This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकादशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekādaśaḥ sargaḥ ..4..
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च॥ १॥
रामस्य वचनम् श्रुत्वा हर्ष-पौरुष-वर्धनम् । सुग्रीवः पूजयांचक्रे राघवम् प्रशशंस च॥ १॥
rāmasya vacanam śrutvā harṣa-pauruṣa-vardhanam . sugrīvaḥ pūjayāṃcakre rāghavam praśaśaṃsa ca.. 1..
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः॥ २॥
असंशयम् प्रज्वलितैः तीक्ष्णैः मर्म-अतिगैः शरैः । त्वम् दहेः कुपितः लोकान् युगान्ते इव भास्करः॥ २॥
asaṃśayam prajvalitaiḥ tīkṣṇaiḥ marma-atigaiḥ śaraiḥ . tvam daheḥ kupitaḥ lokān yugānte iva bhāskaraḥ.. 2..
वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्॥ ३॥
वालिनः पौरुषम् यत् तत् यत् च वीर्यम् धृतिः च या । तत् मम एकमनाः श्रुत्वा विधत्स्व यत् अनन्तरम्॥ ३॥
vālinaḥ pauruṣam yat tat yat ca vīryam dhṛtiḥ ca yā . tat mama ekamanāḥ śrutvā vidhatsva yat anantaram.. 3..
समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् । क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥ ४॥
समुद्रात् पश्चिमात् पूर्वम् दक्षिणात् अपि च उत्तरम् । क्रामति अनुदिते सूर्ये वाली व्यपगत-क्लमः॥ ४॥
samudrāt paścimāt pūrvam dakṣiṇāt api ca uttaram . krāmati anudite sūrye vālī vyapagata-klamaḥ.. 4..
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्॥ ५॥
अग्राणि आरुह्य शैलानाम् शिखराणि महान्ति अपि । ऊर्ध्वम् उत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्॥ ५॥
agrāṇi āruhya śailānām śikharāṇi mahānti api . ūrdhvam utpātya tarasā pratigṛhṇāti vīryavān.. 5..
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः॥ ६॥
बहवः सारवन्तः च वनेषु विविधाः द्रुमाः । वालिना तरसा भग्नाः बलम् प्रथयता॥ ६॥
bahavaḥ sāravantaḥ ca vaneṣu vividhāḥ drumāḥ . vālinā tarasā bhagnāḥ balam prathayatā.. 6..
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान्॥ ७॥
महिषः दुन्दुभिः नाम कैलास-शिखर-प्रभः । बलम् नाग-सहस्रस्य धारयामास वीर्यवान्॥ ७॥
mahiṣaḥ dundubhiḥ nāma kailāsa-śikhara-prabhaḥ . balam nāga-sahasrasya dhārayāmāsa vīryavān.. 7..
स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः । जगाम स महाकायः समुद्रं सरितां पतिम्॥ ८॥
स वीर्य-उत्सेक-दुष्ट-आत्मा वर-दानेन मोहितः । जगाम स महा-कायः समुद्रम् सरिताम् पतिम्॥ ८॥
sa vīrya-utseka-duṣṭa-ātmā vara-dānena mohitaḥ . jagāma sa mahā-kāyaḥ samudram saritām patim.. 8..
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् । मम युद्धं प्रयच्छेति तमुवाच महार्णवम्॥ ९॥
ऊर्मिमन्तम् अतिक्रम्य सागरम् रत्न-संचयम् । मम युद्धम् प्रयच्छ इति तम् उवाच महा-अर्णवम्॥ ९॥
ūrmimantam atikramya sāgaram ratna-saṃcayam . mama yuddham prayaccha iti tam uvāca mahā-arṇavam.. 9..
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद् वचनं राजन्नसुरं कालचोदितम्॥ १०॥
ततस् समुद्रः धर्म-आत्मा समुत्थाय महा-बलः । अब्रवीत् वचनम् राजन् असुरम् काल-चोदितम्॥ १०॥
tatas samudraḥ dharma-ātmā samutthāya mahā-balaḥ . abravīt vacanam rājan asuram kāla-coditam.. 10..
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतां त्वभिधास्यामि यस्ते युद्धं प्रदास्यति॥ ११॥
समर्थः ना अस्मि ते दातुम् युद्धम् युद्ध-विशारद । श्रूयताम् तु अभिधास्यामि यः ते युद्धम् प्रदास्यति॥ ११॥
samarthaḥ nā asmi te dātum yuddham yuddha-viśārada . śrūyatām tu abhidhāsyāmi yaḥ te yuddham pradāsyati.. 11..
शैलराजो महारण्ये तपस्विशरणं परम् । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ १२॥
शैलराजः महा-अरण्ये तपस्वि-शरणम् परम् । शंकरश्वशुरः नाम्ना हिमवान् इति विश्रुतः॥ १२॥
śailarājaḥ mahā-araṇye tapasvi-śaraṇam param . śaṃkaraśvaśuraḥ nāmnā himavān iti viśrutaḥ.. 12..
महाप्रस्रवणोपेतो बहुकन्दरनिर्झरः । स समर्थस्तव प्रीतिमतुलां कर्तुमर्हति॥ १३॥
महा-प्रस्रवण-उपेतः बहु-कन्दर-निर्झरः । स समर्थः तव प्रीतिम् अतुलाम् कर्तुम् अर्हति॥ १३॥
mahā-prasravaṇa-upetaḥ bahu-kandara-nirjharaḥ . sa samarthaḥ tava prītim atulām kartum arhati.. 13..
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमागम्य शरश्चापादिव च्युतः॥ १४॥
तम् भीतम् इति विज्ञाय समुद्रम् असुर-उत्तमः । हिमवत्-वनम् आगम्य शरः चापात् इव च्युतः॥ १४॥
tam bhītam iti vijñāya samudram asura-uttamaḥ . himavat-vanam āgamya śaraḥ cāpāt iva cyutaḥ.. 14..
ततस्तस्य गिरेः श्वेता गजेन्द्रप्रतिमाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥ १५॥
ततस् तस्य गिरेः श्वेताः गज-इन्द्र-प्रतिमाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिः विननाद च॥ १५॥
tatas tasya gireḥ śvetāḥ gaja-indra-pratimāḥ śilāḥ . cikṣepa bahudhā bhūmau dundubhiḥ vinanāda ca.. 15..
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद् वाक्यं स्व एव शिखरे स्थितः॥ १६॥
ततस् श्वेत-अम्बुद-आकारः सौम्यः प्रीति-कर-आकृतिः । हिमवान् अब्रवीत् वाक्यम् स्वे एव शिखरे स्थितः॥ १६॥
tatas śveta-ambuda-ākāraḥ saumyaḥ prīti-kara-ākṛtiḥ . himavān abravīt vākyam sve eva śikhare sthitaḥ.. 16..
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणो ह्यहम्॥ १७॥
क्लेष्टुम् अर्हसि माम् न त्वम् दुन्दुभे धर्म-वत्सल । रण-कर्मसु अकुशलः तपस्वि-शरणः हि अहम्॥ १७॥
kleṣṭum arhasi mām na tvam dundubhe dharma-vatsala . raṇa-karmasu akuśalaḥ tapasvi-śaraṇaḥ hi aham.. 17..
तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ १८॥
तस्य तत् वचनम् श्रुत्वा गिरि-राजस्य धीमतः । उवाच दुन्दुभिः वाक्यम् क्रोधात् संरक्त-लोचनः॥ १८॥
tasya tat vacanam śrutvā giri-rājasya dhīmataḥ . uvāca dundubhiḥ vākyam krodhāt saṃrakta-locanaḥ.. 18..
यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः । तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः॥ १९॥
यदि युद्धे असमर्थः त्वम् मद्-भयात् वा निरुद्यमः । तम् आचक्ष्व प्रदद्यात् मे यः हि युद्धम् युयुत्सतः॥ १९॥
yadi yuddhe asamarthaḥ tvam mad-bhayāt vā nirudyamaḥ . tam ācakṣva pradadyāt me yaḥ hi yuddham yuyutsataḥ.. 19..
हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्वं धर्मात्मा क्रोधात् तमसुरोत्तमम्॥ २०॥
हिमवान् अब्रवीत् वाक्यम् श्रुत्वा वाक्य-विशारदः । अन् उक्त-पूर्वम् धर्म-आत्मा क्रोधात् तम् असुर-उत्तमम्॥ २०॥
himavān abravīt vākyam śrutvā vākya-viśāradaḥ . an ukta-pūrvam dharma-ātmā krodhāt tam asura-uttamam.. 20..
वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान् । अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्॥ २१॥
वाली नाम महा-प्राज्ञ शक्र-पुत्रः प्रतापवान् । अध्यास्ते वानरः श्रीमान् किष्किन्धाम् अतुल-प्रभाम्॥ २१॥
vālī nāma mahā-prājña śakra-putraḥ pratāpavān . adhyāste vānaraḥ śrīmān kiṣkindhām atula-prabhām.. 21..
स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः॥ २२॥
स समर्थः महा-प्राज्ञः तव युद्ध-विशारदः । द्वन्द्व-युद्धम् स दातुम् ते नमुचेः इव वासवः॥ २२॥
sa samarthaḥ mahā-prājñaḥ tava yuddha-viśāradaḥ . dvandva-yuddham sa dātum te namuceḥ iva vāsavaḥ.. 22..
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि॥ २३॥
तम् शीघ्रम् अभिगच्छ त्वम् यदि युद्धम् इह इच्छसि । स हि दुर्मर्षणः नित्यम् शूरः समर-कर्मणि॥ २३॥
tam śīghram abhigaccha tvam yadi yuddham iha icchasi . sa hi durmarṣaṇaḥ nityam śūraḥ samara-karmaṇi.. 23..
श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा॥ २४॥
श्रुत्वा हिमवतः वाक्यम् कोप-आविष्टः स दुन्दुभिः । जगाम ताम् पुरीम् तस्य किष्किन्धाम् वालिनः तदा॥ २४॥
śrutvā himavataḥ vākyam kopa-āviṣṭaḥ sa dundubhiḥ . jagāma tām purīm tasya kiṣkindhām vālinaḥ tadā.. 24..
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले॥ २५॥
धारयन् माहिषम् रूपम् तीक्ष्ण-शृङ्गः भय-आवहः । प्रावृषि इव महा-मेघः तोय-पूर्णः नभस्तले॥ २५॥
dhārayan māhiṣam rūpam tīkṣṇa-śṛṅgaḥ bhaya-āvahaḥ . prāvṛṣi iva mahā-meghaḥ toya-pūrṇaḥ nabhastale.. 25..
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः । ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥ २६॥
ततस् तु द्वारम् आगम्य किष्किन्धायाः महा-बलः । ननर्द कम्पयन् भूमिम् दुन्दुभिः दुन्दुभिः यथा॥ २६॥
tatas tu dvāram āgamya kiṣkindhāyāḥ mahā-balaḥ . nanarda kampayan bhūmim dundubhiḥ dundubhiḥ yathā.. 26..
समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः । विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा॥ २७॥
समीप-जान् द्रुमान् भञ्जन् वसुधाम् दारयन् खुरैः । विषाणेन उल्लिखन् दर्पात् तद्-द्वारम् द्विरदः यथा॥ २७॥
samīpa-jān drumān bhañjan vasudhām dārayan khuraiḥ . viṣāṇena ullikhan darpāt tad-dvāram dviradaḥ yathā.. 27..
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमा॥ २८॥
अन्तःपुर-गतः वाली श्रुत्वा शब्दम् अमर्षणः । निष्पपात सह स्त्रीभिः ताराभिः इव चन्द्रमाः॥ २८॥
antaḥpura-gataḥ vālī śrutvā śabdam amarṣaṇaḥ . niṣpapāta saha strībhiḥ tārābhiḥ iva candramāḥ.. 28..
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्॥ २९॥
मितम् व्यक्त-अक्षर-पदम् तम् उवाच स दुन्दुभिम् । हरीणाम् ईश्वरः वाली सर्वेषाम् वन-चारिणाम्॥ २९॥
mitam vyakta-akṣara-padam tam uvāca sa dundubhim . harīṇām īśvaraḥ vālī sarveṣām vana-cāriṇām.. 29..
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसे । दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल॥ ३०॥
किमर्थम् नगर-द्वारम् इदम् रुद्ध्वा विनर्दसे । दुन्दुभे विदितः मे असि रक्ष प्राणान् महा-बल॥ ३०॥
kimartham nagara-dvāram idam ruddhvā vinardase . dundubhe viditaḥ me asi rakṣa prāṇān mahā-bala.. 30..
तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ ३१॥
तस्य तत् वचनम् श्रुत्वा वानर-इन्द्रस्य धीमतः । उवाच दुन्दुभिः वाक्यम् क्रोधात् संरक्त-लोचनः॥ ३१॥
tasya tat vacanam śrutvā vānara-indrasya dhīmataḥ . uvāca dundubhiḥ vākyam krodhāt saṃrakta-locanaḥ.. 31..
न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्॥ ३२॥
न त्वम् स्त्री-संनिधौ वीर वचनम् वक्तुम् अर्हसि । मम युद्धम् प्रयच्छ अद्य ततस् ज्ञास्यामि ते बलम्॥ ३२॥
na tvam strī-saṃnidhau vīra vacanam vaktum arhasi . mama yuddham prayaccha adya tatas jñāsyāmi te balam.. 32..
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर॥ ३३॥
अथवा धारयिष्यामि क्रोधम् अद्य निशाम् इमाम् । गृह्यताम् उदयः स्वैरम् काम-भोगेषु वानर॥ ३३॥
athavā dhārayiṣyāmi krodham adya niśām imām . gṛhyatām udayaḥ svairam kāma-bhogeṣu vānara.. 33..
दीयतां सम्प्रदानं च परिष्वज्य च वानरान् । सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनम्॥ ३४॥
दीयताम् सम्प्रदानम् च परिष्वज्य च वानरान् । सर्व-शाखामृग-इन्द्रः त्वम् संसादय सुहृद्-जनम्॥ ३४॥
dīyatām sampradānam ca pariṣvajya ca vānarān . sarva-śākhāmṛga-indraḥ tvam saṃsādaya suhṛd-janam.. 34..
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे । क्रीडस्व च समं स्त्रीभिरहं ते दर्पशासनः॥ ३५॥
सु दृष्टाम् कुरु किष्किन्धाम् कुरुष्व आत्म-समम् पुरे । क्रीडस्व च समम् स्त्रीभिः अहम् ते दर्प-शासनः॥ ३५॥
su dṛṣṭām kuru kiṣkindhām kuruṣva ātma-samam pure . krīḍasva ca samam strībhiḥ aham te darpa-śāsanaḥ.. 35..
यो हि मत्तं प्रमत्तं वा भग्नं वा रहितं कृशम् । हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम्॥ ३६॥
यः हि मत्तम् प्रमत्तम् वा भग्नम् वा रहितम् कृशम् । हन्यात् स भ्रूण-हा लोके त्वद्विधम् मद-मोहितम्॥ ३६॥
yaḥ hi mattam pramattam vā bhagnam vā rahitam kṛśam . hanyāt sa bhrūṇa-hā loke tvadvidham mada-mohitam.. 36..
स प्रहस्याब्रवीन्मन्दं क्रोधात् तमसुरेश्वरम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा॥ ३७॥
स प्रहस्य अब्रवीत् मन्दम् क्रोधात् तम् असुर-ईश्वरम् । विसृज्य ताः स्त्रियः सर्वाः तारा-प्रभृतिकाः तदा॥ ३७॥
sa prahasya abravīt mandam krodhāt tam asura-īśvaram . visṛjya tāḥ striyaḥ sarvāḥ tārā-prabhṛtikāḥ tadā.. 37..
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे । मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम्॥ ३८॥
मत्तः अयम् इति मा मंस्थाः यदि अभीतः असि संयुगे । मदः अयम् सम्प्रहारे अस्मिन् वीरपानम् समर्थ्यताम्॥ ३८॥
mattaḥ ayam iti mā maṃsthāḥ yadi abhītaḥ asi saṃyuge . madaḥ ayam samprahāre asmin vīrapānam samarthyatām.. 38..
तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत॥ ३९॥
तम् एवम् उक्त्वा संक्रुद्धः मालाम् उत्क्षिप्य काञ्चनीम् । पित्रा दत्ताम् महा-इन्द्रेण युद्धाय व्यवतिष्ठत॥ ३९॥
tam evam uktvā saṃkruddhaḥ mālām utkṣipya kāñcanīm . pitrā dattām mahā-indreṇa yuddhāya vyavatiṣṭhata.. 39..
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् । आविध्यत तथा वाली विनदन् कपिकुञ्जरः॥ ४०॥
विषाणयोः गृहीत्वा तम् दुन्दुभिम् गिरि-संनिभम् । आविध्यत तथा वाली विनदन् कपि-कुञ्जरः॥ ४०॥
viṣāṇayoḥ gṛhītvā tam dundubhim giri-saṃnibham . āvidhyata tathā vālī vinadan kapi-kuñjaraḥ.. 40..
बलाद् व्यापादयांचक्रे ननर्द च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः॥ ४१॥
बलात् व्यापादयांचक्रे ननर्द च महा-स्वनम् । श्रोत्राभ्याम् अथ रक्तम् तु तस्य सुस्राव॥ ४१॥
balāt vyāpādayāṃcakre nanarda ca mahā-svanam . śrotrābhyām atha raktam tu tasya susrāva.. 41..
तयोस्तु क्रोधसंरम्भात् परस्परजयैषिणोः । युद्धं समभवद् घोरं दुन्दुभेर्वालिनस्तथा॥ ४२॥
तयोः तु क्रोध-संरम्भात् परस्पर-जय-एषिणोः । युद्धम् समभवत् घोरम् दुन्दुभेः वालिनः तथा॥ ४२॥
tayoḥ tu krodha-saṃrambhāt paraspara-jaya-eṣiṇoḥ . yuddham samabhavat ghoram dundubheḥ vālinaḥ tathā.. 42..
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा॥ ४३॥
अयुध्यत तदा वाली शक्र-तुल्य-पराक्रमः । मुष्टिभिः जानुभिः पद्भिः शिलाभिः पादपैः तथा॥ ४३॥
ayudhyata tadā vālī śakra-tulya-parākramaḥ . muṣṭibhiḥ jānubhiḥ padbhiḥ śilābhiḥ pādapaiḥ tathā.. 43..
परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा । आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत॥ ४४॥
परस्परम् घ्नतोः तत्र वानर-असुरयोः तदा । आसीत् हीनः असुरः युद्धे शक्र-सूनुः व्यवर्धत॥ ४४॥
parasparam ghnatoḥ tatra vānara-asurayoḥ tadā . āsīt hīnaḥ asuraḥ yuddhe śakra-sūnuḥ vyavardhata.. 44..
तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् । युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा॥ ४५॥
तम् तु दुन्दुभिम् उद्यम्य धरण्याम् अभ्यपातयत् । युद्धे प्राण-हरे तस्मिन् निष्पिष्टः दुन्दुभिः तदा॥ ४५॥
tam tu dundubhim udyamya dharaṇyām abhyapātayat . yuddhe prāṇa-hare tasmin niṣpiṣṭaḥ dundubhiḥ tadā.. 45..
स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः । पपात च महाबाहुः क्षितौ पञ्चत्वमागतः॥ ४६॥
स्रोतोभ्यः बहु रक्तम् तु तस्य सुस्राव । पपात च महा-बाहुः क्षितौ पञ्चत्वम् आगतः॥ ४६॥
srotobhyaḥ bahu raktam tu tasya susrāva . papāta ca mahā-bāhuḥ kṣitau pañcatvam āgataḥ.. 46..
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् । चिक्षेप वेगवान् वाली वेगेनैकेन योजनम्॥ ४७॥
तम् तोलयित्वा बाहुभ्याम् गत-सत्त्वम् अचेतनम् । चिक्षेप वेगवान् वाली वेगेन एकेन योजनम्॥ ४७॥
tam tolayitvā bāhubhyām gata-sattvam acetanam . cikṣepa vegavān vālī vegena ekena yojanam.. 47..
तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति॥ ४८॥
तस्य वेग-प्रविद्धस्य वक्त्रात् क्षतज-बिन्दवः । प्रपेतुः मारुत-उत्क्षिप्ताः मतङ्गस्य आश्रमम् प्रति॥ ४८॥
tasya vega-praviddhasya vaktrāt kṣataja-bindavaḥ . prapetuḥ māruta-utkṣiptāḥ mataṅgasya āśramam prati.. 48..
तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः । क्रुद्धस्तस्य महाभाग चिन्तयामास को न्वयम्॥ ४९॥
तान् दृष्ट्वा पतितान् तत्र मुनिः शोणित-विप्रुषः । क्रुद्धः तस्य महाभाग चिन्तयामास कः नु अयम्॥ ४९॥
tān dṛṣṭvā patitān tatra muniḥ śoṇita-vipruṣaḥ . kruddhaḥ tasya mahābhāga cintayāmāsa kaḥ nu ayam.. 49..
येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः॥ ५०॥
येन अहम् सहसा स्पृष्टः शोणितेन दुरात्मना । कः अयम् दुरात्मा दुर्बुद्धिः अकृतात्मा च बालिशः॥ ५०॥
yena aham sahasā spṛṣṭaḥ śoṇitena durātmanā . kaḥ ayam durātmā durbuddhiḥ akṛtātmā ca bāliśaḥ.. 50..
इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः । महिषं पर्वताकारं गतासुं पतितं भुवि॥ ५१॥
इति उक्त्वा स विनिष्क्रम्य ददृशे मुनि-सत्तमः । महिषम् पर्वत-आकारम् गतासुम् पतितम् भुवि॥ ५१॥
iti uktvā sa viniṣkramya dadṛśe muni-sattamaḥ . mahiṣam parvata-ākāram gatāsum patitam bhuvi.. 51..
स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज महाशापं क्षेप्तारं वानरं प्रति॥ ५२॥
स तु विज्ञाय तपसा वानरेण कृतम् हि तत् । उत्ससर्ज महा-शापम् क्षेप्तारम् वानरम् प्रति॥ ५२॥
sa tu vijñāya tapasā vānareṇa kṛtam hi tat . utsasarja mahā-śāpam kṣeptāram vānaram prati.. 52..
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः॥ ५३॥
इह तेन अ प्रवेष्टव्यम् प्रविष्टस्य वधः भवेत् । वनम् मद्-संश्रयम् येन दूषितम् रुधिर-स्रवैः॥ ५३॥
iha tena a praveṣṭavyam praviṣṭasya vadhaḥ bhavet . vanam mad-saṃśrayam yena dūṣitam rudhira-sravaiḥ.. 53..
क्षिपता पादपाश्चेमे सम्भग्नाश्चासुरीं तनुम् । समन्तादाश्रमं पूर्णं योजनं मामकं यदि॥ ५४॥
क्षिपता पादपाः च इमे सम्भग्नाः च आसुरीम् तनुम् । समन्तात् आश्रमम् पूर्णम् योजनम् मामकम् यदि॥ ५४॥
kṣipatā pādapāḥ ca ime sambhagnāḥ ca āsurīm tanum . samantāt āśramam pūrṇam yojanam māmakam yadi.. 54..
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति । ये चास्य सचिवाः केचित् संश्रिता मामकं वनम्॥ ५५॥
आगमिष्यति दुर्बुद्धिः व्यक्तम् स न भविष्यति । ये च अस्य सचिवाः केचिद् संश्रिताः मामकम् वनम्॥ ५५॥
āgamiṣyati durbuddhiḥ vyaktam sa na bhaviṣyati . ye ca asya sacivāḥ kecid saṃśritāḥ māmakam vanam.. 55..
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् । तेऽपि वा यदि तिष्ठन्ति शपिष्ये तानपि ध्रुवम्॥ ५६॥
न च तैः इह वस्तव्यम् श्रुत्वा यान्तु यथासुखम् । ते अपि वा यदि तिष्ठन्ति शपिष्ये तान् अपि ध्रुवम्॥ ५६॥
na ca taiḥ iha vastavyam śrutvā yāntu yathāsukham . te api vā yadi tiṣṭhanti śapiṣye tān api dhruvam.. 56..
वनेऽस्मिन् मामके नित्यं पुत्रवत् परिरक्षिते । पत्राङ्कुरविनाशाय फलमूलाभवाय च॥ ५७॥
वने अस्मिन् मामके नित्यम् पुत्र-वत् परिरक्षिते । पत्र-अङ्कुर-विनाशाय फल-मूल-आभवाय च॥ ५७॥
vane asmin māmake nityam putra-vat parirakṣite . patra-aṅkura-vināśāya phala-mūla-ābhavāya ca.. 57..
दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति॥ ५८॥
दिवसः च अद्य मर्यादा यम् द्रष्टा श्वस् अस्मि वानरम् । बहु-वर्ष-सहस्राणि स वै शैलः भविष्यति॥ ५८॥
divasaḥ ca adya maryādā yam draṣṭā śvas asmi vānaram . bahu-varṣa-sahasrāṇi sa vai śailaḥ bhaviṣyati.. 58..
ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात् तस्मात् तान् दृष्ट्वा वालिरब्रवीत्॥ ५९॥
ततस् ते वानराः श्रुत्वा गिरम् मुनि-समीरिताम् । निश्चक्रमुः वनात् तस्मात् तान् दृष्ट्वा वालिः अब्रवीत्॥ ५९॥
tatas te vānarāḥ śrutvā giram muni-samīritām . niścakramuḥ vanāt tasmāt tān dṛṣṭvā vāliḥ abravīt.. 59..
किं भवन्तः समस्ताश्च मतङ्गवनवासिनः । मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्॥ ६०॥
किम् भवन्तः समस्ताः च मतङ्ग-वन-वासिनः । मद्-समीपम् अनुप्राप्ताः अपि स्वस्ति वनौकसाम्॥ ६०॥
kim bhavantaḥ samastāḥ ca mataṅga-vana-vāsinaḥ . mad-samīpam anuprāptāḥ api svasti vanaukasām.. 60..
ततस्ते कारणं सर्वं तथा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने॥ ६१॥
ततस् ते कारणम् सर्वम् तथा शापम् च वालिनः । शशंसुः वानराः सर्वे वालिने हेम-मालिने॥ ६१॥
tatas te kāraṇam sarvam tathā śāpam ca vālinaḥ . śaśaṃsuḥ vānarāḥ sarve vāline hema-māline.. 61..
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् । स महर्षिं समासाद्य याचते स्म कृताञ्जलिः॥ ६२॥
एतत् श्रुत्वा तदा वाली वचनम् वानर-ईरितम् । स महा-ऋषिम् समासाद्य याचते स्म कृताञ्जलिः॥ ६२॥
etat śrutvā tadā vālī vacanam vānara-īritam . sa mahā-ṛṣim samāsādya yācate sma kṛtāñjaliḥ.. 62..
महर्षिस्तमनादृत्य प्रविवेशाश्रमं प्रति । शापधारणभीतस्तु वाली विह्वलतां गतः॥ ६३॥
महा-ऋषिः तम् अन् आदृत्य प्रविवेश आश्रमम् प्रति । शाप-धारण-भीतः तु वाली विह्वल-ताम् गतः॥ ६३॥
mahā-ṛṣiḥ tam an ādṛtya praviveśa āśramam prati . śāpa-dhāraṇa-bhītaḥ tu vālī vihvala-tām gataḥ.. 63..
ततः शापभयाद् भीतो ऋष्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर॥ ६४॥
ततस् शाप-भयात् ऋष्यमूकम् महा-गिरिम् । प्रवेष्टुम् ना इच्छति हरिः द्रष्टुम् वा अपि नरेश्वर॥ ६४॥
tatas śāpa-bhayāt ṛṣyamūkam mahā-girim . praveṣṭum nā icchati hariḥ draṣṭum vā api nareśvara.. 64..
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः॥ ६५॥
तस्य अप्रवेशम् ज्ञात्वा अहम् इदम् राम महा-वनम् । विचरामि सहामात्यः विषादेन विवर्जितः॥ ६५॥
tasya apraveśam jñātvā aham idam rāma mahā-vanam . vicarāmi sahāmātyaḥ viṣādena vivarjitaḥ.. 65..
एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्॥ ६६॥
एषः अस्थि-निचयः तस्य दुन्दुभेः सम्प्रकाशते । वीर्य-उत्सेकान् निरस्तस्य गिरि-कूट-निभः महान्॥ ६६॥
eṣaḥ asthi-nicayaḥ tasya dundubheḥ samprakāśate . vīrya-utsekān nirastasya giri-kūṭa-nibhaḥ mahān.. 66..
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा॥ ६७॥
इमे च विपुलाः सालाः सप्त शाखा-अवलम्बिनः । यत्र एकम् घटते वाली निष्पत्रयितुम् ओजसा॥ ६७॥
ime ca vipulāḥ sālāḥ sapta śākhā-avalambinaḥ . yatra ekam ghaṭate vālī niṣpatrayitum ojasā.. 67..
एतदस्यासमं वीर्यं मया राम प्रकाशितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप॥ ६८॥
एतत् अस्य असमम् वीर्यम् मया राम प्रकाशितम् । कथम् तम् वालिनम् हन्तुम् समरे शक्ष्यसे नृप॥ ६८॥
etat asya asamam vīryam mayā rāma prakāśitam . katham tam vālinam hantum samare śakṣyase nṛpa.. 68..
तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्॥ ६९॥
तथा ब्रुवाणम् सुग्रीवम् प्रहसन् लक्ष्मणः अब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्याः वालिनः वधम्॥ ६९॥
tathā bruvāṇam sugrīvam prahasan lakṣmaṇaḥ abravīt . kasmin karmaṇi nirvṛtte śraddadhyāḥ vālinaḥ vadham.. 69..
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा । एवमेकैकशो वाली विव्याधाथ स चासकृत्॥ ७०॥
तम् उवाच अथ सुग्रीवः सप्त सालान् इमान् पुरा । एवम् एकैकशस् वाली विव्याध अथ स च असकृत्॥ ७०॥
tam uvāca atha sugrīvaḥ sapta sālān imān purā . evam ekaikaśas vālī vivyādha atha sa ca asakṛt.. 70..
रामो निर्दारयेदेषां बाणेनैकेन च द्रुमम् । वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्॥ ७१॥
रामः निर्दारयेत् एषाम् बाणेन एकेन च द्रुमम् । वालिनम् निहतम् मन्ये दृष्ट्वा रामस्य विक्रमम्॥ ७१॥
rāmaḥ nirdārayet eṣām bāṇena ekena ca drumam . vālinam nihatam manye dṛṣṭvā rāmasya vikramam.. 71..
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते॥ ७२॥
हतस्य महिषस्य अस्थि पादेन एकेन लक्ष्मण । उद्यम्य प्रक्षिपेत् च अपि तरसा द्वे धनुः-शते॥ ७२॥
hatasya mahiṣasya asthi pādena ekena lakṣmaṇa . udyamya prakṣipet ca api tarasā dve dhanuḥ-śate.. 72..
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् । ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्॥ ७३॥
एवम् उक्त्वा तु सुग्रीवः रामम् रक्त-अन्त-लोचनम् । ध्यात्वा मुहूर्तम् काकुत्स्थम् पुनर् एव वचः अब्रवीत्॥ ७३॥
evam uktvā tu sugrīvaḥ rāmam rakta-anta-locanam . dhyātvā muhūrtam kākutstham punar eva vacaḥ abravīt.. 73..
शूरश्च शूरमानी च प्रख्यातबलपौरुषः । बलवान् वानरो वाली संयुगेष्वपराजितः॥ ७४॥
शूरः च शूर-मानी च प्रख्यात-बल-पौरुषः । बलवान् वानरः वाली संयुगेषु अपराजितः॥ ७४॥
śūraḥ ca śūra-mānī ca prakhyāta-bala-pauruṣaḥ . balavān vānaraḥ vālī saṃyugeṣu aparājitaḥ.. 74..
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि । यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः॥ ७५॥
दृश्यन्ते च अस्य कर्माणि दुष्कराणि सुरैः अपि । यानि संचिन्त्य भीतः अहम् ऋष्य-मूकम् उपाश्रितः॥ ७५॥
dṛśyante ca asya karmāṇi duṣkarāṇi suraiḥ api . yāni saṃcintya bhītaḥ aham ṛṣya-mūkam upāśritaḥ.. 75..
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चापि ऋष्यमूकममुं त्वहम्॥ ७६॥
तम् अजय्यम् अधृष्यम् च वानर-इन्द्रम् अमर्षणम् । विचिन्तयन् न मुञ्च अपि ऋष्य-मूकम् अमुम् तु अहम्॥ ७६॥
tam ajayyam adhṛṣyam ca vānara-indram amarṣaṇam . vicintayan na muñca api ṛṣya-mūkam amum tu aham.. 76..
उद्विग्नः शङ्कितश्चाहं विचरामि महावने । अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः॥ ७७॥
उद्विग्नः शङ्कितः च अहम् विचरामि महा-वने । अनुरक्तैः सह अमात्यैः हनुमत्-प्रमुखैः वरैः॥ ७७॥
udvignaḥ śaṅkitaḥ ca aham vicarāmi mahā-vane . anuraktaiḥ saha amātyaiḥ hanumat-pramukhaiḥ varaiḥ.. 77..
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः॥ ७८॥
उपलब्धम् च मे श्लाघ्यम् सत्-मित्रम् मित्र-वत्सल । त्वाम् अहम् पुरुष-व्याघ्र हिमवन्तम् इव आश्रितः॥ ७८॥
upalabdham ca me ślāghyam sat-mitram mitra-vatsala . tvām aham puruṣa-vyāghra himavantam iva āśritaḥ.. 78..
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः । अप्रत्यक्षं तु मे वीर्यं समरे तव राघव॥ ७९॥
किम् तु तस्य बल-ज्ञः अहम् दुर्भ्रातुः बल-शालिनः । अप्रत्यक्षम् तु मे वीर्यम् समरे तव राघव॥ ७९॥
kim tu tasya bala-jñaḥ aham durbhrātuḥ bala-śālinaḥ . apratyakṣam tu me vīryam samare tava rāghava.. 79..
न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैश्च कातर्यं जनितं मम॥ ८०॥
न खलु अहम् त्वाम् तुलये न अवमन्ये न भीषये । कर्मभिः तस्य भीमैः च कातर्यम् जनितम् मम॥ ८०॥
na khalu aham tvām tulaye na avamanye na bhīṣaye . karmabhiḥ tasya bhīmaiḥ ca kātaryam janitam mama.. 80..
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः । सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्॥ ८१॥
कामम् राघव ते वाणी प्रमाणम् धैर्यम् आकृतिः । सूचयन्ति परम् तेजः भस्म-छन्नम् इव अनलम्॥ ८१॥
kāmam rāghava te vāṇī pramāṇam dhairyam ākṛtiḥ . sūcayanti param tejaḥ bhasma-channam iva analam.. 81..
तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः । स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रति॥ ८२॥
तस्य तत् वचनम् श्रुत्वा सुग्रीवस्य महात्मनः । स्मित-पूर्वम् अथो रामः प्रत्युवाच हरिम् प्रति॥ ८२॥
tasya tat vacanam śrutvā sugrīvasya mahātmanaḥ . smita-pūrvam atho rāmaḥ pratyuvāca harim prati.. 82..
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते॥ ८३॥
यदि न प्रत्ययः अस्मासु विक्रमे तव वानर । प्रत्ययम् समरे श्लाघ्यम् अहम् उत्पादयामि ते॥ ८३॥
yadi na pratyayaḥ asmāsu vikrame tava vānara . pratyayam samare ślāghyam aham utpādayāmi te.. 83..
एवमुक्त्वा तु सुग्रीवं सान्त्वयँल्लक्ष्मणाग्रजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया॥ ८४॥
एवम् उक्त्वा तु सुग्रीवम् सान्त्वयन् लक्ष्मण-अग्रजः । राघवः दुन्दुभेः कायम् पादाङ्गुष्ठेन लीलया॥ ८४॥
evam uktvā tu sugrīvam sāntvayan lakṣmaṇa-agrajaḥ . rāghavaḥ dundubheḥ kāyam pādāṅguṣṭhena līlayā.. 84..
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् । असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान्॥ ८५॥
तोलयित्वा महा-बाहुः चिक्षेप दश-योजनम् । असुरस्य तनुम् शुष्काम् पादाङ्गुष्ठेन वीर्यवान्॥ ८५॥
tolayitvā mahā-bāhuḥ cikṣepa daśa-yojanam . asurasya tanum śuṣkām pādāṅguṣṭhena vīryavān.. 85..
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् । लक्ष्मणस्याग्रतो रामं तपन्तमिव भास्करम् । हरीणामग्रतो वीरमिदं वचनमर्थवत्॥ ८६॥
क्षिप्तम् दृष्ट्वा ततस् कायम् सुग्रीवः पुनर् अब्रवीत् । लक्ष्मणस्य अग्रतस् रामम् तपन्तम् इव भास्करम् । हरीणाम् अग्रतस् वीरम् इदम् वचनम् अर्थवत्॥ ८६॥
kṣiptam dṛṣṭvā tatas kāyam sugrīvaḥ punar abravīt . lakṣmaṇasya agratas rāmam tapantam iva bhāskaram . harīṇām agratas vīram idam vacanam arthavat.. 86..
आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे । परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा॥ ८७॥
आर्द्रः स मांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे । परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा॥ ८७॥
ārdraḥ sa māṃsaḥ pratyagraḥ kṣiptaḥ kāyaḥ purā sakhe . pariśrāntena mattena bhrātrā me vālinā tadā.. 87..
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव । क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन॥ ८८॥
लघुः सम्प्रति निर्मांसः तृण-भूतः च राघव । क्षिप्तः एवम् प्रहर्षेण भवता रघुनन्दन॥ ८८॥
laghuḥ samprati nirmāṃsaḥ tṛṇa-bhūtaḥ ca rāghava . kṣiptaḥ evam praharṣeṇa bhavatā raghunandana.. 88..
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् । आर्द्रं शुष्कमिति ह्येतत् सुमहद् राघवान्तरम्॥ ८९॥
न अत्र शक्यम् बलम् ज्ञातुम् तव वा तस्य वा अधिकम् । आर्द्रम् शुष्कम् इति हि एतत् सु महत् राघव-अन्तरम्॥ ८९॥
na atra śakyam balam jñātum tava vā tasya vā adhikam . ārdram śuṣkam iti hi etat su mahat rāghava-antaram.. 89..
स एव संशयस्तात तव तस्य च यद्बलम् । सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले॥ ९०॥
सः एव संशयः तात तव तस्य च यत् बलम् । सालम् एकम् विनिर्भिद्य भवेत् व्यक्तिः बल-अबले॥ ९०॥
saḥ eva saṃśayaḥ tāta tava tasya ca yat balam . sālam ekam vinirbhidya bhavet vyaktiḥ bala-abale.. 90..
कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवाततम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम्॥ ९१॥
कृत्वा एतत् कार्मुकम् सज्यम् हस्ति-हस्तम् इव आततम् । आकर्णपूर्णम् आयम्य विसृजस्व महा-शरम्॥ ९१॥
kṛtvā etat kārmukam sajyam hasti-hastam iva ātatam . ākarṇapūrṇam āyamya visṛjasva mahā-śaram.. 91..
इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति । अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया॥ ९२॥
इमम् हि सालम् प्रहितः त्वया शरः न संशयः अत्र अस्ति विदारयिष्यति । अलम् विमर्शेन मम प्रियम् ध्रुवम् कुरुष्व राजन् प्रतिशापितः मया॥ ९२॥
imam hi sālam prahitaḥ tvayā śaraḥ na saṃśayaḥ atra asti vidārayiṣyati . alam vimarśena mama priyam dhruvam kuruṣva rājan pratiśāpitaḥ mayā.. 92..
यथा हि तेजःसु वरः सदारवि- र्यथा हि शैलो हिमवान् महाद्रिषु । यथा चतुष्पात्सु च केसरी वर- स्तथा नराणामसि विक्रमे वरः॥ ९३॥
यथा हि तेजःसु वरः सदा अरविः यथा हि शैलः हिमवान् महा-अद्रिषु । यथा चतुष्पात्सु च केसरी वरः तथा नराणाम् असि विक्रमे वरः॥ ९३॥
yathā hi tejaḥsu varaḥ sadā araviḥ yathā hi śailaḥ himavān mahā-adriṣu . yathā catuṣpātsu ca kesarī varaḥ tathā narāṇām asi vikrame varaḥ.. 93..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकादशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekādaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In