This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तदशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptadaśaḥ sargaḥ ..4..
ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः॥ १॥
ततस् शरेण अभिहतः रामेण रण-कर्कशः । पपात सहसा वाली निकृत्तः इव पादपः॥ १॥
tatas śareṇa abhihataḥ rāmeṇa raṇa-karkaśaḥ . papāta sahasā vālī nikṛttaḥ iva pādapaḥ.. 1..
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः॥ २॥
स भूमौ न्यस्त-सर्व-अङ्गः तप्त-काञ्चन-भूषणः । अपतत् देवराजस्य मुक्त-रश्मिः इव ध्वजः॥ २॥
sa bhūmau nyasta-sarva-aṅgaḥ tapta-kāñcana-bhūṣaṇaḥ . apatat devarājasya mukta-raśmiḥ iva dhvajaḥ.. 2..
अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी॥ ३॥
अस्मिन् निपतिते भूमौ हरि-ऋक्षाणाम् गणेश्वरे । नष्ट-चन्द्रम् इव व्योम न व्यराजत मेदिनी॥ ३॥
asmin nipatite bhūmau hari-ṛkṣāṇām gaṇeśvare . naṣṭa-candram iva vyoma na vyarājata medinī.. 3..
भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥ ४॥
भूमौ निपतितस्य अपि तस्य देहम् महात्मनः । न श्रीः जहाति न प्राणाः न तेजः न पराक्रमः॥ ४॥
bhūmau nipatitasya api tasya deham mahātmanaḥ . na śrīḥ jahāti na prāṇāḥ na tejaḥ na parākramaḥ.. 4..
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा॥ ५॥
शक्र-दत्ता वरा माला काञ्चनी रत्न-भूषिता । दधार हरि-मुख्यस्य प्राणान् तेजः श्रियम् च सा॥ ५॥
śakra-dattā varā mālā kāñcanī ratna-bhūṣitā . dadhāra hari-mukhyasya prāṇān tejaḥ śriyam ca sā.. 5..
स तया मालया वीरो हैमया हरियूथपः । संध्यानुगतपर्यन्तः पयोधर इवाभवत्॥ ६॥
स तया मालया वीरः हैमया हरि-यूथपः । संध्या-अनुगत-पर्यन्तः पयोधरः इव अभवत्॥ ६॥
sa tayā mālayā vīraḥ haimayā hari-yūthapaḥ . saṃdhyā-anugata-paryantaḥ payodharaḥ iva abhavat.. 6..
तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥ ७॥
तस्य माला च देहः च मर्म-घाती च यः शरः । त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते॥ ७॥
tasya mālā ca dehaḥ ca marma-ghātī ca yaḥ śaraḥ . tridhā iva racitā lakṣmīḥ patitasya api śobhate.. 7..
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् । रामबाणासनक्षिप्तमावहत् परमां गतिम्॥ ८॥
तत् अस्त्रम् तस्य वीरस्य स्वर्ग-मार्ग-प्रभावनम् । राम-बाणासन-क्षिप्तम् आवहत् परमाम् गतिम्॥ ८॥
tat astram tasya vīrasya svarga-mārga-prabhāvanam . rāma-bāṇāsana-kṣiptam āvahat paramām gatim.. 8..
तं तथा पतितं संख्ये गतार्चिषमिवानलम् । ययातिमिव पुण्यान्ते देवलोकादिह च्युतम्॥ ९॥
तम् तथा पतितम् संख्ये गत-इव अनलम् । ययातिम् इव पुण्य-अन्ते देव-लोकात् इह च्युतम्॥ ९॥
tam tathā patitam saṃkhye gata-iva analam . yayātim iva puṇya-ante deva-lokāt iha cyutam.. 9..
आदित्यमिव कालेन युगान्ते भुवि पातितम् । महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम्॥ १०॥
आदित्यम् इव कालेन युग-अन्ते भुवि पातितम् । महा-इन्द्रम् इव दुर्धर्षम् उपेन्द्रम् इव दुःसहम्॥ १०॥
ādityam iva kālena yuga-ante bhuvi pātitam . mahā-indram iva durdharṣam upendram iva duḥsaham.. 10..
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् । व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्॥ ११॥
महा-इन्द्र-पुत्रम् पतितम् वालिनम् हेम-मालिनम् । व्यूढ-उरस्कम् महा-बाहुम् दीप्त-आस्यम् हरि-लोचनम्॥ ११॥
mahā-indra-putram patitam vālinam hema-mālinam . vyūḍha-uraskam mahā-bāhum dīpta-āsyam hari-locanam.. 11..
लक्ष्मणानुचरो रामो ददर्शोपससर्प च । तं तथा पतितं वीरं गतार्चिषमिवानलम्॥ १२॥
लक्ष्मण-अनुचरः रामः ददर्श उपससर्प च । तम् तथा पतितम् वीरम् गत-इव अनलम्॥ १२॥
lakṣmaṇa-anucaraḥ rāmaḥ dadarśa upasasarpa ca . tam tathā patitam vīram gata-iva analam.. 12..
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव । उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ॥ १३॥
बहु-मान्य च तम् वीरम् वीक्षमाणम् शनैस् इव । उपयातौ महा-वीर्यौ भ्रातरौ राम-लक्ष्मणौ॥ १३॥
bahu-mānya ca tam vīram vīkṣamāṇam śanais iva . upayātau mahā-vīryau bhrātarau rāma-lakṣmaṇau.. 13..
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम्॥ १४॥
तम् दृष्ट्वा राघवम् वाली लक्ष्मणम् च महा-बलम् । अब्रवीत् परुषम् वाक्यम् प्रश्रितम् धर्म-संहितम्॥ १४॥
tam dṛṣṭvā rāghavam vālī lakṣmaṇam ca mahā-balam . abravīt paruṣam vākyam praśritam dharma-saṃhitam.. 14..
स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः । अर्थसंहितया वाचा गर्वितं रणगर्वितम्॥ १५॥
स भूमौ अल्प-तेजः-असुः निहतः नष्ट-चेतनः । अर्थ-संहितया वाचा गर्वितम् रण-गर्वितम्॥ १५॥
sa bhūmau alpa-tejaḥ-asuḥ nihataḥ naṣṭa-cetanaḥ . artha-saṃhitayā vācā garvitam raṇa-garvitam.. 15..
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः॥ १६॥
त्वम् नराधिपतेः पुत्रः प्रथितः प्रिय-दर्शनः । पराङ्मुख-वधम् कृत्वा कः अत्र प्राप्तः त्वया गुणः । यत् अहम् युद्ध-संरब्धः त्वद्-कृते निधनम् गतः॥ १६॥
tvam narādhipateḥ putraḥ prathitaḥ priya-darśanaḥ . parāṅmukha-vadham kṛtvā kaḥ atra prāptaḥ tvayā guṇaḥ . yat aham yuddha-saṃrabdhaḥ tvad-kṛte nidhanam gataḥ.. 16..
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः । रामः करुणवेदी च प्रजानां च हिते रतः॥ १७॥
कुलीनः सत्त्व-सम्पन्नः तेजस्वी चरित-व्रतः । रामः करुण-वेदी च प्रजानाम् च हिते रतः॥ १७॥
kulīnaḥ sattva-sampannaḥ tejasvī carita-vrataḥ . rāmaḥ karuṇa-vedī ca prajānām ca hite rataḥ.. 17..
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः । इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि॥ १८॥
स अनुक्रोशः महा-उत्साहः समय-ज्ञः दृढ-व्रतः । इति एतत् सर्व-भूतानि कथयन्ति यशः भुवि॥ १८॥
sa anukrośaḥ mahā-utsāhaḥ samaya-jñaḥ dṛḍha-vrataḥ . iti etat sarva-bhūtāni kathayanti yaśaḥ bhuvi.. 18..
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु॥ १९॥
दमः शमः क्षमा धर्मः धृतिः सत्यम् पराक्रमः । पार्थिवानाम् गुणाः राजन् दण्डः च अपि अपकारिषु॥ १९॥
damaḥ śamaḥ kṣamā dharmaḥ dhṛtiḥ satyam parākramaḥ . pārthivānām guṇāḥ rājan daṇḍaḥ ca api apakāriṣu.. 19..
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव । तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः॥ २०॥
तान् गुणान् सम्प्रधार्य अहम् अग्र्यम् च अभिजनम् तव । तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः॥ २०॥
tān guṇān sampradhārya aham agryam ca abhijanam tava . tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ.. 20..
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि । इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव॥ २१॥
न माम् अन्येन संरब्धम् प्रमत्तम् वेद्धुम् अर्हसि । इति मे बुद्धिः उत्पन्ना बभूव अदर्शने तव॥ २१॥
na mām anyena saṃrabdham pramattam veddhum arhasi . iti me buddhiḥ utpannā babhūva adarśane tava.. 21..
स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम्॥ २२॥
स त्वाम् विनिहत-आत्मानम् धर्म-ध्वजम् अधार्मिकम् । जाने पाप-समाचारम् तृणैः कूपम् इव आवृतम्॥ २२॥
sa tvām vinihata-ātmānam dharma-dhvajam adhārmikam . jāne pāpa-samācāram tṛṇaiḥ kūpam iva āvṛtam.. 22..
सतां वेषधरं पापं प्रच्छन्नमिव पावकम् । नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्॥ २३॥
सताम् वेष-धरम् पापम् प्रच्छन्नम् इव पावकम् । न अहम् त्वाम् अभिजानामि धर्म-छद्म-अभिसंवृतम्॥ २३॥
satām veṣa-dharam pāpam pracchannam iva pāvakam . na aham tvām abhijānāmi dharma-chadma-abhisaṃvṛtam.. 23..
विषये वा पुरे वा ते यदा पापं करोम्यहम् । न च त्वामवजानेऽहं कस्मात् तं हंस्यकिल्बिषम्॥ २४॥
विषये वा पुरे वा ते यदा पापम् करोमि अहम् । न च त्वाम् अवजाने अहम् कस्मात् तम् हंसि अ किल्बिषम्॥ २४॥
viṣaye vā pure vā te yadā pāpam karomi aham . na ca tvām avajāne aham kasmāt tam haṃsi a kilbiṣam.. 24..
फलमूलाशनं नित्यं वानरं वनगोचरम् । मामिहाप्रतियुध्यन्तमन्येन च समागतम्॥ २५॥
फल-मूल-अशनम् नित्यम् वानरम् वन-गोचरम् । माम् इह अ प्रतियुध्यन्तम् अन्येन च समागतम्॥ २५॥
phala-mūla-aśanam nityam vānaram vana-gocaram . mām iha a pratiyudhyantam anyena ca samāgatam.. 25..
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः । लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्॥ २६॥
त्वम् नराधिपतेः पुत्रः प्रतीतः प्रिय-दर्शनः । लिङ्गम् अपि अस्ति ते राजन् दृश्यते धर्म-संहितम्॥ २६॥
tvam narādhipateḥ putraḥ pratītaḥ priya-darśanaḥ . liṅgam api asti te rājan dṛśyate dharma-saṃhitam.. 26..
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः । धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्॥ २७॥
कः क्षत्रिय-कुले जातः श्रुतवान् नष्ट-संशयः । धर्म-लिङ्ग-प्रतिच्छन्नः क्रूरम् कर्म समाचरेत्॥ २७॥
kaḥ kṣatriya-kule jātaḥ śrutavān naṣṭa-saṃśayaḥ . dharma-liṅga-praticchannaḥ krūram karma samācaret.. 27..
त्वं राघवकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थं परिधावसे॥ २८॥
त्वम् राघव-कुले जातः धर्मवान् इति विश्रुतः । अभव्यः भव्य-रूपेण किमर्थम् परिधावसे॥ २८॥
tvam rāghava-kule jātaḥ dharmavān iti viśrutaḥ . abhavyaḥ bhavya-rūpeṇa kimartham paridhāvase.. 28..
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु॥ २९॥
साम दानम् क्षमा धर्मः सत्यम् धृति-पराक्रमौ । पार्थिवानाम् गुणाः राजन् दण्डः च अपि अपकारिषु॥ २९॥
sāma dānam kṣamā dharmaḥ satyam dhṛti-parākramau . pārthivānām guṇāḥ rājan daṇḍaḥ ca api apakāriṣu.. 29..
वयं वनचरा राम मृगा मूलफलाशिनः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर॥ ३०॥
वयम् वन-चराः राम मृगाः मूल-फल-आशिनः । एषा प्रकृतिः अस्माकम् पुरुषः त्वम् नरेश्वर॥ ३०॥
vayam vana-carāḥ rāma mṛgāḥ mūla-phala-āśinaḥ . eṣā prakṛtiḥ asmākam puruṣaḥ tvam nareśvara.. 30..
भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च । तत्र कस्ते वने लोभो मदीयेषु फलेषु वा॥ ३१॥
भूमिः हिरण्यम् रूपम् च विग्रहे कारणानि च । तत्र कः ते वने लोभः मदीयेषु फलेषु वा॥ ३१॥
bhūmiḥ hiraṇyam rūpam ca vigrahe kāraṇāni ca . tatra kaḥ te vane lobhaḥ madīyeṣu phaleṣu vā.. 31..
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥ ३२॥
नयः च विनयः च उभौ निग्रह-अनुग्रहौ अपि । राज-वृत्तिः असंकीर्णाः न नृपाः काम-वृत्तयः॥ ३२॥
nayaḥ ca vinayaḥ ca ubhau nigraha-anugrahau api . rāja-vṛttiḥ asaṃkīrṇāḥ na nṛpāḥ kāma-vṛttayaḥ.. 32..
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः । राजवृत्तेषु संकीर्णः शरासनपरायणः॥ ३३॥
त्वम् तु काम-प्रधानः च कोपनः च अनवस्थितः । राज-वृत्तेषु संकीर्णः शरासन-परायणः॥ ३३॥
tvam tu kāma-pradhānaḥ ca kopanaḥ ca anavasthitaḥ . rāja-vṛtteṣu saṃkīrṇaḥ śarāsana-parāyaṇaḥ.. 33..
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता । इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर॥ ३४॥
न ते अस्ति अपचितिः धर्मे न अर्थे बुद्धिः अवस्थिता । इन्द्रियैः काम-वृत्तः सन् कृष्यसे मनुज-ईश्वर॥ ३४॥
na te asti apacitiḥ dharme na arthe buddhiḥ avasthitā . indriyaiḥ kāma-vṛttaḥ san kṛṣyase manuja-īśvara.. 34..
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् । किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्॥ ३५॥
हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् । किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम्॥ ३५॥
hatvā bāṇena kākutstha mām iha anaparādhinam . kim vakṣyasi satām madhye karma kṛtvā jugupsitam.. 35..
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः॥ ३६॥
राज-हा ब्रह्म-हा गो-घ्नः चोरः प्राणि-वधे रतः । नास्तिकः परिवेत्ता च सर्वे निरय-गामिनः॥ ३६॥
rāja-hā brahma-hā go-ghnaḥ coraḥ prāṇi-vadhe rataḥ . nāstikaḥ parivettā ca sarve niraya-gāminaḥ.. 36..
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः । लोकं पापात्मनामेते गच्छन्ते नात्र संशयः॥ ३७॥
सूचकः च कदर्यः च मित्र-घ्नः गुरु-तल्प-गः । लोकम् पाप-आत्मनाम् एते गच्छन्ते न अत्र संशयः॥ ३७॥
sūcakaḥ ca kadaryaḥ ca mitra-ghnaḥ guru-talpa-gaḥ . lokam pāpa-ātmanām ete gacchante na atra saṃśayaḥ.. 37..
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥ ३८॥
अ धार्यम् चर्म मे सद्भिः रोमाणि अस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वद्विधैः धर्म-चारिभिः॥ ३८॥
a dhāryam carma me sadbhiḥ romāṇi asthi ca varjitam . abhakṣyāṇi ca māṃsāni tvadvidhaiḥ dharma-cāribhiḥ.. 38..
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः॥ ३९॥
पञ्च पञ्चनखाः भक्ष्याः ब्रह्म-क्षत्रेण राघव । शल्यकः श्वाविधः गोधा शशः कूर्मः च पञ्चमः॥ ३९॥
pañca pañcanakhāḥ bhakṣyāḥ brahma-kṣatreṇa rāghava . śalyakaḥ śvāvidhaḥ godhā śaśaḥ kūrmaḥ ca pañcamaḥ.. 39..
चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः । अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः॥ ४०॥
चर्म च अस्थि च मे राम न स्पृशन्ति मनीषिणः । अभक्ष्याणि च मांसानि सः अहम् पञ्चनखः हतः॥ ४०॥
carma ca asthi ca me rāma na spṛśanti manīṣiṇaḥ . abhakṣyāṇi ca māṃsāni saḥ aham pañcanakhaḥ hataḥ.. 40..
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः॥ ४१॥
तारया वाक्य-मुक्तः अहम् सत्यम् सर्वज्ञया हितम् । तत् अतिक्रम्य मोहेन कालस्य वशम् आगतः॥ ४१॥
tārayā vākya-muktaḥ aham satyam sarvajñayā hitam . tat atikramya mohena kālasya vaśam āgataḥ.. 41..
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा । प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा॥ ४२॥
त्वया नाथेन काकुत्स्थ न स नाथा वसुंधरा । प्रमदा शील-सम्पूर्णा पत्या इव च विधर्मणा॥ ४२॥
tvayā nāthena kākutstha na sa nāthā vasuṃdharā . pramadā śīla-sampūrṇā patyā iva ca vidharmaṇā.. 42..
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः । कथं दशरथेन त्वं जातः पापो महात्मना॥ ४३॥
शठः नैकृतिकः क्षुद्रः मिथ्या प्रश्रित-मानसः । कथम् दशरथेन त्वम् जातः पापः महात्मना॥ ४३॥
śaṭhaḥ naikṛtikaḥ kṣudraḥ mithyā praśrita-mānasaḥ . katham daśarathena tvam jātaḥ pāpaḥ mahātmanā.. 43..
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना॥ ४४॥
छिन्न-चारित्र्य-कक्ष्येण सताम् धर्म-अतिवर्तिना । त्यक्त-धर्म-अङ्कुशेन अहम् निहतः राम-हस्तिना॥ ४४॥
chinna-cāritrya-kakṣyeṇa satām dharma-ativartinā . tyakta-dharma-aṅkuśena aham nihataḥ rāma-hastinā.. 44..
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥ ४५॥
अशुभम् च अपि अयुक्तम् च सताम् च एव विगर्हितम् । वक्ष्यसे च ईदृशम् कृत्वा सद्भिः सह समागतः॥ ४५॥
aśubham ca api ayuktam ca satām ca eva vigarhitam . vakṣyase ca īdṛśam kṛtvā sadbhiḥ saha samāgataḥ.. 45..
उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः । अपकारिषु ते राम नैवं पश्यामि विक्रमम्॥ ४६॥
उदासीनेषु यः अस्मासु विक्रमः अयम् प्रकाशितः । अपकारिषु ते राम ना एवम् पश्यामि विक्रमम्॥ ४६॥
udāsīneṣu yaḥ asmāsu vikramaḥ ayam prakāśitaḥ . apakāriṣu te rāma nā evam paśyāmi vikramam.. 46..
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया॥ ४७॥
दृश्यमानः तु युध्येथाः मया युधि नृप-आत्मज । अद्य वैवस्वतम् देवम् पश्येः त्वम् निहतः मया॥ ४७॥
dṛśyamānaḥ tu yudhyethāḥ mayā yudhi nṛpa-ātmaja . adya vaivasvatam devam paśyeḥ tvam nihataḥ mayā.. 47..
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनैव नरः पापवशं गतः॥ ४८॥
त्वया अदृश्येन तु रणे निहतः अहम् दुरासदः । प्रसुप्तः पन्नगेन एव नरः पाप-वशम् गतः॥ ४८॥
tvayā adṛśyena tu raṇe nihataḥ aham durāsadaḥ . prasuptaḥ pannagena eva naraḥ pāpa-vaśam gataḥ.. 48..
सुग्रीवप्रियकामेन यदहं निहतस्त्वया । मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तव चानीतवान् भवेः॥ ४९॥
सुग्रीव-प्रिय-कामेन यत् अहम् निहतः त्वया । माम् एव यदि पूर्वम् त्वम् एतद्-अर्थम् अचोदयः । मैथिलीम् अहम् एक-अह्ना तव च आनीतवान् भवेः॥ ४९॥
sugrīva-priya-kāmena yat aham nihataḥ tvayā . mām eva yadi pūrvam tvam etad-artham acodayaḥ . maithilīm aham eka-ahnā tava ca ānītavān bhaveḥ.. 49..
राक्षसं च दुरात्मानं तव भार्यापहारिणम् । कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे॥ ५०॥
राक्षसम् च दुरात्मानम् तव भार्या-अपहारिणम् । कण्ठे बद्ध्वा प्रदद्याम् ते अनिहतम् रावणम् रणे॥ ५०॥
rākṣasam ca durātmānam tava bhāryā-apahāriṇam . kaṇṭhe baddhvā pradadyām te anihatam rāvaṇam raṇe.. 50..
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव॥ ५१॥
न्यस्ताम् सागर-तोये वा पाताले वा अपि मैथिलीम् । आनयेयम् तव आदेशात् श्वेताम् अश्वतरीम् इव॥ ५१॥
nyastām sāgara-toye vā pātāle vā api maithilīm . ānayeyam tava ādeśāt śvetām aśvatarīm iva.. 51..
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मेण त्वयाहं निहतो रणे॥ ५२॥
युक्तम् यत् प्राप्नुयात् राज्यम् सुग्रीवः स्वर्गते मयि । अयुक्तम् यत् अधर्मेण त्वया अहम् निहतः रणे॥ ५२॥
yuktam yat prāpnuyāt rājyam sugrīvaḥ svargate mayi . ayuktam yat adharmeṇa tvayā aham nihataḥ raṇe.. 52..
काममेवंविधो लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्॥ ५३॥
कामम् एवंविधः लोकः कालेन विनियुज्यते । क्षमम् चेद् भवता प्राप्तम् उत्तरम् साधु चिन्त्यताम्॥ ५३॥
kāmam evaṃvidhaḥ lokaḥ kālena viniyujyate . kṣamam ced bhavatā prāptam uttaram sādhu cintyatām.. 53..
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा । समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः॥ ५४॥
इति एवम् उक्त्वा परिशुष्क-वक्त्रः शर-अभिघातात् व्यथितः महात्मा । समीक्ष्य रामम् रवि-संनिकाशम् तूष्णीम् बभौ वानर-राज-सूनुः॥ ५४॥
iti evam uktvā pariśuṣka-vaktraḥ śara-abhighātāt vyathitaḥ mahātmā . samīkṣya rāmam ravi-saṃnikāśam tūṣṇīm babhau vānara-rāja-sūnuḥ.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे किष्किन्धा-काण्डे सप्तदशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe kiṣkindhā-kāṇḍe saptadaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In