This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्वादशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dvādaśaḥ sargaḥ ..4..
एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्॥ १॥
एतत् च वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् । प्रत्यय-अर्थम् महा-तेजाः रामः जग्राह कार्मुकम्॥ १॥
etat ca vacanam śrutvā sugrīvasya subhāṣitam . pratyaya-artham mahā-tejāḥ rāmaḥ jagrāha kārmukam.. 1..
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः॥ २॥
स गृहीत्वा धनुः घोरम् शरम् एकम् च मानदः । सालम् उद्दिश्य चिक्षेप पूरयन् स रवैः दिशः॥ २॥
sa gṛhītvā dhanuḥ ghoram śaram ekam ca mānadaḥ . sālam uddiśya cikṣepa pūrayan sa ravaiḥ diśaḥ.. 2..
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः । भित्त्वा सालान् गिरिप्रस्थं सप्तं भूमिं विवेश ह॥ ३॥
स विसृष्टः बलवता बाणः स्वर्ण-परिष्कृतः । भित्त्वा सालान् गिरि-प्रस्थम् सप्तम् भूमिम् विवेश ह॥ ३॥
sa visṛṣṭaḥ balavatā bāṇaḥ svarṇa-pariṣkṛtaḥ . bhittvā sālān giri-prastham saptam bhūmim viveśa ha.. 3..
सायकस्तु मुहूर्तेन सालान् भित्त्वा महाजवः । निष्पत्य च पुनस्तूणं तमेव प्रविवेश ह॥ ४॥
सायकः तु मुहूर्तेन सालान् भित्त्वा महा-जवः । निष्पत्य च पुनर् तूणम् तम् एव प्रविवेश ह॥ ४॥
sāyakaḥ tu muhūrtena sālān bhittvā mahā-javaḥ . niṣpatya ca punar tūṇam tam eva praviveśa ha.. 4..
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः । रामस्य शरवेगेन विस्मयं परमं गतः॥ ५॥
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानर-पुङ्गवः । रामस्य शर-वेगेन विस्मयम् परमम् गतः॥ ५॥
tān dṛṣṭvā sapta nirbhinnān sālān vānara-puṅgavaḥ . rāmasya śara-vegena vismayam paramam gataḥ.. 5..
स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः॥ ६॥
स मूर्ध्ना न्यपतत् भूमौ प्रलम्बीकृत-भूषणः । सुग्रीवः परम-प्रीतः राघवाय कृत-अञ्जलिः॥ ६॥
sa mūrdhnā nyapatat bhūmau pralambīkṛta-bhūṣaṇaḥ . sugrīvaḥ parama-prītaḥ rāghavāya kṛta-añjaliḥ.. 6..
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः । रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्॥ ७॥
इदम् च उवाच धर्म-ज्ञम् कर्मणा तेन हर्षितः । रामम् सर्व-अस्त्र-विदुषाम् श्रेष्ठम् शूरम् अवस्थितम्॥ ७॥
idam ca uvāca dharma-jñam karmaṇā tena harṣitaḥ . rāmam sarva-astra-viduṣām śreṣṭham śūram avasthitam.. 7..
सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ । समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो॥ ८॥
स इन्द्रान् अपि सुरान् सर्वान् त्वम् बाणैः पुरुष-ऋषभ । समर्थः समरे हन्तुम् किम् पुनर् वालिनम् प्रभो॥ ८॥
sa indrān api surān sarvān tvam bāṇaiḥ puruṣa-ṛṣabha . samarthaḥ samare hantum kim punar vālinam prabho.. 8..
येन सप्त महासाला गिरिर्भूमिश्च दारिताः । बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः॥ ९॥
येन सप्त महा-सालाः गिरिः भूमिः च दारिताः । बाणेन एकेन काकुत्स्थ स्थाता ते कः रण-अग्रतः॥ ९॥
yena sapta mahā-sālāḥ giriḥ bhūmiḥ ca dāritāḥ . bāṇena ekena kākutstha sthātā te kaḥ raṇa-agrataḥ.. 9..
अद्य मे विगतः शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्॥ १०॥
अद्य मे विगतः शोकः प्रीतिः अद्य परा मम । सुहृदम् त्वाम् समासाद्य महा-इन्द्र-वरुण-उपमम्॥ १०॥
adya me vigataḥ śokaḥ prītiḥ adya parā mama . suhṛdam tvām samāsādya mahā-indra-varuṇa-upamam.. 10..
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् । वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः॥ ११॥
तम् अद्य एव प्रिय-अर्थम् मे वैरिणम् भ्रातृ-रूपिणम् । वालिनम् जहि काकुत्स्थ मया बद्धः अयम् अञ्जलिः॥ ११॥
tam adya eva priya-artham me vairiṇam bhrātṛ-rūpiṇam . vālinam jahi kākutstha mayā baddhaḥ ayam añjaliḥ.. 11..
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् । प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः॥ १२॥
ततस् रामः परिष्वज्य सुग्रीवम् प्रिय-दर्शनम् । प्रत्युवाच महा-प्राज्ञः लक्ष्मण-अनुगतम् वचः॥ १२॥
tatas rāmaḥ pariṣvajya sugrīvam priya-darśanam . pratyuvāca mahā-prājñaḥ lakṣmaṇa-anugatam vacaḥ.. 12..
अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः । गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्॥ १३॥
अस्मात् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतस् । गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ-गन्धिनम्॥ १३॥
asmāt gacchāma kiṣkindhām kṣipram gaccha tvam agratas . gatvā ca āhvaya sugrīva vālinam bhrātṛ-gandhinam.. 13..
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् । वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने॥ १४॥
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् । वृक्षैः आत्मानम् आवृत्य हि अतिष्ठन् गहने वने॥ १४॥
sarve te tvaritam gatvā kiṣkindhām vālinaḥ purīm . vṛkṣaiḥ ātmānam āvṛtya hi atiṣṭhan gahane vane.. 14..
सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात् । गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्॥ १५॥
सुग्रीवः अपि अनदत् घोरम् वालिनः ह्वान-कारणात् । गाढम् परिहितः वेगात् नादैः भिन्दन् इव अम्बरम्॥ १५॥
sugrīvaḥ api anadat ghoram vālinaḥ hvāna-kāraṇāt . gāḍham parihitaḥ vegāt nādaiḥ bhindan iva ambaram.. 15..
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः । निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव॥ १६॥
तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धः वाली महा-बलः । निष्पपात सु संरब्धः भास्करः अस्त-तटात् इव॥ १६॥
tam śrutvā ninadam bhrātuḥ kruddhaḥ vālī mahā-balaḥ . niṣpapāta su saṃrabdhaḥ bhāskaraḥ asta-taṭāt iva.. 16..
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव॥ १७॥
ततस् सु तुमुलम् युद्धम् वालि-सुग्रीवयोः अभूत् । गगने ग्रहयोः घोरम् बुध-अङ्गारकयोः इव॥ १७॥
tatas su tumulam yuddham vāli-sugrīvayoḥ abhūt . gagane grahayoḥ ghoram budha-aṅgārakayoḥ iva.. 17..
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः । जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ॥ १८॥
तलैः अशनि-कल्पैः च वज्र-कल्पैः च मुष्टिभिः । जघ्नतुः समरे अन्योन्यम् भ्रातरौ क्रोध-मूर्च्छितौ॥ १८॥
talaiḥ aśani-kalpaiḥ ca vajra-kalpaiḥ ca muṣṭibhiḥ . jaghnatuḥ samare anyonyam bhrātarau krodha-mūrcchitau.. 18..
ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ॥ १९॥
ततस् रामः धनुष्पाणिः तौ उभौ समुदैक्षत । अन्योन्य-सदृशौ वीरौ उभौ देवौ इव अश्विनौ॥ १९॥
tatas rāmaḥ dhanuṣpāṇiḥ tau ubhau samudaikṣata . anyonya-sadṛśau vīrau ubhau devau iva aśvinau.. 19..
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः । ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्॥ २०॥
यत् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः । ततस् न कृतवान् बुद्धिम् मोक्तुम् अन्त-करम् शरम्॥ २०॥
yat na avagacchat sugrīvam vālinam vā api rāghavaḥ . tatas na kṛtavān buddhim moktum anta-karam śaram.. 20..
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना । अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे॥ २१॥
एतस्मिन् अन्तरे भग्नः सुग्रीवः तेन वालिना । अपश्यन् राघवम् नाथम् ऋष्यमूकम् प्रदुद्रुवे॥ २१॥
etasmin antare bhagnaḥ sugrīvaḥ tena vālinā . apaśyan rāghavam nātham ṛṣyamūkam pradudruve.. 21..
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः । वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्॥ २२॥
क्लान्तः रुधिर-सिक्त-अङ्गः प्रहारैः जर्जरीकृतः । वालिना अभिद्रुतः क्रोधात् प्रविवेश महा-वनम्॥ २२॥
klāntaḥ rudhira-sikta-aṅgaḥ prahāraiḥ jarjarīkṛtaḥ . vālinā abhidrutaḥ krodhāt praviveśa mahā-vanam.. 22..
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः । मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः॥ २३॥
तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप-भयात् ततस् । मुक्तः हि असि त्वम् इति उक्त्वा स निवृत्तः महा-बलः॥ २३॥
tam praviṣṭam vanam dṛṣṭvā vālī śāpa-bhayāt tatas . muktaḥ hi asi tvam iti uktvā sa nivṛttaḥ mahā-balaḥ.. 23..
राघवोऽपि सह भ्रात्रा सह चैव हनूमता । तदेव वनमागच्छत् सुग्रीवो यत्र वानरः॥ २४॥
राघवः अपि सह भ्रात्रा सह च एव हनूमता । तत् एव वनम् आगच्छत् सुग्रीवः यत्र वानरः॥ २४॥
rāghavaḥ api saha bhrātrā saha ca eva hanūmatā . tat eva vanam āgacchat sugrīvaḥ yatra vānaraḥ.. 24..
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्॥ २५॥
तम् समीक्ष्य आगतम् रामम् सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनम् उवाच इदम् वसुधाम् अवलोकयन्॥ २५॥
tam samīkṣya āgatam rāmam sugrīvaḥ sahalakṣmaṇam . hrīmān dīnam uvāca idam vasudhām avalokayan.. 25..
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥ २६॥
आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम्॥ २६॥
āhvayasva iti mām uktvā darśayitvā ca vikramam . vairiṇā ghātayitvā ca kim idānīm tvayā kṛtam.. 26..
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः । वालिनं न निहन्मीति ततो नाहमितो व्रजे॥ २७॥
ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः । वालिनम् न निहन्मि इति ततस् न अहम् इतस् व्रजे॥ २७॥
tām eva velām vaktavyam tvayā rāghava tattvataḥ . vālinam na nihanmi iti tatas na aham itas vraje.. 27..
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः । करुणं दीनया वाचा राघवः पुनरब्रवीत्॥ २८॥
तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः । करुणम् दीनया वाचा राघवः पुनर् अब्रवीत्॥ २८॥
tasya ca evam bruvāṇasya sugrīvasya mahātmanaḥ . karuṇam dīnayā vācā rāghavaḥ punar abravīt.. 28..
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन बाणोऽयं स मया न विसर्जितः॥ २९॥
सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् । कारणम् येन बाणः अयम् स मया न विसर्जितः॥ २९॥
sugrīva śrūyatām tāta krodhaḥ ca vyapanīyatām . kāraṇam yena bāṇaḥ ayam sa mayā na visarjitaḥ.. 29..
अलंकारेण वेषेण प्रमाणेन गतेन च । त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्॥ ३०॥
अलंकारेण वेषेण प्रमाणेन गतेन च । त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम्॥ ३०॥
alaṃkāreṇa veṣeṇa pramāṇena gatena ca . tvam ca sugrīva vālī ca sadṛśau sthaḥ parasparam.. 30..
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये॥ ३१॥
स्वरेण वर्चसा च एव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैः च व्यक्तिम् वाम् ना उपलक्षये॥ ३१॥
svareṇa varcasā ca eva prekṣitena ca vānara . vikrameṇa ca vākyaiḥ ca vyaktim vām nā upalakṣaye.. 31..
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम । नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्॥ ३२॥
ततस् अहम् रूप-सादृश्यात् मोहितः वानर-उत्तम । न उत्सृजामि महा-वेगम् शरम् शत्रु-निबर्हणम्॥ ३२॥
tatas aham rūpa-sādṛśyāt mohitaḥ vānara-uttama . na utsṛjāmi mahā-vegam śaram śatru-nibarhaṇam.. 32..
जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः । मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया॥ ३३॥
जीवितान्त-करम् घोरम् सादृश्यात् तु विशङ्कितः । मूल-घातः न नौ स्यात् हि द्वयोः इति कृतः मया॥ ३३॥
jīvitānta-karam ghoram sādṛśyāt tu viśaṅkitaḥ . mūla-ghātaḥ na nau syāt hi dvayoḥ iti kṛtaḥ mayā.. 33..
त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया । मौढ्यं च मम बाल्यं च ख्यापितं स्यात् कपीश्वर॥ ३४॥
त्वयि वीर विपन्ने हि अज्ञानात् लाघवात् मया । मौढ्यम् च मम बाल्यम् च ख्यापितम् स्यात् कपि-ईश्वर॥ ३४॥
tvayi vīra vipanne hi ajñānāt lāghavāt mayā . mauḍhyam ca mama bālyam ca khyāpitam syāt kapi-īśvara.. 34..
दत्ताभयवधो नाम पातकं महदद्भुतम् । अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी॥ ३५॥
दत्त-अभय-वधः नाम पातकम् महत् अद्भुतम् । अहम् च लक्ष्मणः च एव सीता च वरवर्णिनी॥ ३५॥
datta-abhaya-vadhaḥ nāma pātakam mahat adbhutam . aham ca lakṣmaṇaḥ ca eva sītā ca varavarṇinī.. 35..
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् । तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर॥ ३६॥
त्वद्-अधीनाः वयम् सर्वे वने अस्मिन् शरणम् भवान् । तस्मात् युध्यस्व भूयस् त्वम् मा मा आशङ्कीः च वानर॥ ३६॥
tvad-adhīnāḥ vayam sarve vane asmin śaraṇam bhavān . tasmāt yudhyasva bhūyas tvam mā mā āśaṅkīḥ ca vānara.. 36..
एतन्मुहूर्ते तु मया पश्य वालिनमाहवे । निरस्तमिषुणैकेन चेष्टमानं महीतले॥ ३७॥
एतद्-मुहूर्ते तु मया पश्य वालिनम् आहवे । निरस्तम् इषुणा एकेन चेष्टमानम् मही-तले॥ ३७॥
etad-muhūrte tu mayā paśya vālinam āhave . nirastam iṣuṇā ekena ceṣṭamānam mahī-tale.. 37..
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर । येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्॥ ३८॥
अभिज्ञानम् कुरुष्व त्वम् आत्मनः वानर-ईश्वर । येन त्वाम् अभिजानीयाम् द्वन्द्व-युद्धम् उपागतम्॥ ३८॥
abhijñānam kuruṣva tvam ātmanaḥ vānara-īśvara . yena tvām abhijānīyām dvandva-yuddham upāgatam.. 38..
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः॥ ३९॥
गजपुष्पीम् इमाम् फुल्लाम् उत्पाट्य शुभ-लक्षणाम् । कुरु लक्ष्मण कण्ठे अस्य सुग्रीवस्य महात्मनः॥ ३९॥
gajapuṣpīm imām phullām utpāṭya śubha-lakṣaṇām . kuru lakṣmaṇa kaṇṭhe asya sugrīvasya mahātmanaḥ.. 39..
ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् । लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्॥ ४०॥
ततस् गिरि-तटे जाताम् उत्पाट्य कुसुम-आयुताम् । लक्ष्मणः गजपुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत्॥ ४०॥
tatas giri-taṭe jātām utpāṭya kusuma-āyutām . lakṣmaṇaḥ gajapuṣpīm tām tasya kaṇṭhe vyasarjayat.. 40..
स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया । मालयेव बलाकानां ससंध्य इव तोयदः॥ ४१॥
स तया शुशुभे श्रीमान् लतया कण्ठ-सक्तया । मालया इव बलाकानाम् स संध्यः इव तोयदः॥ ४१॥
sa tayā śuśubhe śrīmān latayā kaṇṭha-saktayā . mālayā iva balākānām sa saṃdhyaḥ iva toyadaḥ.. 41..
विभ्राजमानो वपुषा रामवाक्यसमाहितः । जगाम सह रामेण किष्किन्धां पुनराप सः॥ ४२॥
विभ्राजमानः वपुषा राम-वाक्य-समाहितः । जगाम सह रामेण किष्किन्धाम् पुनर् आप सः॥ ४२॥
vibhrājamānaḥ vapuṣā rāma-vākya-samāhitaḥ . jagāma saha rāmeṇa kiṣkindhām punar āpa saḥ.. 42..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्वादशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dvādaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In