This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptatitamaḥ sargaḥ ..1..
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥ १॥
ततस् प्रभाते जनकः कृत-कर्मा महा-ऋषिभिः। उवाच वाक्यम् वाक्य-ज्ञः शतानन्दम् पुरोहितम्॥ १॥
tatas prabhāte janakaḥ kṛta-karmā mahā-ṛṣibhiḥ. uvāca vākyam vākya-jñaḥ śatānandam purohitam.. 1..
भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ २॥
भ्राता मम महा-तेजाः वीर्यवान् अति धार्मिकः। कुशध्वजः इति ख्यातः पुरीम् अध्यवसत् शुभाम्॥ २॥
bhrātā mama mahā-tejāḥ vīryavān ati dhārmikaḥ. kuśadhvajaḥ iti khyātaḥ purīm adhyavasat śubhām.. 2..
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्॥ ३॥
वारि-आफलक-पर्यन्ताम् पिबन् इक्षुमतीम् नदीम्। सांकाश्याम् पुण्य-संकाशाम् विमानम् इव पुष्पकम्॥ ३॥
vāri-āphalaka-paryantām piban ikṣumatīm nadīm. sāṃkāśyām puṇya-saṃkāśām vimānam iva puṣpakam.. 3..
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥ ४॥
तम् अहम् द्रष्टुम् इच्छामि यज्ञ-गोप्ता स मे मतः। प्रीतिम् सः अपि महा-तेजाः इमाम् भोक्ता मया सह॥ ४॥
tam aham draṣṭum icchāmi yajña-goptā sa me mataḥ. prītim saḥ api mahā-tejāḥ imām bhoktā mayā saha.. 4..
एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥ ५॥
एवम् उक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिद् अव्यग्राः जनकः तान् समादिशत्॥ ५॥
evam ukte tu vacane śatānandasya saṃnidhau. āgatāḥ kecid avyagrāḥ janakaḥ tān samādiśat.. 5..
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥ ६॥
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्र-वाजिभिः। समानेतुम् नर-व्याघ्रम् विष्णुम् इन्द्र-आज्ञया यथा॥ ६॥
śāsanāt tu narendrasya prayayuḥ śīghra-vājibhiḥ. samānetum nara-vyāghram viṣṇum indra-ājñayā yathā.. 6..
सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्॥ ७॥
सांकाश्याम् ते समागम्य ददृशुः च कुशध्वजम्। न्यवेदयन् यथावृत्तम् जनकस्य च चिन्तितम्॥ ७॥
sāṃkāśyām te samāgamya dadṛśuḥ ca kuśadhvajam. nyavedayan yathāvṛttam janakasya ca cintitam.. 7..
तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥ ८॥
तत् वृत्तम् नृपतिः श्रुत्वा दूत-श्रेष्ठैः महा-जवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥ ८॥
tat vṛttam nṛpatiḥ śrutvā dūta-śreṣṭhaiḥ mahā-javaiḥ. ājñayā tu narendrasya ājagāma kuśadhvajaḥ.. 8..
स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्॥ ९॥
स ददर्श महात्मानम् जनकम् धर्म-वत्सलम्। सः अभिवाद्य शतानन्दम् जनकम् च अति धार्मिकम्॥ ९॥
sa dadarśa mahātmānam janakam dharma-vatsalam. saḥ abhivādya śatānandam janakam ca ati dhārmikam.. 9..
राजार्हं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टावुभौ तौ तु भ्रातरावमितद्युती॥ १०॥
राज-अर्हम् परमम् दिव्यम् आसनम् सः अध्यरोहत। उपविष्टौ उभौ तौ तु भ्रातरौ अमित-द्युती॥ १०॥
rāja-arham paramam divyam āsanam saḥ adhyarohata. upaviṣṭau ubhau tau tu bhrātarau amita-dyutī.. 10..
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम्॥ ११॥
प्रेषयामासतुः वीरौ मन्त्रि-श्रेष्ठम् सुदामनम्। गच्छ मन्त्रि-पते शीघ्रम् इक्ष्वाकुम् अमित-प्रभम्॥ ११॥
preṣayāmāsatuḥ vīrau mantri-śreṣṭham sudāmanam. gaccha mantri-pate śīghram ikṣvākum amita-prabham.. 11..
आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्॥ १२॥
आत्मजैः सह दुर्धर्षम् आनयस्व स मन्त्रिणम्। औपकार्याम् स गत्वा तु रघूणाम् कुल-वर्धनम्॥ १२॥
ātmajaiḥ saha durdharṣam ānayasva sa mantriṇam. aupakāryām sa gatvā tu raghūṇām kula-vardhanam.. 12..
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेहो मिथिलाधिपः॥ १३॥
ददर्श शिरसा च एनम् अभिवाद्य इदम् अब्रवीत्। अयोध्या-अधिपते वीर वैदेहः मिथिला-अधिपः॥ १३॥
dadarśa śirasā ca enam abhivādya idam abravīt. ayodhyā-adhipate vīra vaidehaḥ mithilā-adhipaḥ.. 13..
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा॥ १४॥
स त्वाम् द्रष्टुम् व्यवसितः स उपाध्याय-पुरोहितम्। मन्त्रि-श्रेष्ठ-वचः श्रुत्वा राजा स ऋषि-गणः तथा॥ १४॥
sa tvām draṣṭum vyavasitaḥ sa upādhyāya-purohitam. mantri-śreṣṭha-vacaḥ śrutvā rājā sa ṛṣi-gaṇaḥ tathā.. 14..
सबन्धुरगमत् तत्र जनको यत्र वर्तते। राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः॥ १५॥
स बन्धुः अगमत् तत्र जनकः यत्र वर्तते। राजा च मन्त्रि-सहितः स उपाध्यायः स बान्धवः॥ १५॥
sa bandhuḥ agamat tatra janakaḥ yatra vartate. rājā ca mantri-sahitaḥ sa upādhyāyaḥ sa bāndhavaḥ.. 15..
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥ १६॥
वाक्यम् वाक्य-विदाम् श्रेष्ठः वैदेहम् इदम् अब्रवीत्। विदितम् ते महा-राजः इक्ष्वाकु-कुल-दैवतम्॥ १६॥
vākyam vākya-vidām śreṣṭhaḥ vaideham idam abravīt. viditam te mahā-rājaḥ ikṣvāku-kula-daivatam.. 16..
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः॥ १७॥
वक्ता सर्वेषु कृत्येषु वसिष्ठः भगवान् ऋषिः। विश्वामित्र-अभ्यनुज्ञातः सह सर्वैः महा-ऋषिभिः॥ १७॥
vaktā sarveṣu kṛtyeṣu vasiṣṭhaḥ bhagavān ṛṣiḥ. viśvāmitra-abhyanujñātaḥ saha sarvaiḥ mahā-ṛṣibhiḥ.. 17..
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः॥ १८॥
एष वक्ष्यति धर्म-आत्मा वसिष्ठः मे यथाक्रमम्। तूष्णींभूते दशरथे वसिष्ठः भगवान् ऋषिः॥ १८॥
eṣa vakṣyati dharma-ātmā vasiṣṭhaḥ me yathākramam. tūṣṇīṃbhūte daśarathe vasiṣṭhaḥ bhagavān ṛṣiḥ.. 18..
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्। अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः॥ १९॥
उवाच वाक्यम् वाक्य-ज्ञः वैदेहम् स पुरोधसम्। अव्यक्त-प्रभवः ब्रह्मा शाश्वतः नित्य अव्ययः॥ १९॥
uvāca vākyam vākya-jñaḥ vaideham sa purodhasam. avyakta-prabhavaḥ brahmā śāśvataḥ nitya avyayaḥ.. 19..
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः। विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः॥ २०॥
तस्मात् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः। विवस्वान् कश्यपात् जज्ञे मनुः वैवस्वतः स्मृतः॥ २०॥
tasmāt marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ. vivasvān kaśyapāt jajñe manuḥ vaivasvataḥ smṛtaḥ.. 20..
मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥ २१॥
मनुः प्रजापतिः पूर्वम् इक्ष्वाकुः च मनोः सुतः। तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम्॥ २१॥
manuḥ prajāpatiḥ pūrvam ikṣvākuḥ ca manoḥ sutaḥ. tam ikṣvākum ayodhyāyām rājānam viddhi pūrvakam.. 21..
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत॥ २२॥
इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिः इति एव विश्रुतः। कुक्षेः अथ आत्मजः श्रीमान् विकुक्षिः उदपद्यत॥ २२॥
ikṣvākoḥ tu sutaḥ śrīmān kukṣiḥ iti eva viśrutaḥ. kukṣeḥ atha ātmajaḥ śrīmān vikukṣiḥ udapadyata.. 22..
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य तु महातेजा अनरण्यः प्रतापवान्॥ २३॥
विकुक्षेः तु महा-तेजाः बाणः पुत्रः प्रतापवान्। बाणस्य तु महा-तेजाः अनरण्यः प्रतापवान्॥ २३॥
vikukṣeḥ tu mahā-tejāḥ bāṇaḥ putraḥ pratāpavān. bāṇasya tu mahā-tejāḥ anaraṇyaḥ pratāpavān.. 23..
अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि। त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः॥ २४॥
अनरण्यात् पृथुः जज्ञे त्रिशङ्कुः तु पृथोः अपि। त्रिशङ्कोः अभवत् पुत्रः धुन्धुमारः महा-यशाः॥ २४॥
anaraṇyāt pṛthuḥ jajñe triśaṅkuḥ tu pṛthoḥ api. triśaṅkoḥ abhavat putraḥ dhundhumāraḥ mahā-yaśāḥ.. 24..
धुन्धुमारान्महातेजा युवनाश्वो महारथः। युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः॥ २५॥
धुन्धुमारात् महा-तेजाः युवनाश्वः महा-रथः। युवनाश्व-सुतः च आसीत् मान्धाता पृथिवीपतिः॥ २५॥
dhundhumārāt mahā-tejāḥ yuvanāśvaḥ mahā-rathaḥ. yuvanāśva-sutaḥ ca āsīt māndhātā pṛthivīpatiḥ.. 25..
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥ २६॥
मान्धातुः तु सुतः श्रीमान् सुसन्धिः उदपद्यत। सुसन्धेः अपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥ २६॥
māndhātuḥ tu sutaḥ śrīmān susandhiḥ udapadyata. susandheḥ api putrau dvau dhruvasandhiḥ prasenajit.. 26..
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत॥ २७॥
यशस्वी ध्रुवसन्धेः तु भरतः नाम नामतः। भरतात् तु महा-तेजाः असितः नाम जायत॥ २७॥
yaśasvī dhruvasandheḥ tu bharataḥ nāma nāmataḥ. bharatāt tu mahā-tejāḥ asitaḥ nāma jāyata.. 27..
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥ २८॥
यस्य एते प्रतिराजानः उदपद्यन्त शत्रवः। हैहयाः तालजङ्घाः च शूराः च शशबिन्दवः॥ २८॥
yasya ete pratirājānaḥ udapadyanta śatravaḥ. haihayāḥ tālajaṅghāḥ ca śūrāḥ ca śaśabindavaḥ.. 28..
तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा॥ २९॥
तान् च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तम् उपागम्य भार्याभ्याम् सहितः तदा॥ २९॥
tān ca sa pratiyudhyan vai yuddhe rājā pravāsitaḥ. himavantam upāgamya bhāryābhyām sahitaḥ tadā.. 29..
असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः॥ ३०॥
असितः अल्प-बलः राजा कालधर्मम् उपेयिवान्। द्वे च अस्य भार्ये गर्भिण्यौ बभूवतुः इति श्रुतिः॥ ३०॥
asitaḥ alpa-balaḥ rājā kāladharmam upeyivān. dve ca asya bhārye garbhiṇyau babhūvatuḥ iti śrutiḥ.. 30..
एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः॥ ३१॥
एका गर्भ-विनाश-अर्थम् सपत्न्यै सगरम् ददौ। ततस् शैलवरे रम्ये बभूव अभिरतः मुनिः॥ ३१॥
ekā garbha-vināśa-artham sapatnyai sagaram dadau. tatas śailavare ramye babhūva abhirataḥ muniḥ.. 31..
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तत्र चैका महाभागा भार्गवं देववर्चसम्॥ ३२॥
भार्गवः च्यवनः नाम हिमवन्तम् उपाश्रितः। तत्र च एका महाभागा भार्गवम् देव-वर्चसम्॥ ३२॥
bhārgavaḥ cyavanaḥ nāma himavantam upāśritaḥ. tatra ca ekā mahābhāgā bhārgavam deva-varcasam.. 32..
ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम्। तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्॥ ३३॥
ववन्दे पद्म-पत्र-अक्षी कांक्षन्ती सुतम् उत्तमम्। तम् ऋषिम् सा अभ्युपागम्य कालिन्दी च अभ्यवादयत्॥ ३३॥
vavande padma-patra-akṣī kāṃkṣantī sutam uttamam. tam ṛṣim sā abhyupāgamya kālindī ca abhyavādayat.. 33..
स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि। तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः॥ ३४॥
स ताम् अभ्यवदत् विप्रः पुत्र-ईप्सुम् पुत्र-जन्मनि। तव कुक्षौ महाभागे सु पुत्रः सु महा-बलः॥ ३४॥
sa tām abhyavadat vipraḥ putra-īpsum putra-janmani. tava kukṣau mahābhāge su putraḥ su mahā-balaḥ.. 34..
महावीर्यो महातेजा अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे॥ ३५॥
महा-वीर्यः महा-तेजाः अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमल-ईक्षणे॥ ३५॥
mahā-vīryaḥ mahā-tejāḥ acirāt saṃjaniṣyati. gareṇa sahitaḥ śrīmān mā śucaḥ kamala-īkṣaṇe.. 35..
च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत॥ ३६॥
च्यवनम् च नमस्कृत्य राज-पुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रम् देवी व्यजायत॥ ३६॥
cyavanam ca namaskṛtya rāja-putrī pativratā. patyā virahitā tasmāt putram devī vyajāyata.. 36..
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत्॥ ३७॥
सपत्न्या तु गरः तस्यै दत्तः गर्भ-जिघांसया। सह तेन गरेण एव संजातः सगरः अभवत्॥ ३७॥
sapatnyā tu garaḥ tasyai dattaḥ garbha-jighāṃsayā. saha tena gareṇa eva saṃjātaḥ sagaraḥ abhavat.. 37..
सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥ ३८॥
सगरस्य असमञ्जः तु असमञ्जात् अथ अंशुमान्। दिलीपः ॐऽशुमतः पुत्रः दिलीपस्य भगीरथः॥ ३८॥
sagarasya asamañjaḥ tu asamañjāt atha aṃśumān. dilīpaḥ oṃ'śumataḥ putraḥ dilīpasya bhagīrathaḥ.. 38..
भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥ ३९॥
भगीरथात् ककुत्स्थः च ककुत्स्थात् च रघुः तथा। रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुषादकः॥ ३९॥
bhagīrathāt kakutsthaḥ ca kakutsthāt ca raghuḥ tathā. raghoḥ tu putraḥ tejasvī pravṛddhaḥ puruṣādakaḥ.. 39..
कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥ ४०॥
कल्माषपादः अपि अभवत् तस्मात् जातः तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥ ४०॥
kalmāṣapādaḥ api abhavat tasmāt jātaḥ tu śaṅkhaṇaḥ. sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt.. 40..
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्॥ ४१॥
शीघ्रगः तु अग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकः तु आसीत् अम्बरीषः प्रशुश्रुकात्॥ ४१॥
śīghragaḥ tu agnivarṇasya śīghragasya maruḥ sutaḥ. maroḥ praśuśrukaḥ tu āsīt ambarīṣaḥ praśuśrukāt.. 41..
अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥ ४२॥
अम्बरीषस्य पुत्रः अभूत् नहुषः च महीपतिः। नहुषस्य ययातिः तु नाभागः तु ययाति-जः॥ ४२॥
ambarīṣasya putraḥ abhūt nahuṣaḥ ca mahīpatiḥ. nahuṣasya yayātiḥ tu nābhāgaḥ tu yayāti-jaḥ.. 42..
नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥ ४३॥
नाभागस्य बभूव अजः अजात् दशरथः अभवत्। अस्मात् दशरथात् जातौ भ्रातरौ राम-लक्ष्मणौ॥ ४३॥
nābhāgasya babhūva ajaḥ ajāt daśarathaḥ abhavat. asmāt daśarathāt jātau bhrātarau rāma-lakṣmaṇau.. 43..
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥ ४४॥
आदि-वंश-विशुद्धानाम् राज्ञाम् परम-धर्मिणाम्। इक्ष्वाकु-कुल-जातानाम् वीराणाम् सत्य-वादिनाम्॥ ४४॥
ādi-vaṃśa-viśuddhānām rājñām parama-dharmiṇām. ikṣvāku-kula-jātānām vīrāṇām satya-vādinām.. 44..
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि॥ ४५॥
राम-लक्ष्मणयोः अर्थे त्वद्-सुते वरये नृप। सदृशाभ्याम् नर-श्रेष्ठ सदृशे दातुम् अर्हसि॥ ४५॥
rāma-lakṣmaṇayoḥ arthe tvad-sute varaye nṛpa. sadṛśābhyām nara-śreṣṭha sadṛśe dātum arhasi.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In