This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चदशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcadaśaḥ sargaḥ ..4..
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः॥ १॥
अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः । शुश्राव अन्तःपुर-गतः वाली भ्रातुः अमर्षणः॥ १॥
atha tasya ninādam tam sugrīvasya mahātmanaḥ . śuśrāva antaḥpura-gataḥ vālī bhrātuḥ amarṣaṇaḥ.. 1..
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापादितो महान्॥ २॥
श्रुत्वा तु तस्य निनदम् सर्व-भूत-प्रकम्पनम् । मदः च एकपदे नष्टः क्रोधः च आपादितः महान्॥ २॥
śrutvā tu tasya ninadam sarva-bhūta-prakampanam . madaḥ ca ekapade naṣṭaḥ krodhaḥ ca āpāditaḥ mahān.. 2..
ततो रोषपरीताङ्गो वाली स कनकप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ ३॥
ततस् रोष-परीत-अङ्गः वाली स कनक-प्रभः । उपरक्तः इव आदित्यः सद्यस् निष्प्रभ-ताम् गतः॥ ३॥
tatas roṣa-parīta-aṅgaḥ vālī sa kanaka-prabhaḥ . uparaktaḥ iva ādityaḥ sadyas niṣprabha-tām gataḥ.. 3..
वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः । भात्युत्पतितपद्माभः समृणाल इव ह्रदः॥ ४॥
वाली दंष्ट्रा-करालः तु क्रोधात् दीप्त-अग्नि-लोचनः । भाति उत्पतित-पद्म-आभः समृणालः इव ह्रदः॥ ४॥
vālī daṃṣṭrā-karālaḥ tu krodhāt dīpta-agni-locanaḥ . bhāti utpatita-padma-ābhaḥ samṛṇālaḥ iva hradaḥ.. 4..
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः । वेगेन च पदन्यासैर्दारयन्निव मेदिनीम्॥ ५॥
शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततस् हरिः । वेगेन च पदन्यासैः दारयन् इव मेदिनीम्॥ ५॥
śabdam durmarṣaṇam śrutvā niṣpapāta tatas hariḥ . vegena ca padanyāsaiḥ dārayan iva medinīm.. 5..
तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा । उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः॥ ६॥
तम् तु तारा परिष्वज्य स्नेहात् दर्शित-सौहृदा । उवाच त्रस्त-सम्भ्रान्ता हित-उदर्कम् इदम् वचः॥ ६॥
tam tu tārā pariṣvajya snehāt darśita-sauhṛdā . uvāca trasta-sambhrāntā hita-udarkam idam vacaḥ.. 6..
साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्॥ ७॥
साधु क्रोधम् इमम् वीर नदी-वेगम् इव आगतम् । शयनात् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम्॥ ७॥
sādhu krodham imam vīra nadī-vegam iva āgatam . śayanāt utthitaḥ kālyam tyaja bhuktām iva srajam.. 7..
काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते॥ ८॥
काल्यम् एतेन संग्रामम् करिष्यसि च वानर । वीर ते शत्रु-बाहुल्यम् फल्गु-ता वा न विद्यते॥ ८॥
kālyam etena saṃgrāmam kariṣyasi ca vānara . vīra te śatru-bāhulyam phalgu-tā vā na vidyate.. 8..
सहसा तव निष्क्रामो मम तावन्न रोचते । श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते॥ ९॥
सहसा तव निष्क्रामः मम तावत् न रोचते । श्रूयताम् अभिधास्यामि यत् निमित्तम् निवार्यते॥ ९॥
sahasā tava niṣkrāmaḥ mama tāvat na rocate . śrūyatām abhidhāsyāmi yat nimittam nivāryate.. 9..
पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः॥ १०॥
पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि । निष्पत्य च निरस्तः ते हन्यमानः दिशः गतः॥ १०॥
pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi . niṣpatya ca nirastaḥ te hanyamānaḥ diśaḥ gataḥ.. 10..
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इहैत्य पुनराह्वानं शङ्कां जनयतीव मे॥ ११॥
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इह एत्य पुनर् आह्वानम् शङ्काम् जनयति इव मे॥ ११॥
tvayā tasya nirastasya pīḍitasya viśeṣataḥ . iha etya punar āhvānam śaṅkām janayati iva me.. 11..
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादस्य च संरम्भो नैतदल्पं हि कारणम्॥ १२॥
दर्पः च व्यवसायः च यादृशः तस्य नर्दतः । निनादस्य च संरम्भः न एतत् अल्पम् हि कारणम्॥ १२॥
darpaḥ ca vyavasāyaḥ ca yādṛśaḥ tasya nardataḥ . ninādasya ca saṃrambhaḥ na etat alpam hi kāraṇam.. 12..
नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति॥ १३॥
न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् । अवष्टब्ध-सहायः च यम् आश्रित्य एष गर्जति॥ १३॥
na asahāyam aham manye sugrīvam tam iha āgatam . avaṣṭabdha-sahāyaḥ ca yam āśritya eṣa garjati.. 13..
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति॥ १४॥
प्रकृत्या निपुणः च एव बुद्धिमान् च एव वानरः । न अपरीक्षित-वीर्येण सुग्रीवः सख्यम् एष्यति॥ १४॥
prakṛtyā nipuṇaḥ ca eva buddhimān ca eva vānaraḥ . na aparīkṣita-vīryeṇa sugrīvaḥ sakhyam eṣyati.. 14..
पूर्वमेव मया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः॥ १५॥
पूर्वम् एव मया वीर श्रुतम् कथयतः वचः । अङ्गदस्य कुमारस्य वक्ष्यामि अद्य हितम् वचः॥ १५॥
pūrvam eva mayā vīra śrutam kathayataḥ vacaḥ . aṅgadasya kumārasya vakṣyāmi adya hitam vacaḥ.. 15..
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता॥ १६॥
अङ्गदः तु कुमारः अयम् वनान्तम् उपनिर्गतः । प्रवृत्तिः तेन कथिता चारैः आसीत् निवेदिता॥ १६॥
aṅgadaḥ tu kumāraḥ ayam vanāntam upanirgataḥ . pravṛttiḥ tena kathitā cāraiḥ āsīt niveditā.. 16..
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ॥ १७॥
अयोध्या-अधिपतेः पुत्रौ शूरौ समर-दुर्जयौ । इक्ष्वाकूणाम् कुले जातौ प्रथितौ राम-लक्ष्मणौ॥ १७॥
ayodhyā-adhipateḥ putrau śūrau samara-durjayau . ikṣvākūṇām kule jātau prathitau rāma-lakṣmaṇau.. 17..
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ । स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि॥ १८॥
सुग्रीव-प्रिय-काम-अर्थम् प्राप्तौ तत्र दुरासदौ । स ते भ्रातुः हि विख्यातः सहायः रण-कर्मणि॥ १८॥
sugrīva-priya-kāma-artham prāptau tatra durāsadau . sa te bhrātuḥ hi vikhyātaḥ sahāyaḥ raṇa-karmaṇi.. 18..
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः । निवासवृक्षः साधूनामापन्नानां परा गतिः॥ १९॥
रामः पर-बल-आमर्दी युगान्त-अग्निः इव उत्थितः । निवास-वृक्षः साधूनाम् आपन्नानाम् परा गतिः॥ १९॥
rāmaḥ para-bala-āmardī yugānta-agniḥ iva utthitaḥ . nivāsa-vṛkṣaḥ sādhūnām āpannānām parā gatiḥ.. 19..
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् । ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः॥ २०॥
आर्तानाम् संश्रयः च एव यशसः च एक-भाजनम् । ज्ञान-विज्ञान-सम्पन्नः निदेशे निरतः पितुः॥ २०॥
ārtānām saṃśrayaḥ ca eva yaśasaḥ ca eka-bhājanam . jñāna-vijñāna-sampannaḥ nideśe nirataḥ pituḥ.. 20..
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् । तत् क्षमो न विरोधस्ते सह तेन महात्मना॥ २१॥
धातूनाम् इव शैलेन्द्रः गुणानाम् आकरः महान् । तत् क्षमः न विरोधः ते सह तेन महात्मना॥ २१॥
dhātūnām iva śailendraḥ guṇānām ākaraḥ mahān . tat kṣamaḥ na virodhaḥ te saha tena mahātmanā.. 21..
दुर्जयेनाप्रमेयेण रामेण रणकर्मसु । शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्॥ २२॥
दुर्जयेन अप्रमेयेण रामेण रण-कर्मसु । शूर वक्ष्यामि ते किंचिद् न च इच्छामि अभ्यसूयितुम्॥ २२॥
durjayena aprameyeṇa rāmeṇa raṇa-karmasu . śūra vakṣyāmi te kiṃcid na ca icchāmi abhyasūyitum.. 22..
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् । यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय॥ २३॥
श्रूयताम् क्रियताम् च एव तव वक्ष्यामि यत् हितम् । यौवराज्येन सुग्रीवम् तूर्णम् साधु अभिषेचय॥ २३॥
śrūyatām kriyatām ca eva tava vakṣyāmi yat hitam . yauvarājyena sugrīvam tūrṇam sādhu abhiṣecaya.. 23..
विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्॥ २४॥
विग्रहम् मा कृथाः वीर भ्रात्रा राजन् यवीयसा । अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम्॥ २४॥
vigraham mā kṛthāḥ vīra bhrātrā rājan yavīyasā . aham hi te kṣamam manye tena rāmeṇa sauhṛdam.. 24..
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः । लालनीयो हि ते भ्राता यवीयानेष वानरः॥ २५॥
सुग्रीवेण च सम्प्रीतिम् वैरम् उत्सृज्य दूरतस् । लालनीयः हि ते भ्राता यवीयान् एष वानरः॥ २५॥
sugrīveṇa ca samprītim vairam utsṛjya dūratas . lālanīyaḥ hi te bhrātā yavīyān eṣa vānaraḥ.. 25..
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते । नहि तेन समं बन्धुं भुवि पश्यामि कंचन॥ २६॥
तत्र वा सन्निह-स्थः वा सर्वथा बन्धुः एव ते । नहि तेन समम् बन्धुम् भुवि पश्यामि कंचन॥ २६॥
tatra vā sanniha-sthaḥ vā sarvathā bandhuḥ eva te . nahi tena samam bandhum bhuvi paśyāmi kaṃcana.. 26..
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् । वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु॥ २७॥
दान-मान-आदि-सत्कारैः कुरुष्व प्रत्यनन्तरम् । वैरम् एतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु॥ २७॥
dāna-māna-ādi-satkāraiḥ kuruṣva pratyanantaram . vairam etat samutsṛjya tava pārśve sa tiṣṭhatu.. 27..
सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव । भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते॥ २८॥
सुग्रीवः विपुल-ग्रीवः महा-बन्धुः मतः तव । भ्रातृ-सौहृदम् आलम्ब्य ना अन्या गतिः इह अस्ति ते॥ २८॥
sugrīvaḥ vipula-grīvaḥ mahā-bandhuḥ mataḥ tava . bhrātṛ-sauhṛdam ālambya nā anyā gatiḥ iha asti te.. 28..
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् । याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे॥ २९॥
यदि ते मद्-प्रियम् कार्यम् यदि च अवैषि माम् हिताम् । याच्यमानः प्रिय-त्वेन साधु वाक्यम् कुरुष्व मे॥ २९॥
yadi te mad-priyam kāryam yadi ca avaiṣi mām hitām . yācyamānaḥ priya-tvena sādhu vākyam kuruṣva me.. 29..
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि । क्षमो हि ते कोशलराजसूनुना न विग्रहः शक्रसमानतेजसा॥ ३०॥
प्रसीद पथ्यम् शृणु जल्पितम् हि मे न रोषम् एव अनुविधातुम् अर्हसि । क्षमः हि ते कोशल-राज-सूनुना न विग्रहः शक्र-समान-तेजसा॥ ३०॥
prasīda pathyam śṛṇu jalpitam hi me na roṣam eva anuvidhātum arhasi . kṣamaḥ hi te kośala-rāja-sūnunā na vigrahaḥ śakra-samāna-tejasā.. 30..
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे । न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले॥ ३१॥
तदा हि तारा हितम् एव वाक्यम् तम् वालिनम् पथ्यम् इदम् बभाषे । न रोचते तत् वचनम् हि तस्य काल-अभिपन्नस्य विनाश-काले॥ ३१॥
tadā hi tārā hitam eva vākyam tam vālinam pathyam idam babhāṣe . na rocate tat vacanam hi tasya kāla-abhipannasya vināśa-kāle.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चदशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcadaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In