This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे अष्टादशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe aṣṭādaśaḥ sargaḥ ..4..
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा॥ १॥
इति उक्तः प्रश्रितम् वाक्यम् धर्म-अर्थ-सहितम् हितम् । परुषम् वालिना रामः निहतेन विचेतसा॥ १॥
iti uktaḥ praśritam vākyam dharma-artha-sahitam hitam . paruṣam vālinā rāmaḥ nihatena vicetasā.. 1..
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥ २॥
तम् निष्प्रभम् इव आदित्यम् मुक्त-तोयम् इव अम्बुदम् । उक्त-वाक्यम् हरि-श्रेष्ठम् उपशान्तम् इव अनलम्॥ २॥
tam niṣprabham iva ādityam mukta-toyam iva ambudam . ukta-vākyam hari-śreṣṭham upaśāntam iva analam.. 2..
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्॥ ३॥
धर्म-अर्थ-गुण-सम्पन्नम् हरि-ईश्वरम् अनुत्तमम् । अधिक्षिप्तः तदा रामः पश्चात् वालिनम् अब्रवीत्॥ ३॥
dharma-artha-guṇa-sampannam hari-īśvaram anuttamam . adhikṣiptaḥ tadā rāmaḥ paścāt vālinam abravīt.. 3..
धर्ममर्थं च कामं च समयं चापि लौकिकम् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥ ४॥
धर्मम् अर्थम् च कामम् च समयम् च अपि लौकिकम् । अ विज्ञाय कथम् बाल्यात् माम् इह अद्य विगर्हसे॥ ४॥
dharmam artham ca kāmam ca samayam ca api laukikam . a vijñāya katham bālyāt mām iha adya vigarhase.. 4..
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान् । सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि॥ ५॥
अ पृष्ट्वा बुद्धि-सम्पन्नान् वृद्धान् आचार्य-सम्मतान् । सौम्य वानर-चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि॥ ५॥
a pṛṣṭvā buddhi-sampannān vṛddhān ācārya-sammatān . saumya vānara-cāpalyāt tvam mām vaktum iha icchasi.. 5..
इक्ष्वाकूणामियं भूमिः सशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि॥ ६॥
इक्ष्वाकूणाम् इयम् भूमिः स शैल-वन-कानना । मृग-पक्षि-मनुष्याणाम् निग्रह-अनुग्रहेषु अपि॥ ६॥
ikṣvākūṇām iyam bhūmiḥ sa śaila-vana-kānanā . mṛga-pakṣi-manuṣyāṇām nigraha-anugraheṣu api.. 6..
तां पालयति धर्मात्मा भरतः सत्यवानृजुः । धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥ ७॥
ताम् पालयति धर्म-आत्मा भरतः सत्यवान् ऋजुः । धर्म-काम-अर्थ-तत्त्व-ज्ञः निग्रह-अनुग्रहे रतः॥ ७॥
tām pālayati dharma-ātmā bharataḥ satyavān ṛjuḥ . dharma-kāma-artha-tattva-jñaḥ nigraha-anugrahe rataḥ.. 7..
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् । विक्रमश्च यथा दृष्टः स राजा देशकालवित्॥ ८॥
नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् । विक्रमः च यथा दृष्टः स राजा देश-काल-विद्॥ ८॥
nayaḥ ca vinayaḥ ca ubhau yasmin satyam ca susthitam . vikramaḥ ca yathā dṛṣṭaḥ sa rājā deśa-kāla-vid.. 8..
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः । चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः॥ ९॥
तस्य धर्म-कृत-आदेशाः वयम् अन्ये च पार्थिवाः । चरामः वसुधाम् कृत्स्नाम् धर्म-संतानम् इच्छवः॥ ९॥
tasya dharma-kṛta-ādeśāḥ vayam anye ca pārthivāḥ . carāmaḥ vasudhām kṛtsnām dharma-saṃtānam icchavaḥ.. 9..
तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले । पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम्॥ १०॥
तस्मिन् नृपति-शार्दूले भरते धर्म-वत्सले । पालयति अखिलाम् पृथ्वीम् कः चरेत् धर्म-विप्रियम्॥ १०॥
tasmin nṛpati-śārdūle bharate dharma-vatsale . pālayati akhilām pṛthvīm kaḥ caret dharma-vipriyam.. 10..
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः । भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि॥ ११॥
ते वयम् मार्ग-विभ्रष्टम् स्वधर्मे परमे स्थिताः । भरत-आज्ञाम् पुरस्कृत्य निगृह्णीमः यथाविधि॥ ११॥
te vayam mārga-vibhraṣṭam svadharme parame sthitāḥ . bharata-ājñām puraskṛtya nigṛhṇīmaḥ yathāvidhi.. 11..
त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः । कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥ १२॥
त्वम् तु संक्लिष्ट-धर्मः च कर्मणा च विगर्हितः । कामतन्त्र-प्रधानः च न स्थितः राज-वर्त्मनि॥ १२॥
tvam tu saṃkliṣṭa-dharmaḥ ca karmaṇā ca vigarhitaḥ . kāmatantra-pradhānaḥ ca na sthitaḥ rāja-vartmani.. 12..
ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः॥ १३॥
ज्येष्ठः भ्राता पिता वा अपि यः च विद्याम् प्रयच्छति । त्रयः ते पितरः ज्ञेयाः धर्मे च पथि वर्तिनः॥ १३॥
jyeṣṭhaḥ bhrātā pitā vā api yaḥ ca vidyām prayacchati . trayaḥ te pitaraḥ jñeyāḥ dharme ca pathi vartinaḥ.. 13..
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम्॥ १४॥
यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुण-उदितः । पुत्र-वत् ते त्रयः चिन्त्याः धर्मः च एव अत्र कारणम्॥ १४॥
yavīyān ātmanaḥ putraḥ śiṣyaḥ ca api guṇa-uditaḥ . putra-vat te trayaḥ cintyāḥ dharmaḥ ca eva atra kāraṇam.. 14..
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥ १५॥
सूक्ष्मः परम-दुर्ज्ञेयः सताम् धर्मः प्लवङ्गम । हृदिस्थः सर्व-भूतानाम् आत्मा वेद शुभ-अशुभम्॥ १५॥
sūkṣmaḥ parama-durjñeyaḥ satām dharmaḥ plavaṅgama . hṛdisthaḥ sarva-bhūtānām ātmā veda śubha-aśubham.. 15..
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्॥ १६॥
चपलः चपलैः सार्धम् वानरैः अकृतात्मभिः । जात्यन्धः इव जात्यन्धैः मन्त्रयन् प्रेक्षसे नु किम्॥ १६॥
capalaḥ capalaiḥ sārdham vānaraiḥ akṛtātmabhiḥ . jātyandhaḥ iva jātyandhaiḥ mantrayan prekṣase nu kim.. 16..
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते । नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि॥ १७॥
अहम् तु व्यक्त-ताम् अस्य वचनस्य ब्रवीमि ते । नहि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि॥ १७॥
aham tu vyakta-tām asya vacanasya bravīmi te . nahi mām kevalam roṣāt tvam vigarhitum arhasi.. 17..
तदेतत् कारणं पश्य यदर्थं त्वं मया हतः । भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्॥ १८॥
तत् एतत् कारणम् पश्य यद्-अर्थम् त्वम् मया हतः । भ्रातुः वर्तसि भार्यायाम् त्यक्त्वा धर्मम् सनातनम्॥ १८॥
tat etat kāraṇam paśya yad-artham tvam mayā hataḥ . bhrātuḥ vartasi bhāryāyām tyaktvā dharmam sanātanam.. 18..
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः । रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत्॥ १९॥
अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः । रुमायाम् वर्तसे कामात् स्नुषायाम् पाप-कर्म-कृत्॥ १९॥
asya tvam dharamāṇasya sugrīvasya mahātmanaḥ . rumāyām vartase kāmāt snuṣāyām pāpa-karma-kṛt.. 19..
तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर । भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः॥ २०॥
तत् व्यतीतस्य ते धर्मात् काम-वृत्तस्य वानर । भ्रातृ-भार्या-अभिमर्शे अस्मिन् दण्डः अयम् प्रतिपादितः॥ २०॥
tat vyatītasya te dharmāt kāma-vṛttasya vānara . bhrātṛ-bhāryā-abhimarśe asmin daṇḍaḥ ayam pratipāditaḥ.. 20..
नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रहं हरियूथप॥ २१॥
नहि लोक-विरुद्धस्य लोक-वृत्तात् अपेयुषः । दण्डात् अन्यत्र पश्यामि निग्रहम् हरि-यूथप॥ २१॥
nahi loka-viruddhasya loka-vṛttāt apeyuṣaḥ . daṇḍāt anyatra paśyāmi nigraham hari-yūthapa.. 21..
न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्गतः । औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः॥ २२॥
न च ते मर्षये पापम् क्षत्रियः अहम् कुल-उद्गतः । औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः॥ २२॥
na ca te marṣaye pāpam kṣatriyaḥ aham kula-udgataḥ . aurasīm bhaginīm vā api bhāryām vā api anujasya yaḥ.. 22..
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः । भरतस्तु महीपालो वयं त्वादेशवर्तिनः॥ २३॥
प्रचरेत नरः कामात् तस्य दण्डः वधः स्मृतः । भरतः तु महीपालः वयम् तु आदेश-वर्तिनः॥ २३॥
pracareta naraḥ kāmāt tasya daṇḍaḥ vadhaḥ smṛtaḥ . bharataḥ tu mahīpālaḥ vayam tu ādeśa-vartinaḥ.. 23..
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् । गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्॥ २४॥
त्वम् च धर्मात् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम् । गुरु-धर्म-व्यतिक्रान्तम् प्राज्ञः धर्मेण पालयन्॥ २४॥
tvam ca dharmāt atikrāntaḥ katham śakyam upekṣitum . guru-dharma-vyatikrāntam prājñaḥ dharmeṇa pālayan.. 24..
भरतः कामयुक्तानां निग्रहे पर्यवस्थितः । वयं तु भरतादेशावधिं कृत्वा हरीश्वर । त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः॥ २५॥
भरतः काम-युक्तानाम् निग्रहे पर्यवस्थितः । वयम् तु भरत-आदेश-अवधिम् कृत्वा हरि-ईश्वर । त्वद्विधान् भिन्न-मर्यादान् निग्रहीतुम् व्यवस्थिताः॥ २५॥
bharataḥ kāma-yuktānām nigrahe paryavasthitaḥ . vayam tu bharata-ādeśa-avadhim kṛtvā hari-īśvara . tvadvidhān bhinna-maryādān nigrahītum vyavasthitāḥ.. 25..
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा । दारराज्यनिमित्तं च निःश्रेयस्करः स मे॥ २६॥
सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा । दार-राज्य-निमित्तम् च निःश्रेयस्करः स मे॥ २६॥
sugrīveṇa ca me sakhyam lakṣmaṇena yathā tathā . dāra-rājya-nimittam ca niḥśreyaskaraḥ sa me.. 26..
प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ । प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्॥ २७॥
प्रतिज्ञा च मया दत्ता तदा वानर-संनिधौ । प्रतिज्ञा च कथम् शक्या मद्विधेन अन् अवेक्षितुम्॥ २७॥
pratijñā ca mayā dattā tadā vānara-saṃnidhau . pratijñā ca katham śakyā madvidhena an avekṣitum.. 27..
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः । शासनं तव यद् युक्तं तद् भवाननुमन्यताम्॥ २८॥
तत् एभिः कारणैः सर्वैः महद्भिः धर्म-संश्रितैः । शासनम् तव यत् युक्तम् तत् भवान् अनुमन्यताम्॥ २८॥
tat ebhiḥ kāraṇaiḥ sarvaiḥ mahadbhiḥ dharma-saṃśritaiḥ . śāsanam tava yat yuktam tat bhavān anumanyatām.. 28..
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः । वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता॥ २९॥
सर्वथा धर्मः इति एव द्रष्टव्यः तव निग्रहः । वयस्यस्य उपकर्तव्यम् धर्मम् एव अनुपश्यता॥ २९॥
sarvathā dharmaḥ iti eva draṣṭavyaḥ tava nigrahaḥ . vayasyasya upakartavyam dharmam eva anupaśyatā.. 29..
शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता । श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया॥ ३०॥
शक्यम् त्वया अपि तत् कार्यम् धर्मम् एवा अनुवर्तता । श्रूयते मनुना गीतौ श्लोकौ चारित्र-वत्सलौ । गृहीतौ धर्म-कुशलैः तथा तत् चरितम् मया॥ ३०॥
śakyam tvayā api tat kāryam dharmam evā anuvartatā . śrūyate manunā gītau ślokau cāritra-vatsalau . gṛhītau dharma-kuśalaiḥ tathā tat caritam mayā.. 30..
राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ ३१॥
राजभिः धृत-दण्डाः च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनः यथा॥ ३१॥
rājabhiḥ dhṛta-daṇḍāḥ ca kṛtvā pāpāni mānavāḥ . nirmalāḥ svargam āyānti santaḥ sukṛtinaḥ yathā.. 31..
शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते । राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्॥ ३२॥
शासनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते । राजा तु अशासान् पापस्य तत् अवाप्नोति किल्बिषम्॥ ३२॥
śāsanāt vā api mokṣāt vā stenaḥ pāpāt pramucyate . rājā tu aśāsān pāpasya tat avāpnoti kilbiṣam.. 32..
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् । श्रमणेन कृते पापे यथा पापं कृतं त्वया॥ ३३॥
आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् । श्रमणेन कृते पापे यथा पापम् कृतम् त्वया॥ ३३॥
āryeṇa mama māndhātrā vyasanam ghoram īpsitam . śramaṇena kṛte pāpe yathā pāpam kṛtam tvayā.. 33..
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः । प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥ ३४॥
अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधाधिपैः । प्रायश्चित्तम् च कुर्वन्ति तेन तत् शाम्यते रजः॥ ३४॥
anyaiḥ api kṛtam pāpam pramattaiḥ vasudhādhipaiḥ . prāyaścittam ca kurvanti tena tat śāmyate rajaḥ.. 34..
तदलं परितापेन धर्मतः परिकल्पितः । वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥ ३५॥
तत् अलम् परितापेन धर्मतः परिकल्पितः । वधः वानर-शार्दूल न वयम् स्व-वशे स्थिताः॥ ३५॥
tat alam paritāpena dharmataḥ parikalpitaḥ . vadhaḥ vānara-śārdūla na vayam sva-vaśe sthitāḥ.. 35..
शृणु चाप्यपरं भूयः कारणं हरिपुंगव । तच्छ्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि॥ ३६॥
शृणु च अपि अपरम् भूयस् कारणम् हरि-पुंगव । तत् श्रुत्वा हि महत् वीर न मन्युम् कर्तुम् अर्हसि॥ ३६॥
śṛṇu ca api aparam bhūyas kāraṇam hari-puṃgava . tat śrutvā hi mahat vīra na manyum kartum arhasi.. 36..
न मे तत्र मनस्तापो न मन्युर्हरिपुंगव । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः॥ ३७॥
न मे तत्र मनः तापः न मन्युः हरि-पुंगव । वागुराभिः च पाशैः च कूटैः च विविधैः नराः॥ ३७॥
na me tatra manaḥ tāpaḥ na manyuḥ hari-puṃgava . vāgurābhiḥ ca pāśaiḥ ca kūṭaiḥ ca vividhaiḥ narāḥ.. 37..
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् । प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान्॥ ३८॥
प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सु बहून् मृगान् । प्रधावितान् वा वित्रस्तान् विस्रब्धान् अन् अतिविष्ठितान्॥ ३८॥
praticchannāḥ ca dṛśyāḥ ca gṛhṇanti su bahūn mṛgān . pradhāvitān vā vitrastān visrabdhān an ativiṣṭhitān.. 38..
प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते॥ ३९॥
प्रमत्तान् अप्रमत्तान् वा नराः मांस-आशिनः भृशम् । विध्यन्ति विमुखान् च अपि न च दोषः अत्र विद्यते॥ ३९॥
pramattān apramattān vā narāḥ māṃsa-āśinaḥ bhṛśam . vidhyanti vimukhān ca api na ca doṣaḥ atra vidyate.. 39..
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात् त्वं निहतो युद्धे मया बाणेन वानर । अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि॥ ४०॥
यान्ति राजर्षयः च अत्र मृगयाम् धर्म-कोविदाः । तस्मात् त्वम् निहतः युद्धे मया बाणेन वानर । अ युध्यन् प्रतियुध्यन् वा यस्मात् शाखामृगः हि असि॥ ४०॥
yānti rājarṣayaḥ ca atra mṛgayām dharma-kovidāḥ . tasmāt tvam nihataḥ yuddhe mayā bāṇena vānara . a yudhyan pratiyudhyan vā yasmāt śākhāmṛgaḥ hi asi.. 40..
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः॥ ४१॥
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानः वानर-श्रेष्ठ प्रदातारः न संशयः॥ ४१॥
durlabhasya ca dharmasya jīvitasya śubhasya ca . rājānaḥ vānara-śreṣṭha pradātāraḥ na saṃśayaḥ.. 41..
तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले॥ ४२॥
तान् न हिंस्यात् न च आक्रोशेत् न आक्षिपेत् न अप्रियम् वदेत् । देवाः मानुष-रूपेण चरन्ति एते मही-तले॥ ४२॥
tān na hiṃsyāt na ca ākrośet na ākṣipet na apriyam vadet . devāḥ mānuṣa-rūpeṇa caranti ete mahī-tale.. 42..
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः । विदूषयसि मां धर्मे पितृपैतामहे स्थितम्॥ ४३॥
त्वम् तु धर्मम् अ विज्ञाय केवलम् रोषम् आस्थितः । विदूषयसि माम् धर्मे पितृपैतामहे स्थितम्॥ ४३॥
tvam tu dharmam a vijñāya kevalam roṣam āsthitaḥ . vidūṣayasi mām dharme pitṛpaitāmahe sthitam.. 43..
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् । न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः॥ ४४॥
एवम् उक्तः तु रामेण वाली प्रव्यथितः भृशम् । न दोषम् राघवे दध्यौ धर्मे अधिगत-निश्चयः॥ ४४॥
evam uktaḥ tu rāmeṇa vālī pravyathitaḥ bhṛśam . na doṣam rāghave dadhyau dharme adhigata-niścayaḥ.. 44..
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः । यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः॥ ४५॥
प्रत्युवाच ततस् रामम् प्राञ्जलिः वानर-ईश्वरः । यत् त्वम् आत्थ नर-श्रेष्ठ तत् तथा एव न संशयः॥ ४५॥
pratyuvāca tatas rāmam prāñjaliḥ vānara-īśvaraḥ . yat tvam āttha nara-śreṣṭha tat tathā eva na saṃśayaḥ.. 45..
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् । यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम्॥ ४६॥
प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टः तु शक्नुयात् । यत् अयुक्तम् मया पूर्वम् प्रमादात् वाक्यम् अप्रियम्॥ ४६॥
prativaktum prakṛṣṭe hi na apakṛṣṭaḥ tu śaknuyāt . yat ayuktam mayā pūrvam pramādāt vākyam apriyam.. 46..
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः । कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया॥ ४७॥
तत्र अपि खलु मे दोषम् कर्तुम् ना अर्हसि राघव । त्वम् हि दृष्टार्थ-तत्त्व-ज्ञः प्रजानाम् च हिते रतः । कार्य-कारण-सिद्धौ च प्रसन्ना बुद्धिः अव्यया॥ ४७॥
tatra api khalu me doṣam kartum nā arhasi rāghava . tvam hi dṛṣṭārtha-tattva-jñaḥ prajānām ca hite rataḥ . kārya-kāraṇa-siddhau ca prasannā buddhiḥ avyayā.. 47..
मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय॥ ४८॥
माम् अपि अवगतम् धर्मात् व्यतिक्रान्त-पुरस्कृतम् । धर्म-संहितया वाचा धर्म-ज्ञ परिपालय॥ ४८॥
mām api avagatam dharmāt vyatikrānta-puraskṛtam . dharma-saṃhitayā vācā dharma-jña paripālaya.. 48..
बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः । उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः॥ ४९॥
बाष्प-संरुद्ध-कण्ठः तु वाली सार्तरवः शनैस् । उवाच रामम् सम्प्रेक्ष्य पङ्क-लग्नः इव द्विपः॥ ४९॥
bāṣpa-saṃruddha-kaṇṭhaḥ tu vālī sārtaravaḥ śanais . uvāca rāmam samprekṣya paṅka-lagnaḥ iva dvipaḥ.. 49..
न चात्मानमहं शोचे न तारां नापि बान्धवान् । यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम्॥ ५०॥
न च आत्मानम् अहम् शोचे न ताराम् ना अपि बान्धवान् । यथा पुत्रम् गुण-ज्येष्ठम् अङ्गदम् कनक-अङ्गदम्॥ ५०॥
na ca ātmānam aham śoce na tārām nā api bāndhavān . yathā putram guṇa-jyeṣṭham aṅgadam kanaka-aṅgadam.. 50..
स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः । तटाक इव पीताम्बुरुपशोषं गमिष्यति॥ ५१॥
स मम अदर्शनात् दीनः बाल्यात् प्रभृति लालितः । तटाकः इव गमिष्यति॥ ५१॥
sa mama adarśanāt dīnaḥ bālyāt prabhṛti lālitaḥ . taṭākaḥ iva gamiṣyati.. 51..
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः॥ ५२॥
बालः च अकृतबुद्धिः च एक-पुत्रः च मे प्रियः । तारेयः राम भवता रक्षणीयः महा-बलः॥ ५२॥
bālaḥ ca akṛtabuddhiḥ ca eka-putraḥ ca me priyaḥ . tāreyaḥ rāma bhavatā rakṣaṇīyaḥ mahā-balaḥ.. 52..
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् । त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः॥ ५३॥
सुग्रीवे च अङ्गदे च एव विधत्स्व मतिम् उत्तमाम् । त्वम् हि गोप्ता च शास्ता च कार्य-अकार्य-विधौ स्थितः॥ ५३॥
sugrīve ca aṅgade ca eva vidhatsva matim uttamām . tvam hi goptā ca śāstā ca kārya-akārya-vidhau sthitaḥ.. 53..
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि॥ ५४॥
या ते नरपते वृत्तिः भरते लक्ष्मणे च या । सुग्रीवे च अङ्गदे राजन् ताम् चिन्तयितुम् अर्हसि॥ ५४॥
yā te narapate vṛttiḥ bharate lakṣmaṇe ca yā . sugrīve ca aṅgade rājan tām cintayitum arhasi.. 54..
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् । सुग्रीवो नावमन्येत तथावस्थातुमर्हसि॥ ५५॥
मद्-दोष-कृत-दोषाम् ताम् यथा ताराम् तपस्विनीम् । सुग्रीवः न अवमन्येत तथा अवस्थातुम् अर्हसि॥ ५५॥
mad-doṣa-kṛta-doṣām tām yathā tārām tapasvinīm . sugrīvaḥ na avamanyeta tathā avasthātum arhasi.. 55..
त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना॥ ५६॥
त्वया हि अनुगृहीतेन शक्यम् राज्यम् उपासितुम् । त्वद्-वशे वर्तमानेन तव चित्त-अनुवर्तिना॥ ५६॥
tvayā hi anugṛhītena śakyam rājyam upāsitum . tvad-vaśe vartamānena tava citta-anuvartinā.. 56..
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् । त्वत्तोऽहं वधमाकांक्षन् वार्यमाणोऽपि तारया॥ ५७॥
शक्यम् दिवम् च अर्जयितुम् वसुधाम् च अपि शासितुम् । त्वत्तः अहम् वधम् आकांक्षन् वार्यमाणः अपि तारया॥ ५७॥
śakyam divam ca arjayitum vasudhām ca api śāsitum . tvattaḥ aham vadham ākāṃkṣan vāryamāṇaḥ api tārayā.. 57..
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः । इत्युक्त्वा वानरो रामं विरराम हरीश्वरः॥ ५८॥
सुग्रीवेण सह भ्रात्रा द्वन्द्व-युद्धम् उपागतः । इति उक्त्वा वानरः रामम् विरराम हरि-ईश्वरः॥ ५८॥
sugrīveṇa saha bhrātrā dvandva-yuddham upāgataḥ . iti uktvā vānaraḥ rāmam virarāma hari-īśvaraḥ.. 58..
स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम् । साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया॥ ५९॥
स तम् आश्वासयत् रामः वालिनम् व्यक्त-दर्शनम् । साधु-सम्मतया वाचा धर्म-तत्त्व-अर्थ-युक्तया॥ ५९॥
sa tam āśvāsayat rāmaḥ vālinam vyakta-darśanam . sādhu-sammatayā vācā dharma-tattva-artha-yuktayā.. 59..
न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम । न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः॥ ६०॥
न संतापः त्वया कार्यः एतद्-अर्थम् प्लवङ्गम । न वयम् भवता चिन्त्या ना अपि आत्मा हरि-सत्तम । वयम् भवत्-विशेषेण धर्मतः कृत-निश्चयाः॥ ६०॥
na saṃtāpaḥ tvayā kāryaḥ etad-artham plavaṅgama . na vayam bhavatā cintyā nā api ātmā hari-sattama . vayam bhavat-viśeṣeṇa dharmataḥ kṛta-niścayāḥ.. 60..
दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः॥ ६१॥
दण्ड्ये यः पातयेत् दण्डम् दण्ड्यः यः च अपि दण्ड्यते । कार्य-कारण-सिद्धार्थौ उभौ तौ न अवसीदतः॥ ६१॥
daṇḍye yaḥ pātayet daṇḍam daṇḍyaḥ yaḥ ca api daṇḍyate . kārya-kāraṇa-siddhārthau ubhau tau na avasīdataḥ.. 61..
तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः । गतः स्वां प्रकृतिं धर्म्यां दण्डदिष्टेन वर्त्मना॥ ६२॥
तत् भवान् दण्ड-संयोगात् अस्मात् विगत-कल्मषः । गतः स्वाम् प्रकृतिम् धर्म्याम् दण्ड-दिष्टेन वर्त्मना॥ ६२॥
tat bhavān daṇḍa-saṃyogāt asmāt vigata-kalmaṣaḥ . gataḥ svām prakṛtim dharmyām daṇḍa-diṣṭena vartmanā.. 62..
त्यज शोकं च मोहं च भयं च हृदये स्थितम् । त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्॥ ६३॥
त्यज शोकम् च मोहम् च भयम् च हृदये स्थितम् । त्वया विधानम् हरि-अग्र्य न शक्यम् अतिवर्तितुम्॥ ६३॥
tyaja śokam ca moham ca bhayam ca hṛdaye sthitam . tvayā vidhānam hari-agrya na śakyam ativartitum.. 63..
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर । तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ ६४॥
यथा त्वयि अङ्गदः नित्यम् वर्तते वानर-ईश्वर । तथा वर्तेत सुग्रीवे मयि च अपि न संशयः॥ ६४॥
yathā tvayi aṅgadaḥ nityam vartate vānara-īśvara . tathā varteta sugrīve mayi ca api na saṃśayaḥ.. 64..
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तितम् । निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः॥ ६५॥
स तस्य वाक्यम् मधुरम् महात्मनः समाहितम् धर्म-पथा अनुवर्तितम् । निशम्य रामस्य रण-अवमर्दिनः वचः सु युक्तम् निजगाद वानरः॥ ६५॥
sa tasya vākyam madhuram mahātmanaḥ samāhitam dharma-pathā anuvartitam . niśamya rāmasya raṇa-avamardinaḥ vacaḥ su yuktam nijagāda vānaraḥ.. 65..
शराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो । इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर॥ ६६॥
शर-अभितप्तेन विचेतसा मया प्रभाषितः त्वम् यत् अ जानता विभो । इदम् महा-इन्द्र-उपम-भीम-विक्रम प्रसादितः त्वम् क्षम मे नरेश्वर॥ ६६॥
śara-abhitaptena vicetasā mayā prabhāṣitaḥ tvam yat a jānatā vibho . idam mahā-indra-upama-bhīma-vikrama prasāditaḥ tvam kṣama me nareśvara.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे अष्टादशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe aṣṭādaśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In