This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुःसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe catuḥsaptatitamaḥ sargaḥ ..1..
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्॥ १॥
अथ रात्र्याम् व्यतीतायाम् विश्वामित्रः महा-मुनिः। आपृष्ट्वा तौ च राजानौ जगाम उत्तर-पर्वतम्॥ १॥
atha rātryām vyatītāyām viśvāmitraḥ mahā-muniḥ. āpṛṣṭvā tau ca rājānau jagāma uttara-parvatam.. 1..
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्। आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम्॥ २॥
विश्वामित्रे गते राजा वैदेहम् मिथिला-अधिपम्। आपृष्ट्वा एव जगाम आशु राजा दशरथः पुरीम्॥ २॥
viśvāmitre gate rājā vaideham mithilā-adhipam. āpṛṣṭvā eva jagāma āśu rājā daśarathaḥ purīm.. 2..
अथ राजा विदेहानां ददौ कन्याधनं बहु। गवां शतसहस्राणि बहूनि मिथिलेश्वरः॥ ३॥
अथ राजा विदेहानाम् ददौ कन्याधनम् बहु। गवाम् शत-सहस्राणि बहूनि मिथिला-ईश्वरः॥ ३॥
atha rājā videhānām dadau kanyādhanam bahu. gavām śata-sahasrāṇi bahūni mithilā-īśvaraḥ.. 3..
कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च। हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्॥ ४॥
कम्बलानाम् च मुख्यानाम् क्षौमान् कोटि-अम्बराणि च। हस्ति-अश्व-रथ-पादातम् दिव्य-रूपम् सु अलंकृतम्॥ ४॥
kambalānām ca mukhyānām kṣaumān koṭi-ambarāṇi ca. hasti-aśva-ratha-pādātam divya-rūpam su alaṃkṛtam.. 4..
ददौ कन्याशतं तासां दासीदासमनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च॥ ५॥
ददौ कन्या-शतम् तासाम् दासी-दासम् अनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च॥ ५॥
dadau kanyā-śatam tāsām dāsī-dāsam anuttamam. hiraṇyasya suvarṇasya muktānām vidrumasya ca.. 5..
ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्। दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्॥ ६॥
ददौ राजा सु संहृष्टः कन्याधनम् अनुत्तमम्। दत्त्वा बहुविधम् राजा समनुज्ञाप्य पार्थिवम्॥ ६॥
dadau rājā su saṃhṛṣṭaḥ kanyādhanam anuttamam. dattvā bahuvidham rājā samanujñāpya pārthivam.. 6..
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः। राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः॥ ७॥
प्रविवेश स्व-निलयम् मिथिलाम् मिथिला-ईश्वरः। राजा अपि अयोध्या-अधिपतिः सह पुत्रैः महात्मभिः॥ ७॥
praviveśa sva-nilayam mithilām mithilā-īśvaraḥ. rājā api ayodhyā-adhipatiḥ saha putraiḥ mahātmabhiḥ.. 7..
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः। गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम्॥ ८॥
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल-अनुगः। गच्छन्तम् तु नर-व्याघ्रम् स ऋषि-सङ्घम् स राघवम्॥ ८॥
ṛṣīn sarvān puraskṛtya jagāma sa bala-anugaḥ. gacchantam tu nara-vyāghram sa ṛṣi-saṅgham sa rāghavam.. 8..
घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः। भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्॥ ९॥
घोराः तु पक्षिणः वाचः व्याहरन्ति समन्ततः। भौमाः च एव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्॥ ९॥
ghorāḥ tu pakṣiṇaḥ vācaḥ vyāharanti samantataḥ. bhaumāḥ ca eva mṛgāḥ sarve gacchanti sma pradakṣiṇam.. 9..
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः॥ १०॥
तान् दृष्ट्वा राज-शार्दूलः वसिष्ठम् पर्यपृच्छत। असौम्याः पक्षिणः घोराः मृगाः च अपि प्रदक्षिणाः॥ १०॥
tān dṛṣṭvā rāja-śārdūlaḥ vasiṣṭham paryapṛcchata. asaumyāḥ pakṣiṇaḥ ghorāḥ mṛgāḥ ca api pradakṣiṇāḥ.. 10..
किमिदं हृदयोत्कम्पि मनो मम विषीदति। राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः॥ ११॥
किम् इदम् हृदय-उत्कम्पि मनः मम विषीदति। राज्ञः दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः॥ ११॥
kim idam hṛdaya-utkampi manaḥ mama viṣīdati. rājñaḥ daśarathasya etat śrutvā vākyam mahān ṛṣiḥ.. 11..
उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्। उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्॥ १२॥
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम्। उपस्थितम् भयम् घोरम् दिव्यम् पक्षि-मुखात् च्युतम्॥ १२॥
uvāca madhurām vāṇīm śrūyatām asya yat phalam. upasthitam bhayam ghoram divyam pakṣi-mukhāt cyutam.. 12..
मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्। तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह॥ १३॥
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम्। तेषाम् संवदताम् तत्र वायुः प्रादुर्बभूव ह॥ १३॥
mṛgāḥ praśamayanti ete saṃtāpaḥ tyajyatām ayam. teṣām saṃvadatām tatra vāyuḥ prādurbabhūva ha.. 13..
कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्। तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः॥ १४॥
कम्पयन् मेदिनीम् सर्वाम् पातयन् च महा-द्रुमान्। तमसा संवृतः सूर्यः सर्वे न अवेदिषुः दिशः॥ १४॥
kampayan medinīm sarvām pātayan ca mahā-drumān. tamasā saṃvṛtaḥ sūryaḥ sarve na avediṣuḥ diśaḥ.. 14..
भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम्। वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा॥ १५॥
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम्। वसिष्ठः ऋषयः च अन्ये राजा च स सुतः तदा॥ १५॥
bhasmanā ca āvṛtam sarvam sammūḍham iva tat balam. vasiṣṭhaḥ ṛṣayaḥ ca anye rājā ca sa sutaḥ tadā.. 15..
ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः॥ १६॥
स संज्ञाः इव तत्र आसन् सर्वम् अन्यत् विचेतनम्। तस्मिन् तमसि घोरे तु भस्म-छन्ना इव सा चमूः॥ १६॥
sa saṃjñāḥ iva tatra āsan sarvam anyat vicetanam. tasmin tamasi ghore tu bhasma-channā iva sā camūḥ.. 16..
ददर्श भीमसंकाशं जटामण्डलधारिणम्। भार्गवं जामदग्न्येयं राजा राजविमर्दनम्॥ १७॥
ददर्श भीम-संकाशम् जटा-मण्डल-धारिणम्। भार्गवम् जामदग्न्येयम् राजा राज-विमर्दनम्॥ १७॥
dadarśa bhīma-saṃkāśam jaṭā-maṇḍala-dhāriṇam. bhārgavam jāmadagnyeyam rājā rāja-vimardanam.. 17..
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्। ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः॥ १८॥
कैलासम् इव दुर्धर्षम् कालाग्निम् इव दुःसहम्। ज्वलन्तम् इव तेजोभिः दुर्निरीक्ष्यम् पृथग्जनैः॥ १८॥
kailāsam iva durdharṣam kālāgnim iva duḥsaham. jvalantam iva tejobhiḥ durnirīkṣyam pṛthagjanaiḥ.. 18..
स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम्। प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम्॥ १९॥
स्कन्धे च आसज्ज्य परशुम् धनुः-विद्युत्-गण-उपमम्। प्रगृह्य शरम् उग्रम् च त्रिपुर-घ्नम् यथा शिवम्॥ १९॥
skandhe ca āsajjya paraśum dhanuḥ-vidyut-gaṇa-upamam. pragṛhya śaram ugram ca tripura-ghnam yathā śivam.. 19..
तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः॥ २०॥
तम् दृष्ट्वा भीम-संकाशम् ज्वलन्तम् इव पावकम्। वसिष्ठ-प्रमुखाः विप्राः जप-होम-परायणाः॥ २०॥
tam dṛṣṭvā bhīma-saṃkāśam jvalantam iva pāvakam. vasiṣṭha-pramukhāḥ viprāḥ japa-homa-parāyaṇāḥ.. 20..
संगता मुनयः सर्वे संजजल्पुरथो मिथः। कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति॥ २१॥
संगताः मुनयः सर्वे संजजल्पुः अथो मिथस्। कच्चित् पितृ-वध-अमर्षी क्षत्रम् ना उत्सादयिष्यति॥ २१॥
saṃgatāḥ munayaḥ sarve saṃjajalpuḥ atho mithas. kaccit pitṛ-vadha-amarṣī kṣatram nā utsādayiṣyati.. 21..
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः। क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्॥ २२॥
पूर्वम् क्षत्र-वधम् कृत्वा गत-मन्युः गत-ज्वरः। क्षत्रस्य उत्सादनम् भूयस् न खलु अस्य चिकीर्षितम्॥ २२॥
pūrvam kṣatra-vadham kṛtvā gata-manyuḥ gata-jvaraḥ. kṣatrasya utsādanam bhūyas na khalu asya cikīrṣitam.. 22..
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्। ऋषयो राम रामेति मधुरं वाक्यमब्रुवन्॥ २३॥
एवम् उक्त्वा अर्घ्यम् आदाय भार्गवम् भीम-दर्शनम्। ऋषयः राम राम इति मधुरम् वाक्यम् अब्रुवन्॥ २३॥
evam uktvā arghyam ādāya bhārgavam bhīma-darśanam. ṛṣayaḥ rāma rāma iti madhuram vākyam abruvan.. 23..
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत॥ २४॥
प्रतिगृह्य तु ताम् पूजाम् ऋषि-दत्ताम् प्रतापवान्। रामम् दाशरथिम् रामः जामदग्न्यः अभ्यभाषत॥ २४॥
pratigṛhya tu tām pūjām ṛṣi-dattām pratāpavān. rāmam dāśarathim rāmaḥ jāmadagnyaḥ abhyabhāṣata.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuḥsaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In