This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकोनविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekonaviṃśaḥ sargaḥ ..4..
स वानरमहाराजः शयानः शरपीडितः । प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत॥ १॥
स वानर-महा-राजः शयानः शर-पीडितः । प्रत्युक्तः हेतुमत्-वाक्यैः न उत्तरम् प्रत्यपद्यत॥ १॥
sa vānara-mahā-rājaḥ śayānaḥ śara-pīḍitaḥ . pratyuktaḥ hetumat-vākyaiḥ na uttaram pratyapadyata.. 1..
अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः॥ २॥
अश्मभिः परिभिन्न-अङ्गः पादपैः आहतः भृशम् । राम-बाणेन च आक्रान्तः जीवितान्ते मुमोह सः॥ २॥
aśmabhiḥ paribhinna-aṅgaḥ pādapaiḥ āhataḥ bhṛśam . rāma-bāṇena ca ākrāntaḥ jīvitānte mumoha saḥ.. 2..
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्॥ ३॥
तम् भार्या बाण-मोक्षेण रामदत्तेन संयुगे । हतम् प्लवग-शार्दूलम् तारा शुश्राव वालिनम्॥ ३॥
tam bhāryā bāṇa-mokṣeṇa rāmadattena saṃyuge . hatam plavaga-śārdūlam tārā śuśrāva vālinam.. 3..
सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात्॥ ४॥
सा स पुत्रा अप्रियम् श्रुत्वा वधम् भर्तुः सु दारुणम् । निष्पपात भृशम् तस्मात् उद्विग्ना गिरि-कन्दरात्॥ ४॥
sā sa putrā apriyam śrutvā vadham bhartuḥ su dāruṇam . niṣpapāta bhṛśam tasmāt udvignā giri-kandarāt.. 4..
ये त्वङ्गदपरीवारा वानरा हि महाबलाः । ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः॥ ५॥
ये तु अङ्गद-परीवाराः वानराः हि महा-बलाः । ते स कार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः॥ ५॥
ye tu aṅgada-parīvārāḥ vānarāḥ hi mahā-balāḥ . te sa kārmukam ālokya rāmam trastāḥ pradudruvuḥ.. 5..
सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम् । यूथादेव परिभ्रष्टान् मृगान् निहतयूथपान्॥ ६॥
सा ददर्श ततस् त्रस्तान् हरीन् आपततः द्रुतम् । यूथात् एव परिभ्रष्टान् मृगान् निहत-यूथपान्॥ ६॥
sā dadarśa tatas trastān harīn āpatataḥ drutam . yūthāt eva paribhraṣṭān mṛgān nihata-yūthapān.. 6..
तानुवाच समासाद्य दुःखितान् दुःखिता सती । रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः॥ ७॥
तान् उवाच समासाद्य दुःखितान् दुःखिता सती । राम-वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः॥ ७॥
tān uvāca samāsādya duḥkhitān duḥkhitā satī . rāma-vitrāsitān sarvān anubaddhān iva iṣubhiḥ.. 7..
वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः॥ ८॥
वानराः राज-सिंहस्य यस्य यूयम् पुरःसराः । तम् विहाय सुवित्रस्ताः कस्मात् द्रवत दुर्गताः॥ ८॥
vānarāḥ rāja-siṃhasya yasya yūyam puraḥsarāḥ . tam vihāya suvitrastāḥ kasmāt dravata durgatāḥ.. 8..
राज्यहेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः । रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः॥ ९॥
राज्य-हेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः । रामेण प्रहितैः दूरात् मार्गणैः दूर-पातिभिः॥ ९॥
rājya-hetoḥ sa ced bhrātā bhrātrā krūreṇa pātitaḥ . rāmeṇa prahitaiḥ dūrāt mārgaṇaiḥ dūra-pātibhiḥ.. 9..
कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्॥ १०॥
कपि-पत्न्याः वचः श्रुत्वा कपयः कामरूपिणः । प्राप्त-कालम् अविश्लिष्टम् ऊचुः वचनम् अङ्गनाम्॥ १०॥
kapi-patnyāḥ vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ . prāpta-kālam aviśliṣṭam ūcuḥ vacanam aṅganām.. 10..
जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् । अन्तको रामरूपेण हत्वा नयति वालिनम्॥ ११॥
जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अङ्गदम् । अन्तकः राम-रूपेण हत्वा नयति वालिनम्॥ ११॥
jīvaputre nivartasva putram rakṣasva ca aṅgadam . antakaḥ rāma-rūpeṇa hatvā nayati vālinam.. 11..
क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः । वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः॥ १२॥
क्षिप्तान् वृक्षान् समाविध्य विपुलाः च तथा शिलाः । वाली वज्र-समैः बाणैः वज्रेण इव निपातितः॥ १२॥
kṣiptān vṛkṣān samāvidhya vipulāḥ ca tathā śilāḥ . vālī vajra-samaiḥ bāṇaiḥ vajreṇa iva nipātitaḥ.. 12..
अभिभूतमिदं सर्वं विद्रुतं वानरं बलम् । अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे॥ १३॥
अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् । अस्मिन् प्लवग-शार्दूले हते शक्र-सम-प्रभे॥ १३॥
abhibhūtam idam sarvam vidrutam vānaram balam . asmin plavaga-śārdūle hate śakra-sama-prabhe.. 13..
रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम् । पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः॥ १४॥
रक्ष्यताम् नगरी शूरैः अङ्गदः च अभिषिच्यताम् । पद-स्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः॥ १४॥
rakṣyatām nagarī śūraiḥ aṅgadaḥ ca abhiṣicyatām . pada-stham vālinaḥ putram bhajiṣyanti plavaṃgamāḥ.. 14..
अथवारुचितं स्थानमिह ते रुचिरानने । आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः॥ १५॥
अथवा अरुचितम् स्थानम् इह ते रुचिर-आनने । आविशन्ति च दुर्गाणि क्षिप्रम् अद्य एव वानराः॥ १५॥
athavā arucitam sthānam iha te rucira-ānane . āviśanti ca durgāṇi kṣipram adya eva vānarāḥ.. 15..
अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः । लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम्॥ १६॥
अभार्याः सहभार्याः च सन्ति अत्र वन-चारिणः । लुब्धेभ्यः विप्रलब्धेभ्यः तेभ्यः नः सु महत् भयम्॥ १६॥
abhāryāḥ sahabhāryāḥ ca santi atra vana-cāriṇaḥ . lubdhebhyaḥ vipralabdhebhyaḥ tebhyaḥ naḥ su mahat bhayam.. 16..
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना । आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी॥ १७॥
अल्प-अन्तर-गतानाम् तु श्रुत्वा वचनम् अङ्गना । आत्मनः प्रतिरूपम् सा बभाषे चारु-हासिनी॥ १७॥
alpa-antara-gatānām tu śrutvā vacanam aṅganā . ātmanaḥ pratirūpam sā babhāṣe cāru-hāsinī.. 17..
पुत्रेण मम किं कार्यं राज्येनापि किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति॥ १८॥
पुत्रेण मम किम् कार्यम् राज्येन अपि किम् आत्मना । कपि-सिंहे महाभागे तस्मिन् भर्तरि नश्यति॥ १८॥
putreṇa mama kim kāryam rājyena api kim ātmanā . kapi-siṃhe mahābhāge tasmin bhartari naśyati.. 18..
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥ १९॥
पाद-मूलम् गमिष्यामि तस्य एव अहम् महात्मनः । यः असौ राम-प्रयुक्तेन शरेण विनिपातितः॥ १९॥
pāda-mūlam gamiṣyāmi tasya eva aham mahātmanaḥ . yaḥ asau rāma-prayuktena śareṇa vinipātitaḥ.. 19..
एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती॥ २०॥
एवम् उक्त्वा प्रदुद्राव रुदती शोक-मूर्च्छिता । शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती॥ २०॥
evam uktvā pradudrāva rudatī śoka-mūrcchitā . śiraḥ ca uraḥ ca bāhubhyām duḥkhena samabhighnatī.. 20..
सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्॥ २१॥
सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि । हन्तारम् दानव-इन्द्राणाम् समरेषु अनिवर्तिनाम्॥ २१॥
sā vrajantī dadarśa atha patim nipatitam bhuvi . hantāram dānava-indrāṇām samareṣu anivartinām.. 21..
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् । महावातसमाविष्टं महामेघौघनिःस्वनम्॥ २२॥
क्षेप्तारम् पर्वत-इन्द्राणाम् वज्राणाम् इव वासवम् । महा-वात-समाविष्टम् महा-मेघ-ओघ-निःस्वनम्॥ २२॥
kṣeptāram parvata-indrāṇām vajrāṇām iva vāsavam . mahā-vāta-samāviṣṭam mahā-megha-ogha-niḥsvanam.. 22..
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् । शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम्॥ २३॥
शक्र-तुल्य-पराक्रान्तम् वृष्ट्वा इव उपरतम् घनम् । नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् । शार्दूलेन आमिषस्य अर्थे मृगराजम् इव आहतम्॥ २३॥
śakra-tulya-parākrāntam vṛṣṭvā iva uparatam ghanam . nardantam nardatām bhīmam śūram śūreṇa pātitam . śārdūlena āmiṣasya arthe mṛgarājam iva āhatam.. 23..
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् । नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा॥ २४॥
अर्चितम् सर्व-लोकस्य स पताकम् स वेदिकम् । नाग-हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा॥ २४॥
arcitam sarva-lokasya sa patākam sa vedikam . nāga-hetoḥ suparṇena caityam unmathitam yathā.. 24..
अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् । रामं रामानुजं चैव भर्तुश्चैव तथानुजम्॥ २५॥
अवष्टभ्य अवतिष्ठन्तम् ददर्श धनुः-ऊर्जितम् । रामम् राम-अनुजम् च एव भर्तुः च एव तथा अनुजम्॥ २५॥
avaṣṭabhya avatiṣṭhantam dadarśa dhanuḥ-ūrjitam . rāmam rāma-anujam ca eva bhartuḥ ca eva tathā anujam.. 25..
तानतीत्य समासाद्य भर्तारं निहतं रणे । समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह॥ २६॥
तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे । समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह॥ २६॥
tān atītya samāsādya bhartāram nihatam raṇe . samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha.. 26..
सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी । रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः॥ २७॥
सुप्ता इव पुनर् उत्थाय आर्य-पुत्र इति वादिनी । रुरोद सा पतिम् दृष्ट्वा संवीतम् मृत्यु-दामभिः॥ २७॥
suptā iva punar utthāya ārya-putra iti vādinī . ruroda sā patim dṛṣṭvā saṃvītam mṛtyu-dāmabhiḥ.. 27..
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव । विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम्॥ २८॥
ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव । विषादम् अगमत् कष्टम् दृष्ट्वा च अङ्गदम् आगतम्॥ २८॥
tām avekṣya tu sugrīvaḥ krośantīm kurarīm iva . viṣādam agamat kaṣṭam dṛṣṭvā ca aṅgadam āgatam.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकोनविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekonaviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In