This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रयोदशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe trayodaśaḥ sargaḥ ..4..
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । जगाम सह सुग्रीवो वालिविक्रमपालिताम्॥ १॥
ऋष्यमूकात् स धर्म-आत्मा किष्किन्धाम् लक्ष्मण-अग्रजः । जगाम सह सुग्रीवः वालि-विक्रम-पालिताम्॥ १॥
ṛṣyamūkāt sa dharma-ātmā kiṣkindhām lakṣmaṇa-agrajaḥ . jagāma saha sugrīvaḥ vāli-vikrama-pālitām.. 1..
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥ २॥
समुद्यम्य महत् चापम् रामः काञ्चन-भूषितम् । शरान् च आदित्य-संकाशान् गृहीत्वा रण-साधकान्॥ २॥
samudyamya mahat cāpam rāmaḥ kāñcana-bhūṣitam . śarān ca āditya-saṃkāśān gṛhītvā raṇa-sādhakān.. 2..
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः॥ ३॥
अग्रतस् तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहत-ग्रीवः लक्ष्मणः च महा-बलः॥ ३॥
agratas tu yayau tasya rāghavasya mahātmanaḥ . sugrīvaḥ saṃhata-grīvaḥ lakṣmaṇaḥ ca mahā-balaḥ.. 3..
पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान् । तारश्चैव महातेजा हरियूथपयूथपः॥ ४॥
पृष्ठतस् हनुमान् वीरः नलः नीलः च वीर्यवान् । तारः च एव महा-तेजाः हरि-यूथप-यूथपः॥ ४॥
pṛṣṭhatas hanumān vīraḥ nalaḥ nīlaḥ ca vīryavān . tāraḥ ca eva mahā-tejāḥ hari-yūthapa-yūthapaḥ.. 4..
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ ५॥
ते वीक्षमाणाः वृक्षान् च पुष्प-भार-अवलम्बिनः । प्रसन्न-अम्बु-वहाः च एव सरितः सागरंगमाः॥ ५॥
te vīkṣamāṇāḥ vṛkṣān ca puṣpa-bhāra-avalambinaḥ . prasanna-ambu-vahāḥ ca eva saritaḥ sāgaraṃgamāḥ.. 5..
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥ ६॥
कन्दराणि च शैलान् च निर्दराणि गुहाः तथा । शिखराणि च मुख्यानि दरीः च प्रिय-दर्शनाः॥ ६॥
kandarāṇi ca śailān ca nirdarāṇi guhāḥ tathā . śikharāṇi ca mukhyāni darīḥ ca priya-darśanāḥ.. 6..
वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः । शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्॥ ७॥
वैदूर्य-विमलैः तोयैः पद्मैः च आकोश-कुड्मलैः । शोभितान् स जलान् मार्गे तटाकान् च अवलोकयन्॥ ७॥
vaidūrya-vimalaiḥ toyaiḥ padmaiḥ ca ākośa-kuḍmalaiḥ . śobhitān sa jalān mārge taṭākān ca avalokayan.. 7..
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्॥ ८॥
कारण्डैः सारसैः हंसैः वञ्जुलैः जलकुक्कुटैः । चक्रवाकैः तथा च अन्यैः शकुनैः प्रतिनादितान्॥ ८॥
kāraṇḍaiḥ sārasaiḥ haṃsaiḥ vañjulaiḥ jalakukkuṭaiḥ . cakravākaiḥ tathā ca anyaiḥ śakunaiḥ pratināditān.. 8..
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् । चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्॥ ९॥
मृदु-शष्प-अङ्कुर-आहारान् निर्भयान् वन-गोचरान् । चरतः सर्वतस् पश्यन् स्थलीषु हरिणान् स्थितान्॥ ९॥
mṛdu-śaṣpa-aṅkura-āhārān nirbhayān vana-gocarān . carataḥ sarvatas paśyan sthalīṣu hariṇān sthitān.. 9..
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् । घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः॥ १०॥
तटाक-वैरिणः च अपि शुक्ल-दन्त-विभूषितान् । घोरान् एक-चरान् वन्यान् द्विरदान् कूल-घातिनः॥ १०॥
taṭāka-vairiṇaḥ ca api śukla-danta-vibhūṣitān . ghorān eka-carān vanyān dviradān kūla-ghātinaḥ.. 10..
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् । वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान्॥ ११॥
मत्तान् गिरि-तट-उत्कृष्टान् पर्वतान् इव जङ्गमान् । वानरान् द्विरद-प्रख्यान् मही-रेणु-समुक्षितान्॥ ११॥
mattān giri-taṭa-utkṛṣṭān parvatān iva jaṅgamān . vānarān dvirada-prakhyān mahī-reṇu-samukṣitān.. 11..
वने वनचरांश्चान्यान् खेचरांश्च विहंगमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥ १२॥
वने वन-चरान् च अन्यान् खेचरान् च विहंगमान् । पश्यन्तः त्वरिताः जग्मुः सुग्रीव-वश-वर्तिनः॥ १२॥
vane vana-carān ca anyān khecarān ca vihaṃgamān . paśyantaḥ tvaritāḥ jagmuḥ sugrīva-vaśa-vartinaḥ.. 12..
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥ १३॥
तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनन्दनः । द्रुम-षण्ड-वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत्॥ १३॥
teṣām tu gacchatām tatra tvaritam raghunandanaḥ . druma-ṣaṇḍa-vanam dṛṣṭvā rāmaḥ sugrīvam abravīt.. 13..
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते । मेघसंघातविपुलः पर्यन्तकदलीवृतः॥ १४॥
एष मेघः इव आकाशे वृक्ष-षण्डः प्रकाशते । मेघ-संघात-विपुलः पर्यन्त-कदली-वृतः॥ १४॥
eṣa meghaḥ iva ākāśe vṛkṣa-ṣaṇḍaḥ prakāśate . megha-saṃghāta-vipulaḥ paryanta-kadalī-vṛtaḥ.. 14..
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥ १५॥
किम् एतत् ज्ञातुम् इच्छामि सखे कौतूहलम् मम । कौतूहल-अपनयनम् कर्तुम् इच्छामि अहम् त्वया॥ १५॥
kim etat jñātum icchāmi sakhe kautūhalam mama . kautūhala-apanayanam kartum icchāmi aham tvayā.. 15..
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥ १६॥
तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः । गच्छन् न इव आचचक्षे अथ सुग्रीवः तत् महत् वनम्॥ १६॥
tasya tat vacanam śrutvā rāghavasya mahātmanaḥ . gacchan na iva ācacakṣe atha sugrīvaḥ tat mahat vanam.. 16..
एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम् । उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ १७॥
एतत् राघव विस्तीर्णम् आश्रमम् श्रम-नाशनम् । उद्यान-वन-सम्पन्नम् स्वादु-मूल-फल-उदकम्॥ १७॥
etat rāghava vistīrṇam āśramam śrama-nāśanam . udyāna-vana-sampannam svādu-mūla-phala-udakam.. 17..
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्नधःशीर्षा नियतं जलशायिनः॥ १८॥
अत्र सप्तजनाः नाम मुनयः संशित-व्रताः । सप्त एव आसन् अधःशीर्षाः नियतम् जलशायिनः॥ १८॥
atra saptajanāḥ nāma munayaḥ saṃśita-vratāḥ . sapta eva āsan adhaḥśīrṣāḥ niyatam jalaśāyinaḥ.. 18..
सप्तरात्रे कृताहारा वायुनाचलवासिनः । दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥ १९॥
सप्त-रात्रे कृत-आहाराः वायुना अचल-वासिनः । दिवम् वर्ष-शतैः याताः सप्तभिः स कलेवराः॥ १९॥
sapta-rātre kṛta-āhārāḥ vāyunā acala-vāsinaḥ . divam varṣa-śataiḥ yātāḥ saptabhiḥ sa kalevarāḥ.. 19..
तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥ २०॥
तेषाम् एतद्-प्रभावेण द्रुम-प्राकार-संवृतम् । आश्रमम् सु दुराधर्षम् अपि स इन्द्रैः सुर-असुरैः॥ २०॥
teṣām etad-prabhāveṇa druma-prākāra-saṃvṛtam . āśramam su durādharṣam api sa indraiḥ sura-asuraiḥ.. 20..
पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः । विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः॥ २१॥
पक्षिणः वर्जयन्ति एतत् तथा अन्ये वन-चारिणः । विशन्ति मोहात् ये अपि अत्र न निवर्तन्ति ते पुनर्॥ २१॥
pakṣiṇaḥ varjayanti etat tathā anye vana-cāriṇaḥ . viśanti mohāt ye api atra na nivartanti te punar.. 21..
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः । तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव॥ २२॥
विभूषण-रवाः च अत्र श्रूयन्ते सकल-अक्षराः । तूर्य-गीत-स्वनः च अपि गन्धः दिव्यः च राघव॥ २२॥
vibhūṣaṇa-ravāḥ ca atra śrūyante sakala-akṣarāḥ . tūrya-gīta-svanaḥ ca api gandhaḥ divyaḥ ca rāghava.. 22..
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते । वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥ २३॥
त्रेताग्नयः अपि दीप्यन्ते धूमः हि एष प्रदृश्यते । वेष्टयन् इव वृक्ष-अग्रान् कपोत-अङ्ग-अरुणः घनः॥ २३॥
tretāgnayaḥ api dīpyante dhūmaḥ hi eṣa pradṛśyate . veṣṭayan iva vṛkṣa-agrān kapota-aṅga-aruṇaḥ ghanaḥ.. 23..
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः । मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा॥ २४॥
एते वृक्षाः प्रकाशन्ते धूम-संसक्त-मस्तकाः । मेघ-जाल-प्रतिच्छन्नाः वैडूर्य-गिरयः यथा॥ २४॥
ete vṛkṣāḥ prakāśante dhūma-saṃsakta-mastakāḥ . megha-jāla-praticchannāḥ vaiḍūrya-girayaḥ yathā.. 24..
कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥ २५॥
कुरु प्रणामम् धर्म-आत्मन् तेषाम् उद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संहत-अञ्जलिः॥ २५॥
kuru praṇāmam dharma-ātman teṣām uddiśya rāghava . lakṣmaṇena saha bhrātrā prayataḥ saṃhata-añjaliḥ.. 25..
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम विद्यते॥ २६॥
प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावितात्मनाम् । न तेषाम् अशुभम् किंचिद् शरीरे राम विद्यते॥ २६॥
praṇamanti hi ye teṣām ṛṣīṇām bhāvitātmanām . na teṣām aśubham kiṃcid śarīre rāma vidyate.. 26..
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥ २७॥
ततस् रामः सह भ्रात्रा लक्ष्मणेन कृत-अञ्जलिः । समुद्दिश्य महात्मानः तान् ऋषीन् अभ्यवादयत्॥ २७॥
tatas rāmaḥ saha bhrātrā lakṣmaṇena kṛta-añjaliḥ . samuddiśya mahātmānaḥ tān ṛṣīn abhyavādayat.. 27..
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराश्चैव जम्मुः संहृष्टमानसाः॥ २८॥
अभिवाद्य च धर्म-आत्मा रामः भ्राता च लक्ष्मणः । सुग्रीवः वानराः च एव जम्मुः संहृष्ट-मानसाः॥ २८॥
abhivādya ca dharma-ātmā rāmaḥ bhrātā ca lakṣmaṇaḥ . sugrīvaḥ vānarāḥ ca eva jammuḥ saṃhṛṣṭa-mānasāḥ.. 28..
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥ २९॥
ते गत्वा दूरम् अध्वानम् तस्मात् सप्तजन-आश्रमात् । ददृशुः ताम् दुराधर्षाम् किष्किन्धाम् वालि-पालिताम्॥ २९॥
te gatvā dūram adhvānam tasmāt saptajana-āśramāt . dadṛśuḥ tām durādharṣām kiṣkindhām vāli-pālitām.. 29..
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः । पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह॥ ३०॥
ततस् तु राम-अनुज-राम-वानराः प्रगृह्य शस्त्राणि उदित-उग्र-तेजसः । पुरीम् सुरेश-आत्मज-वीर्य-पालिताम् वधाय शत्रोः पुनर् आगताः तु इह॥ ३०॥
tatas tu rāma-anuja-rāma-vānarāḥ pragṛhya śastrāṇi udita-ugra-tejasaḥ . purīm sureśa-ātmaja-vīrya-pālitām vadhāya śatroḥ punar āgatāḥ tu iha.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रयोदशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe trayodaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In