This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्तमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptamaḥ sargaḥ ..1..
तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥१-७-१॥
तस्य अमात्याः गुणैः आसन् विक्ष्वाकोः सु महात्मनः । मन्त्र-ज्ञाः च इङ्गित-ज्ञाः च नित्यम् प्रिय-हिते रताः ॥१॥
tasya amātyāḥ guṇaiḥ āsan vikṣvākoḥ su mahātmanaḥ . mantra-jñāḥ ca iṅgita-jñāḥ ca nityam priya-hite ratāḥ ..1..
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥१-७-२॥
अष्टौ बभूवुः वीरस्य तस्य अमात्याः यशस्विनः । शुचयः च अनुरक्ताः च राज-कृत्येषु नित्यशस् ॥१॥
aṣṭau babhūvuḥ vīrasya tasya amātyāḥ yaśasvinaḥ . śucayaḥ ca anuraktāḥ ca rāja-kṛtyeṣu nityaśas ..1..
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥१-७-३॥
धृष्टिः जयन्तः विजयः सुराष्ट्रः राष्ट्र्वर्धनः । अकोपः धर्मपालः च सुमन्त्रः च अष्टमः अर्थ-विद् ॥१॥
dhṛṣṭiḥ jayantaḥ vijayaḥ surāṣṭraḥ rāṣṭrvardhanaḥ . akopaḥ dharmapālaḥ ca sumantraḥ ca aṣṭamaḥ artha-vid ..1..
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥१-७-४॥
ऋत्विजौ द्वौ अभिमतौ तस्य आस्ताम् ऋषि-सत्तमौ । वसिष्ठः वामदेवः च मन्त्रिणः च तथा अपरे ॥१॥
ṛtvijau dvau abhimatau tasya āstām ṛṣi-sattamau . vasiṣṭhaḥ vāmadevaḥ ca mantriṇaḥ ca tathā apare ..1..
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः । मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥१-७-५॥
सुयज्ञः अपि अथ जाबालिः काश्यपः अपि अथ गौतमः । मार्कण्डेयः तु दीर्घ-आयूः तथा कात्यायनः द्विजः ॥१॥
suyajñaḥ api atha jābāliḥ kāśyapaḥ api atha gautamaḥ . mārkaṇḍeyaḥ tu dīrgha-āyūḥ tathā kātyāyanaḥ dvijaḥ ..1..
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः । विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥१-७-६॥
एतैः ब्रह्मर्षिभिः नित्यम् ऋत्विजः तस्य पौर्वकाः । विद्या-विनीताः ह्रीमन्तः कुशलाः नियत-इन्द्रियाः ॥१॥
etaiḥ brahmarṣibhiḥ nityam ṛtvijaḥ tasya paurvakāḥ . vidyā-vinītāḥ hrīmantaḥ kuśalāḥ niyata-indriyāḥ ..1..
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः । कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥१-७-७॥
श्रीमन्तः च महात्मानः शास्त्र-ज्ञाः दृढ-विक्रमाः । कीर्तिमन्तः प्रणिहिताः यथा वचन-कारिणः ॥१॥
śrīmantaḥ ca mahātmānaḥ śāstra-jñāḥ dṛḍha-vikramāḥ . kīrtimantaḥ praṇihitāḥ yathā vacana-kāriṇaḥ ..1..
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥१-७-८॥
तेजः-क्षमा-यशः-प्राप्ताः स्मित-पूर्व-अभिभाषिणः । क्रोधात् काम-अर्थ-हेतोः वा न ब्रूयुः अनृतम् वचः ॥१॥
tejaḥ-kṣamā-yaśaḥ-prāptāḥ smita-pūrva-abhibhāṣiṇaḥ . krodhāt kāma-artha-hetoḥ vā na brūyuḥ anṛtam vacaḥ ..1..
तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥१-७-९॥
तेषाम् अविदितम् किंचिद् स्वेषु ना अस्ति परेषु वा । क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१॥
teṣām aviditam kiṃcid sveṣu nā asti pareṣu vā . kriyamāṇam kṛtam vā api cāreṇa api cikīrṣitam ..1..
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥१-७-१०॥
कुशलाः व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्त-कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१॥
kuśalāḥ vyavahāreṣu sauhṛdeṣu parīkṣitāḥ . prāpta-kālam yathā daṇḍam dhārayeyuḥ suteṣu api ..1..
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥१-७-११॥
कोश-संग्रहणे युक्ताः बलस्य च परिग्रहे । अहितम् च अपि पुरुषम् न हिंस्युः अविदूषकम् ॥१॥
kośa-saṃgrahaṇe yuktāḥ balasya ca parigrahe . ahitam ca api puruṣam na hiṃsyuḥ avidūṣakam ..1..
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः। शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥१-७-१२॥
वीराः च नियत-उत्साहाः राज-शास्त्रम् अनुष्ठिताः। शुचीनाम् रक्षितारः च नित्यम् विषय-वासिनाम् ॥१॥
vīrāḥ ca niyata-utsāhāḥ rāja-śāstram anuṣṭhitāḥ. śucīnām rakṣitāraḥ ca nityam viṣaya-vāsinām ..1..
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
ब्रह्म-क्षत्रम् अ हिंसन्तः ते कोशम् समपूरयन् । सु तीक्ष्ण-दण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥१॥
brahma-kṣatram a hiṃsantaḥ te kośam samapūrayan . su tīkṣṇa-daṇḍāḥ samprekṣya puruṣasya balābalam ..1..
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥१-७-१४॥
शुचीनाम् एकबुद्धीनाम् सर्वेषाम् सम्प्रजानताम् । न आसीत् पुरे वा राष्ट्रे वा मृषावादी नरः क्वचिद् ॥१॥
śucīnām ekabuddhīnām sarveṣām samprajānatām . na āsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacid ..1..
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः । प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥१-७-१५॥
क्वचिद् न दुष्टः तत्र आसीत् पर-दार-रतिः नरः । प्रशान्तम् सर्वम् एव आसीत् राष्ट्रम् पुरवरम् च तत् ॥१॥
kvacid na duṣṭaḥ tatra āsīt para-dāra-ratiḥ naraḥ . praśāntam sarvam eva āsīt rāṣṭram puravaram ca tat ..1..
सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः । हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥१-७-१६॥
सु वाससः सु वेशाः च ते च सर्वे शुचि-व्रताः । हित-अर्थाः च नरेन्द्रस्य जाग्रतः नय-चक्षुषा ॥१॥
su vāsasaḥ su veśāḥ ca te ca sarve śuci-vratāḥ . hita-arthāḥ ca narendrasya jāgrataḥ naya-cakṣuṣā ..1..
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः । विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥१-७-१७॥
गुरोः गुण-गृहीताः च प्रख्याताः च पराक्रमैः । विदेशेषु अपि विज्ञाताः सर्वतस् बुद्धि-निश्चयाः ॥१॥
guroḥ guṇa-gṛhītāḥ ca prakhyātāḥ ca parākramaiḥ . videśeṣu api vijñātāḥ sarvatas buddhi-niścayāḥ ..1..
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः । सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः ॥१-७-१८॥
अभितस् गुणवन्तः च न च आसन् गुण-वर्जिताः । सन्धि-विग्रह-तत्व-ज्ञाः प्रकृत्या सम्पदा अन्विताः ॥१॥
abhitas guṇavantaḥ ca na ca āsan guṇa-varjitāḥ . sandhi-vigraha-tatva-jñāḥ prakṛtyā sampadā anvitāḥ ..1..
मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु । नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥१-७-१९॥
मंत्र-संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु । नीति-शास्त्र-विशेष-ज्ञाः सततम् प्रिय-वादिनः ॥१॥
maṃtra-saṃvaraṇe śaktāḥ śaktāḥ sūkṣmāsu buddhiṣu . nīti-śāstra-viśeṣa-jñāḥ satatam priya-vādinaḥ ..1..
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥१-७-२०॥
ईदृशैः तैः अमात्यैः च राजा दशरथः अनघः । उपपन्नः गुण-उपेतैः अन्वशासत् वसुन्धराम् ॥१॥
īdṛśaiḥ taiḥ amātyaiḥ ca rājā daśarathaḥ anaghaḥ . upapannaḥ guṇa-upetaiḥ anvaśāsat vasundharām ..1..
अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥१-७-२१॥
अवेक्ष्यमाणः चारेण प्रजाः धर्मेण रक्षयन् । प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१॥
avekṣyamāṇaḥ cāreṇa prajāḥ dharmeṇa rakṣayan . prajānām pālanam kurvan adharmam parivarjayan ..1..
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥१-७-२२॥
विश्रुतः त्रिषु लोकेषु वदान्यः सत्य-संगरः । स तत्र पुरुष-व्याघ्रः शशास पृथिवीम् इमाम् ॥१॥
viśrutaḥ triṣu lokeṣu vadānyaḥ satya-saṃgaraḥ . sa tatra puruṣa-vyāghraḥ śaśāsa pṛthivīm imām ..1..
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद् राजा दिवि देवपतिर्यथा ॥१-७-२३॥
न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः । । स शशास जगत् राजा दिवि देवपतिः यथा ॥१॥
na adhyagacchat viśiṣṭam vā tulyam vā śatrum ātmanaḥ . . sa śaśāsa jagat rājā divi devapatiḥ yathā ..1..
तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै- र्वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्त- स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥१-७-२४॥
तैः मन्त्रिभिः मन्त्र-हितैः निविष्टैः वृतः अनुरक्तैः कुशलैः समर्थैः । स पार्थिवः दीप्तिम् अवाप युक्तः तेजः-मयैः गोभिः इव उदितः अर्कः ॥१॥
taiḥ mantribhiḥ mantra-hitaiḥ niviṣṭaiḥ vṛtaḥ anuraktaiḥ kuśalaiḥ samarthaiḥ . sa pārthivaḥ dīptim avāpa yuktaḥ tejaḥ-mayaiḥ gobhiḥ iva uditaḥ arkaḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In