दीर्घ-आयुः ऋषिः कात्यायनः तथा॥ ४॥
vasiṣṭhaḥ vāmadevaḥ ca jābāliḥ atha kaśyapaḥ. mārkaṇḍeyaḥ tu dīrgha-āyuḥ ṛṣiḥ kātyāyanaḥ tathā.. 4..
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्॥ ५॥
एते द्विजाः प्रयान्तु अग्रे स्यन्दनम् योजयस्व मे। यथा काल-अत्ययः न स्यात् दूताः हि त्वरयन्ति माम्॥ ५॥
ete dvijāḥ prayāntu agre syandanam yojayasva me. yathā kāla-atyayaḥ na syāt dūtāḥ hi tvarayanti mām.. 5..
वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात्॥ ६॥
वचनात् च नरेन्द्रस्य सेना च चतुरंगिणी। राजानम् ऋषिभिः सार्धम् व्रजन्तम् पृष्ठतस् अन्वयात्॥ ६॥
vacanāt ca narendrasya senā ca caturaṃgiṇī. rājānam ṛṣibhiḥ sārdham vrajantam pṛṣṭhatas anvayāt.. 6..
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्॥ ७॥
गत्वा चतुर्-अहम् मार्गम् विदेहान् अभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजाम् अकल्पयत्॥ ७॥
gatvā catur-aham mārgam videhān abhyupeyivān. rājā ca janakaḥ śrīmān śrutvā pūjām akalpayat.. 7..
ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ॥ ८॥
ततस् राजानम् आसाद्य वृद्धम् दशरथम् नृपम्। मुदितः जनकः राजा प्रहर्षम् परमम् ययौ॥ ८॥
tatas rājānam āsādya vṛddham daśaratham nṛpam. muditaḥ janakaḥ rājā praharṣam paramam yayau.. 8..
उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव॥ ९॥
उवाच वचनम् श्रेष्ठः नर-श्रेष्ठम् मुदा अन्वितम्। स्वागतम् ते नर-श्रेष्ठ दिष्ट्या प्राप्तः असि राघव॥ ९॥
uvāca vacanam śreṣṭhaḥ nara-śreṣṭham mudā anvitam. svāgatam te nara-śreṣṭha diṣṭyā prāptaḥ asi rāghava.. 9..
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः॥ १०॥
पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य-निर्जिताम्। दिष्ट्या प्राप्तः महा-तेजाः वसिष्ठः भगवान् ऋषिः॥ १०॥
putrayoḥ ubhayoḥ prītim lapsyase vīrya-nirjitām. diṣṭyā prāptaḥ mahā-tejāḥ vasiṣṭhaḥ bhagavān ṛṣiḥ.. 10..
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्॥ ११॥
सह सर्वैः द्विजश्रेष्ठैः देवैः इव शतक्रतुः। दिष्ट्या मे निर्जिताः विघ्नाः दिष्ट्या मे पूजितम् कुलम्॥ ११॥
saha sarvaiḥ dvijaśreṣṭhaiḥ devaiḥ iva śatakratuḥ. diṣṭyā me nirjitāḥ vighnāḥ diṣṭyā me pūjitam kulam.. 11..
राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि॥ १२॥
राघवैः सह सम्बन्धात् वीर्य-श्रेष्ठैः महा-बलैः। श्वस् प्रभाते नरेन्द्र त्वम् संवर्तयितुम् अर्हसि॥ १२॥
rāghavaiḥ saha sambandhāt vīrya-śreṣṭhaiḥ mahā-balaiḥ. śvas prabhāte narendra tvam saṃvartayitum arhasi.. 12..
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः॥ १३॥
यज्ञस्य अन्ते नर-श्रेष्ठ विवाहम् ऋषि-सत्तमैः। तस्य तत् वचनम् श्रुत्वा ऋषि-मध्ये नराधिपः॥ १३॥
yajñasya ante nara-śreṣṭha vivāham ṛṣi-sattamaiḥ. tasya tat vacanam śrutvā ṛṣi-madhye narādhipaḥ.. 13..
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा॥ १४॥
वाक्यम् वाक्य-विदाम् श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहः दातृ-वशः श्रुतम् एतत् मया पुरा॥ १४॥
vākyam vākya-vidām śreṣṭhaḥ pratyuvāca mahīpatim. pratigrahaḥ dātṛ-vaśaḥ śrutam etat mayā purā.. 14..
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः॥ १५॥
यथा वक्ष्यसि धर्म-ज्ञ तत् करिष्यामहे वयम्। तत् धर्मिष्ठम् यशस्यम् च वचनम् सत्य-वादिनः॥ १५॥
yathā vakṣyasi dharma-jña tat kariṣyāmahe vayam. tat dharmiṣṭham yaśasyam ca vacanam satya-vādinaḥ.. 15..
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे॥ १६॥
श्रुत्वा विदेह-अधिपतिः परम् विस्मयम् आगतः। ततस् सर्वे मुनि-गणाः परस्पर-समागमे॥ १६॥
śrutvā videha-adhipatiḥ param vismayam āgataḥ. tatas sarve muni-gaṇāḥ paraspara-samāgame.. 16..
हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्। अथ रामो महातेजा लक्ष्मणेन समं ययौ॥ १७॥
हर्षेण महता युक्ताः ताम् रात्रिम् अवसन् सुखम्। अथ रामः महा-तेजाः लक्ष्मणेन समम् ययौ॥ १७॥
harṣeṇa mahatā yuktāḥ tām rātrim avasan sukham. atha rāmaḥ mahā-tejāḥ lakṣmaṇena samam yayau.. 17..
विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ १८॥
विश्वामित्रम् पुरस्कृत्य पितुः पादौ उपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ १८॥
viśvāmitram puraskṛtya pituḥ pādau upaspṛśan. rājā ca rāghavau putrau niśāmya pariharṣitaḥ.. 18..
जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह॥ १९॥
जनकः अपि महा-तेजाः क्रियाः धर्मेण तत्त्व-विद्। यज्ञस्य च सुताभ्याम् च कृत्वा रात्रिम् उवास ह॥ १९॥
janakaḥ api mahā-tejāḥ kriyāḥ dharmeṇa tattva-vid. yajñasya ca sutābhyām ca kṛtvā rātrim uvāsa ha.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonasaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In