This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे दशमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe daśamaḥ sargaḥ ..4..
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया॥ १॥
ततस् क्रोध-समाविष्टम् संरब्धम् तम् उपागतम् । अहम् प्रसादयांचक्रे भ्रातरम् हित-काम्यया॥ १॥
tatas krodha-samāviṣṭam saṃrabdham tam upāgatam . aham prasādayāṃcakre bhrātaram hita-kāmyayā.. 1..
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन॥ २॥
दिष्ट्या असि कुशली प्राप्तः निहतः च त्वया रिपुः । अनाथस्य हि मे नाथः त्वम् एकः अनाथ-नन्दन॥ २॥
diṣṭyā asi kuśalī prāptaḥ nihataḥ ca tvayā ripuḥ . anāthasya hi me nāthaḥ tvam ekaḥ anātha-nandana.. 2..
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्॥ ३॥
इदम् बहु-शलाकम् ते पूर्ण-चन्द्रम् इव उदितम् । छत्रम् प्रतीच्छस्व मया धृतम्॥ ३॥
idam bahu-śalākam te pūrṇa-candram iva uditam . chatram pratīcchasva mayā dhṛtam.. 3..
आर्तस्तत्र बिलद्वारि स्थितः संवत्सरं नृप । दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम्॥ ४॥
आर्तः तत्र बिल-द्वारि स्थितः संवत्सरम् नृप । दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम्॥ ४॥
ārtaḥ tatra bila-dvāri sthitaḥ saṃvatsaram nṛpa . dṛṣṭvā ca śoṇitam dvāri bilāt ca api samutthitam.. 4..
शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः । अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा॥ ५॥
शोक-संविग्न-हृदयः भृशम् व्याकुलित-इन्द्रियः । अपिधाय बिल-द्वारम् शैल-शृङ्गेण तत् तदा॥ ५॥
śoka-saṃvigna-hṛdayaḥ bhṛśam vyākulita-indriyaḥ . apidhāya bila-dvāram śaila-śṛṅgeṇa tat tadā.. 5..
तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः । विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च॥ ६॥
तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनर् । विषादात् तु इह माम् दृष्ट्वा पौरैः मन्त्रिभिः एव च॥ ६॥
tasmāt deśāt apākramya kiṣkindhām prāviśam punar . viṣādāt tu iha mām dṛṣṭvā pauraiḥ mantribhiḥ eva ca.. 6..
अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि । त्वमेव राजा मानार्हः सदा चाहं यथा पुरा॥ ७॥
अभिषिक्तः न कामेन तत् मे क्षन्तुम् त्वम् अर्हसि । त्वम् एव राजा मान-अर्हः सदा च अहम् यथा पुरा॥ ७॥
abhiṣiktaḥ na kāmena tat me kṣantum tvam arhasi . tvam eva rājā māna-arhaḥ sadā ca aham yathā purā.. 7..
राजभावे नियोगोऽयं मम त्वद्विरहात् कृतः । सामात्यपौरनगरं स्थितं निहतकण्टकम्॥ ८॥
राज-भावे नियोगः अयम् मम त्वद्-विरहात् कृतः । स अमात्य-पौर-नगरम् स्थितम् निहत-कण्टकम्॥ ८॥
rāja-bhāve niyogaḥ ayam mama tvad-virahāt kṛtaḥ . sa amātya-paura-nagaram sthitam nihata-kaṇṭakam.. 8..
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् । मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन॥ ९॥
न्यास-भूतम् इदम् राज्यम् तव निर्यातयामि अहम् । मा च रोषम् कृथाः सौम्य मम शत्रु-निषूदन॥ ९॥
nyāsa-bhūtam idam rājyam tava niryātayāmi aham . mā ca roṣam kṛthāḥ saumya mama śatru-niṣūdana.. 9..
याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः । बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः॥ १०॥
याचे त्वाम् शिरसा राजन् मया बद्धः अयम् अञ्जलिः । बलात् अस्मिन् समागम्य मन्त्रिभिः पुर-वासिभिः॥ १०॥
yāce tvām śirasā rājan mayā baddhaḥ ayam añjaliḥ . balāt asmin samāgamya mantribhiḥ pura-vāsibhiḥ.. 10..
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया । स्निग्धमेवं ब्रुवाणं मां स विनिर्भर्त्स्य वानरः॥ ११॥
राज-भावे नियुक्तः अहम् शून्य-देश-जिगीषया । स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः॥ ११॥
rāja-bhāve niyuktaḥ aham śūnya-deśa-jigīṣayā . snigdham evam bruvāṇam mām sa vinirbhartsya vānaraḥ.. 11..
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह । प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्॥ १२॥
धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह । प्रकृतीः च समानीय मन्त्रिणः च एव सम्मतान्॥ १२॥
dhik tvām iti ca mām uktvā bahu tat tat uvāca ha . prakṛtīḥ ca samānīya mantriṇaḥ ca eva sammatān.. 12..
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् । विदितं वो मया रात्रौ मायावी स महासुरः॥ १३॥
माम् आह सुहृदाम् मध्ये वाक्यम् परम-गर्हितम् । विदितम् वः मया रात्रौ मायावी स महा-असुरः॥ १३॥
mām āha suhṛdām madhye vākyam parama-garhitam . viditam vaḥ mayā rātrau māyāvī sa mahā-asuraḥ.. 13..
मां समाह्वयत क्रुद्धो युद्धाकांक्षी तदा पुरा । तस्य तद् भाषितं श्रुत्वा निःसृतोऽहं नृपालयात्॥ १४॥
माम् समाह्वयत क्रुद्धः युद्ध-आकांक्षी तदा पुरा । तस्य तत् भाषितम् श्रुत्वा निःसृतः अहम् नृप-आलयात्॥ १४॥
mām samāhvayata kruddhaḥ yuddha-ākāṃkṣī tadā purā . tasya tat bhāṣitam śrutvā niḥsṛtaḥ aham nṛpa-ālayāt.. 14..
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः । स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः॥ १५॥
अनुयातः च माम् तूर्णम् अयम् भ्राता सु दारुणः । स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महा-बलः॥ १५॥
anuyātaḥ ca mām tūrṇam ayam bhrātā su dāruṇaḥ . sa tu dṛṣṭvā eva mām rātrau sa dvitīyam mahā-balaḥ.. 15..
प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ । अभिद्रुतस्तु वेगेन विवेश स महाबिलम्॥ १६॥
प्राद्रवत् भय-संत्रस्तः वीक्ष्य आवाम् समुपागतौ । अभिद्रुतः तु वेगेन विवेश स महा-बिलम्॥ १६॥
prādravat bhaya-saṃtrastaḥ vīkṣya āvām samupāgatau . abhidrutaḥ tu vegena viveśa sa mahā-bilam.. 16..
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् । अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः॥ १७॥
तम् प्रविष्टम् विदित्वा तु सु घोरम् सु महत् बिलम् । अयम् उक्तः अथ मे भ्राता मया तु क्रूर-दर्शनः॥ १७॥
tam praviṣṭam viditvā tu su ghoram su mahat bilam . ayam uktaḥ atha me bhrātā mayā tu krūra-darśanaḥ.. 17..
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्॥ १८॥
अ हत्वा ना अस्ति मे शक्तिः प्रतिगन्तुम् इतस् पुरीम् । बिल-द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम्॥ १८॥
a hatvā nā asti me śaktiḥ pratigantum itas purīm . bila-dvāri pratīkṣa tvam yāvat enam nihanmi aham.. 18..
स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम् । तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा॥ १९॥
स्थितः अयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् । तम् मे मार्गयतः तत्र गतः संवत्सरः तदा॥ १९॥
sthitaḥ ayam iti matvā aham praviṣṭaḥ tu durāsadam . tam me mārgayataḥ tatra gataḥ saṃvatsaraḥ tadā.. 19..
स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः । निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः॥ २०॥
स तु दृष्टः मया शत्रुः अनिर्वेदात् भय-आवहः । निहतः च मया सद्यस् स सर्वैः सह बन्धुभिः॥ २०॥
sa tu dṛṣṭaḥ mayā śatruḥ anirvedāt bhaya-āvahaḥ . nihataḥ ca mayā sadyas sa sarvaiḥ saha bandhubhiḥ.. 20..
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् । पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले॥ २१॥
तस्य आस्यात् तु प्रवृत्तेन रुधिर-ओघेण तत् बिलम् । पूर्णम् आसीत् दुराक्रामम् स्तनतः तस्य भू-तले॥ २१॥
tasya āsyāt tu pravṛttena rudhira-ogheṇa tat bilam . pūrṇam āsīt durākrāmam stanataḥ tasya bhū-tale.. 21..
सूदयित्वा तु तं शत्रुं विक्रान्तं तमहं सुखम् । निष्क्रामं नैव पश्यामि बिलस्य पिहितं मुखम्॥ २२॥
सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् । निष्क्रामम् ना एव पश्यामि बिलस्य पिहितम् मुखम्॥ २२॥
sūdayitvā tu tam śatrum vikrāntam tam aham sukham . niṣkrāmam nā eva paśyāmi bilasya pihitam mukham.. 22..
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः । यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः॥ २३॥
विक्रोशमानस्य तु मे सुग्रीव इति पुनर् पुनर् । यतस् प्रतिवचः न अस्ति ततस् अहम् भृश-दुःखितः॥ २३॥
vikrośamānasya tu me sugrīva iti punar punar . yatas prativacaḥ na asti tatas aham bhṛśa-duḥkhitaḥ.. 23..
पादप्रहारैस्तु मया बहुभिः परिपातितम् । ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः॥ २४॥
पाद-प्रहारैः तु मया बहुभिः परिपातितम् । ततस् अहम् तेन निष्क्रम्य पथा पुरम् उपागतः॥ २४॥
pāda-prahāraiḥ tu mayā bahubhiḥ paripātitam . tatas aham tena niṣkramya pathā puram upāgataḥ.. 24..
तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्॥ २५॥
तत्र अनेन अस्मि संरुद्धः राज्यम् मृगयता आत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ-सौहृदम्॥ २५॥
tatra anena asmi saṃruddhaḥ rājyam mṛgayatā ātmanaḥ . sugrīveṇa nṛśaṃsena vismṛtya bhrātṛ-sauhṛdam.. 25..
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः । तदा निर्वासयामास वाली विगतसाध्वसः॥ २६॥
एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः । तदा निर्वासयामास वाली विगत-साध्वसः॥ २६॥
evam uktvā tu mām tatra vastreṇa ekena vānaraḥ . tadā nirvāsayāmāsa vālī vigata-sādhvasaḥ.. 26..
तेनाहमपविद्धश्च हृतदारश्च राघव । तद्भयाच्च महीं सर्वां क्रान्तवान् सवनार्णवाम्॥ २७॥
तेन अहम् अपविद्धः च हृत-दारः च राघव । तद्-भयात् च महीम् सर्वाम् क्रान्तवान् स वन-अर्णवाम्॥ २७॥
tena aham apaviddhaḥ ca hṛta-dāraḥ ca rāghava . tad-bhayāt ca mahīm sarvām krāntavān sa vana-arṇavām.. 27..
ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः । प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे॥ २८॥
ऋष्यमूकम् गिरि-वरम् भार्या-हरण-दुःखितः । प्रविष्टः अस्मि दुराधर्षम् वालिनः कारण-अन्तरे॥ २८॥
ṛṣyamūkam giri-varam bhāryā-haraṇa-duḥkhitaḥ . praviṣṭaḥ asmi durādharṣam vālinaḥ kāraṇa-antare.. 28..
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव॥ २९॥
एतत् ते सर्वम् आख्यातम् वैर-अनुकथनम् महत् । अनागसा मया प्राप्तम् व्यसनम् पश्य राघव॥ २९॥
etat te sarvam ākhyātam vaira-anukathanam mahat . anāgasā mayā prāptam vyasanam paśya rāghava.. 29..
वालिनश्च भयात् तस्य सर्वलोकभयापह । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्॥ ३०॥
वालिनः च भयात् तस्य सर्व-लोक-भय-अपह । कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात्॥ ३०॥
vālinaḥ ca bhayāt tasya sarva-loka-bhaya-apaha . kartum arhasi me vīra prasādam tasya nigrahāt.. 30..
एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव॥ ३१॥
एवम् उक्तः स तेजस्वी धर्म-ज्ञः धर्म-संहितम् । वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव॥ ३१॥
evam uktaḥ sa tejasvī dharma-jñaḥ dharma-saṃhitam . vacanam vaktum ārebhe sugrīvam prahasan iva.. 31..
अमोघाः सूर्यसंकाशा निशिता मे शरा इमे । तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः॥ ३२॥
अमोघाः सूर्य-संकाशाः निशिताः मे शराः इमे । तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषा अन्विताः॥ ३२॥
amoghāḥ sūrya-saṃkāśāḥ niśitāḥ me śarāḥ ime . tasmin vālini durvṛtte patiṣyanti ruṣā anvitāḥ.. 32..
यावत् तं नहि पश्येयं तव भार्यापहारिणम् । तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः॥ ३३॥
यावत् तम् नहि पश्येयम् तव भार्या-अपहारिणम् । तावत् स जीवेत् पाप-आत्मा वाली चारित्र-दूषकः॥ ३३॥
yāvat tam nahi paśyeyam tava bhāryā-apahāriṇam . tāvat sa jīvet pāpa-ātmā vālī cāritra-dūṣakaḥ.. 33..
आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे । त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम्॥ ३४॥
आत्म-अनुमानात् पश्यामि मग्नः त्वम् शोक-सागरे । त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम्॥ ३४॥
ātma-anumānāt paśyāmi magnaḥ tvam śoka-sāgare . tvām aham tārayiṣyāmi bāḍham prāpsyasi puṣkalam.. 34..
तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥ ३५॥
तस्य तत् वचनम् श्रुत्वा हर्ष-पौरुष-वर्धनम् । सुग्रीवः परम-प्रीतः सु महत् वाक्यम् अब्रवीत्॥ ३५॥
tasya tat vacanam śrutvā harṣa-pauruṣa-vardhanam . sugrīvaḥ parama-prītaḥ su mahat vākyam abravīt.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे दशमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe daśamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In