This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्विसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvisaptatitamaḥ sargaḥ ..1..
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम्॥ १॥
तम् उक्तवन्तम् वैदेहम् विश्वामित्रः महा-मुनिः। उवाच वचनम् वीरम् वसिष्ठ-सहितः नृपम्॥ १॥
tam uktavantam vaideham viśvāmitraḥ mahā-muniḥ. uvāca vacanam vīram vasiṣṭha-sahitaḥ nṛpam.. 1..
अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन॥ २॥
अचिन्त्यानि अप्रमेयाणि कुलानि नर-पुंगव। इक्ष्वाकूणाम् विदेहानाम् न एषाम् तुल्यः अस्ति कश्चन॥ २॥
acintyāni aprameyāṇi kulāni nara-puṃgava. ikṣvākūṇām videhānām na eṣām tulyaḥ asti kaścana.. 2..
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह॥ ३॥
सदृशः धर्म-सम्बन्धः सदृशः रूप-सम्पदा। राम-लक्ष्मणयोः राजन् सीता च ऊर्मिलया सह॥ ३॥
sadṛśaḥ dharma-sambandhaḥ sadṛśaḥ rūpa-sampadā. rāma-lakṣmaṇayoḥ rājan sītā ca ūrmilayā saha.. 3..
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः॥ ४॥
वक्तव्यम् च नर-श्रेष्ठ श्रूयताम् वचनम् मम। भ्राता यवीयान् धर्म-ज्ञः एष राजा कुशध्वजः॥ ४॥
vaktavyam ca nara-śreṣṭha śrūyatām vacanam mama. bhrātā yavīyān dharma-jñaḥ eṣa rājā kuśadhvajaḥ.. 4..
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे॥ ५॥
अस्य धर्म-आत्मनः राजन् रूपेण अप्रतिमम् भुवि। सुता-द्वयम् नर-श्रेष्ठ पत्नी-अर्थम् वरयामहे॥ ५॥
asya dharma-ātmanaḥ rājan rūpeṇa apratimam bhuvi. sutā-dvayam nara-śreṣṭha patnī-artham varayāmahe.. 5..
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः॥ ६॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजन् तयोः अर्थे महात्मनोः॥ ६॥
bharatasya kumārasya śatrughnasya ca dhīmataḥ. varaye te sute rājan tayoḥ arthe mahātmanoḥ.. 6..
पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः॥ ७॥
पुत्राः दशरथस्य इमे रूप-यौवन-शालिनः। लोकपाल-समाः सर्वे देव-तुल्य-पराक्रमाः॥ ७॥
putrāḥ daśarathasya ime rūpa-yauvana-śālinaḥ. lokapāla-samāḥ sarve deva-tulya-parākramāḥ.. 7..
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः॥ ८॥
उभयोः अपि राज-इन्द्र सम्बन्धेन अनुबध्यताम्। इक्ष्वाकु-कुलम् अव्यग्रम् भवतः पुण्य-कर्मणः॥ ८॥
ubhayoḥ api rāja-indra sambandhena anubadhyatām. ikṣvāku-kulam avyagram bhavataḥ puṇya-karmaṇaḥ.. 8..
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ॥ ९॥
विश्वामित्र-वचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिः वाक्यम् उवाच मुनि-पुंगवौ॥ ९॥
viśvāmitra-vacaḥ śrutvā vasiṣṭhasya mate tadā. janakaḥ prāñjaliḥ vākyam uvāca muni-puṃgavau.. 9..
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम्॥ १०॥
कुलम् धन्यम् इदम् मन्ये येषाम् तौ मुनि-पुंगवौ। सदृशम् कुल-सम्बन्धम् यदा आज्ञापयतः स्वयम्॥ १०॥
kulam dhanyam idam manye yeṣām tau muni-puṃgavau. sadṛśam kula-sambandham yadā ājñāpayataḥ svayam.. 10..
एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ॥ ११॥
एवम् भवतु भद्रम् वः कुशध्वज-सुते इमे। पत्न्यौ भजेताम् सहितौ शत्रुघ्न-भरतौ उभौ॥ ११॥
evam bhavatu bhadram vaḥ kuśadhvaja-sute ime. patnyau bhajetām sahitau śatrughna-bharatau ubhau.. 11..
एकाह्ना राजपुत्रीणां चतसॄणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः॥ १२॥
एक-अह्ना राज-पुत्रीणाम् चतसॄणाम् महा-मुने। पाणीन् गृह्णन्तु चत्वारः राज-पुत्राः महा-बलाः॥ १२॥
eka-ahnā rāja-putrīṇām catasṝṇām mahā-mune. pāṇīn gṛhṇantu catvāraḥ rāja-putrāḥ mahā-balāḥ.. 12..
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ १३॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्याम् मनीषिणः। वैवाहिकम् प्रशंसन्ति भगः यत्र प्रजापतिः॥ १३॥
uttare divase brahman phalgunībhyām manīṣiṇaḥ. vaivāhikam praśaṃsanti bhagaḥ yatra prajāpatiḥ.. 13..
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्॥ १४॥
एवम् उक्त्वा वचः सौम्यम् प्रत्युत्थाय कृताञ्जलिः। उभौ मुनि-वरौ राजा जनकः वाक्यम् अब्रवीत्॥ १४॥
evam uktvā vacaḥ saumyam pratyutthāya kṛtāñjaliḥ. ubhau muni-varau rājā janakaḥ vākyam abravīt.. 14..
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ॥ १५॥
परः धर्मः कृतः मह्यम् शिष्यः अस्मि भवतोः तथा। इमानि आसन-मुख्यानि आस्यताम् मुनि-पुंगवौ॥ १५॥
paraḥ dharmaḥ kṛtaḥ mahyam śiṣyaḥ asmi bhavatoḥ tathā. imāni āsana-mukhyāni āsyatām muni-puṃgavau.. 15..
यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ॥ १६॥
यथा दशरथस्य इयम् तथा अयोध्या पुरी मम। प्रभु-त्वे न अस्ति संदेहः यथार्हम् कर्तुम् अर्हथ॥ १६॥
yathā daśarathasya iyam tathā ayodhyā purī mama. prabhu-tve na asti saṃdehaḥ yathārham kartum arhatha.. 16..
तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्॥ १७॥
तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथः हृष्टः प्रत्युवाच महीपतिम्॥ १७॥
tathā bruvati vaidehe janake raghunandanaḥ. rājā daśarathaḥ hṛṣṭaḥ pratyuvāca mahīpatim.. 17..
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः॥ १८॥
युवाम् असंख्येय-गुणौ भ्रातरौ मिथिला-ईश्वरौ। ऋषयः राज-सङ्घाः च भवद्भ्याम् अभिपूजिताः॥ १८॥
yuvām asaṃkhyeya-guṇau bhrātarau mithilā-īśvarau. ṛṣayaḥ rāja-saṅghāḥ ca bhavadbhyām abhipūjitāḥ.. 18..
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत्॥ १९॥
स्वस्ति प्राप्नुहि भद्रम् ते गमिष्यामः स्वम् आलयम्। श्राद्ध-कर्माणि विधिवत् विधास्ये इति च अब्रवीत्॥ १९॥
svasti prāpnuhi bhadram te gamiṣyāmaḥ svam ālayam. śrāddha-karmāṇi vidhivat vidhāsye iti ca abravīt.. 19..
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः॥ २०॥
तम् आपृष्ट्वा नरपतिम् राजा दशरथः तदा। मुनि-इन्द्रौ तौ पुरस्कृत्य जगाम आशु महा-यशाः॥ २०॥
tam āpṛṣṭvā narapatim rājā daśarathaḥ tadā. muni-indrau tau puraskṛtya jagāma āśu mahā-yaśāḥ.. 20..
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्॥ २१॥
स गत्वा निलयम् राजा श्राद्धम् कृत्वा विधानतः। प्रभाते काल्यम् उत्थाय चक्रे गोदानम् उत्तमम्॥ २१॥
sa gatvā nilayam rājā śrāddham kṛtvā vidhānataḥ. prabhāte kālyam utthāya cakre godānam uttamam.. 21..
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः॥ २२॥
गवाम् शत-सहस्रम् च ब्राह्मणेभ्यः नराधिपः। एकैकशस् ददौ राजा पुत्रान् उद्दिश्य धर्मतः॥ २२॥
gavām śata-sahasram ca brāhmaṇebhyaḥ narādhipaḥ. ekaikaśas dadau rājā putrān uddiśya dharmataḥ.. 22..
सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः॥ २३॥
सुवर्ण-शृङ्ग्यः सम्पन्नाः स वत्साः कांस्य-दोहनाः। गवाम् शत-सहस्राणि चत्वारि पुरुष-ऋषभः॥ २३॥
suvarṇa-śṛṅgyaḥ sampannāḥ sa vatsāḥ kāṃsya-dohanāḥ. gavām śata-sahasrāṇi catvāri puruṣa-ṛṣabhaḥ.. 23..
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः॥ २४॥
वित्तम् अन्यत् च सु बहु द्विजेभ्यः रघुनन्दनः। ददौ गो-दानम् उद्दिश्य पुत्राणाम् पुत्र-वत्सलः॥ २४॥
vittam anyat ca su bahu dvijebhyaḥ raghunandanaḥ. dadau go-dānam uddiśya putrāṇām putra-vatsalaḥ.. 24..
स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः॥ २५॥
स सुतैः कृत-गो-दानैः वृतः सन् नृपतिः तदा। लोकपालैः इव आभाति वृतः सौम्यः प्रजापतिः॥ २५॥
sa sutaiḥ kṛta-go-dānaiḥ vṛtaḥ san nṛpatiḥ tadā. lokapālaiḥ iva ābhāti vṛtaḥ saumyaḥ prajāpatiḥ.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvisaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In