This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे नवमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe navamaḥ sargaḥ ..1..
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥
एतत् श्रुत्वा रहः सूतः राजानम् इदम् अब्रवीत् । श्रूयताम् तत् पुरावृत्तम् पुराणे च मया श्रुतम् ॥१॥
etat śrutvā rahaḥ sūtaḥ rājānam idam abravīt . śrūyatām tat purāvṛttam purāṇe ca mayā śrutam ..1..
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥
ऋत्विग्भिः उपदिष्टः अयम् पुरा वृत्तः मया श्रुतः । सनत्कुमारः भगवान् पूर्वम् कथितवान् कथाम् ॥१॥
ṛtvigbhiḥ upadiṣṭaḥ ayam purā vṛttaḥ mayā śrutaḥ . sanatkumāraḥ bhagavān pūrvam kathitavān kathām ..1..
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥
ऋषीणाम् संनिधौ राजन् तव पुत्र-आगमम् प्रति । काश्यपस्य च पुत्रः अस्ति विभाण्डकः इति श्रुतः ॥१॥
ṛṣīṇām saṃnidhau rājan tava putra-āgamam prati . kāśyapasya ca putraḥ asti vibhāṇḍakaḥ iti śrutaḥ ..1..
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति । स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥
ऋश्यशृङ्गः इति ख्यातः तस्य पुत्रः भविष्यति । स वने नित्य-संवृद्धः मुनिः वन-चरः सदा ॥१॥
ṛśyaśṛṅgaḥ iti khyātaḥ tasya putraḥ bhaviṣyati . sa vane nitya-saṃvṛddhaḥ muniḥ vana-caraḥ sadā ..1..
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् । द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥
न अन्यम् जानाति विप्र-इन्द्रः नित्यम् पितृ-अनुवर्तनात् । द्वैविध्यम् ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१॥
na anyam jānāti vipra-indraḥ nityam pitṛ-anuvartanāt . dvaividhyam brahmacaryasya bhaviṣyati mahātmanaḥ ..1..
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥
लोकेषु प्रथितम् राजन् विप्रैः च कथितम् सदा । तस्य एवम् वर्तमानस्य कालः समभिवर्तत ॥१॥
lokeṣu prathitam rājan vipraiḥ ca kathitam sadā . tasya evam vartamānasya kālaḥ samabhivartata ..1..
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥
अग्निम् शुश्रूषमाणस्य पितरम् च यशस्विनम् । एतस्मिन् एव काले तु रोमपादः प्रतापवान् ॥१॥
agnim śuśrūṣamāṇasya pitaram ca yaśasvinam . etasmin eva kāle tu romapādaḥ pratāpavān ..1..
अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥
अङ्गेषु प्रथितः राजा भविष्यति महा-बलः । तस्य व्यतिक्रमात् राज्ञः भविष्यति सु दारुणा ॥१॥
aṅgeṣu prathitaḥ rājā bhaviṣyati mahā-balaḥ . tasya vyatikramāt rājñaḥ bhaviṣyati su dāruṇā ..1..
अनावृष्टिः सुघोरा वै सर्वलोकभयावहा । अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥
अनावृष्टिः सु घोरा वै सर्व-लोक-भय-आवहा । अनावृष्ट्याम् तु वृत्तायाम् राजा दुःख-समन्वितः ॥१॥
anāvṛṣṭiḥ su ghorā vai sarva-loka-bhaya-āvahā . anāvṛṣṭyām tu vṛttāyām rājā duḥkha-samanvitaḥ ..1..
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व । भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥
ब्राह्मणान् श्रुत-संवृद्धान् समानीय प्रवक्ष्यति । भवन्तः श्रुत-कर्माणः लोक-चारित्र-वेदिनः ॥१॥
brāhmaṇān śruta-saṃvṛddhān samānīya pravakṣyati . bhavantaḥ śruta-karmāṇaḥ loka-cāritra-vedinaḥ ..1..
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥
समादिशन्तु नियमम् प्रायश्चित्तम् यथा भवेत् । इति उक्ताः ते ततस् राज्ञा सर्वे ब्राह्मण-सत्तमाः ॥१॥
samādiśantu niyamam prāyaścittam yathā bhavet . iti uktāḥ te tatas rājñā sarve brāhmaṇa-sattamāḥ ..1..
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥
वक्ष्यन्ति ते महीपालम् ब्राह्मणाः वेदपारगाः । विभाण्डक-सुतम् राजन् सर्व-उपायैः इह आनय ॥१॥
vakṣyanti te mahīpālam brāhmaṇāḥ vedapāragāḥ . vibhāṇḍaka-sutam rājan sarva-upāyaiḥ iha ānaya ..1..
आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् । विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥
आनाय्य तु महीपालः ऋष्यशृङ्गम् सु सत्कृतम् । विभाण्डक-सुतम् राजन् ब्राह्मणम् वेदपारगम् । प्रयच्छ कन्याम् शान्ताम् वै विधिना सु समाहितः ॥१॥
ānāyya tu mahīpālaḥ ṛṣyaśṛṅgam su satkṛtam . vibhāṇḍaka-sutam rājan brāhmaṇam vedapāragam . prayaccha kanyām śāntām vai vidhinā su samāhitaḥ ..1..
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥
तेषाम् तु वचनम् श्रुत्वा राजा चिन्ताम् प्रपत्स्यते । केन उपायेन वै शक्यम् इह आनेतुम् स वीर्यवान् ॥१॥
teṣām tu vacanam śrutvā rājā cintām prapatsyate . kena upāyena vai śakyam iha ānetum sa vīryavān ..1..
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् । पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥
ततस् राजा विनिश्चित्य सह मन्त्रिभिः आत्मवान् । पुरोहितम् अमात्यान् च प्रेषयिष्यति सत्कृतान् ॥१॥
tatas rājā viniścitya saha mantribhiḥ ātmavān . purohitam amātyān ca preṣayiṣyati satkṛtān ..1..
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥
ते तु राज्ञः वचः श्रुत्वा व्यथिताः विनत-आननाः । न गच्छेम ऋषेः भीताः अनुनेष्यन्ति तम् नृपम् ॥१॥
te tu rājñaḥ vacaḥ śrutvā vyathitāḥ vinata-ānanāḥ . na gacchema ṛṣeḥ bhītāḥ anuneṣyanti tam nṛpam ..1..
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥
वक्ष्यन्ति चिन्तयित्वा ते तस्य उपायान् च तान् क्षमान् । आनेष्यामः वयम् विप्रम् न च दोषः भविष्यति ॥१॥
vakṣyanti cintayitvā te tasya upāyān ca tān kṣamān . āneṣyāmaḥ vayam vipram na ca doṣaḥ bhaviṣyati ..1..
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥
एवम् अङ्ग-अधिपेन एव गणिकाभिः ऋषेः सुतः । आनीतः अवर्षयत् देवः शान्ता च अस्मै प्रदीयते ॥१॥
evam aṅga-adhipena eva gaṇikābhiḥ ṛṣeḥ sutaḥ . ānītaḥ avarṣayat devaḥ śāntā ca asmai pradīyate ..1..
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥
ऋश्यशृङ्गः तु जामाता पुत्रान् तव विधास्यति । सनत्कुमार-कथितम् एतावत् व्याहृतम् मया ॥१॥
ṛśyaśṛṅgaḥ tu jāmātā putrān tava vidhāsyati . sanatkumāra-kathitam etāvat vyāhṛtam mayā ..1..
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥
अथ हृष्टः दशरथः सुमन्त्रम् प्रत्यभाषत। यथा ऋष्यशृङ्गः तु आनीतः येन उपायेन सः उच्यताम् ॥१॥
atha hṛṣṭaḥ daśarathaḥ sumantram pratyabhāṣata. yathā ṛṣyaśṛṅgaḥ tu ānītaḥ yena upāyena saḥ ucyatām ..1..
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥
इति श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१॥
iti śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe navamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In