This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रिसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe trisaptatitamaḥ sargaḥ ..1..
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्॥ १॥
यस्मिन् तु दिवसे राजा चक्रे गोदानम् उत्तमम्। तस्मिन् तु दिवसे वीरः युधाजित् समुपेयिवान्॥ १॥
yasmin tu divase rājā cakre godānam uttamam. tasmin tu divase vīraḥ yudhājit samupeyivān.. 1..
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥ २॥
पुत्रः केकय-राजस्य साक्षात् भरत-मातुलः। दृष्ट्वा पृष्ट्वा च कुशलम् राजानम् इदम् अब्रवीत्॥ २॥
putraḥ kekaya-rājasya sākṣāt bharata-mātulaḥ. dṛṣṭvā pṛṣṭvā ca kuśalam rājānam idam abravīt.. 2..
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ ३॥
केकय-अधिपतिः राजा स्नेहात् कुशलम् अब्रवीत्। येषाम् कुशल-कामः असि तेषाम् सम्प्रति अनामयम्॥ ३॥
kekaya-adhipatiḥ rājā snehāt kuśalam abravīt. yeṣām kuśala-kāmaḥ asi teṣām samprati anāmayam.. 3..
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥ ४॥
स्वस्रीयम् मम राज-इन्द्र द्रष्टु-कामः महीपतिः। तद्-अर्थम् उपयातः अहम् अयोध्याम् रघुनन्दन॥ ४॥
svasrīyam mama rāja-indra draṣṭu-kāmaḥ mahīpatiḥ. tad-artham upayātaḥ aham ayodhyām raghunandana.. 4..
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते॥ ५॥
श्रुत्वा तु अहम् अयोध्यायाम् विवाह-अर्थम् तव आत्मजान्। मिथिलाम् उपयातान् तु त्वया सह महीपते॥ ५॥
śrutvā tu aham ayodhyāyām vivāha-artham tava ātmajān. mithilām upayātān tu tvayā saha mahīpate.. 5..
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ ६॥
त्वरया अभ्युपयातः अहम् द्रष्टु-कामः स्वसुः सुतम्। अथ राजा दशरथः प्रिय-अतिथिम् उपस्थितम्॥ ६॥
tvarayā abhyupayātaḥ aham draṣṭu-kāmaḥ svasuḥ sutam. atha rājā daśarathaḥ priya-atithim upasthitam.. 6..
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ ७॥
दृष्ट्वा परम-सत्कारैः पूजन-अर्हम् अपूजयत्। ततस् ताम् उषितः रात्रिम् सह पुत्रैः महात्मभिः॥ ७॥
dṛṣṭvā parama-satkāraiḥ pūjana-arham apūjayat. tatas tām uṣitaḥ rātrim saha putraiḥ mahātmabhiḥ.. 7..
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥ ८॥
प्रभाते पुनर् उत्थाय कृत्वा कर्माणि तत्त्व-विद् । ऋषीन् तदा पुरस्कृत्य यज्ञ-वाटम् उपागमत्॥ ८॥
prabhāte punar utthāya kṛtvā karmāṇi tattva-vid . ṛṣīn tadā puraskṛtya yajña-vāṭam upāgamat.. 8..
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमंगलः॥ ९॥
युक्ते मुहूर्ते विजये सर्व-आभरण-भूषितैः। भ्रातृभिः सहितः रामः कृत-कौतुकमंगलः॥ ९॥
yukte muhūrte vijaye sarva-ābharaṇa-bhūṣitaiḥ. bhrātṛbhiḥ sahitaḥ rāmaḥ kṛta-kautukamaṃgalaḥ.. 9..
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्॥ १०॥
वसिष्ठम् पुरतस् कृत्वा महा-ऋषीन् अपरान् अपि। वसिष्ठः भगवान् एत्य वैदेहम् इदम् अब्रवीत्॥ १०॥
vasiṣṭham puratas kṛtvā mahā-ṛṣīn aparān api. vasiṣṭhaḥ bhagavān etya vaideham idam abravīt.. 10..
राजा दशरथो राजन् कृतकौतुकमंगलैः। पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते॥ ११॥
राजा दशरथः राजन् कृत-कौतुकमंगलैः। पुत्रैः नर-वर-श्रेष्ठः दातारम् अभिकाङ्क्षते॥ ११॥
rājā daśarathaḥ rājan kṛta-kautukamaṃgalaiḥ. putraiḥ nara-vara-śreṣṭhaḥ dātāram abhikāṅkṣate.. 11..
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्॥ १२॥
दातृ-प्रतिग्रहीतृभ्याम् सर्व-अर्थाः सम्भवन्ति हि। स्वधर्मम् प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम्॥ १२॥
dātṛ-pratigrahītṛbhyām sarva-arthāḥ sambhavanti hi. svadharmam pratipadyasva kṛtvā vaivāhyam uttamam.. 12..
इत्युक्तः परमोदारो वसिष्ठेन महात्मना। प्रत्युवाच महातेजा वाक्यं परमधर्मवित्॥ १३॥
इति उक्तः परम-उदारः वसिष्ठेन महात्मना। प्रत्युवाच महा-तेजाः वाक्यम् परम-धर्म-विद्॥ १३॥
iti uktaḥ parama-udāraḥ vasiṣṭhena mahātmanā. pratyuvāca mahā-tejāḥ vākyam parama-dharma-vid.. 13..
कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव॥ १४॥
कः स्थितः प्रतिहारः मे कस्य आज्ञाम् सम्प्रतीक्षते। स्व-गृहे कः विचारः अस्ति यथा राज्यम् इदम् तव॥ १४॥
kaḥ sthitaḥ pratihāraḥ me kasya ājñām sampratīkṣate. sva-gṛhe kaḥ vicāraḥ asti yathā rājyam idam tava.. 14..
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः॥ १५॥
कृत-कौतुक-सर्वस्वाः वेदि-मूलम् उपागताः। मम कन्याः मुनि-श्रेष्ठ दीप्ताः बह्नेः इव अर्चिषः॥ १५॥
kṛta-kautuka-sarvasvāḥ vedi-mūlam upāgatāḥ. mama kanyāḥ muni-śreṣṭha dīptāḥ bahneḥ iva arciṣaḥ.. 15..
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते॥ १६॥
सद्यस् अहम् त्वद्-प्रतीक्षः अस्मि वेद्याम् अस्याम् प्रतिष्ठितः। अविघ्नम् क्रियताम् सर्वम् किमर्थम् हि विलम्ब्यते॥ १६॥
sadyas aham tvad-pratīkṣaḥ asmi vedyām asyām pratiṣṭhitaḥ. avighnam kriyatām sarvam kimartham hi vilambyate.. 16..
तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि॥ १७॥
तत् वाक्यम् जनकेन उक्तम् श्रुत्वा दशरथः तदा। प्रवेशयामास सुतान् सर्वान् ऋषि-गणान् अपि॥ १७॥
tat vākyam janakena uktam śrutvā daśarathaḥ tadā. praveśayāmāsa sutān sarvān ṛṣi-gaṇān api.. 17..
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्। कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक॥ १८॥
ततस् राजा विदेहानाम् वसिष्ठम् इदम् अब्रवीत्। कारयस्व ऋषे सर्वाम् ऋषिभिः सह धार्मिक॥ १८॥
tatas rājā videhānām vasiṣṭham idam abravīt. kārayasva ṛṣe sarvām ṛṣibhiḥ saha dhārmika.. 18..
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः॥ १९॥
रामस्य लोक-रामस्य क्रियाम् वैवाहिकीम् प्रभो। तथा इति उक्त्वा तु जनकम् वसिष्ठः भगवान् ऋषिः॥ १९॥
rāmasya loka-rāmasya kriyām vaivāhikīm prabho. tathā iti uktvā tu janakam vasiṣṭhaḥ bhagavān ṛṣiḥ.. 19..
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्। प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः॥ २०॥
विश्वामित्रम् पुरस्कृत्य शतानन्दम् च धार्मिकम्। प्रपा-मध्ये तु विधिवत् वेदिम् कृत्वा महा-तपाः॥ २०॥
viśvāmitram puraskṛtya śatānandam ca dhārmikam. prapā-madhye tu vidhivat vedim kṛtvā mahā-tapāḥ.. 20..
अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः। सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः॥ २१॥
अलंचकार ताम् वेदिम् गन्ध-पुष्पैः समन्ततः। सुवर्ण-पालिकाभिः च चित्र-कुम्भैः च स अङ्कुरैः॥ २१॥
alaṃcakāra tām vedim gandha-puṣpaiḥ samantataḥ. suvarṇa-pālikābhiḥ ca citra-kumbhaiḥ ca sa aṅkuraiḥ.. 21..
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः। शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः॥ २२॥
अङ्कुर-आढ्यैः शरावैः च धूप-पात्रैः स धूपकैः। शङ्ख-पात्रैः स्रुवैः स्रग्भिः पात्रैः अर्घ्य-आदि-पूजितैः॥ २२॥
aṅkura-āḍhyaiḥ śarāvaiḥ ca dhūpa-pātraiḥ sa dhūpakaiḥ. śaṅkha-pātraiḥ sruvaiḥ sragbhiḥ pātraiḥ arghya-ādi-pūjitaiḥ.. 22..
लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः। दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्॥ २३॥
लाज-पूर्णैः च पात्रीभिः अक्षतैः अपि संस्कृतैः। दर्भैः समैः समास्तीर्य विधिवत् मन्त्र-पूर्वकम्॥ २३॥
lāja-pūrṇaiḥ ca pātrībhiḥ akṣataiḥ api saṃskṛtaiḥ. darbhaiḥ samaiḥ samāstīrya vidhivat mantra-pūrvakam.. 23..
अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्। जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः॥ २४॥
अग्निम् आधाय तम् वेद्याम् विधि-मन्त्र-पुरस्कृतम्। जुहाव अग्नौ महा-तेजाः वसिष्ठः मुनि-पुंगवः॥ २४॥
agnim ādhāya tam vedyām vidhi-mantra-puraskṛtam. juhāva agnau mahā-tejāḥ vasiṣṭhaḥ muni-puṃgavaḥ.. 24..
ततः सीतां समानीय सर्वाभरणभूषिताम्। समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा॥ २५॥
ततस् सीताम् समानीय सर्व-आभरण-भूषिताम्। समक्षम् अग्नेः संस्थाप्य राघव-अभिमुखे तदा॥ २५॥
tatas sītām samānīya sarva-ābharaṇa-bhūṣitām. samakṣam agneḥ saṃsthāpya rāghava-abhimukhe tadā.. 25..
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्। इयं सीता मम सुता सहधर्मचरी तव॥ २६॥
अब्रवीत् जनकः राजा कौसल्या-आनन्द-वर्धनम्। इयम् सीता मम सुता सहधर्मचरी तव॥ २६॥
abravīt janakaḥ rājā kausalyā-ānanda-vardhanam. iyam sītā mama sutā sahadharmacarī tava.. 26..
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। पतिव्रता महाभागा छायेवानुगता सदा॥ २७॥
प्रतीच्छ च एनाम् भद्रम् ते पाणिम् गृह्णीष्व पाणिना। पतिव्रता महाभागा छाया इव अनुगता सदा॥ २७॥
pratīccha ca enām bhadram te pāṇim gṛhṇīṣva pāṇinā. pativratā mahābhāgā chāyā iva anugatā sadā.. 27..
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा। साधुसाध्विति देवानामृषीणां वदतां तदा॥ २८॥
इति उक्त्वा प्राक्षिपत् राजा मन्त्र-पूतम् जलम् तदा। साधु-साधु इति देवानाम् ऋषीणाम् वदताम् तदा॥ २८॥
iti uktvā prākṣipat rājā mantra-pūtam jalam tadā. sādhu-sādhu iti devānām ṛṣīṇām vadatām tadā.. 28..
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्। एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्॥ २९॥
देव-दुन्दुभि-निर्घोषः पुष्प-वर्षः महान् अभूत्। एवम् दत्त्वा सुताम् सीताम् मन्त्र-उदक-पुरस्कृताम्॥ २९॥
deva-dundubhi-nirghoṣaḥ puṣpa-varṣaḥ mahān abhūt. evam dattvā sutām sītām mantra-udaka-puraskṛtām.. 29..
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः। लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया॥ ३०॥
अब्रवीत् जनकः राजा हर्षेण अभिपरिप्लुतः। लक्ष्मण आगच्छ भद्रम् ते ऊर्मिलाम् उद्यताम् मया॥ ३०॥
abravīt janakaḥ rājā harṣeṇa abhipariplutaḥ. lakṣmaṇa āgaccha bhadram te ūrmilām udyatām mayā.. 30..
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत॥ ३१॥
प्रतीच्छ पाणिम् गृह्णीष्व मा भूत् कालस्य पर्ययः। तम् एवम् उक्त्वा जनकः भरतम् च अभ्यभाषत॥ ३१॥
pratīccha pāṇim gṛhṇīṣva mā bhūt kālasya paryayaḥ. tam evam uktvā janakaḥ bharatam ca abhyabhāṣata.. 31..
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः॥ ३२॥
गृहाण पाणिम् माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नम् च अपि धर्म-आत्मा अब्रवीत् मिथिला-ईश्वरः॥ ३२॥
gṛhāṇa pāṇim māṇḍavyāḥ pāṇinā raghunandana. śatrughnam ca api dharma-ātmā abravīt mithilā-īśvaraḥ.. 32..
श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः॥ ३३॥
श्रुत-कीर्तेः महा-बाहो पाणिम् गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याः च सर्वे सु चरित-व्रताः॥ ३३॥
śruta-kīrteḥ mahā-bāho pāṇim gṛhṇīṣva pāṇinā. sarve bhavantaḥ saumyāḥ ca sarve su carita-vratāḥ.. 33..
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्॥ ३४॥
पत्नीभिः सन्तु काकुत्स्थाः मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन्॥ ३४॥
patnībhiḥ santu kākutsthāḥ mā bhūt kālasya paryayaḥ. janakasya vacaḥ śrutvā pāṇīn pāṇibhiḥ aspṛśan.. 34..
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः। अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च॥ ३५॥
चत्वारः ते चतसॄणाम् वसिष्ठस्य मते स्थिताः। अग्निम् प्रदक्षिणम् कृत्वा वेदिम् राजानम् एव च॥ ३५॥
catvāraḥ te catasṝṇām vasiṣṭhasya mate sthitāḥ. agnim pradakṣiṇam kṛtvā vedim rājānam eva ca.. 35..
ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः। यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्॥ ३६॥
ऋषीन् च अपि महात्मानः सह भार्याः रघूद्वहाः। यथा उक्तेन ततस् चक्रुः विवाहम् विधि-पूर्वकम्॥ ३६॥
ṛṣīn ca api mahātmānaḥ saha bhāryāḥ raghūdvahāḥ. yathā uktena tatas cakruḥ vivāham vidhi-pūrvakam.. 36..
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ३७॥
पुष्प-वृष्टिः महती आसीत् अन्तरिक्षात् सु भास्वरा। दिव्य-दुन्दुभि-निर्घोषैः गीत-वादित्र-निःस्वनैः॥ ३७॥
puṣpa-vṛṣṭiḥ mahatī āsīt antarikṣāt su bhāsvarā. divya-dundubhi-nirghoṣaiḥ gīta-vāditra-niḥsvanaiḥ.. 37..
ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥ ३८॥
ननृतुः च अप्सरः-सङ्घाः गन्धर्वाः च जगुः कलम्। विवाहे रघु-मुख्यानाम् तत् अद्भुतम् अदृश्यत॥ ३८॥
nanṛtuḥ ca apsaraḥ-saṅghāḥ gandharvāḥ ca jaguḥ kalam. vivāhe raghu-mukhyānām tat adbhutam adṛśyata.. 38..
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते। त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः॥ ३९॥
ईदृशे वर्तमाने तु तूर्य-उद्घुष्ट-निनादिते। त्रिस् अग्निम् ते परिक्रम्य ऊहुः भार्याः महा-ओजसः॥ ३९॥
īdṛśe vartamāne tu tūrya-udghuṣṭa-ninādite. tris agnim te parikramya ūhuḥ bhāryāḥ mahā-ojasaḥ.. 39..
अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः॥ ४०॥
अथ उपकार्यम् जग्मुः ते स भार्याः रघुनन्दनाः। राजा अपि अनुययौ पश्यन् स ऋषि-सङ्घः स बान्धवः॥ ४०॥
atha upakāryam jagmuḥ te sa bhāryāḥ raghunandanāḥ. rājā api anuyayau paśyan sa ṛṣi-saṅghaḥ sa bāndhavaḥ.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trisaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In