This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे प्रथमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe prathamaḥ sargaḥ ..4..
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामः सौमित्रिसहितो विललापाकुलेन्द्रियः॥ १॥
स ताम् पुष्करिणीम् गत्वा पद्म-उत्पल-झष-आकुलाम् । रामः सौमित्रि-सहितः विललाप आकुल-इन्द्रियः॥ १॥
sa tām puṣkariṇīm gatvā padma-utpala-jhaṣa-ākulām . rāmaḥ saumitri-sahitaḥ vilalāpa ākula-indriyaḥ.. 1..
तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे । स कामवशमापन्नः सौमित्रिमिदमब्रवीत्॥ २॥
तत्र दृष्ट्वा एव ताम् हर्षात् इन्द्रियाणि चकम्पिरे । स काम-वशम् आपन्नः सौमित्रिम् इदम् अब्रवीत्॥ २॥
tatra dṛṣṭvā eva tām harṣāt indriyāṇi cakampire . sa kāma-vaśam āpannaḥ saumitrim idam abravīt.. 2..
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका । फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः॥ ३॥
सौमित्रे शोभते पम्पा वैदूर्य-विमल-उदका । फुल्ल-पद्म-उत्पलवती शोभिता विविधैः द्रुमैः॥ ३॥
saumitre śobhate pampā vaidūrya-vimala-udakā . phulla-padma-utpalavatī śobhitā vividhaiḥ drumaiḥ.. 3..
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव॥ ४॥
सौमित्रे पश्य पम्पायाः काननम् शुभ-दर्शनम् । यत्र राजन्ति शैलाः वा द्रुमाः स शिखराः इव॥ ४॥
saumitre paśya pampāyāḥ kānanam śubha-darśanam . yatra rājanti śailāḥ vā drumāḥ sa śikharāḥ iva.. 4..
मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै । भरतस्य च दुःखेन वैदेह्या हरणेन च॥ ५॥
माम् तु शोक-अभिसंतप्त-माधयः पीडयन्ति वै । भरतस्य च दुःखेन वैदेह्याः हरणेन च॥ ५॥
mām tu śoka-abhisaṃtapta-mādhayaḥ pīḍayanti vai . bharatasya ca duḥkhena vaidehyāḥ haraṇena ca.. 5..
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना । व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा॥ ६॥
शोक-आर्तस्य अपि मे पम्पा शोभते चित्र-कानना । व्यवकीर्णा बहुविधैः पुष्पैः शीत-उदका शिवा॥ ६॥
śoka-ārtasya api me pampā śobhate citra-kānanā . vyavakīrṇā bahuvidhaiḥ puṣpaiḥ śīta-udakā śivā.. 6..
नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना । सर्पव्यालानुचरिता मृगद्विजसमाकुला॥ ७॥
नलिनैः अपि संछन्ना हि अत्यर्थ-शुभ-दर्शना । सर्प-व्याल-अनुचरिता मृग-द्विज-समाकुला॥ ७॥
nalinaiḥ api saṃchannā hi atyartha-śubha-darśanā . sarpa-vyāla-anucaritā mṛga-dvija-samākulā.. 7..
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् । द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्॥ ८॥
अधिकम् प्रविभाति एतत् नील-पीतम् तु शाद्वलम् । द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम्॥ ८॥
adhikam pravibhāti etat nīla-pītam tu śādvalam . drumāṇām vividhaiḥ puṣpaiḥ paristomaiḥ iva arpitam.. 8..
पुष्पभारसमृद्धानि शिखराणि समन्ततः । लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥ ९॥
पुष्प-भार-समृद्धानि शिखराणि समन्ततः । लताभिः पुष्पित-अग्राभिः उपगूढानि सर्वतस्॥ ९॥
puṣpa-bhāra-samṛddhāni śikharāṇi samantataḥ . latābhiḥ puṣpita-agrābhiḥ upagūḍhāni sarvatas.. 9..
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः॥ १०॥
सुख-अनिलः अयम् सौमित्रे कालः प्रचुर-मन्मथः । गन्धवान् सुरभिः मासः जात-पुष्प-फल-द्रुमः॥ १०॥
sukha-anilaḥ ayam saumitre kālaḥ pracura-manmathaḥ . gandhavān surabhiḥ māsaḥ jāta-puṣpa-phala-drumaḥ.. 10..
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् । सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव॥ ११॥
पश्य रूपाणि सौमित्रे वनानाम् पुष्प-शालिनाम् । सृजताम् पुष्प-वर्षाणि वर्षम् तोयमुचाम् इव॥ ११॥
paśya rūpāṇi saumitre vanānām puṣpa-śālinām . sṛjatām puṣpa-varṣāṇi varṣam toyamucām iva.. 11..
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्॥ १२॥
प्रस्तरेषु च रम्येषु विविधाः कानन-द्रुमाः । वायु-वेग-प्रचलिताः पुष्पैः अवकिरन्ति गाम्॥ १२॥
prastareṣu ca ramyeṣu vividhāḥ kānana-drumāḥ . vāyu-vega-pracalitāḥ puṣpaiḥ avakiranti gām.. 12..
पतितैः पतमानैश्च पादपस्थैश्च मारुतः । कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः॥ १३॥
पतितैः पतमानैः च पादप-स्थैः च मारुतः । कुसुमैः पश्य सौमित्रे क्रीडति इव समन्ततः॥ १३॥
patitaiḥ patamānaiḥ ca pādapa-sthaiḥ ca mārutaḥ . kusumaiḥ paśya saumitre krīḍati iva samantataḥ.. 13..
विक्षिपन् विविधाः शाखां नगानां कुसुमोत्कटाः । मारुतश्चलितस्थानैः षट्पदैरनुगीयते॥ १४॥
विक्षिपन् विविधाः शाखाम् नगानाम् कुसुम-उत्कटाः । मारुतः चलित-स्थानैः षट्पदैः अनुगीयते॥ १४॥
vikṣipan vividhāḥ śākhām nagānām kusuma-utkaṭāḥ . mārutaḥ calita-sthānaiḥ ṣaṭpadaiḥ anugīyate.. 14..
मत्तकोकिलसंनादैर्नर्तयन्निव पादपान् । शैलकंदर निष्क्रान्तः प्रगीत इव चानिलः॥ १५॥
मत्त-कोकिल-संनादैः नर्तयन् इव पादपान् । शैल-कंदर निष्क्रान्तः प्रगीतः इव च अनिलः॥ १५॥
matta-kokila-saṃnādaiḥ nartayan iva pādapān . śaila-kaṃdara niṣkrāntaḥ pragītaḥ iva ca anilaḥ.. 15..
तेन विक्षिपतात्यर्थं पवनेन समन्ततः । अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः॥ १६॥
तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः । अमी संसक्त-शाखा-अग्राः ग्रथिताः इव पादपाः॥ १६॥
tena vikṣipatā atyartham pavanena samantataḥ . amī saṃsakta-śākhā-agrāḥ grathitāḥ iva pādapāḥ.. 16..
स एव सुखसंस्पर्शो वाति चन्दनशीतलः । गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः॥ १७॥
सः एव सुख-संस्पर्शः वाति चन्दन-शीतलः । गन्धम् अभ्यवहन् पुण्यम् श्रम-अपनयनः अनिलः॥ १७॥
saḥ eva sukha-saṃsparśaḥ vāti candana-śītalaḥ . gandham abhyavahan puṇyam śrama-apanayanaḥ anilaḥ.. 17..
अमी पवनविक्षिप्ता विनदन्तीव पादपाः । षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु॥ १८॥
अमी पवन-विक्षिप्ताः विनदन्ति इव पादपाः । षट्पदैः अनुकूजद्भिः वनेषु मधु-गन्धिषु॥ १८॥
amī pavana-vikṣiptāḥ vinadanti iva pādapāḥ . ṣaṭpadaiḥ anukūjadbhiḥ vaneṣu madhu-gandhiṣu.. 18..
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः । संसक्तशिखराः शैला विराजन्ति महाद्रुमैः॥ १९॥
गिरि-प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः । संसक्त-शिखराः शैलाः विराजन्ति महा-द्रुमैः॥ १९॥
giri-prastheṣu ramyeṣu puṣpavadbhiḥ manoramaiḥ . saṃsakta-śikharāḥ śailāḥ virājanti mahā-drumaiḥ.. 19..
पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः । अमी मधुकरोत्तंसाः प्रगीता इव पादपाः॥ २०॥
पुष्प-संछन्न-शिखराः मारुत-उत्क्षेप-चञ्चलाः । अमी मधुकर-उत्तंसाः प्रगीताः इव पादपाः॥ २०॥
puṣpa-saṃchanna-śikharāḥ māruta-utkṣepa-cañcalāḥ . amī madhukara-uttaṃsāḥ pragītāḥ iva pādapāḥ.. 20..
सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः । हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव॥ २१॥
सु पुष्पितान् तु पश्य एतान् कर्णिकारान् समन्ततः । हाटक-प्रतिसंछन्नान् नरान् पीत-अम्बरान् इव॥ २१॥
su puṣpitān tu paśya etān karṇikārān samantataḥ . hāṭaka-pratisaṃchannān narān pīta-ambarān iva.. 21..
अयं वसन्तः सौमित्रे नानाविहगनादितः । सीतया विप्रहीणस्य शोकसंदीपनो मम॥ २२॥
अयम् वसन्तः सौमित्रे नाना विहग-नादितः । सीतया विप्रहीणस्य शोक-संदीपनः मम॥ २२॥
ayam vasantaḥ saumitre nānā vihaga-nāditaḥ . sītayā viprahīṇasya śoka-saṃdīpanaḥ mama.. 22..
मां हि शोकसमाक्रान्तं संतापयति मन्मथः । हृष्टं प्रवदमानश्च समाह्वयति कोकिलः॥ २३॥
माम् हि शोक-समाक्रान्तम् संतापयति मन्मथः । हृष्टम् प्रवदमानः च समाह्वयति कोकिलः॥ २३॥
mām hi śoka-samākrāntam saṃtāpayati manmathaḥ . hṛṣṭam pravadamānaḥ ca samāhvayati kokilaḥ.. 23..
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे । प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण॥ २४॥
एष दात्यूहकः हृष्टः रम्ये माम् वन-निर्झरे । प्रणदन् मन्मथ-आविष्टम् शोचयिष्यति लक्ष्मण॥ २४॥
eṣa dātyūhakaḥ hṛṣṭaḥ ramye mām vana-nirjhare . praṇadan manmatha-āviṣṭam śocayiṣyati lakṣmaṇa.. 24..
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिताः परमं प्रत्यनन्दत॥ २५॥
श्रुत्वा एतस्य पुरा शब्दम् आश्रम-स्था मम प्रिया । माम् आहूय प्रमुदिताः परमम् प्रत्यनन्दत॥ २५॥
śrutvā etasya purā śabdam āśrama-sthā mama priyā . mām āhūya pramuditāḥ paramam pratyanandata.. 25..
एवं विचित्राः पतगा नानारावविराविणः । वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः॥ २६॥
एवम् विचित्राः पतगाः नाना राव-विराविणः । वृक्ष-गुल्म-लताः पश्य सम्पतन्ति समन्ततः॥ २६॥
evam vicitrāḥ patagāḥ nānā rāva-virāviṇaḥ . vṛkṣa-gulma-latāḥ paśya sampatanti samantataḥ.. 26..
विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः । भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः॥ २७॥
विमिश्राः विहगाः पुंभिः आत्म-व्यूह-अभिनन्दिताः । भृङ्गराज-प्रमुदिताः सौमित्रे मधुर-स्वराः॥ २७॥
vimiśrāḥ vihagāḥ puṃbhiḥ ātma-vyūha-abhinanditāḥ . bhṛṅgarāja-pramuditāḥ saumitre madhura-svarāḥ.. 27..
अस्याः कूले प्रमुदिताः सङ्घशः शकुनास्त्विह । दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि॥ २८॥
अस्याः कूले प्रमुदिताः सङ्घशस् शकुनाः तु इह । दात्यूह-रति-विक्रन्दैः पुंस्कोकिल-रुतैः अपि॥ २८॥
asyāḥ kūle pramuditāḥ saṅghaśas śakunāḥ tu iha . dātyūha-rati-vikrandaiḥ puṃskokila-rutaiḥ api.. 28..
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः । अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः॥ २९॥
स्वनन्ति पादपाः च इमे मम अनङ्ग-प्रदीपकाः । ॥ २९॥
svananti pādapāḥ ca ime mama anaṅga-pradīpakāḥ . .. 29..
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति । नहि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्॥ ३०॥
माम् हि पल्लव-ताम्र-अर्चिः-वसन्त-अग्निः प्रधक्ष्यति । नहि ताम् सूक्ष्म-पक्ष्म-अक्षीम् सु केशीम् मृदु-भाषिणीम्॥ ३०॥
mām hi pallava-tāmra-arciḥ-vasanta-agniḥ pradhakṣyati . nahi tām sūkṣma-pakṣma-akṣīm su keśīm mṛdu-bhāṣiṇīm.. 30..
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् । अयं हि रुचिरस्तस्याः कालो रुचिरकाननः॥ ३१॥
अ पश्यतः मे सौमित्रे जीविते अस्ति प्रयोजनम् । अयम् हि रुचिरः तस्याः कालः रुचिर-काननः॥ ३१॥
a paśyataḥ me saumitre jīvite asti prayojanam . ayam hi ruciraḥ tasyāḥ kālaḥ rucira-kānanaḥ.. 31..
कोकिलाकुलसीमान्तो दयिताया ममानघ । मन्मथायाससम्भूतो वसन्तगुणवर्धितः॥ ३२॥
कोकिल-आकुल-सीमान्तः दयितायाः मम अनघ । ॥ ३२॥
kokila-ākula-sīmāntaḥ dayitāyāḥ mama anagha . .. 32..
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव । अपश्यतस्तां वनितां पश्यतो रुचिरान् द्रुमान्॥ ३३॥
अयम् माम् धक्ष्यति क्षिप्रम् शोक-अग्निः नचिरात् इव । अ पश्यतः ताम् वनिताम् पश्यतः रुचिरान् द्रुमान्॥ ३३॥
ayam mām dhakṣyati kṣipram śoka-agniḥ nacirāt iva . a paśyataḥ tām vanitām paśyataḥ rucirān drumān.. 33..
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति । अदृश्यमाना वैदेही शोकं वर्धयतीह मे॥ ३४॥
मम अयम् आत्म-प्रभवः भूयस् त्वम् उपयास्यति । अदृश्यमाना वैदेही शोकम् वर्धयति इह मे॥ ३४॥
mama ayam ātma-prabhavaḥ bhūyas tvam upayāsyati . adṛśyamānā vaidehī śokam vardhayati iha me.. 34..
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः । मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम्॥ ३५॥
दृश्यमानः वसन्तः च स्वेद-संसर्ग-दूषकः । माम् हि सा मृगशावाक्षी चिन्ता-शोक-बलात्कृतम्॥ ३५॥
dṛśyamānaḥ vasantaḥ ca sveda-saṃsarga-dūṣakaḥ . mām hi sā mṛgaśāvākṣī cintā-śoka-balātkṛtam.. 35..
संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः । अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः॥ ३६॥
संतापयति सौमित्रे क्रूरः चैत्र-वन-अनिलः । अमी मयूराः शोभन्ते प्रनृत्यन्तः ततस् ततस्॥ ३६॥
saṃtāpayati saumitre krūraḥ caitra-vana-anilaḥ . amī mayūrāḥ śobhante pranṛtyantaḥ tatas tatas.. 36..
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव । शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः॥ ३७॥
स्वैः पक्षैः पवन-उद्धूतैः गवाक्षैः स्फाटिकैः इव । शिखिनीभिः परिवृताः ते एते मद-मूर्च्छिताः॥ ३७॥
svaiḥ pakṣaiḥ pavana-uddhūtaiḥ gavākṣaiḥ sphāṭikaiḥ iva . śikhinībhiḥ parivṛtāḥ te ete mada-mūrcchitāḥ.. 37..
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः । पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति॥ ३८॥
मन्मथ-अभिपरीतस्य मम मन्मथ-वर्धनाः । पश्य लक्ष्मण नृत्यन्तम् मयूरम् उपनृत्यति॥ ३८॥
manmatha-abhiparītasya mama manmatha-vardhanāḥ . paśya lakṣmaṇa nṛtyantam mayūram upanṛtyati.. 38..
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि । तामेव मनसा रामां मयूरोऽप्यनुधावति॥ ३९॥
शिखिनी मन्मथ-आर्ता एषा भर्तारम् गिरि-सानुनि । ताम् एव मनसा रामाम् मयूरः अपि अनुधावति॥ ३९॥
śikhinī manmatha-ārtā eṣā bhartāram giri-sānuni . tām eva manasā rāmām mayūraḥ api anudhāvati.. 39..
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव । मयूरस्य वने नूनं रक्षसा न हृता प्रिया॥ ४०॥
वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव । मयूरस्य वने नूनम् रक्षसा न हृता प्रिया॥ ४०॥
vitatya rucirau pakṣau rutaiḥ upahasan iva . mayūrasya vane nūnam rakṣasā na hṛtā priyā.. 40..
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया । मम त्वयं विना वासः पुष्पमासे सुदुःसहः॥ ४१॥
तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया । मम तु अयम् विना वासः पुष्पमासे सु दुःसहः॥ ४१॥
tasmāt nṛtyati ramyeṣu vaneṣu saha kāntayā . mama tu ayam vinā vāsaḥ puṣpamāse su duḥsahaḥ.. 41..
पश्य लक्ष्मण संरागस्तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामाद् भर्तारमभिवर्तते॥ ४२॥
पश्य लक्ष्मण संरागः तिर्यग्योनि-गतेषु अपि । यत् एषा शिखिनी कामात् भर्तारम् अभिवर्तते॥ ४२॥
paśya lakṣmaṇa saṃrāgaḥ tiryagyoni-gateṣu api . yat eṣā śikhinī kāmāt bhartāram abhivartate.. 42..
ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत्॥ ४३॥
मम अपि एवम् विशाल-अक्षी जानकी जात-सम्भ्रमा । मदनेन अभिवर्तेत यदि न अपहृता भवेत्॥ ४३॥
mama api evam viśāla-akṣī jānakī jāta-sambhramā . madanena abhivarteta yadi na apahṛtā bhavet.. 43..
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । पुष्पभारसमृद्धानां वनानां शिशिरात्यये॥ ४४॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । पुष्प-भार-समृद्धानाम् वनानाम् शिशिरात्यये॥ ४४॥
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me . puṣpa-bhāra-samṛddhānām vanānām śiśirātyaye.. 44..
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया । निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥ ४५॥
रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया । निष्फलानि महीम् यान्ति समम् मधुकर-उत्करैः॥ ४५॥
rucirāṇi api puṣpāṇi pādapānām atiśriyā . niṣphalāni mahīm yānti samam madhukara-utkaraiḥ.. 45..
नदन्ति कामं शकुना मुदिताः सङ्घशः कलम् । आह्वयन्त इवान्योन्यं कामोन्मादकरा मम॥ ४६॥
नदन्ति कामम् शकुनाः मुदिताः सङ्घशस् कलम् । आह्वयन्तः इव अन्योन्यम् काम-उन्माद-कराः मम॥ ४६॥
nadanti kāmam śakunāḥ muditāḥ saṅghaśas kalam . āhvayantaḥ iva anyonyam kāma-unmāda-karāḥ mama.. 46..
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया । नूनं परवशा सीता सापि शोचत्यहं यथा॥ ४७॥
वसन्तः यदि तत्र अपि यत्र मे वसति प्रिया । नूनम् परवशा सीता सा अपि शोचति अहम् यथा॥ ४७॥
vasantaḥ yadi tatra api yatra me vasati priyā . nūnam paravaśā sītā sā api śocati aham yathā.. 47..
नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा । कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना॥ ४८॥
नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा । कथम् हि असित-पद्म-अक्षी वर्तयेत् सा मया विना॥ ४८॥
nūnam na tu vasantaḥ tam deśam spṛśati yatra sā . katham hi asita-padma-akṣī vartayet sā mayā vinā.. 48..
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः॥ ४९॥
अथवा वर्तते तत्र वसन्तः यत्र मे प्रिया । किम् करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः॥ ४९॥
athavā vartate tatra vasantaḥ yatra me priyā . kim kariṣyati suśroṇī sā tu nirbhartsitā paraiḥ.. 49..
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया । नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्॥ ५०॥
श्यामा पद्म-पलाश-अक्षी मृदु-भाषा च मे प्रिया । नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम्॥ ५०॥
śyāmā padma-palāśa-akṣī mṛdu-bhāṣā ca me priyā . nūnam vasantam āsādya parityakṣyati jīvitam.. 50..
दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता॥ ५१॥
दृढम् हि हृदये बुद्धिः मम सम्परिवर्तते । न अलम् वर्तयितुम् सीता साध्वी मद्-विरहम् गता॥ ५१॥
dṛḍham hi hṛdaye buddhiḥ mama samparivartate . na alam vartayitum sītā sādhvī mad-viraham gatā.. 51..
मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सर्वथा विनिवेशितः॥ ५२॥
मयि भावः हि वैदेह्याः तत्त्वतः विनिवेशितः । मम अपि भावः सीतायाम् सर्वथा विनिवेशितः॥ ५२॥
mayi bhāvaḥ hi vaidehyāḥ tattvataḥ viniveśitaḥ . mama api bhāvaḥ sītāyām sarvathā viniveśitaḥ.. 52..
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम॥ ५३॥
एष पुष्प-वहः वायुः सुख-स्पर्शः हिम-आवहः । ताम् विचिन्तयतः कान्ताम् पावक-प्रतिमः मम॥ ५३॥
eṣa puṣpa-vahaḥ vāyuḥ sukha-sparśaḥ hima-āvahaḥ . tām vicintayataḥ kāntām pāvaka-pratimaḥ mama.. 53..
सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुतः स विना सीतां शोकसंजननो मम॥ ५४॥
सदा सुखम् अहम् मन्ये यम् पुरा सह सीतया । मारुतः स विना सीताम् शोक-संजननः मम॥ ५४॥
sadā sukham aham manye yam purā saha sītayā . mārutaḥ sa vinā sītām śoka-saṃjananaḥ mama.. 54..
तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिकूजति॥ ५५॥
ताम् विना अथ विहङ्गः असौ पक्षी प्रणदितः तदा । वायसः पादप-गतः प्रहृष्टम् अभिकूजति॥ ५५॥
tām vinā atha vihaṅgaḥ asau pakṣī praṇaditaḥ tadā . vāyasaḥ pādapa-gataḥ prahṛṣṭam abhikūjati.. 55..
एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति॥ ५६॥
एष वै तत्र वैदेह्याः विहगः प्रतिहारकः । पक्षी माम् तु विशाल-अक्ष्याः समीपम् उपनेष्यति॥ ५६॥
eṣa vai tatra vaidehyāḥ vihagaḥ pratihārakaḥ . pakṣī mām tu viśāla-akṣyāḥ samīpam upaneṣyati.. 56..
पश्य लक्ष्मण संनादं वने मदविवर्धनम् । पुष्पिताग्रेषु वृक्षेषु द्विजानामवकूजताम्॥ ५७॥
पश्य लक्ष्मण संनादम् वने मद-विवर्धनम् । पुष्पित-अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम्॥ ५७॥
paśya lakṣmaṇa saṃnādam vane mada-vivardhanam . puṣpita-agreṣu vṛkṣeṣu dvijānām avakūjatām.. 57..
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् । षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम्॥ ५८॥
विक्षिप्ताम् पवनेन एताम् असौ तिलक-मञ्जरीम् । षट्पदः सहसा अभ्येति मद-उद्धूताम् इव प्रियाम्॥ ५८॥
vikṣiptām pavanena etām asau tilaka-mañjarīm . ṣaṭpadaḥ sahasā abhyeti mada-uddhūtām iva priyām.. 58..
कामिनामयमत्यन्तमशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः॥ ५९॥
कामिनाम् अयम् अत्यन्तम् अशोकः शोक-वर्धनः । स्तबकैः पवन-उत्क्षिप्तैः तर्जयन् इव माम् स्थितः॥ ५९॥
kāminām ayam atyantam aśokaḥ śoka-vardhanaḥ . stabakaiḥ pavana-utkṣiptaiḥ tarjayan iva mām sthitaḥ.. 59..
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः । विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव॥ ६०॥
अमी लक्ष्मण दृश्यन्ते चूताः कुसुम-शालिनः । विभ्रम-उत्सिक्त-मनसः स अङ्गरागाः नराः इव॥ ६०॥
amī lakṣmaṇa dṛśyante cūtāḥ kusuma-śālinaḥ . vibhrama-utsikta-manasaḥ sa aṅgarāgāḥ narāḥ iva.. 60..
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु । किंनरा नरशार्दूल विचरन्ति यतस्ततः॥ ६१॥
सौमित्रे पश्य पम्पायाः चित्रासु वन-राजिषु । किंनराः नर-शार्दूल विचरन्ति यतस् ततस्॥ ६१॥
saumitre paśya pampāyāḥ citrāsu vana-rājiṣu . kiṃnarāḥ nara-śārdūla vicaranti yatas tatas.. 61..
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्॥ ६२॥
इमानि शुभ-गन्धीनि पश्य लक्ष्मण सर्वशस् । नलिनानि प्रकाशन्ते जले तरुण-सूर्य-वत्॥ ६२॥
imāni śubha-gandhīni paśya lakṣmaṇa sarvaśas . nalināni prakāśante jale taruṇa-sūrya-vat.. 62..
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता॥ ६३॥
एषा प्रसन्न-सलिला पद्म-नीलोत्पल-आयुता । ॥ ६३॥
eṣā prasanna-salilā padma-nīlotpala-āyutā . .. 63..
जले तरुणसूर्याभैः षट्पदाहतकेसरैः । पङ्कजैः शोभते पम्पा समन्तादभिसंवृता॥ ६४॥
जले तरुण-सूर्य-आभैः षट्पद-आहत-केसरैः । पङ्कजैः शोभते पम्पा समन्तात् अभिसंवृता॥ ६४॥
jale taruṇa-sūrya-ābhaiḥ ṣaṭpada-āhata-kesaraiḥ . paṅkajaiḥ śobhate pampā samantāt abhisaṃvṛtā.. 64..
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा । मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः॥ ६५॥
चक्रवाक-युता नित्यम् चित्र-प्रस्थ-वन-अन्तरा । मातङ्ग-मृग-यूथैः च शोभते सलिल-अर्थिभिः॥ ६५॥
cakravāka-yutā nityam citra-prastha-vana-antarā . mātaṅga-mṛga-yūthaiḥ ca śobhate salila-arthibhiḥ.. 65..
पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि । पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण॥ ६६॥
पवन-आहत-वेगाभिः ऊर्मिभिः विमले अम्भसि । पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण॥ ६६॥
pavana-āhata-vegābhiḥ ūrmibhiḥ vimale ambhasi . paṅkajāni virājante tāḍyamānāni lakṣmaṇa.. 66..
पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते॥ ६७॥
पद्म-पत्र-विशाल-अक्षीम् सततम् प्रिय-पङ्कजाम् । अ पश्यतः मे वैदेहीम् जीवितम् ना अभिरोचते॥ ६७॥
padma-patra-viśāla-akṣīm satatam priya-paṅkajām . a paśyataḥ me vaidehīm jīvitam nā abhirocate.. 67..
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् । स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्॥ ६८॥
अहो कामस्य वाम-त्वम् यः गताम् अपि दुर्लभाम् । स्मारयिष्यति कल्याणीम् कल्याणतर-वादिनीम्॥ ६८॥
aho kāmasya vāma-tvam yaḥ gatām api durlabhām . smārayiṣyati kalyāṇīm kalyāṇatara-vādinīm.. 68..
शक्यो धारयितुं कामो भवेदभ्यागतो मया । यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः॥ ६९॥
शक्यः धारयितुम् कामः भवेत् अभ्यागतः मया । यदि भूयस् वसन्तः माम् न हन्यात् पुष्पित-द्रुमः॥ ६९॥
śakyaḥ dhārayitum kāmaḥ bhavet abhyāgataḥ mayā . yadi bhūyas vasantaḥ mām na hanyāt puṣpita-drumaḥ.. 69..
यानि स्म रमणीयानि तया सह भवन्ति मे । तान्येवारमणीयानि जायन्ते मे तया विना॥ ७०॥
यानि स्म रमणीयानि तया सह भवन्ति मे । तानि एव अरमणीयानि जायन्ते मे तया विना॥ ७०॥
yāni sma ramaṇīyāni tayā saha bhavanti me . tāni eva aramaṇīyāni jāyante me tayā vinā.. 70..
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते । सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण॥ ७१॥
पद्म-कोश-पलाशानि द्रष्टुम् दृष्टिः हि मन्यते । सीतायाः नेत्रकोशाभ्याम् सदृशानि इति लक्ष्मण॥ ७१॥
padma-kośa-palāśāni draṣṭum dṛṣṭiḥ hi manyate . sītāyāḥ netrakośābhyām sadṛśāni iti lakṣmaṇa.. 71..
पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः । निःश्वास इव सीताया वाति वायुर्मनोहरः॥ ७२॥
पद्म-केसर-संसृष्टः वृक्ष-अन्तर-विनिःसृतः । निःश्वासः इव सीतायाः वाति वायुः मनोहरः॥ ७२॥
padma-kesara-saṃsṛṣṭaḥ vṛkṣa-antara-viniḥsṛtaḥ . niḥśvāsaḥ iva sītāyāḥ vāti vāyuḥ manoharaḥ.. 72..
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु । पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम्॥ ७३॥
सौमित्रे पश्य पम्पायाः दक्षिणे गिरि-सानुषु । पुष्पिताम् कर्णिकारस्य यष्टिम् परम-शोभिताम्॥ ७३॥
saumitre paśya pampāyāḥ dakṣiṇe giri-sānuṣu . puṣpitām karṇikārasya yaṣṭim parama-śobhitām.. 73..
अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः । विचित्रं सृजते रेणुं वायुवेगविघट्टितम्॥ ७४॥
अधिकम् शैल-राजः अयम् धातुभिः तु विभूषितः । विचित्रम् सृजते रेणुम् वायु-वेग-विघट्टितम्॥ ७४॥
adhikam śaila-rājaḥ ayam dhātubhiḥ tu vibhūṣitaḥ . vicitram sṛjate reṇum vāyu-vega-vighaṭṭitam.. 74..
गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः । निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः॥ ७५॥
गिरि-प्रस्थाः तु सौमित्रे सर्वतस् सम्प्रपुष्पितैः । निष्पत्रैः सर्वतस् रम्यैः प्रदीप्ताः इव किंशुकैः॥ ७५॥
giri-prasthāḥ tu saumitre sarvatas samprapuṣpitaiḥ . niṣpatraiḥ sarvatas ramyaiḥ pradīptāḥ iva kiṃśukaiḥ.. 75..
पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः । मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः॥ ७६॥
पम्पा-तीर-रुहाः च इमे संसिक्ताः मधु-गन्धिनः । मालती-मल्लिका-पद्म-करवीराः च पुष्पिताः॥ ७६॥
pampā-tīra-ruhāḥ ca ime saṃsiktāḥ madhu-gandhinaḥ . mālatī-mallikā-padma-karavīrāḥ ca puṣpitāḥ.. 76..
केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः॥ ७७॥
केतक्यः सिन्दुवाराः च वासन्त्यः च सु पुष्पिताः । माधव्यः गन्ध-पूर्णाः च कुन्द-गुल्माः च सर्वशस्॥ ७७॥
ketakyaḥ sinduvārāḥ ca vāsantyaḥ ca su puṣpitāḥ . mādhavyaḥ gandha-pūrṇāḥ ca kunda-gulmāḥ ca sarvaśas.. 77..
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा । चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥ ७८॥
चिरिबिल्वाः मधूकाः च वञ्जुलाः बकुलाः तथा । चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः॥ ७८॥
ciribilvāḥ madhūkāḥ ca vañjulāḥ bakulāḥ tathā . campakāḥ tilakāḥ ca eva nāgavṛkṣāḥ ca puṣpitāḥ.. 78..
पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः । लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः॥ ७९॥
पद्मकाः च एव शोभन्ते नील-अशोकाः च पुष्पिताः । लोध्राः च गिरि-पृष्ठेषु सिंह-केसर-पिञ्जराः॥ ७९॥
padmakāḥ ca eva śobhante nīla-aśokāḥ ca puṣpitāḥ . lodhrāḥ ca giri-pṛṣṭheṣu siṃha-kesara-piñjarāḥ.. 79..
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः । चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः॥ ८०॥
अङ्कोलाः च कुरण्टाः च चूर्णकाः पारिभद्रकाः । चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः॥ ८०॥
aṅkolāḥ ca kuraṇṭāḥ ca cūrṇakāḥ pāribhadrakāḥ . cūtāḥ pāṭalayaḥ ca api kovidārāḥ ca puṣpitāḥ.. 80..
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु । केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः॥ ८१॥
मुचुकुन्द-अर्जुनाः च एव दृश्यन्ते गिरि-सानुषु । केतक-उद्दालकाः च एव शिरीषाः शिंशपाः धवाः॥ ८१॥
mucukunda-arjunāḥ ca eva dṛśyante giri-sānuṣu . ketaka-uddālakāḥ ca eva śirīṣāḥ śiṃśapāḥ dhavāḥ.. 81..
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा । तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा॥ ८२॥
शाल्मल्यः किंशुकाः च एव रक्ताः कुरबकाः तथा । तिनिशाः नक्तमालाः च चन्दनाः स्यन्दनाः तथा॥ ८२॥
śālmalyaḥ kiṃśukāḥ ca eva raktāḥ kurabakāḥ tathā . tiniśāḥ naktamālāḥ ca candanāḥ syandanāḥ tathā.. 82..
हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः । पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान्॥ ८३॥
हिन्तालाः तिलकाः च एव नागवृक्षाः च पुष्पिताः । पुष्पितान् पुष्पित-अग्राभिः लताभिः परिवेष्टितान्॥ ८३॥
hintālāḥ tilakāḥ ca eva nāgavṛkṣāḥ ca puṣpitāḥ . puṣpitān puṣpita-agrābhiḥ latābhiḥ pariveṣṭitān.. 83..
द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून् । वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान्॥ ८४॥
द्रुमान् पश्य इह सौमित्रे पम्पायाः रुचिरान् बहून् । वात-विक्षिप्त-विटपान् यथा आसन्नान् द्रुमान् इमान्॥ ८४॥
drumān paśya iha saumitre pampāyāḥ rucirān bahūn . vāta-vikṣipta-viṭapān yathā āsannān drumān imān.. 84..
लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः । पादपात् पादपं गच्छन् शैलाच्छैलं वनाद् वनम्॥ ८५॥
लताः समनुवर्तन्ते मत्ताः इव वर-स्त्रियः । पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम्॥ ८५॥
latāḥ samanuvartante mattāḥ iva vara-striyaḥ . pādapāt pādapam gacchan śailāt śailam vanāt vanam.. 85..
वाति नैकरसास्वादसम्मोदित इवानिलः । केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः॥ ८६॥
वाति न एक-रस-आस्वाद-सम्मोदितः इव अनिलः । केचिद् पर्याप्त-कुसुमाः पादपाः मधु-गन्धिनः॥ ८६॥
vāti na eka-rasa-āsvāda-sammoditaḥ iva anilaḥ . kecid paryāpta-kusumāḥ pādapāḥ madhu-gandhinaḥ.. 86..
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः । इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि॥ ८७॥
केचिद् मुकुल-संवीताः श्याम-वर्णाः इव आबभुः । इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इति अपि॥ ८७॥
kecid mukula-saṃvītāḥ śyāma-varṇāḥ iva ābabhuḥ . idam mṛṣṭam idam svādu praphullam idam iti api.. 87..
रागरक्तो मधुकरः कुसुमेष्वेव लीयते । निलीय पुनरुत्पत्य सहसान्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ॥ ८८॥
राग-रक्तः मधुकरः कुसुमेषु एव लीयते । निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति । मधुलुब्धः मधुकरः पम्पा-तीर-द्रुमेषु असौ॥ ८८॥
rāga-raktaḥ madhukaraḥ kusumeṣu eva līyate . nilīya punar utpatya sahasā anyatra gacchati . madhulubdhaḥ madhukaraḥ pampā-tīra-drumeṣu asau.. 88..
इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता । स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव॥ ८९॥
इयम् कुसुम-संघातैः उपस्तीर्णा सुखाकृता । स्वयम् निपतितैः भूमिः शयन-प्रस्तरैः इव॥ ८९॥
iyam kusuma-saṃghātaiḥ upastīrṇā sukhākṛtā . svayam nipatitaiḥ bhūmiḥ śayana-prastaraiḥ iva.. 89..
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु । विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः॥ ९०॥
विविधाः विविधैः पुष्पैः तैः एव नग-सानुषु । विस्तीर्णाः पीत-रक्त-आभाः सौमित्रे प्रस्तराः कृताः॥ ९०॥
vividhāḥ vividhaiḥ puṣpaiḥ taiḥ eva naga-sānuṣu . vistīrṇāḥ pīta-rakta-ābhāḥ saumitre prastarāḥ kṛtāḥ.. 90..
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् । पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः॥ ९१॥
हिम-अन्ते पश्य सौमित्रे वृक्षाणाम् पुष्प-सम्भवम् । पुष्प-मासे हि तरवः संघर्षात् इव पुष्पिताः॥ ९१॥
hima-ante paśya saumitre vṛkṣāṇām puṣpa-sambhavam . puṣpa-māse hi taravaḥ saṃgharṣāt iva puṣpitāḥ.. 91..
आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः । कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण॥ ९२॥
आह्वयन्तः इव अन्योन्यम् नगाः षट्पद-नादिताः । कुसुम-उत्तंस-विटपाः शोभन्ते बहु लक्ष्मण॥ ९२॥
āhvayantaḥ iva anyonyam nagāḥ ṣaṭpada-nāditāḥ . kusuma-uttaṃsa-viṭapāḥ śobhante bahu lakṣmaṇa.. 92..
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् । रमते कान्तया सार्धं काममुद्दीपयन्निव॥ ९३॥
एष कारण्डवः पक्षी विगाह्य सलिलम् शुभम् । रमते कान्तया सार्धम् कामम् उद्दीपयन् इव॥ ९३॥
eṣa kāraṇḍavaḥ pakṣī vigāhya salilam śubham . ramate kāntayā sārdham kāmam uddīpayan iva.. 93..
मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोरमम् । स्थाने जगति विख्याता गुणास्तस्या मनोरमाः॥ ९४॥
मन्दाकिन्याः तु यत् इदम् रूपम् एतत् मनोरमम् । स्थाने जगति विख्याताः गुणाः तस्याः मनोरमाः॥ ९४॥
mandākinyāḥ tu yat idam rūpam etat manoramam . sthāne jagati vikhyātāḥ guṇāḥ tasyāḥ manoramāḥ.. 94..
यदि दृश्येत सा साध्वी यदि चेह वसेमहि । स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम॥ ९५॥
यदि दृश्येत सा साध्वी यदि च इह वसेमहि । स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम॥ ९५॥
yadi dṛśyeta sā sādhvī yadi ca iha vasemahi . spṛhayeyam na śakrāya na ayodhyāyai raghūttama.. 95..
न ह्येवं रमणीयेषु शाद्वलेषु तया सह । रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत्॥ ९६॥
न हि एवम् रमणीयेषु शाद्वलेषु तया सह । रमतः मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत्॥ ९६॥
na hi evam ramaṇīyeṣu śādvaleṣu tayā saha . ramataḥ me bhavet cintā na spṛhā anyeṣu vā bhavet.. 96..
अमी हि विविधैः पुष्पैस्तरवो विविधच्छदाः । काननेऽस्मिन् विना कान्तां चिन्तामुत्पादयन्ति मे॥ ९७॥
अमी हि विविधैः पुष्पैः तरवः विविध-छदाः । कानने अस्मिन् विना कान्ताम् चिन्ताम् उत्पादयन्ति मे॥ ९७॥
amī hi vividhaiḥ puṣpaiḥ taravaḥ vividha-chadāḥ . kānane asmin vinā kāntām cintām utpādayanti me.. 97..
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् । चक्रवाकानुचरितां कारण्डवनिषेविताम्॥ ९८॥
पश्य शीत-जलाम् च इमाम् सौमित्रे पुष्कर-आयुताम् । चक्रवाक-अनुचरिताम् कारण्डव-निषेविताम्॥ ९८॥
paśya śīta-jalām ca imām saumitre puṣkara-āyutām . cakravāka-anucaritām kāraṇḍava-niṣevitām.. 98..
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम् । अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः॥ ९९॥
प्लवैः क्रौञ्चैः च सम्पूर्णाम् महा-मृग-निषेविताम् । अधिकम् शोभते पम्पा विकूजद्भिः विहंगमैः॥ ९९॥
plavaiḥ krauñcaiḥ ca sampūrṇām mahā-mṛga-niṣevitām . adhikam śobhate pampā vikūjadbhiḥ vihaṃgamaiḥ.. 99..
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः । श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥ १००॥
दीपयन्ति इव मे कामम् विविधाः मुदिताः द्विजाः । श्यामाम् चन्द्र-मुखीम् स्मृत्वा प्रियाम् पद्म-निभ-ईक्षणाम्॥ १००॥
dīpayanti iva me kāmam vividhāḥ muditāḥ dvijāḥ . śyāmām candra-mukhīm smṛtvā priyām padma-nibha-īkṣaṇām.. 100..
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् । व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः॥ १०१॥
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । माम् पुनर् मृगशावाक्ष्या वैदेह्या विरहीकृतम् । व्यथयन्ति इव मे चित्तम् संचरन्तः ततस् ततस्॥ १०१॥
paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān . mām punar mṛgaśāvākṣyā vaidehyā virahīkṛtam . vyathayanti iva me cittam saṃcarantaḥ tatas tatas.. 101..
अस्मिन् सानुनि रम्ये हि मत्तद्विजगणाकुले । पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम॥ १०२॥
अस्मिन् सानुनि रम्ये हि मत्त-द्विज-गण-आकुले । पश्येयम् यदि ताम् कान्ताम् ततस् स्वस्ति भवेत् मम॥ १०२॥
asmin sānuni ramye hi matta-dvija-gaṇa-ākule . paśyeyam yadi tām kāntām tatas svasti bhavet mama.. 102..
जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवेत यदि वैदेही पम्पायाः पवनं शुभम्॥ १०३॥
जीवेयम् खलु सौमित्रे मया सह सुमध्यमा । सेवेत यदि वैदेही पम्पायाः पवनम् शुभम्॥ १०३॥
jīveyam khalu saumitre mayā saha sumadhyamā . seveta yadi vaidehī pampāyāḥ pavanam śubham.. 103..
पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पाया वनमारुतम्॥ १०४॥
पद्म-सौगन्धिक-वहम् शिवम् शोक-विनाशनम् । धन्याः लक्ष्मण सेवन्ते पम्पायाः वन-मारुतम्॥ १०४॥
padma-saugandhika-vaham śivam śoka-vināśanam . dhanyāḥ lakṣmaṇa sevante pampāyāḥ vana-mārutam.. 104..
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया । कथं धारयति प्राणान् विवशा जनकात्मजा॥ १०५॥
श्यामा पद्म-पलाश-अक्षी प्रिया विरहिता मया । कथम् धारयति प्राणान् विवशा जनकात्मजा॥ १०५॥
śyāmā padma-palāśa-akṣī priyā virahitā mayā . katham dhārayati prāṇān vivaśā janakātmajā.. 105..
किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम् । जनकं पृष्टसीतं तं कुशलं जनसंसदि॥ १०६॥
किम् नु वक्ष्यामि धर्म-ज्ञम् राजानम् सत्य-वादिनम् । जनकम् पृष्ट-सीतम् तम् कुशलम् जन-संसदि॥ १०६॥
kim nu vakṣyāmi dharma-jñam rājānam satya-vādinam . janakam pṛṣṭa-sītam tam kuśalam jana-saṃsadi.. 106..
या मामनुगता मन्दं पित्रा प्रस्थापितं वनम् । सीता धर्मं समास्थाय क्व नु सा वर्तते प्रिया॥ १०७॥
याः माम् अनुगता मन्दम् पित्रा प्रस्थापितम् वनम् । सीता धर्मम् समास्थाय क्व नु सा वर्तते प्रिया॥ १०७॥
yāḥ mām anugatā mandam pitrā prasthāpitam vanam . sītā dharmam samāsthāya kva nu sā vartate priyā.. 107..
तया विहीनः कृपणः कथं लक्ष्मण धारये । या मामनुगता राज्याद् भ्रष्टं विहतचेतसम्॥ १०८॥
तया विहीनः कृपणः कथम् लक्ष्मण धारये । याः माम् अनुगताः राज्यात् भ्रष्टम् विहत-चेतसम्॥ १०८॥
tayā vihīnaḥ kṛpaṇaḥ katham lakṣmaṇa dhāraye . yāḥ mām anugatāḥ rājyāt bhraṣṭam vihata-cetasam.. 108..
तच्चार्वाञ्चितपद्माक्षं सुगन्धि शुभमव्रणम् । अपश्यतो मुखं तस्याः सीदतीव मतिर्मम॥ १०९॥
तत् चारु-आञ्चित-पद्म-अक्षम् सुगन्धि शुभम् अव्रणम् । अ पश्यतः मुखम् तस्याः सीदति इव मतिः मम॥ १०९॥
tat cāru-āñcita-padma-akṣam sugandhi śubham avraṇam . a paśyataḥ mukham tasyāḥ sīdati iva matiḥ mama.. 109..
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण॥ ११०॥
स्मित-हास्य-अन्तर-युतम् गुणवत् मधुरम् हितम् । वैदेह्याः वाक्यम् अतुलम् कदा श्रोष्यामि लक्ष्मण॥ ११०॥
smita-hāsya-antara-yutam guṇavat madhuram hitam . vaidehyāḥ vākyam atulam kadā śroṣyāmi lakṣmaṇa.. 110..
प्राप्य दुःखं वने श्यामा मां मन्मथविकर्शितम् । नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत॥ १११॥
प्राप्य दुःखम् वने श्यामा माम् मन्मथ-विकर्शितम् । नष्ट-दुःखा इव हृष्टा इव साध्वी साधु अभ्यभाषत॥ १११॥
prāpya duḥkham vane śyāmā mām manmatha-vikarśitam . naṣṭa-duḥkhā iva hṛṣṭā iva sādhvī sādhu abhyabhāṣata.. 111..
किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज । क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम्॥ ११२॥
किम् नु वक्ष्यामि अयोध्यायाम् कौसल्याम् हि नृप-आत्मज । क्व सा स्नुषा इति पृच्छन्तीम् कथम् च अपि मनस्विनीम्॥ ११२॥
kim nu vakṣyāmi ayodhyāyām kausalyām hi nṛpa-ātmaja . kva sā snuṣā iti pṛcchantīm katham ca api manasvinīm.. 112..
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्॥ ११३॥
गच्छ लक्ष्मण पश्य त्वम् भरतम् भ्रातृ-वत्सलम् । न हि अहम् जीवितुम् शक्तः ताम् ऋते जनकात्मजाम्॥ ११३॥
gaccha lakṣmaṇa paśya tvam bharatam bhrātṛ-vatsalam . na hi aham jīvitum śaktaḥ tām ṛte janakātmajām.. 113..
इति रामं महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्॥ ११४॥
इति रामम् महात्मानम् विलपन्तम् अनाथ-वत् । उवाच लक्ष्मणः भ्राता वचनम् युक्तम् अव्ययम्॥ ११४॥
iti rāmam mahātmānam vilapantam anātha-vat . uvāca lakṣmaṇaḥ bhrātā vacanam yuktam avyayam.. 114..
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्॥ ११५॥
संस्तम्भ राम भद्रम् ते मा शुचः पुरुषोत्तम । न ईदृशानाम् मतिः मन्दा भवति अकलुष-आत्मनाम्॥ ११५॥
saṃstambha rāma bhadram te mā śucaḥ puruṣottama . na īdṛśānām matiḥ mandā bhavati akaluṣa-ātmanām.. 115..
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने । अतिस्नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते॥ ११६॥
स्मृत्वा वियोग-जम् दुःखम् त्यज स्नेहम् प्रिये जने । अतिस्नेह-परिष्वङ्गात् वर्तिः आर्द्रा अपि दह्यते॥ ११६॥
smṛtvā viyoga-jam duḥkham tyaja sneham priye jane . atisneha-pariṣvaṅgāt vartiḥ ārdrā api dahyate.. 116..
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा । सर्वथा रावणस्तात न भविष्यति राघव॥ ११७॥
यदि गच्छति पातालम् ततस् अभ्यधिकम् एव वा । सर्वथा रावणः तात न भविष्यति राघव॥ ११७॥
yadi gacchati pātālam tatas abhyadhikam eva vā . sarvathā rāvaṇaḥ tāta na bhaviṣyati rāghava.. 117..
प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः । ततो हास्यति वा सीतां निधनं वा गमिष्यति॥ ११८॥
प्रवृत्तिः लभ्यताम् तावत् तस्य पापस्य रक्षसः । ततस् हास्यति वा सीताम् निधनम् वा गमिष्यति॥ ११८॥
pravṛttiḥ labhyatām tāvat tasya pāpasya rakṣasaḥ . tatas hāsyati vā sītām nidhanam vā gamiṣyati.. 118..
यदि याति दितेर्गर्भं रावणं सह सीतया । तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम्॥ ११९॥
यदि याति दितेः गर्भम् रावणम् सह सीतया । तत्र अपि एनम् हनिष्यामि न चेद् दास्यति मैथिलीम्॥ ११९॥
yadi yāti diteḥ garbham rāvaṇam saha sītayā . tatra api enam haniṣyāmi na ced dāsyati maithilīm.. 119..
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः । अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते॥ १२०॥
स्वास्थ्यम् भद्रम् भजस्व आर्य त्यज्यताम् कृपणा मतिः । अर्थः हि नष्ट-कार्य-अर्थैः अयत्नेन अधिगम्यते॥ १२०॥
svāsthyam bhadram bhajasva ārya tyajyatām kṛpaṇā matiḥ . arthaḥ hi naṣṭa-kārya-arthaiḥ ayatnena adhigamyate.. 120..
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् । सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम्॥ १२१॥
उत्साहः बलवान् आर्य न अस्ति उत्साहात् परम् बलम् । स उत्साहस्य हि लोकेषु न किंचिद् अपि दुर्लभम्॥ १२१॥
utsāhaḥ balavān ārya na asti utsāhāt param balam . sa utsāhasya hi lokeṣu na kiṃcid api durlabham.. 121..
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम्॥ १२२॥
उत्साहवन्तः पुरुषाः न अवसीदन्ति कर्मसु । उत्साह-मात्रम् आश्रित्य प्रतिलप्स्याम जानकीम्॥ १२२॥
utsāhavantaḥ puruṣāḥ na avasīdanti karmasu . utsāha-mātram āśritya pratilapsyāma jānakīm.. 122..
त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः । महात्मानं कृतात्मानमात्मानं नावबुध्यसे॥ १२३॥
त्यजताम् काम-वृत्त-त्वम् शोकम् संन्यस्य पृष्ठतस् । महात्मानम् कृतात्मानम् आत्मानम् न अवबुध्यसे॥ १२३॥
tyajatām kāma-vṛtta-tvam śokam saṃnyasya pṛṣṭhatas . mahātmānam kṛtātmānam ātmānam na avabudhyase.. 123..
एवं सम्बोधितस्तेन शोकोपहतचेतनः । त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत्॥ १२४॥
एवम् सम्बोधितः तेन शोक-उपहत-चेतनः । त्यज्य शोकम् च मोहम् च रामः धैर्यम् उपागमत्॥ १२४॥
evam sambodhitaḥ tena śoka-upahata-cetanaḥ . tyajya śokam ca moham ca rāmaḥ dhairyam upāgamat.. 124..
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः । रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम्॥ १२५॥
सः अभ्यतिक्रामत् अव्यग्रः ताम् अचिन्त्य-पराक्रमः । रामः पम्पाम् सु रुचिराम् रम्याम् पारिप्लव-द्रुमाम्॥ १२५॥
saḥ abhyatikrāmat avyagraḥ tām acintya-parākramaḥ . rāmaḥ pampām su rucirām ramyām pāriplava-drumām.. 125..
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च । उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे॥ १२६॥
निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर-कन्दरम् च । उद्विग्न-चेताः सह लक्ष्मणेन विचार्य दुःख-उपहतः प्रतस्थे॥ १२६॥
nirīkṣamāṇaḥ sahasā mahātmā sarvam vanam nirjhara-kandaram ca . udvigna-cetāḥ saha lakṣmaṇena vicārya duḥkha-upahataḥ pratasthe.. 126..
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा । स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव॥ १२७॥
तम् मत्त-मातङ्ग-विलास-गामी गच्छन्तम् अव्यग्र-मनाः महात्मा । स लक्ष्मणः राघवम् इष्ट-चेष्टः ररक्ष धर्मेण बलेन च एव॥ १२७॥
tam matta-mātaṅga-vilāsa-gāmī gacchantam avyagra-manāḥ mahātmā . sa lakṣmaṇaḥ rāghavam iṣṭa-ceṣṭaḥ rarakṣa dharmeṇa balena ca eva.. 127..
तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ । शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव विचेष्ट चेष्टाम्॥ १२८॥
तौ ऋष्यमूकस्य समीप-चारी चरन् ददर्श अद्भुत-दर्शनीयौ । शाखामृगाणाम् अधिपः तरस्वी वितत्रसे ना एव विचेष्ट चेष्टाम्॥ १२८॥
tau ṛṣyamūkasya samīpa-cārī caran dadarśa adbhuta-darśanīyau . śākhāmṛgāṇām adhipaḥ tarasvī vitatrase nā eva viceṣṭa ceṣṭām.. 128..
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरंश्चरन्तौ । दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारभग्नः॥ १२९॥
स तौ महात्मा गज-मन्द-गामी शाखामृगः तत्र चरन् चरन्तौ । दृष्ट्वा विषादम् परमम् जगाम चिन्ता-परीतः भय-भार-भग्नः॥ १२९॥
sa tau mahātmā gaja-manda-gāmī śākhāmṛgaḥ tatra caran carantau . dṛṣṭvā viṣādam paramam jagāma cintā-parītaḥ bhaya-bhāra-bhagnaḥ.. 129..
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् । त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु- र्महौजसौ राघवलक्ष्मणौ तौ॥ १३०॥
तम् आश्रमम् पुण्य-सुखम् शरण्यम् सदा एव शाखामृग-सेवित-अन्तम् । त्रस्ताः च दृष्ट्वा हरयः अभिजग्मुः महा-ओजसौ राघव-लक्ष्मणौ तौ॥ १३०॥
tam āśramam puṇya-sukham śaraṇyam sadā eva śākhāmṛga-sevita-antam . trastāḥ ca dṛṣṭvā harayaḥ abhijagmuḥ mahā-ojasau rāghava-lakṣmaṇau tau.. 130..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे प्रथमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe prathamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In