This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुर्दशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe caturdaśaḥ sargaḥ ..4..
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् । वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने॥ १॥
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् । वृक्षैः आत्मानम् आवृत्य व्यतिष्ठन् गहने वने॥ १॥
sarve te tvaritam gatvā kiṣkindhām vālinaḥ purīm . vṛkṣaiḥ ātmānam āvṛtya vyatiṣṭhan gahane vane.. 1..
विसार्य सर्वतो दृष्टिं कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम्॥ २॥
विसार्य सर्वतस् दृष्टिम् कानने कानन-प्रियः । सुग्रीवः विपुल-ग्रीवः क्रोधम् आहारयत् भृशम्॥ २॥
visārya sarvatas dṛṣṭim kānane kānana-priyaḥ . sugrīvaḥ vipula-grīvaḥ krodham āhārayat bhṛśam.. 2..
ततस्तु निनदं घोरं कृत्वा युद्धाय चाह्वयत् । परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्॥ ३॥
ततस् तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् । परिवारैः परिवृतः नादैः भिन्दन् इव अम्बरम्॥ ३॥
tatas tu ninadam ghoram kṛtvā yuddhāya ca āhvayat . parivāraiḥ parivṛtaḥ nādaiḥ bhindan iva ambaram.. 3..
गर्जन्निव महामेघो वायुवेगपुरःसरः । अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः॥ ४॥
गर्जन् इव महा-मेघः वायु-वेग-पुरःसरः । अथ बाल-अर्क-सदृशः दृप्त-सिंह-गतिः ततस्॥ ४॥
garjan iva mahā-meghaḥ vāyu-vega-puraḥsaraḥ . atha bāla-arka-sadṛśaḥ dṛpta-siṃha-gatiḥ tatas.. 4..
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् । हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्॥ ५॥
दृष्ट्वा रामम् क्रिया-दक्षम् सुग्रीवः वाक्यम् अब्रवीत् । हरि-वागुरया व्याप्ताम् तप्त-काञ्चन-तोरणाम्॥ ५॥
dṛṣṭvā rāmam kriyā-dakṣam sugrīvaḥ vākyam abravīt . hari-vāgurayā vyāptām tapta-kāñcana-toraṇām.. 5..
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् । प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा॥ ६॥
प्राप्ताः स्म ध्वज-यन्त्र-आढ्याम् किष्किन्धाम् वालिनः पुरीम् । प्रतिज्ञा या कृता वीर त्वया वालि-वधे पुरा॥ ६॥
prāptāḥ sma dhvaja-yantra-āḍhyām kiṣkindhām vālinaḥ purīm . pratijñā yā kṛtā vīra tvayā vāli-vadhe purā.. 6..
सफलां कुरु तां क्षिप्रं लतां काल इवागतः । एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः॥ ७॥
सफलाम् कुरु ताम् क्षिप्रम् लताम् कालः इव आगतः । एवम् उक्तः तु धर्म-आत्मा सुग्रीवेण स राघवः॥ ७॥
saphalām kuru tām kṣipram latām kālaḥ iva āgataḥ . evam uktaḥ tu dharma-ātmā sugrīveṇa sa rāghavaḥ.. 7..
तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः । कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया॥ ८॥
तम् एव उवाच वचनम् सुग्रीवम् शत्रु-सूदनः । कृत-अभिज्ञान-चिह्नः त्वम् अनया गजसाह्वया॥ ८॥
tam eva uvāca vacanam sugrīvam śatru-sūdanaḥ . kṛta-abhijñāna-cihnaḥ tvam anayā gajasāhvayā.. 8..
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव । शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया॥ ९॥
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव । शोभसे अपि अधिकम् वीर लतया कण्ठ-सक्तया॥ ९॥
lakṣmaṇena samutpāṭya eṣā kaṇṭhe kṛtā tava . śobhase api adhikam vīra latayā kaṇṭha-saktayā.. 9..
विपरीत इवाकाशे सूर्यो नक्षत्रमालया । अद्य वालिसमुत्थं ते भयं वैरं च वानर॥ १०॥
विपरीतः इव आकाशे सूर्यः नक्षत्र-मालया । अद्य वालि-समुत्थम् ते भयम् वैरम् च वानर॥ १०॥
viparītaḥ iva ākāśe sūryaḥ nakṣatra-mālayā . adya vāli-samuttham te bhayam vairam ca vānara.. 10..
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे । मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्॥ ११॥
एकेन अहम् प्रमोक्ष्यामि बाण-मोक्षेण संयुगे । मम दर्शय सुग्रीव वैरिणम् भ्रातृ-रूपिणम्॥ ११॥
ekena aham pramokṣyāmi bāṇa-mokṣeṇa saṃyuge . mama darśaya sugrīva vairiṇam bhrātṛ-rūpiṇam.. 11..
वाली विनिहतो यावद्वने पांसुषु चेष्टते । यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते॥ १२॥
वाली विनिहतः यावत् वने पांसुषु चेष्टते । यदि दृष्टि-पथम् प्राप्तः जीवन् स विनिवर्तते॥ १२॥
vālī vinihataḥ yāvat vane pāṃsuṣu ceṣṭate . yadi dṛṣṭi-patham prāptaḥ jīvan sa vinivartate.. 12..
ततो दोषेण मागच्छेत् सद्यो गर्हेच्च मां भवान् । प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः॥ १३॥
ततस् दोषेण मा आगच्छेत् सद्यस् गर्हेत् च माम् भवान् । प्रत्यक्षम् सप्त ते सालाः मया बाणेन दारिताः॥ १३॥
tatas doṣeṇa mā āgacchet sadyas garhet ca mām bhavān . pratyakṣam sapta te sālāḥ mayā bāṇena dāritāḥ.. 13..
तेनावेहि बलेनाद्य वालिनं निहतं रणे । अनृतं नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता॥ १४॥
तेन अवेहि बलेन अद्य वालिनम् निहतम् रणे । अनृतम् न उक्त-पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता॥ १४॥
tena avehi balena adya vālinam nihatam raṇe . anṛtam na ukta-pūrvam me ciram kṛcchre api tiṣṭhatā.. 14..
धर्मलोभपरीतेन न च वक्ष्ये कथंचन । सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्॥ १५॥
धर्म-लोभ-परीतेन न च वक्ष्ये कथंचन । सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम्॥ १५॥
dharma-lobha-parītena na ca vakṣye kathaṃcana . saphalām ca kariṣyāmi pratijñām jahi saṃbhramam.. 15..
प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः । तदाह्वाननिमित्तं च वालिनो हेममालिनः॥ १६॥
प्रसूतम् कलम-क्षेत्रम् वर्षेण इव शतक्रतुः । तद्-आह्वान-निमित्तम् च वालिनः हेम-मालिनः॥ १६॥
prasūtam kalama-kṣetram varṣeṇa iva śatakratuḥ . tad-āhvāna-nimittam ca vālinaḥ hema-mālinaḥ.. 16..
सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः । जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्॥ १७॥
सुग्रीव कुरु तम् शब्दम् निष्पतेत् येन वानरः । जितकाशी जय-श्लाघी त्वया च आधर्षितः पुरात्॥ १७॥
sugrīva kuru tam śabdam niṣpatet yena vānaraḥ . jitakāśī jaya-ślāghī tvayā ca ādharṣitaḥ purāt.. 17..
निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः । रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे॥ १८॥
निष्पतिष्यति असङ्गेन वाली स प्रिय-संयुगः । रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे॥ १८॥
niṣpatiṣyati asaṅgena vālī sa priya-saṃyugaḥ . ripūṇām dharṣitam śrutvā marṣayanti na saṃyuge.. 18..
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः । स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः॥ १९॥
जानन्तः तु स्वकम् वीर्यम् स्त्री-समक्षम् विशेषतः । स तु राम-वचः श्रुत्वा सुग्रीवः हेम-पिङ्गलः॥ १९॥
jānantaḥ tu svakam vīryam strī-samakṣam viśeṣataḥ . sa tu rāma-vacaḥ śrutvā sugrīvaḥ hema-piṅgalaḥ.. 19..
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् । तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः॥ २०॥
ननर्द क्रूर-नादेन विनिर्भिन्दन् इव अम्बरम् । तत्र शब्देन वित्रस्ताः गावः यान्ति हत-प्रभाः॥ २०॥
nanarda krūra-nādena vinirbhindan iva ambaram . tatra śabdena vitrastāḥ gāvaḥ yānti hata-prabhāḥ.. 20..
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः । द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः । पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः॥ २१॥
राज-दोष-परामृष्टाः कुलस्त्रियः इव आकुलाः । द्रवन्ति च मृगाः शीघ्रम् भग्नाः इव रणे हयाः । पतन्ति च खगाः भूमौ क्षीण-पुण्याः इव ग्रहाः॥ २१॥
rāja-doṣa-parāmṛṣṭāḥ kulastriyaḥ iva ākulāḥ . dravanti ca mṛgāḥ śīghram bhagnāḥ iva raṇe hayāḥ . patanti ca khagāḥ bhūmau kṣīṇa-puṇyāḥ iva grahāḥ.. 21..
ततः स जीमूतकृतप्रणादो नादं ह्यमुञ्चत् त्वरया प्रतीतः । सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः॥ २२॥
ततस् स जीमूत-कृत-प्रणादः नादम् हि अमुञ्चत् त्वरया प्रतीतः । सूर्यात्मजः शौर्य-विवृद्ध-तेजाः सरित्पतिः वा अनिल-चञ्चल-ऊर्मिः॥ २२॥
tatas sa jīmūta-kṛta-praṇādaḥ nādam hi amuñcat tvarayā pratītaḥ . sūryātmajaḥ śaurya-vivṛddha-tejāḥ saritpatiḥ vā anila-cañcala-ūrmiḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुर्दशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe caturdaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In