This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षोडशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣoḍaśaḥ sargaḥ ..4..
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ १॥
ताम् एवम् ब्रुवतीम् ताराम् ताराधिप-निभ-आननाम् । वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत्॥ १॥
tām evam bruvatīm tārām tārādhipa-nibha-ānanām . vālī nirbhartsayāmāsa vacanam ca idam abravīt.. 1..
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः । मर्षयिष्यामि केनापि कारणेन वरानने॥ २॥
गर्जतः अस्य सु संरब्धम् भ्रातुः शत्रोः विशेषतः । मर्षयिष्यामि केन अपि कारणेन वरानने॥ २॥
garjataḥ asya su saṃrabdham bhrātuḥ śatroḥ viśeṣataḥ . marṣayiṣyāmi kena api kāraṇena varānane.. 2..
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ ३॥
अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् । धर्षण-मर्षणम् भीरु मरणात् अतिरिच्यते॥ ३॥
adharṣitānām śūrāṇām samareṣu anivartinām . dharṣaṇa-marṣaṇam bhīru maraṇāt atiricyate.. 3..
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्॥ ४॥
सोढुम् न च समर्थः अहम् युद्ध-कामस्य संयुगे । सुग्रीवस्य च संरम्भम् हीन-ग्रीवस्य गर्जितम्॥ ४॥
soḍhum na ca samarthaḥ aham yuddha-kāmasya saṃyuge . sugrīvasya ca saṃrambham hīna-grīvasya garjitam.. 4..
न च कार्यो विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥ ५॥
न च कार्यः विषादः ते राघवम् प्रति मद्-कृते । धर्म-ज्ञः च कृतज्ञः च कथम् पापम् करिष्यति॥ ५॥
na ca kāryaḥ viṣādaḥ te rāghavam prati mad-kṛte . dharma-jñaḥ ca kṛtajñaḥ ca katham pāpam kariṣyati.. 5..
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि । सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता॥ ६॥
निवर्तस्व सह स्त्रीभिः कथम् भूयस् अनुगच्छसि । सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता॥ ६॥
nivartasva saha strībhiḥ katham bhūyas anugacchasi . sauhṛdam darśitam tāvat mayi bhaktiḥ tvayā kṛtā.. 6..
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् । दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ ७॥
प्रतियोत्स्यामि अहम् गत्वा सुग्रीवम् जहि सम्भ्रमम् । दर्पम् च अस्य विनेष्यामि न च प्राणैः वियोक्ष्यते॥ ७॥
pratiyotsyāmi aham gatvā sugrīvam jahi sambhramam . darpam ca asya vineṣyāmi na ca prāṇaiḥ viyokṣyate.. 7..
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम् । वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति॥ ८॥
अहम् हि आजि-स्थितस्य अस्य करिष्यामि यत् ईप्सितम् । वृक्षैः मुष्टि-प्रहारैः च पीडितः प्रतियास्यति॥ ८॥
aham hi āji-sthitasya asya kariṣyāmi yat īpsitam . vṛkṣaiḥ muṣṭi-prahāraiḥ ca pīḍitaḥ pratiyāsyati.. 8..
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं दर्शितं सौहृदं मयि॥ ९॥
न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् । कृतम् तारे सहाय-त्वम् दर्शितम् सौहृदम् मयि॥ ९॥
na me garvitam āyastam sahiṣyati durātmavān . kṛtam tāre sahāya-tvam darśitam sauhṛdam mayi.. 9..
शापितासि मम प्राणैर्निवर्तस्व जनेन च । अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ १०॥
शापितासि मम प्राणैः निवर्तस्व जनेन च । अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे॥ १०॥
śāpitāsi mama prāṇaiḥ nivartasva janena ca . alam jitvā nivartiṣye tam aham bhrātaram raṇe.. 10..
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ११॥
तम् तु तारा परिष्वज्य वालिनम् प्रिय-वादिनी । चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम्॥ ११॥
tam tu tārā pariṣvajya vālinam priya-vādinī . cakāra rudatī mandam dakṣiṇā sā pradakṣiṇam.. 11..
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ १२॥
ततस् स्वस्त्ययनम् कृत्वा मन्त्र-विद् विजय-एषिणी । अन्तःपुरम् सह स्त्रीभिः प्रविष्टा शोक-मोहिता॥ १२॥
tatas svastyayanam kṛtvā mantra-vid vijaya-eṣiṇī . antaḥpuram saha strībhiḥ praviṣṭā śoka-mohitā.. 12..
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् । नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ १३॥
प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् । नगर्याः निर्ययौ क्रुद्धः महा-सर्पः इव श्वसन्॥ १३॥
praviṣṭāyām tu tārāyām saha strībhiḥ svam ālayam . nagaryāḥ niryayau kruddhaḥ mahā-sarpaḥ iva śvasan.. 13..
स निःश्वस्य महारोषो वाली परमवेगवान् । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया॥ १४॥
स निःश्वस्य महा-रोषः वाली परम-वेगवान् । सर्वतस् चारयन् दृष्टिम् शत्रु-दर्शन-कांक्षया॥ १४॥
sa niḥśvasya mahā-roṣaḥ vālī parama-vegavān . sarvatas cārayan dṛṣṭim śatru-darśana-kāṃkṣayā.. 14..
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ १५॥
स ददर्श ततस् श्रीमान् सुग्रीवम् हेम-पिङ्गलम् । सु संवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम्॥ १५॥
sa dadarśa tatas śrīmān sugrīvam hema-piṅgalam . su saṃvītam avaṣṭabdham dīpyamānam iva analam.. 15..
तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमकोपनः॥ १६॥
तम् स दृष्ट्वा महा-बाहुः सुग्रीवम् पर्यवस्थितम् । गाढम् परिदधे वासः वाली परम-कोपनः॥ १६॥
tam sa dṛṣṭvā mahā-bāhuḥ sugrīvam paryavasthitam . gāḍham paridadhe vāsaḥ vālī parama-kopanaḥ.. 16..
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः॥ १७॥
स वाली गाढ-संवीतः मुष्टिम् उद्यम्य वीर्यवान् । सुग्रीवम् एव अभिमुखः ययौ योद्धुम् कृतक्षणः॥ १७॥
sa vālī gāḍha-saṃvītaḥ muṣṭim udyamya vīryavān . sugrīvam eva abhimukhaḥ yayau yoddhum kṛtakṣaṇaḥ.. 17..
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ १८॥
श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः । सुग्रीवः अपि समुद्दिश्य वालिनम् हेम-मालिनम्॥ १८॥
śliṣṭam muṣṭim samudyamya saṃrabdhataram āgataḥ . sugrīvaḥ api samuddiśya vālinam hema-mālinam.. 18..
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम् । आपतन्तं महावेगमिदं वचनमब्रवीत्॥ १९॥
तम् वाली क्रोध-ताम्र-अक्षः सुग्रीवम् रण-कोविदम् । आपतन्तम् महा-वेगम् इदम् वचनम् अब्रवीत्॥ १९॥
tam vālī krodha-tāmra-akṣaḥ sugrīvam raṇa-kovidam . āpatantam mahā-vegam idam vacanam abravīt.. 19..
एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति॥ २०॥
एष मुष्टिः महान् बद्धः गाढः सु नियत-अङ्गुलिः । मया वेग-विमुक्तः ते प्राणान् आदाय यास्यति॥ २०॥
eṣa muṣṭiḥ mahān baddhaḥ gāḍhaḥ su niyata-aṅguliḥ . mayā vega-vimuktaḥ te prāṇān ādāya yāsyati.. 20..
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् । तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ २१॥
एवम् उक्तः तु सुग्रीवः क्रुद्धः वालिनम् अब्रवीत् । तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ २१॥
evam uktaḥ tu sugrīvaḥ kruddhaḥ vālinam abravīt . tava ca eṣa haran prāṇān muṣṭiḥ patatu mūrdhani.. 21..
ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः । अभवच्छोणितोद्गारी सापीड इव पर्वतः॥ २२॥
ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः । अभवत् शोणित-उद्गारी स आपीडः इव पर्वतः॥ २२॥
tāḍitaḥ tena tam kruddhaḥ samabhikramya vegataḥ . abhavat śoṇita-udgārī sa āpīḍaḥ iva parvataḥ.. 22..
सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ २३॥
सुग्रीवेण तु निःशङ्कम् सालम् उत्पाट्य तेजसा । गात्रेषु अभिहतः वाली वज्रेण इव महा-गिरिः॥ २३॥
sugrīveṇa tu niḥśaṅkam sālam utpāṭya tejasā . gātreṣu abhihataḥ vālī vajreṇa iva mahā-giriḥ.. 23..
स तु वृक्षेण निर्भग्नः सालताडनविह्वलः । गुरुभारभराक्रान्ता नौः ससार्थेव सागरे॥ २४॥
स तु वृक्षेण निर्भग्नः साल-ताडन-विह्वलः । गुरु-भार-भर-आक्रान्ता नौः स सार्था इव सागरे॥ २४॥
sa tu vṛkṣeṇa nirbhagnaḥ sāla-tāḍana-vihvalaḥ . guru-bhāra-bhara-ākrāntā nauḥ sa sārthā iva sāgare.. 24..
तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ । प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे॥ २५॥
तौ भीम-बल-विक्रान्तौ सुपर्ण-सम-वेगितौ । प्रवृद्धौ घोर-वपुषौ चन्द्र-सूर्यौ इव अम्बरे॥ २५॥
tau bhīma-bala-vikrāntau suparṇa-sama-vegitau . pravṛddhau ghora-vapuṣau candra-sūryau iva ambare.. 25..
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ । ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ २६॥
परस्परम् अमित्र-घ्नौ छिद्र-अन्वेषण-तत्परौ । ततस् अवर्धत वाली तु बल-वीर्य-समन्वितः॥ २६॥
parasparam amitra-ghnau chidra-anveṣaṇa-tatparau . tatas avardhata vālī tu bala-vīrya-samanvitaḥ.. 26..
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत । वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ २७॥
सूर्य-पुत्रः महा-वीर्यः सुग्रीवः परिहीयत । वालिना भग्न-दर्पः तु सुग्रीवः मन्द-विक्रमः॥ २७॥
sūrya-putraḥ mahā-vīryaḥ sugrīvaḥ parihīyata . vālinā bhagna-darpaḥ tu sugrīvaḥ manda-vikramaḥ.. 27..
वालिनं प्रति सामर्षो दर्शयामास राघवम् । वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः॥ २८॥
वालिनम् प्रति स अमर्षः दर्शयामास राघवम् । वृक्षैः स शाखैः शिखरैः वज्र-कोटि-निभैः नखैः॥ २८॥
vālinam prati sa amarṣaḥ darśayāmāsa rāghavam . vṛkṣaiḥ sa śākhaiḥ śikharaiḥ vajra-koṭi-nibhaiḥ nakhaiḥ.. 28..
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव॥ २९॥
मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनर् पुनर् । तयोः युद्धम् अभूत् घोरम् वृत्र-वासवयोः इव॥ २९॥
muṣṭibhiḥ jānubhiḥ padbhiḥ bāhubhiḥ ca punar punar . tayoḥ yuddham abhūt ghoram vṛtra-vāsavayoḥ iva.. 29..
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ । मेघाविव महाशब्दैस्तर्जमानौ परस्परम्॥ ३०॥
तौ शोणित-अक्तौ युध्येताम् वानरौ वन-चारिणौ । मेघौ इव महा-शब्दैः तर्जमानौ परस्परम्॥ ३०॥
tau śoṇita-aktau yudhyetām vānarau vana-cāriṇau . meghau iva mahā-śabdaiḥ tarjamānau parasparam.. 30..
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् । प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥ ३१॥
हीयमानम् अथ अपश्यत् सुग्रीवम् वानर-ईश्वरम् । प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर्॥ ३१॥
hīyamānam atha apaśyat sugrīvam vānara-īśvaram . prekṣamāṇam diśaḥ ca eva rāghavaḥ sa muhur muhur.. 31..
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् । स शरं वीक्षते वीरो वालिनो वधकांक्षया॥ ३२॥
ततस् रामः महा-तेजाः आर्तम् दृष्ट्वा हरि-ईश्वरम् । स शरम् वीक्षते वीरः वालिनः वध-कांक्षया॥ ३२॥
tatas rāmaḥ mahā-tejāḥ ārtam dṛṣṭvā hari-īśvaram . sa śaram vīkṣate vīraḥ vālinaḥ vadha-kāṃkṣayā.. 32..
ततो धनुषि संधाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः॥ ३३॥
ततस् धनुषि संधाय शरम् आशीविष-उपमम् । पूरयामास तत् चापम् कालचक्रम् इव अन्तकः॥ ३३॥
tatas dhanuṣi saṃdhāya śaram āśīviṣa-upamam . pūrayāmāsa tat cāpam kālacakram iva antakaḥ.. 33..
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः॥ ३४॥
तस्य ज्या-तल-घोषेण त्रस्ताः पत्ररथ-ईश्वराः । प्रदुद्रुवुः मृगाः च एव युगान्ते इव मोहिताः॥ ३४॥
tasya jyā-tala-ghoṣeṇa trastāḥ patraratha-īśvarāḥ . pradudruvuḥ mṛgāḥ ca eva yugānte iva mohitāḥ.. 34..
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः । राघवेण महाबाणो वालिवक्षसि पातितः॥ ३५॥
मुक्तः तु वज्र-निर्घोषः प्रदीप्त-अशनि-संनिभः । राघवेण महा-बाणः वालि-वक्षसि पातितः॥ ३५॥
muktaḥ tu vajra-nirghoṣaḥ pradīpta-aśani-saṃnibhaḥ . rāghaveṇa mahā-bāṇaḥ vāli-vakṣasi pātitaḥ.. 35..
ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले॥ ३६॥
ततस् तेन महा-तेजाः वीर्य-युक्तः कपि-ईश्वरः । वेगेन अभिहतः वाली निपपात मही-तले॥ ३६॥
tatas tena mahā-tejāḥ vīrya-yuktaḥ kapi-īśvaraḥ . vegena abhihataḥ vālī nipapāta mahī-tale.. 36..
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको विचेतनः । बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः॥ ३७॥
इन्द्र-ध्वजः इव उद्धूतः पौर्णमास्याम् मही-तले । आश्वयुज्-समये मासि गत-श्रीकः विचेतनः । बाष्प-संरुद्ध-कण्ठः तु वाली च आर्त-स्वरः शनैस्॥ ३७॥
indra-dhvajaḥ iva uddhūtaḥ paurṇamāsyām mahī-tale . āśvayuj-samaye māsi gata-śrīkaḥ vicetanaḥ . bāṣpa-saṃruddha-kaṇṭhaḥ tu vālī ca ārta-svaraḥ śanais.. 37..
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ ३८॥
नर-उत्तमः काल-युग-अन्तक-उपमम् शर-उत्तमम् काञ्चन-रूप्य-भूषितम् । ससर्ज दीप्तम् तम् अमित्र-मर्दनम् स धूमम् अग्निम् मुखतः यथा हरः॥ ३८॥
nara-uttamaḥ kāla-yuga-antaka-upamam śara-uttamam kāñcana-rūpya-bhūṣitam . sasarja dīptam tam amitra-mardanam sa dhūmam agnim mukhataḥ yathā haraḥ.. 38..
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः । विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ ३९॥
अथ उक्षितः शोणित-तोय-विस्रवैः सु पुष्पित-अशोकः इव अनिल-उद्धतः । विचेतनः वासव-सूनुः आहवे प्रभ्रंशित-इन्द्र-ध्वज-वत् क्षितिम् गतः॥ ३९॥
atha ukṣitaḥ śoṇita-toya-visravaiḥ su puṣpita-aśokaḥ iva anila-uddhataḥ . vicetanaḥ vāsava-sūnuḥ āhave prabhraṃśita-indra-dhvaja-vat kṣitim gataḥ.. 39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षोडशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣoḍaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In