This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे अष्टमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe aṣṭamaḥ sargaḥ ..1..
तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥
तस्य च एवम् प्रभावस्य धर्म-ज्ञस्य महात्मनः । सुत-अर्थम् तप्यमानस्य न आसीत् वंश-करः सुतः ॥१॥
tasya ca evam prabhāvasya dharma-jñasya mahātmanaḥ . suta-artham tapyamānasya na āsīt vaṃśa-karaḥ sutaḥ ..1..
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥
चिन्तयानस्य तस्य एवम् बुद्धिः आसीत् महात्मनः । सुत-अर्थम् वाजिमेधेन किमर्थम् न यजामि अहम् ॥१॥
cintayānasya tasya evam buddhiḥ āsīt mahātmanaḥ . suta-artham vājimedhena kimartham na yajāmi aham ..1..
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥
स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् । मन्त्रिभिः सह धर्म-आत्मा सर्वैः एव कृतात्मभिः ॥१॥
sa niścitām matim kṛtvā yaṣṭavyam iti buddhimān . mantribhiḥ saha dharma-ātmā sarvaiḥ eva kṛtātmabhiḥ ..1..
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम । शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥
ततस् अब्रवीत् महा-तेजाः सुमन्त्रम् मन्त्रि-सत्तम । शीघ्रम् आनय मे सर्वान् गुरून् तान् स पुरोहितान् ॥१॥
tatas abravīt mahā-tejāḥ sumantram mantri-sattama . śīghram ānaya me sarvān gurūn tān sa purohitān ..1..
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥
ततस् सुमन्त्रः त्वरितम् गत्वा त्वरित-विक्रमः । समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१॥
tatas sumantraḥ tvaritam gatvā tvarita-vikramaḥ . samānayat sa tān sarvān samastān vedapāragān ..1..
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् । पुरोहितम् वसिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः ॥१॥
suyajñam vāmadevam ca jābālim atha kāśyapam . purohitam vasiṣṭham ca ye ca api anye dvijottamāḥ ..1..
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥
तान् पूजयित्वा धर्म-आत्मा राजा दशरथः तदा । इदम् धर्म-अर्थ-सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१॥
tān pūjayitvā dharma-ātmā rājā daśarathaḥ tadā . idam dharma-artha-sahitam ślakṣṇam vacanam abravīt ..1..
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥
मम लालप्यमानस्य सुत-अर्थम् न अस्ति वै सुखम् । तद्-अर्थम् हयमेधेन यक्ष्यामि इति मतिः मम ॥१॥
mama lālapyamānasya suta-artham na asti vai sukham . tad-artham hayamedhena yakṣyāmi iti matiḥ mama ..1..
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥
तत् अहम् यष्टुम् इच्छामि शास्त्र-दृष्टेन कर्मणा । कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् ॥१॥
tat aham yaṣṭum icchāmi śāstra-dṛṣṭena karmaṇā . katham prāpsyāmi aham kāmam buddhiḥ atra vicintyatām ..1..
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
ततस् साधु इति तत् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठ-प्रमुखाः सर्वे पार्थिवस्य मुख-ईरितम् ॥१॥
tatas sādhu iti tat vākyam brāhmaṇāḥ pratyapūjayan . vasiṣṭha-pramukhāḥ sarve pārthivasya mukha-īritam ..1..
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥
ऊचुः च परम-प्रीताः सर्वे दशरथम् वचः । सम्भाराः सम्भ्रियन्ताम् ते तुरगः च विमुच्यताम् ॥१॥
ūcuḥ ca parama-prītāḥ sarve daśaratham vacaḥ . sambhārāḥ sambhriyantām te turagaḥ ca vimucyatām ..1..
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥
सरय्वाः च उत्तरे तीरे यज्ञ-भूमिः विधीयताम् । सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् च पार्थिव ॥१॥
sarayvāḥ ca uttare tīre yajña-bhūmiḥ vidhīyatām . sarvathā prāpsyase putrān abhipretān ca pārthiva ..1..
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता । ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥
यस्य ते धार्मिकी बुद्धिः इयम् पुत्र-अर्थम् आगता । ततस् तुष्टः अभवत् राजा श्रुत्वा एतत् द्विज-भाषितम् ॥१॥
yasya te dhārmikī buddhiḥ iyam putra-artham āgatā . tatas tuṣṭaḥ abhavat rājā śrutvā etat dvija-bhāṣitam ..1..
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः । सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥
अमात्यान् अब्रवीत् राजा हर्ष-व्याकुल-लोचनः । सम्भाराः सम्भ्रियन्ताम् मे गुरूणाम् वचनात् इह ॥१॥
amātyān abravīt rājā harṣa-vyākula-locanaḥ . sambhārāḥ sambhriyantām me gurūṇām vacanāt iha ..1..
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥
समर्थ-अधिष्ठितः च अश्वः स उपाध्यायः विमुच्यताम् । सरय्वाः च उत्तरे तीरे यज्ञ-भूमिः विधीयताम् ॥१॥
samartha-adhiṣṭhitaḥ ca aśvaḥ sa upādhyāyaḥ vimucyatām . sarayvāḥ ca uttare tīre yajña-bhūmiḥ vidhīyatām ..1..
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥
शान्तयः च अपि वर्धन्ताम् यथाकल्पम् यथाविधि । शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ॥१॥
śāntayaḥ ca api vardhantām yathākalpam yathāvidhi . śakyaḥ prāptum ayam yajñaḥ sarveṇa api mahīkṣitā ..1..
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे । च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥
न अपराधः भवेत् कष्टः यदि अस्मिन् क्रतु-सत्तमे । छिद्रम् हि मृगयन्ते स्म विद्वांसः ब्रह्मराक्षसाः ॥१॥
na aparādhaḥ bhavet kaṣṭaḥ yadi asmin kratu-sattame . chidram hi mṛgayante sma vidvāṃsaḥ brahmarākṣasāḥ ..1..
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
विधि-हीनस्य यज्ञस्य सद्यस् कर्ता विनश्यति । तत् यथा विधि-पूर्वम् मे क्रतुः एष समाप्यते ॥१॥
vidhi-hīnasya yajñasya sadyas kartā vinaśyati . tat yathā vidhi-pūrvam me kratuḥ eṣa samāpyate ..1..
तथा विधानं क्रियतां समर्थाः साधनेष्विति । तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥
तथा विधानम् क्रियताम् समर्थाः साधनेषु इति । तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१॥
tathā vidhānam kriyatām samarthāḥ sādhaneṣu iti . tathā iti ca abruvan sarve maṃtriṇaḥ pratipūjitāḥ ..1..
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते । तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥
पार्थिव-इन्द्रस्य तत् वाक्यम् यथापूर्वम् निशम्य ते । तथा द्विजाः ते धर्म-ज्ञाः वर्धयन्तः नृप-उत्तमम् ॥१॥
pārthiva-indrasya tat vākyam yathāpūrvam niśamya te . tathā dvijāḥ te dharma-jñāḥ vardhayantaḥ nṛpa-uttamam ..1..
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् । विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥
अनुज्ञाताः ततस् सर्वे पुनर् जग्मुः यथागतम् । विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत् ॥१॥
anujñātāḥ tatas sarve punar jagmuḥ yathāgatam . visarjayitvā tān viprān sacivān idam abravīt ..1..
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् । इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
ऋत्विग्भिः उपसंदिष्टः यथावत् क्रतुः आप्यताम् । इति उक्त्वा नृप-शार्दूलः सचिवान् समुपस्थितान् ॥१॥
ṛtvigbhiḥ upasaṃdiṣṭaḥ yathāvat kratuḥ āpyatām . iti uktvā nṛpa-śārdūlaḥ sacivān samupasthitān ..1..
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः । ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः । ततस् स गत्वा ताः पत्नीः नरेन्द्रः हृदयंगमाः ॥१॥
visarjayitvā svam veśma praviveśa mahāmatiḥ . tatas sa gatvā tāḥ patnīḥ narendraḥ hṛdayaṃgamāḥ ..1..
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
उवाच दीक्षाम् विशत यक्ष्ये अहम् सुत-कारणात् । तासाम् तेन अति कान्तेन वचनेन सु वर्चसाम् । मुख-पद्मानि अशोभन्त पद्मानि इव हिम-अत्यये ॥१॥
uvāca dīkṣām viśata yakṣye aham suta-kāraṇāt . tāsām tena ati kāntena vacanena su varcasām . mukha-padmāni aśobhanta padmāni iva hima-atyaye ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In