This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekasaptatitamaḥ sargaḥ ..1..
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्॥ १॥
एवम् ब्रुवाणम् जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुम् अर्हसि भद्रम् ते कुलम् नः परिकीर्तितम्॥ १॥
evam bruvāṇam janakaḥ pratyuvāca kṛtāñjaliḥ. śrotum arhasi bhadram te kulam naḥ parikīrtitam.. 1..
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते॥ २॥
प्रदाने हि मुनि-श्रेष्ठ कुलम् निरवशेषतः। वक्तव्यम् कुल-जातेन तत् निबोध महामते॥ २॥
pradāne hi muni-śreṣṭha kulam niravaśeṣataḥ. vaktavyam kula-jātena tat nibodha mahāmate.. 2..
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः॥ ३॥
राजा अभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परम-धर्म-आत्मा सर्व-सत्त्ववताम् वरः॥ ३॥
rājā abhūt triṣu lokeṣu viśrutaḥ svena karmaṇā. nimiḥ parama-dharma-ātmā sarva-sattvavatām varaḥ.. 3..
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः॥ ४॥
तस्य पुत्रः मिथिः नाम जनकः मिथि-पुत्रकः। प्रथमः जनकः राजा जनकात् अपि उदावसुः॥ ४॥
tasya putraḥ mithiḥ nāma janakaḥ mithi-putrakaḥ. prathamaḥ janakaḥ rājā janakāt api udāvasuḥ.. 4..
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः॥ ५॥
उदावसोः तु धर्म-आत्मा जातः वै नन्दिवर्धनः। नन्दिवर्ध-सुतः शूरः सुकेतुः नाम नामतः॥ ५॥
udāvasoḥ tu dharma-ātmā jātaḥ vai nandivardhanaḥ. nandivardha-sutaḥ śūraḥ suketuḥ nāma nāmataḥ.. 5..
सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः॥ ६॥
सुकेतोः अपि धर्म-आत्मा देवरातः महा-बलः। देवरातस्य राजर्षेः बृहद्रथः इति स्मृतः॥ ६॥
suketoḥ api dharma-ātmā devarātaḥ mahā-balaḥ. devarātasya rājarṣeḥ bṛhadrathaḥ iti smṛtaḥ.. 6..
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः॥ ७॥
बृहद्रथस्य शूरः अभूत् महा-वीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्य-विक्रमः॥ ७॥
bṛhadrathasya śūraḥ abhūt mahā-vīraḥ pratāpavān. mahāvīrasya dhṛtimān sudhṛtiḥ satya-vikramaḥ.. 7..
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः॥ ८॥
सुधृतेः अपि धर्म-आत्मा धृष्टकेतुः सु धार्मिकः। धृष्टकेतोः च राजर्षेः हर्यश्वः इति विश्रुतः॥ ८॥
sudhṛteḥ api dharma-ātmā dhṛṣṭaketuḥ su dhārmikaḥ. dhṛṣṭaketoḥ ca rājarṣeḥ haryaśvaḥ iti viśrutaḥ.. 8..
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥ ९॥
हर्यश्वस्य मरुः पुत्रः मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्म-आत्मा राजा कीर्तिरथः सुतः॥ ९॥
haryaśvasya maruḥ putraḥ maroḥ putraḥ pratīndhakaḥ. pratīndhakasya dharma-ātmā rājā kīrtirathaḥ sutaḥ.. 9..
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः॥ १०॥
पुत्रः कीर्तिरथस्य अपि देवमीढः इति स्मृतः। देवमीढस्य विबुधः विबुधस्य महीध्रकः॥ १०॥
putraḥ kīrtirathasya api devamīḍhaḥ iti smṛtaḥ. devamīḍhasya vibudhaḥ vibudhasya mahīdhrakaḥ.. 10..
महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत॥ ११॥
महीध्रक-सुतः राजा कीर्तिरातः महा-बलः। कीर्तिरातस्य राजर्षेः महारोमा व्यजायत॥ ११॥
mahīdhraka-sutaḥ rājā kīrtirātaḥ mahā-balaḥ. kīrtirātasya rājarṣeḥ mahāromā vyajāyata.. 11..
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत॥ १२॥
महारोम्णः तु धर्म-आत्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णः तु राजर्षेः ह्रस्वरोमा व्यजायत॥ १२॥
mahāromṇaḥ tu dharma-ātmā svarṇaromā vyajāyata. svarṇaromṇaḥ tu rājarṣeḥ hrasvaromā vyajāyata.. 12..
तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥ १३॥
तस्य पुत्र-द्वयम् राज्ञः धर्म-ज्ञस्य महात्मनः। ज्येष्ठः अहम् अनुजः भ्राता मम वीरः कुशध्वजः॥ १३॥
tasya putra-dvayam rājñaḥ dharma-jñasya mahātmanaḥ. jyeṣṭhaḥ aham anujaḥ bhrātā mama vīraḥ kuśadhvajaḥ.. 13..
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः॥ १४॥
माम् तु ज्येष्ठम् पिता राज्ये सः अभिषिच्य पिता मम। कुश-ध्वजम् समावेश्य भारम् मयि वनम् गतः॥ १४॥
mām tu jyeṣṭham pitā rājye saḥ abhiṣicya pitā mama. kuśa-dhvajam samāveśya bhāram mayi vanam gataḥ.. 14..
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्॥ १५॥
वृद्धे पितरि स्वर्याते धर्मेण धुरम् आवहम्। भ्रातरम् देव-संकाशम् स्नेहात् पश्यन् कुशध्वजम्॥ १५॥
vṛddhe pitari svaryāte dharmeṇa dhuram āvaham. bhrātaram deva-saṃkāśam snehāt paśyan kuśadhvajam.. 15..
कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥ १६॥
कस्यचिद् तु अथ कालस्य सांकाश्यात् आगतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः॥ १६॥
kasyacid tu atha kālasya sāṃkāśyāt āgataḥ purāt. sudhanvā vīryavān rājā mithilām avarodhakaḥ.. 16..
स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति॥ १७॥
स च मे प्रेषयामास शैवम् धनुः अनुत्तमम्। सीता च कन्या पद्म-अक्षी मह्यम् वै दीयताम् इति॥ १७॥
sa ca me preṣayāmāsa śaivam dhanuḥ anuttamam. sītā ca kanyā padma-akṣī mahyam vai dīyatām iti.. 17..
तस्याप्रदानान्महर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे॥ १८॥
तस्य अप्रदानात् महा-ऋषे युद्धम् आसीत् मया सह। स हतः अभिमुखः राजा सुधन्वा तु मया रणे॥ १८॥
tasya apradānāt mahā-ṛṣe yuddham āsīt mayā saha. sa hataḥ abhimukhaḥ rājā sudhanvā tu mayā raṇe.. 18..
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्॥ १९॥
निहत्य तम् मुनि-श्रेष्ठ सुधन्वानम् नराधिपम्। सांकाश्ये भ्रातरम् शूरम् अभ्यषिञ्चम् कुशध्वजम्॥ १९॥
nihatya tam muni-śreṣṭha sudhanvānam narādhipam. sāṃkāśye bhrātaram śūram abhyaṣiñcam kuśadhvajam.. 19..
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥ २०॥
कनीयान् एष मे भ्राता अहम् ज्येष्ठः महा-मुने। ददामि परम-प्रीतः वध्वौ ते मुनि-पुंगव॥ २०॥
kanīyān eṣa me bhrātā aham jyeṣṭhaḥ mahā-mune. dadāmi parama-prītaḥ vadhvau te muni-puṃgava.. 20..
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै। वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्॥ २१॥
सीताम् रामाय भद्रम् ते ऊर्मिलाम् लक्ष्मणाय वै। वीर्य-शुल्काम् मम सुताम् सीताम् सुर-सुता-उपमाम्॥ २१॥
sītām rāmāya bhadram te ūrmilām lakṣmaṇāya vai. vīrya-śulkām mama sutām sītām sura-sutā-upamām.. 21..
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥ २२॥
द्वितीयाम् ऊर्मिलाम् च एव त्रिस् वदामि न संशयः। ददामि परम-प्रीतः वध्वौ ते मुनि-पुंगव॥ २२॥
dvitīyām ūrmilām ca eva tris vadāmi na saṃśayaḥ. dadāmi parama-prītaḥ vadhvau te muni-puṃgava.. 22..
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु॥ २३॥
राम-लक्ष्मणयोः राजन् गो-दानम् कारयस्व ह। पितृ-कार्यम् च भद्रम् ते ततस् वैवाहिकम् कुरु॥ २३॥
rāma-lakṣmaṇayoḥ rājan go-dānam kārayasva ha. pitṛ-kāryam ca bhadram te tatas vaivāhikam kuru.. 23..
मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो। फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्॥ २४॥
मघा हि अद्य महा-बाहो तृतीय-दिवसे प्रभो। फल्गुन्याम् उत्तरे राजन् तस्मिन् वैवाहिकम् कुरु। राम-लक्ष्मणयोः अर्थे दानम् कार्यम् सुख-उदयम्॥ २४॥
maghā hi adya mahā-bāho tṛtīya-divase prabho. phalgunyām uttare rājan tasmin vaivāhikam kuru. rāma-lakṣmaṇayoḥ arthe dānam kāryam sukha-udayam.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekasaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In