This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्तसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptasaptatitamaḥ sargaḥ ..1..
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः। वरुणायाप्रमेयाय ददौ हस्ते महायशाः॥ १॥
गते रामे प्रशान्त-आत्मा रामः दाशरथिः धनुः। वरुणाय अप्रमेयाय ददौ हस्ते महा-यशाः॥ १॥
gate rāme praśānta-ātmā rāmaḥ dāśarathiḥ dhanuḥ. varuṇāya aprameyāya dadau haste mahā-yaśāḥ.. 1..
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः॥ २॥
अभिवाद्य ततस् रामः वसिष्ठ-प्रमुखान् ऋषीन्। पितरम् विकलम् दृष्ट्वा प्रोवाच रघुनन्दनः॥ २॥
abhivādya tatas rāmaḥ vasiṣṭha-pramukhān ṛṣīn. pitaram vikalam dṛṣṭvā provāca raghunandanaḥ.. 2..
जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥ ३॥
जामदग्न्यः गतः रामः प्रयातु चतुरंगिणी। अयोध्या-अभिमुखी सेना त्वया नाथेन पालिता॥ ३॥
jāmadagnyaḥ gataḥ rāmaḥ prayātu caturaṃgiṇī. ayodhyā-abhimukhī senā tvayā nāthena pālitā.. 3..
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम्॥ ४॥
रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम्। बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि उपाघ्राय राघवम्॥ ४॥
rāmasya vacanam śrutvā rājā daśarathaḥ sutam. bāhubhyām sampariṣvajya mūrdhni upāghrāya rāghavam.. 4..
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः। पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥ ५॥
गतः रामः इति श्रुत्वा हृष्टः प्रमुदितः नृपः। पुनर् जातम् तदा मेने पुत्रम् आत्मानम् एव च॥ ५॥
gataḥ rāmaḥ iti śrutvā hṛṣṭaḥ pramuditaḥ nṛpaḥ. punar jātam tadā mene putram ātmānam eva ca.. 5..
चोदयामास तां सेनां जगामाशु ततः पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्॥ ६॥
चोदयामास ताम् सेनाम् जगाम आशु ततस् पुरीम्। पताका-ध्वजिनीम् रम्याम् तूर्य-उद्घुष्ट-निनादिताम्॥ ६॥
codayāmāsa tām senām jagāma āśu tatas purīm. patākā-dhvajinīm ramyām tūrya-udghuṣṭa-nināditām.. 6..
सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्। राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः॥ ७॥
सिक्त-राज-पथ-आरम्याम् प्रकीर्ण-कुसुम-उत्कराम्। राज-प्रवेश-सुमुखैः पौरैः मङ्गल-पाणिभिः॥ ७॥
sikta-rāja-patha-āramyām prakīrṇa-kusuma-utkarām. rāja-praveśa-sumukhaiḥ pauraiḥ maṅgala-pāṇibhiḥ.. 7..
सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्। पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८॥
सम्पूर्णाम् प्राविशत् राजा जन-ओघैः समलंकृताम्। पौरैः प्रत्युद्गतः दूरम् द्विजैः च पुर-वासिभिः॥ ८॥
sampūrṇām prāviśat rājā jana-oghaiḥ samalaṃkṛtām. pauraiḥ pratyudgataḥ dūram dvijaiḥ ca pura-vāsibhiḥ.. 8..
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः। प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्॥ ९॥
पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महा-यशाः। प्रविवेश गृहम् राजा हिमवत्-सदृशम् प्रियम्॥ ९॥
putraiḥ anugataḥ śrīmān śrīmadbhiḥ ca mahā-yaśāḥ. praviveśa gṛham rājā himavat-sadṛśam priyam.. 9..
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ १०॥
ननन्द स्व-जनैः राजा गृहे कामैः सु पूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ १०॥
nananda sva-janaiḥ rājā gṛhe kāmaiḥ su pūjitaḥ. kausalyā ca sumitrā ca kaikeyī ca sumadhyamā.. 10..
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम्॥ ११॥
वधू-प्रतिग्रहे युक्ताः याः च अन्याः राज-योषितः। ततस् सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम्॥ ११॥
vadhū-pratigrahe yuktāḥ yāḥ ca anyāḥ rāja-yoṣitaḥ. tatas sītām mahābhāgām ūrmilām ca yaśasvinīm.. 11..
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः। मंगलालापनैर्होमैः शोभिताः क्षौमवाससः॥ १२॥
कुशध्वज-सुते च उभे जगृहुः नृप-योषितः। मंगल-आलापनैः होमैः शोभिताः क्षौम-वाससः॥ १२॥
kuśadhvaja-sute ca ubhe jagṛhuḥ nṛpa-yoṣitaḥ. maṃgala-ālāpanaiḥ homaiḥ śobhitāḥ kṣauma-vāsasaḥ.. 12..
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा॥ १३॥
देवतायतनानि आशु सर्वाः ताः प्रत्यपूजयन्। अभिवाद्य अभिवाद्यान् च सर्वाः राज-सुताः तदा॥ १३॥
devatāyatanāni āśu sarvāḥ tāḥ pratyapūjayan. abhivādya abhivādyān ca sarvāḥ rāja-sutāḥ tadā.. 13..
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥ १४॥
रेमिरे मुदिताः सर्वाः भर्तृभिः मुदिताः रहः। कृत-दाराः कृतास्त्राः च स धनाः स सुहृद्-जनाः॥ १४॥
remire muditāḥ sarvāḥ bhartṛbhiḥ muditāḥ rahaḥ. kṛta-dārāḥ kṛtāstrāḥ ca sa dhanāḥ sa suhṛd-janāḥ.. 14..
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्॥ १५॥
शुश्रूषमाणाः पितरम् वर्तयन्ति नर-ऋषभाः। कस्यचिद् तु अथ कालस्य राजा दशरथः सुतम्॥ १५॥
śuśrūṣamāṇāḥ pitaram vartayanti nara-ṛṣabhāḥ. kasyacid tu atha kālasya rājā daśarathaḥ sutam.. 15..
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक॥ १६॥
भरतम् कैकयी-पुत्रम् अब्रवीत् रघुनन्दनः। अयम् केकय-राजस्य पुत्रः वसति पुत्रक॥ १६॥
bharatam kaikayī-putram abravīt raghunandanaḥ. ayam kekaya-rājasya putraḥ vasati putraka.. 16..
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः॥ १७॥
त्वाम् नेतुम् आगतः वीरः युधाजित् मातुलः तव। श्रुत्वा दशरथस्य एतत् भरतः कैकयी-सुतः॥ १७॥
tvām netum āgataḥ vīraḥ yudhājit mātulaḥ tava. śrutvā daśarathasya etat bharataḥ kaikayī-sutaḥ.. 17..
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्॥ १८॥
गमनाय अभिचक्राम शत्रुघ्न-सहितः तदा। आपृच्छ्य पितरम् शूरः रामम् च अक्लिष्ट-कारिणम्॥ १८॥
gamanāya abhicakrāma śatrughna-sahitaḥ tadā. āpṛcchya pitaram śūraḥ rāmam ca akliṣṭa-kāriṇam.. 18..
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः॥ १९॥
मातॄः च अपि नर-श्रेष्ठः शत्रुघ्न-सहितः ययौ। युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः॥ १९॥
mātṝḥ ca api nara-śreṣṭhaḥ śatrughna-sahitaḥ yayau. yudhājit prāpya bharatam sa śatrughnam praharṣitaḥ.. 19..
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः॥ २०॥
स्व-पुरम् प्राविशत् वीरः पिता तस्य तुतोष ह। गते च भरते रामः लक्ष्मणः च महा-बलः॥ २०॥
sva-puram prāviśat vīraḥ pitā tasya tutoṣa ha. gate ca bharate rāmaḥ lakṣmaṇaḥ ca mahā-balaḥ.. 20..
पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः॥ २१॥
पितरम् देव-संकाशम् पूजयामासतुः तदा। पितुः आज्ञाम् पुरस्कृत्य पौर-कार्याणि सर्वशस्॥ २१॥
pitaram deva-saṃkāśam pūjayāmāsatuḥ tadā. pituḥ ājñām puraskṛtya paura-kāryāṇi sarvaśas.. 21..
चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः॥ २२॥
चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यः मातृ-कार्याणि कृत्वा परम-यन्त्रितः॥ २२॥
cakāra rāmaḥ sarvāṇi priyāṇi ca hitāni ca. mātṛbhyaḥ mātṛ-kāryāṇi kṛtvā parama-yantritaḥ.. 22..
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा॥ २३॥
गुरूणाम् गुरु-कार्याणि काले काले अन्ववैक्षत। एवम् दशरथः प्रीतः ब्राह्मणाः नैगमाः तथा॥ २३॥
gurūṇām guru-kāryāṇi kāle kāle anvavaikṣata. evam daśarathaḥ prītaḥ brāhmaṇāḥ naigamāḥ tathā.. 23..
रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः॥ २४॥
रामस्य शील-वृत्तेन सर्वे विषय-वासिनः। तेषाम् अति यशाः लोके रामः सत्य-पराक्रमः॥ २४॥
rāmasya śīla-vṛttena sarve viṣaya-vāsinaḥ. teṣām ati yaśāḥ loke rāmaḥ satya-parākramaḥ.. 24..
स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून्॥ २५॥
स्वयंभूः इव भूतानाम् बभूव गुणवत्तरः। रामः च सीतया सार्धम् विजहार बहून् ऋतून्॥ २५॥
svayaṃbhūḥ iva bhūtānām babhūva guṇavattaraḥ. rāmaḥ ca sītayā sārdham vijahāra bahūn ṛtūn.. 25..
मनस्वी तद्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृकृता इति॥ २६॥
मनस्वी तद्-गत-मनाः तस्याः हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृ-कृताः इति॥ २६॥
manasvī tad-gata-manāḥ tasyāḥ hṛdi samarpitaḥ. priyā tu sītā rāmasya dārāḥ pitṛ-kṛtāḥ iti.. 26..
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते॥ २७॥
गुणात् रूप-गुणात् च अपि प्रीतिः भूयस् अभिवर्धते। तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते॥ २७॥
guṇāt rūpa-guṇāt ca api prītiḥ bhūyas abhivardhate. tasyāḥ ca bhartā dviguṇam hṛdaye parivartate.. 27..
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ २८॥
अन्तर्गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा। तस्य भूयस् विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीः इव रूपिणी॥ २८॥
antargatam api vyaktam ākhyāti hṛdayam hṛdā. tasya bhūyas viśeṣeṇa maithilī janakātmajā. devatābhiḥ samā rūpe sītā śrīḥ iva rūpiṇī.. 28..
तया स राजर्षिसुतोऽभिकामया। समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः॥ २९॥
तया स राजर्षि-सुतः अभिकामया। समेयिवान् उत्तम-राज-कन्यया। अतीव रामः शुशुभे मुदा अन्वितः विभुः श्रिया विष्णुः इव अमर-ईश्वरः॥ २९॥
tayā sa rājarṣi-sutaḥ abhikāmayā. sameyivān uttama-rāja-kanyayā. atīva rāmaḥ śuśubhe mudā anvitaḥ vibhuḥ śriyā viṣṇuḥ iva amara-īśvaraḥ.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptasaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In