This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्वितीयः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dvitīyaḥ sargaḥ ..4..
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥ १॥
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम-लक्ष्मणौ । वर-आयुध-धरौ वीरौ सुग्रीवः शङ्कितः अभवत्॥ १॥
tau tu dṛṣṭvā mahātmānau bhrātarau rāma-lakṣmaṇau . vara-āyudha-dharau vīrau sugrīvaḥ śaṅkitaḥ abhavat.. 1..
उद्विग्नहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुंगवः॥ २॥
उद्विग्न-हृदयः सर्वाः दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद् देशे वानर-पुंगवः॥ २॥
udvigna-hṛdayaḥ sarvāḥ diśaḥ samavalokayan . na vyatiṣṭhata kasmiṃścid deśe vānara-puṃgavaḥ.. 2..
नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ । कपेः परमभीतस्य चित्तं व्यवससाद ह॥ ३॥
न एव चक्रे मनः स्थातुम् वीक्षमाणौ महा-बलौ । कपेः परम् अभीतस्य चित्तम् व्यवससाद ह॥ ३॥
na eva cakre manaḥ sthātum vīkṣamāṇau mahā-balau . kapeḥ param abhītasya cittam vyavasasāda ha.. 3..
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह॥ ४॥
चिन्तयित्वा स धर्म-आत्मा विमृश्य गुरुलाघवम् । सुग्रीवः परम-उद्विग्नः सर्वैः तैः वानरैः सह॥ ४॥
cintayitvā sa dharma-ātmā vimṛśya gurulāghavam . sugrīvaḥ parama-udvignaḥ sarvaiḥ taiḥ vānaraiḥ saha.. 4..
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः । शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ ५॥
ततस् स सचिवेभ्यः तु सुग्रीवः प्लवग-अधिपः । शशंस परम-उद्विग्नः पश्यन् तौ राम-लक्ष्मणौ॥ ५॥
tatas sa sacivebhyaḥ tu sugrīvaḥ plavaga-adhipaḥ . śaśaṃsa parama-udvignaḥ paśyan tau rāma-lakṣmaṇau.. 5..
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् । छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥ ६॥
एतौ वनम् इदम् दुर्गम् वालि-प्रणिहितौ ध्रुवम् । छद्मना चीर-वसनौ प्रचरन्तौ इह आगतौ॥ ६॥
etau vanam idam durgam vāli-praṇihitau dhruvam . chadmanā cīra-vasanau pracarantau iha āgatau.. 6..
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ । जग्मुर्गिरितटात् तस्मादन्यच्छिखरमुत्तमम्॥ ७॥
ततस् सुग्रीव-सचिवाः दृष्ट्वा परम-धन्विनौ । जग्मुः गिरि-तटात् तस्मात् अन्यत् शिखरम् उत्तमम्॥ ७॥
tatas sugrīva-sacivāḥ dṛṣṭvā parama-dhanvinau . jagmuḥ giri-taṭāt tasmāt anyat śikharam uttamam.. 7..
ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् । हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे॥ ८॥
ते क्षिप्रम् अभिगम्य अथ यूथपाः यूथप-ऋषभम् । हरयः वानर-श्रेष्ठम् परिवार्य उपतस्थिरे॥ ८॥
te kṣipram abhigamya atha yūthapāḥ yūthapa-ṛṣabham . harayaḥ vānara-śreṣṭham parivārya upatasthire.. 8..
एवमेकायनगताः प्लवमाना गिरेर्गिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च॥ ९॥
एवम् एकायन-गताः प्लवमानाः गिरेः गिरिम् । प्रकम्पयन्तः वेगेन गिरीणाम् शिखराणि च॥ ९॥
evam ekāyana-gatāḥ plavamānāḥ gireḥ girim . prakampayantaḥ vegena girīṇām śikharāṇi ca.. 9..
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः । बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान्॥ १०॥
ततस् शाखामृगाः सर्वे प्लवमानाः महा-बलाः । बभञ्जुः च नगान् तत्र पुष्पितान् दुर्गम-आश्रितान्॥ १०॥
tatas śākhāmṛgāḥ sarve plavamānāḥ mahā-balāḥ . babhañjuḥ ca nagān tatra puṣpitān durgama-āśritān.. 10..
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् । मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥ ११॥
आप्लवन्तः हरि-वराः सर्वतस् तम् महा-गिरिम् । मृग-मार्जार-शार्दूलान् त्रासयन्तः ययुः तदा॥ ११॥
āplavantaḥ hari-varāḥ sarvatas tam mahā-girim . mṛga-mārjāra-śārdūlān trāsayantaḥ yayuḥ tadā.. 11..
ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः । संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥ १२॥
ततस् सुग्रीव-सचिवाः पर्वत-इन्द्रे समाहिताः । संगम्य कपि-मुख्येन सर्वे प्राञ्जलयः स्थिताः॥ १२॥
tatas sugrīva-sacivāḥ parvata-indre samāhitāḥ . saṃgamya kapi-mukhyena sarve prāñjalayaḥ sthitāḥ.. 12..
ततस्तु भयसंत्रस्तं वालिकिल्बिषशङ्कितम् । उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः॥ १३॥
ततस् तु भय-संत्रस्तम् वालि-किल्बिष-शङ्कितम् । उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य-कोविदः॥ १३॥
tatas tu bhaya-saṃtrastam vāli-kilbiṣa-śaṅkitam . uvāca hanumān vākyam sugrīvam vākya-kovidaḥ.. 13..
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् । मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥ १४॥
सम्भ्रमः त्यज्यताम् एष सर्वैः वालि-कृते महान् । मलयः अयम् गिरि-वरः भयम् न इह अस्ति वालिनः॥ १४॥
sambhramaḥ tyajyatām eṣa sarvaiḥ vāli-kṛte mahān . malayaḥ ayam giri-varaḥ bhayam na iha asti vālinaḥ.. 14..
यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव । तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ १५॥
यस्मात् उद्विग्न-चेताः त्वम् विद्रुतः हरि-पुङ्गव । तम् क्रूर-दर्शनम् क्रूरम् न इह पश्यामि वालिनम्॥ १५॥
yasmāt udvigna-cetāḥ tvam vidrutaḥ hari-puṅgava . tam krūra-darśanam krūram na iha paśyāmi vālinam.. 15..
यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः । स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्॥ १६॥
यस्मात् तव भयम् सौम्य पूर्वजात् पाप-कर्मणः । स ना इह वाली दुष्ट-आत्मा न ते पश्यामि अहम् भयम्॥ १६॥
yasmāt tava bhayam saumya pūrvajāt pāpa-karmaṇaḥ . sa nā iha vālī duṣṭa-ātmā na te paśyāmi aham bhayam.. 16..
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम । लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ॥ १७॥
अहो शाखामृग-त्वम् ते व्यक्तम् एव प्लवङ्गम । लघुचित्ततया आत्मानम् न स्थापयसि यः मतौ॥ १७॥
aho śākhāmṛga-tvam te vyaktam eva plavaṅgama . laghucittatayā ātmānam na sthāpayasi yaḥ matau.. 17..
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर । नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि॥ १८॥
बुद्धि-विज्ञान-सम्पन्नः इङ्गितैः सर्वम् आचर । न हि अबुद्धिम् गतः राजा सर्व-भूतानि शास्ति हि॥ १८॥
buddhi-vijñāna-sampannaḥ iṅgitaiḥ sarvam ācara . na hi abuddhim gataḥ rājā sarva-bhūtāni śāsti hi.. 18..
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः । ततः शुभतरं वाक्यं हनूमन्तमुवाच ह॥ १९॥
सुग्रीवः तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः । ततस् शुभतरम् वाक्यम् हनूमन्तम् उवाच ह॥ १९॥
sugrīvaḥ tu śubham vākyam śrutvā sarvam hanūmataḥ . tatas śubhataram vākyam hanūmantam uvāca ha.. 19..
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ । कस्य न स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ॥ २०॥
दीर्घ-बाहू विशाल-अक्षौ शर-चाप-असि-धारिणौ । कस्य न स्यात् भयम् दृष्ट्वा हि एतौ सुर-सुत-उपमौ॥ २०॥
dīrgha-bāhū viśāla-akṣau śara-cāpa-asi-dhāriṇau . kasya na syāt bhayam dṛṣṭvā hi etau sura-suta-upamau.. 20..
वालिप्रणिहितावेव शङ्केऽहं पुरुषोत्तमौ । राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥ २१॥
वालि-प्रणिहितौ एव शङ्के अहम् पुरुष-उत्तमौ । राजानः बहु-मित्राः च विश्वासः न अत्र हि क्षमः॥ २१॥
vāli-praṇihitau eva śaṅke aham puruṣa-uttamau . rājānaḥ bahu-mitrāḥ ca viśvāsaḥ na atra hi kṣamaḥ.. 21..
अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः । विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्त्यपि॥ २२॥
अरयः च मनुष्येण विज्ञेयाः छद्म-चारिणः । विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति अपि॥ २२॥
arayaḥ ca manuṣyeṇa vijñeyāḥ chadma-cāriṇaḥ . viśvastānām aviśvastāḥ chidreṣu praharanti api.. 22..
कृत्येषु वाली मेधावी राजानो बहुदर्शिनः । भवन्त परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः॥ २३॥
कृत्येषु वाली मेधावी राजानः बहु-दर्शिनः । भवन्त पर-हन्तारः ते ज्ञेयाः प्राकृतैः नरैः॥ २३॥
kṛtyeṣu vālī medhāvī rājānaḥ bahu-darśinaḥ . bhavanta para-hantāraḥ te jñeyāḥ prākṛtaiḥ naraiḥ.. 23..
तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम । इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥ २४॥
तौ त्वया प्राकृतेन इव गत्वा ज्ञेयौ प्लवंगम । इङ्गितानाम् प्रकारैः च रूप-व्याभाषणेन च॥ २४॥
tau tvayā prākṛtena iva gatvā jñeyau plavaṃgama . iṅgitānām prakāraiḥ ca rūpa-vyābhāṣaṇena ca.. 24..
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि । विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥ २५॥
लक्षयस्व तयोः भावम् प्रहृष्ट-मनसौ यदि । विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनर् पुनर्॥ २५॥
lakṣayasva tayoḥ bhāvam prahṛṣṭa-manasau yadi . viśvāsayan praśaṃsābhiḥ iṅgitaiḥ ca punar punar.. 25..
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥ २६॥
मम एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि-पुङ्गव । प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुः-धरौ॥ २६॥
mama eva abhimukham sthitvā pṛccha tvam hari-puṅgava . prayojanam praveśasya vanasya asya dhanuḥ-dharau.. 26..
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम । व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः॥ २७॥
शुद्ध-आत्मानौ यदि तु एतौ जानीहि त्वम् प्लवङ्गम । व्याभाषितैः वा रूपैः वा विज्ञेया दुष्ट-ता अनयोः॥ २७॥
śuddha-ātmānau yadi tu etau jānīhi tvam plavaṅgama . vyābhāṣitaiḥ vā rūpaiḥ vā vijñeyā duṣṭa-tā anayoḥ.. 27..
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः । चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥ २८॥
इति एवम् कपि-राजेन संदिष्टः मारुतात्मजः । चकार गमने बुद्धिम् यत्र तौ राम-लक्ष्मणौ॥ २८॥
iti evam kapi-rājena saṃdiṣṭaḥ mārutātmajaḥ . cakāra gamane buddhim yatra tau rāma-lakṣmaṇau.. 28..
तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य । महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतिबली सलक्ष्मणः॥ २९॥
तथा इति सम्पूज्य वचः तु तस्य कपेः सुभीतस्य दुरासदस्य । महा-अनुभावः हनुमान् ययौ तदा स यत्र रामः अति बली स लक्ष्मणः॥ २९॥
tathā iti sampūjya vacaḥ tu tasya kapeḥ subhītasya durāsadasya . mahā-anubhāvaḥ hanumān yayau tadā sa yatra rāmaḥ ati balī sa lakṣmaṇaḥ.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्वितीयः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dvitīyaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In