This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे विंशः सर्गः ॥४-२०॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे विंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe viṃśaḥ sargaḥ ..4..
रामचापविसृष्टेन शरेणान्तकरेण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना॥ १॥
राम-चाप-विसृष्टेन शरेण अन्त-करेण तम् । दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप-आनना॥ १॥
rāma-cāpa-visṛṣṭena śareṇa anta-kareṇa tam . dṛṣṭvā vinihatam bhūmau tārā tārādhipa-ānanā.. 1..
सा समासाद्य भर्तारं पर्यष्वजत भामिनी । इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्॥ २॥
सा समासाद्य भर्तारम् पर्यष्वजत भामिनी । इषुणा अभिहतम् दृष्ट्वा वालिनम् कुञ्जर-उपमम्॥ २॥
sā samāsādya bhartāram paryaṣvajata bhāminī . iṣuṇā abhihatam dṛṣṭvā vālinam kuñjara-upamam.. 2..
वानरं पर्वतेन्द्राभं शोकसंतप्तमानसा । तारा तरुमिवोन्मूलं पर्यदेवयतातुरा॥ ३॥
वानरम् पर्वत-इन्द्र-आभम् शोक-संतप्त-मानसा । तारा तरुम् इव उन्मूलम् पर्यदेवयत आतुरा॥ ३॥
vānaram parvata-indra-ābham śoka-saṃtapta-mānasā . tārā tarum iva unmūlam paryadevayata āturā.. 3..
रणे दारुणविक्रान्त प्रवीर प्लवतां वर । किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे॥ ४॥
रणे दारुण-विक्रान्त प्रवीर प्लवताम् वर । किम् इदानीम् पुरोभागाम् अद्य त्वम् न अभिभाषसे॥ ४॥
raṇe dāruṇa-vikrānta pravīra plavatām vara . kim idānīm purobhāgām adya tvam na abhibhāṣase.. 4..
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् । नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः॥ ५॥
उत्तिष्ठ हरि-शार्दूल भजस्व शयन-उत्तमम् । न एवंविधाः शेरते हि भूमौ नृपति-सत्तमाः॥ ५॥
uttiṣṭha hari-śārdūla bhajasva śayana-uttamam . na evaṃvidhāḥ śerate hi bhūmau nṛpati-sattamāḥ.. 5..
अतीव खलु ते कान्ता वसुधा वसुधाधिप । गतासुरपि तां गात्रैर्मां विहाय निषेवसे॥ ६॥
अतीव खलु ते कान्ता वसुधा वसुधाधिप । गतासुः अपि ताम् गात्रैः माम् विहाय निषेवसे॥ ६॥
atīva khalu te kāntā vasudhā vasudhādhipa . gatāsuḥ api tām gātraiḥ mām vihāya niṣevase.. 6..
व्यक्तमद्य त्वया वीर धर्मतः सम्प्रवर्तता । किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता॥ ७॥
व्यक्तम् अद्य त्वया वीर धर्मतः सम्प्रवर्तता । किष्किन्धा इव पुरी रम्या स्वर्ग-मार्गे विनिर्मिता॥ ७॥
vyaktam adya tvayā vīra dharmataḥ sampravartatā . kiṣkindhā iva purī ramyā svarga-mārge vinirmitā.. 7..
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु । विहृतानि त्वया काले तेषामुपरमः कृतः॥ ८॥
यानि अस्माभिः त्वया सार्धम् वनेषु मधु-गन्धिषु । विहृतानि त्वया काले तेषाम् उपरमः कृतः॥ ८॥
yāni asmābhiḥ tvayā sārdham vaneṣu madhu-gandhiṣu . vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ.. 8..
निरानन्दा निराशाहं निमग्ना शोकसागरे । त्वयि पञ्चत्वमापन्ने महायूथपयूथपे॥ ९॥
निरानन्दा निराशा अहम् निमग्ना शोक-सागरे । त्वयि पञ्चत्वम् आपन्ने महा-यूथप-यूथपे॥ ९॥
nirānandā nirāśā aham nimagnā śoka-sāgare . tvayi pañcatvam āpanne mahā-yūthapa-yūthape.. 9..
हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि । यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा॥ १०॥
हृदयम् सुस्थितम् मह्यम् दृष्ट्वा निपतितम् भुवि । यत् न शोक-अभिसंतप्तम् स्फुटते अद्य सहस्रधा॥ १०॥
hṛdayam susthitam mahyam dṛṣṭvā nipatitam bhuvi . yat na śoka-abhisaṃtaptam sphuṭate adya sahasradhā.. 10..
सुग्रीवस्य त्वया भार्या हृता स च विवासितः । यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप॥ ११॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः । यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवग-अधिप॥ ११॥
sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ . yat tat tasya tvayā vyuṣṭiḥ prāptā iyam plavaga-adhipa.. 11..
निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता । यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी॥ १२॥
निःश्रेयस-परा मोहात् त्वया च अहम् विगर्हिता । या एषा अब्रुवम् हितम् वाक्यम् वानर-इन्द्र हित-एषिणी॥ १२॥
niḥśreyasa-parā mohāt tvayā ca aham vigarhitā . yā eṣā abruvam hitam vākyam vānara-indra hita-eṣiṇī.. 12..
रूपयौवनदृप्तानां दक्षिणानां च मानद । नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि॥ १३॥
रूप-यौवन-दृप्तानाम् दक्षिणानाम् च मानद । नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि॥ १३॥
rūpa-yauvana-dṛptānām dakṣiṇānām ca mānada . nūnam apsarasām ārya cittāni pramathiṣyasi.. 13..
कालो निःसंशयो नूनं जीवितान्तकरस्तव । बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम्॥ १४॥
कालः निःसंशयः नूनम् जीवित-अन्त-करः तव । बलात् येन अवपन्नः असि सुग्रीवस्य अवशः वशम्॥ १४॥
kālaḥ niḥsaṃśayaḥ nūnam jīvita-anta-karaḥ tava . balāt yena avapannaḥ asi sugrīvasya avaśaḥ vaśam.. 14..
अस्थाने वालिनं हत्वा युध्यमानं परेण च । न संतप्यति काकुत्स्थः कृत्वा कर्मसुगर्हितम्॥ १५॥
अस्थाने वालिनम् हत्वा युध्यमानम् परेण च । न संतप्यति काकुत्स्थः कृत्वा कर्म-सु गर्हितम्॥ १५॥
asthāne vālinam hatvā yudhyamānam pareṇa ca . na saṃtapyati kākutsthaḥ kṛtvā karma-su garhitam.. 15..
वैधव्यं शोकसंतापं कृपणाकृपणा सती । अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्॥ १६॥
वैधव्यम् शोक-संतापम् कृपण-अकृपणा सती । अदुःख-उपचिता पूर्वम् वर्तयिष्यामि अनाथ-वत्॥ १६॥
vaidhavyam śoka-saṃtāpam kṛpaṇa-akṛpaṇā satī . aduḥkha-upacitā pūrvam vartayiṣyāmi anātha-vat.. 16..
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः । वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते॥ १७॥
लालितः च अङ्गदः वीरः सुकुमारः सुख-उचितः । वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध-मूर्च्छिते॥ १७॥
lālitaḥ ca aṅgadaḥ vīraḥ sukumāraḥ sukha-ucitaḥ . vatsyate kām avasthām me pitṛvye krodha-mūrcchite.. 17..
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् । दुर्लभं दर्शनं तस्य तव वत्स भविष्यति॥ १८॥
कुरुष्व पितरम् पुत्र सु दृष्टम् धर्म-वत्सलम् । दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति॥ १८॥
kuruṣva pitaram putra su dṛṣṭam dharma-vatsalam . durlabham darśanam tasya tava vatsa bhaviṣyati.. 18..
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे । मूर्ध्न्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि॥ १९॥
समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे । मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितः हि असि॥ १९॥
samāśvāsaya putram tvam saṃdeśam saṃdiśasva me . mūrdhni ca enam samāghrāya pravāsam prasthitaḥ hi asi.. 19..
रामेण हि महत् कर्म कृतं त्वामभिनिघ्नता । आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे॥ २०॥
रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता । आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे॥ २०॥
rāmeṇa hi mahat karma kṛtam tvām abhinighnatā . ānṛṇyam tu gatam tasya sugrīvasya pratiśrave.. 20..
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे । भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव॥ २१॥
स कामः भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे । भुङ्क्ष्व राज्यम् अनुद्विग्नः शस्तः भ्राता रिपुः तव॥ २१॥
sa kāmaḥ bhava sugrīva rumām tvam pratipatsyase . bhuṅkṣva rājyam anudvignaḥ śastaḥ bhrātā ripuḥ tava.. 21..
किं मामेवं प्रलपतीं प्रियां त्वं नाभिभाषसे । इमाः पश्य वरा बाह्व्यो भार्यास्ते वानरेश्वर॥ २२॥
किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे । इमाः पश्य वराः बाह्व्यः भार्याः ते वानर-ईश्वर॥ २२॥
kim mām evam pralapatīm priyām tvam na abhibhāṣase . imāḥ paśya varāḥ bāhvyaḥ bhāryāḥ te vānara-īśvara.. 22..
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः । परिगृह्याङ्गदं दीना दुःखार्ताः प्रतिचुक्रुशुः॥ २३॥
तस्याः विलपितम् श्रुत्वा वानर्यः सर्वतस् च ताः । परिगृह्य अङ्गदम् दीनाः दुःख-आर्ताः प्रतिचुक्रुशुः॥ २३॥
tasyāḥ vilapitam śrutvā vānaryaḥ sarvatas ca tāḥ . parigṛhya aṅgadam dīnāḥ duḥkha-ārtāḥ praticukruśuḥ.. 23..
किमङ्गदं साङ्गदवीरबाहो विहाय यातोऽसि चिरं प्रवासम् । न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियचारुवेषम्॥ २४॥
किम् अङ्गदम् स अङ्गद-वीर-बाहो विहाय यातः असि चिरम् प्रवासम् । न युक्तम् एवम् गुण-संनिकृष्टम् विहाय पुत्रम् प्रिय-चारु-वेषम्॥ २४॥
kim aṅgadam sa aṅgada-vīra-bāho vihāya yātaḥ asi ciram pravāsam . na yuktam evam guṇa-saṃnikṛṣṭam vihāya putram priya-cāru-veṣam.. 24..
यद्यप्रियं किंचिदसम्प्रधार्य कृतं मया स्यात् तव दीर्घबाहो । क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ॥ २५॥
यदि अप्रियम् किंचिद् अ सम्प्रधार्य कृतम् मया स्यात् तव दीर्घ-बाहो । क्षमस्व मे तत् हरिवंश-नाथ व्रजामि मूर्ध्ना तव वीर पादौ॥ २५॥
yadi apriyam kiṃcid a sampradhārya kṛtam mayā syāt tava dīrgha-bāho . kṣamasva me tat harivaṃśa-nātha vrajāmi mūrdhnā tava vīra pādau.. 25..
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः । व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली॥ २६॥
तथा तु तारा करुणम् रुदन्ती भर्तुः समीपे सह वानरीभिः । व्यवस्यत प्रायम् अनिन्द्य-वर्णाः उपोपवेष्टुम् भुवि यत्र वाली॥ २६॥
tathā tu tārā karuṇam rudantī bhartuḥ samīpe saha vānarībhiḥ . vyavasyata prāyam anindya-varṇāḥ upopaveṣṭum bhuvi yatra vālī.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥४-२०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे विंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe viṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In