This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षट्सप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣaṭsaptatitamaḥ sargaḥ ..1..
श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा। गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्॥ १॥
श्रुत्वा तु जामदग्न्यस्य वाक्यम् दाशरथिः तदा। गौरवात् यन्त्रित-कथः पितुः रामम् अथा अब्रवीत्॥ १॥
śrutvā tu jāmadagnyasya vākyam dāśarathiḥ tadā. gauravāt yantrita-kathaḥ pituḥ rāmam athā abravīt.. 1..
कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव। अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः॥ २॥
कृतवान् असि यत् कर्म श्रुतवान् अस्मि भार्गव। अनुरुध्यामहे ब्रह्मन् पितुः आनृण्यम् आस्थितः॥ २॥
kṛtavān asi yat karma śrutavān asmi bhārgava. anurudhyāmahe brahman pituḥ ānṛṇyam āsthitaḥ.. 2..
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव। अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम्॥ ३॥
वीर्य-हीनम् इव अशक्तम् क्षत्र-धर्मेण भार्गव। अवजानासि मे तेजः पश्य मे अद्य पराक्रमम्॥ ३॥
vīrya-hīnam iva aśaktam kṣatra-dharmeṇa bhārgava. avajānāsi me tejaḥ paśya me adya parākramam.. 3..
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्। शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः॥ ४॥
इति उक्त्वा राघवः क्रुद्धः भार्गवस्य वर-आयुधम्। शरम् च प्रतिजग्राह हस्तात् लघु-पराक्रमः॥ ४॥
iti uktvā rāghavaḥ kruddhaḥ bhārgavasya vara-āyudham. śaram ca pratijagrāha hastāt laghu-parākramaḥ.. 4..
आरोप्य स धनू रामः शरं सज्यं चकार ह। जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम्॥ ५॥
आरोप्य स धनुः रामः शरम् सज्यम् चकार ह। जामदग्न्यम् ततस् रामम् रामः क्रुद्धः अब्रवीत् इदम्॥ ५॥
āropya sa dhanuḥ rāmaḥ śaram sajyam cakāra ha. jāmadagnyam tatas rāmam rāmaḥ kruddhaḥ abravīt idam.. 5..
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च। तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्॥ ६॥
ब्राह्मणः असि इति पूज्यः मे विश्वामित्र-कृतेन च। तस्मात् शक्तः न ते राम मोक्तुम् प्राण-हरम् शरम्॥ ६॥
brāhmaṇaḥ asi iti pūjyaḥ me viśvāmitra-kṛtena ca. tasmāt śaktaḥ na te rāma moktum prāṇa-haram śaram.. 6..
इमां वा त्वद्गतिं राम तपोबलसमर्जितान्। लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः॥ ७॥
इमाम् वा त्वद्-गतिम् राम तपः-बल-समर्जितान्। लोकान् अप्रतिमान् वा अपि हनिष्यामि इति मे मतिः॥ ७॥
imām vā tvad-gatim rāma tapaḥ-bala-samarjitān. lokān apratimān vā api haniṣyāmi iti me matiḥ.. 7..
न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः। मोघः पतति वीर्येण बलदर्पविनाशनः॥ ८॥
न हि अयम् वैष्णवः दिव्यः शरः परपुरंजयः। मोघः पतति वीर्येण बल-दर्प-विनाशनः॥ ८॥
na hi ayam vaiṣṇavaḥ divyaḥ śaraḥ parapuraṃjayaḥ. moghaḥ patati vīryeṇa bala-darpa-vināśanaḥ.. 8..
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः। पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः॥ ९॥
वर-आयुध-धरम् रामम् द्रष्टुम् स ऋषि-गणाः सुराः। पितामहम् पुरस्कृत्य समेताः तत्र सर्वशस्॥ ९॥
vara-āyudha-dharam rāmam draṣṭum sa ṛṣi-gaṇāḥ surāḥ. pitāmaham puraskṛtya sametāḥ tatra sarvaśas.. 9..
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः। यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम्॥ १०॥
गन्धर्व-अप्सरसः च एव सिद्ध-चारण-किन्नराः। यक्ष-राक्षस-नागाः च तत् द्रष्टुम् महत् अद्भुतम्॥ १०॥
gandharva-apsarasaḥ ca eva siddha-cāraṇa-kinnarāḥ. yakṣa-rākṣasa-nāgāḥ ca tat draṣṭum mahat adbhutam.. 10..
जडीकृते तदा लोके रामे वरधनुर्धरे। निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत॥ ११॥
जडीकृते तदा लोके रामे वर-धनुः-धरे। निर्वीर्यः जामदग्न्यः असौ रामः रामम् उदैक्षत॥ ११॥
jaḍīkṛte tadā loke rāme vara-dhanuḥ-dhare. nirvīryaḥ jāmadagnyaḥ asau rāmaḥ rāmam udaikṣata.. 11..
तेजोभिर्गतवीर्यत्वाज्जामदग्न्यो जडीकृतः। रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह॥ १२॥
तेजोभिः गत-वीर्य-त्वात् जामदग्न्यः जडीकृतः। रामम् कमल-पत्र-अक्षम् मन्दम् मन्दम् उवाच ह॥ १२॥
tejobhiḥ gata-vīrya-tvāt jāmadagnyaḥ jaḍīkṛtaḥ. rāmam kamala-patra-akṣam mandam mandam uvāca ha.. 12..
काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा। विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्॥ १३॥
काश्यपाय मया दत्ता यदा पूर्वम् वसुंधरा। विषये मे न वस्तव्यम् इति माम् काश्यपः अब्रवीत्॥ १३॥
kāśyapāya mayā dattā yadā pūrvam vasuṃdharā. viṣaye me na vastavyam iti mām kāśyapaḥ abravīt.. 13..
सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्। तदाप्रभृति काकुत्स्थ कृता मे काश्यपस्य ह॥ १४॥
सः अहम् गुरु-वचः कुर्वन् पृथिव्याम् न वसे निशाम्। तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह॥ १४॥
saḥ aham guru-vacaḥ kurvan pṛthivyām na vase niśām. tadā prabhṛti kākutstha kṛtā me kāśyapasya ha.. 14..
तामिमां मद्गतिं वीर हन्तुं नार्हसि राघव। मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्॥ १५॥
ताम् इमाम् मद्-गतिम् वीर हन्तुम् ना अर्हसि राघव। मनोजवम् गमिष्यामि महेन्द्रम् पर्वत-उत्तमम्॥ १५॥
tām imām mad-gatim vīra hantum nā arhasi rāghava. manojavam gamiṣyāmi mahendram parvata-uttamam.. 15..
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया। जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः॥ १६॥
लोकाः तु अप्रतिमाः राम निर्जिताः तपसा मया। जहि तान् शर-मुख्येन मा भूत् कालस्य पर्ययः॥ १६॥
lokāḥ tu apratimāḥ rāma nirjitāḥ tapasā mayā. jahi tān śara-mukhyena mā bhūt kālasya paryayaḥ.. 16..
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्। धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप॥ १७॥
अक्षय्यम् मधु-हन्तारम् जानामि त्वाम् सुरेश्वरम्। धनुषः अस्य परामर्शात् स्वस्ति ते अस्तु परंतप॥ १७॥
akṣayyam madhu-hantāram jānāmi tvām sureśvaram. dhanuṣaḥ asya parāmarśāt svasti te astu paraṃtapa.. 17..
एते सुरगणाः सर्वे निरीक्षन्ते समागताः। त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे॥ १८॥
एते सुर-गणाः सर्वे निरीक्षन्ते समागताः। त्वाम् अप्रतिम-कर्माणम् अप्रतिद्वन्द्वम् आहवे॥ १८॥
ete sura-gaṇāḥ sarve nirīkṣante samāgatāḥ. tvām apratima-karmāṇam apratidvandvam āhave.. 18..
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः॥ १९॥
न च इयम् मम काकुत्स्थ व्रीडा भवितुम् अर्हति। त्वया त्रैलोक्य-नाथेन यत् अहम् विमुखीकृतः॥ १९॥
na ca iyam mama kākutstha vrīḍā bhavitum arhati. tvayā trailokya-nāthena yat aham vimukhīkṛtaḥ.. 19..
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्॥ २०॥
शरम् अप्रतिमम् राम मोक्तुम् अर्हसि सुव्रत। शर-मोक्षे गमिष्यामि महेन्द्रम् पर्वत-उत्तमम्॥ २०॥
śaram apratimam rāma moktum arhasi suvrata. śara-mokṣe gamiṣyāmi mahendram parvata-uttamam.. 20..
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्। रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्॥ २१॥
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्। रामः दाशरथिः श्रीमान् चिक्षेप शरम् उत्तमम्॥ २१॥
tathā bruvati rāme tu jāmadagnye pratāpavān. rāmaḥ dāśarathiḥ śrīmān cikṣepa śaram uttamam.. 21..
स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान्। जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्॥ २२॥
स हतान् दृश्य रामेण स्वान् लोकान् तपसा अर्जितान्। जामदग्न्यः जगाम आशु महेन्द्रम् पर्वत-उत्तमम्॥ २२॥
sa hatān dṛśya rāmeṇa svān lokān tapasā arjitān. jāmadagnyaḥ jagāma āśu mahendram parvata-uttamam.. 22..
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा। सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्॥ २३॥
ततस् वितिमिराः सर्वाः दिशः च उपदिशः तथा। सुराः स ऋषि-गणाः रामम् प्रशशंसुः उदायुधम्॥ २३॥
tatas vitimirāḥ sarvāḥ diśaḥ ca upadiśaḥ tathā. surāḥ sa ṛṣi-gaṇāḥ rāmam praśaśaṃsuḥ udāyudham.. 23..
रामं दाशरथिं रामो जामदग्न्यः प्रपूजितः। ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः॥ २४॥
रामम् दाशरथिम् रामः जामदग्न्यः प्रपूजितः। ततस् प्रदक्षिणीकृत्य जगाम आत्म-गतिम् प्रभुः॥ २४॥
rāmam dāśarathim rāmaḥ jāmadagnyaḥ prapūjitaḥ. tatas pradakṣiṇīkṛtya jagāma ātma-gatim prabhuḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭsaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In