This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-२२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्वाविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dvāviṃśaḥ sargaḥ ..4..
वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् । आदावेव तु सुग्रीवं ददर्शानुजमग्रतः॥ १॥
वीक्षमाणः तु मन्दासुः सर्वतस् मन्दम् उच्छ्वसन् । आदौ एव तु सुग्रीवम् ददर्श अनुजम् अग्रतस्॥ १॥
vīkṣamāṇaḥ tu mandāsuḥ sarvatas mandam ucchvasan . ādau eva tu sugrīvam dadarśa anujam agratas.. 1..
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् । आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्॥ २॥
तम् प्राप्त-विजयम् वाली सुग्रीवम् प्लवग-ईश्वरम् । आभाष्य व्यक्तया वाचा स स्नेहम् इदम् अब्रवीत्॥ २॥
tam prāpta-vijayam vālī sugrīvam plavaga-īśvaram . ābhāṣya vyaktayā vācā sa sneham idam abravīt.. 2..
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् । कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्॥ ३॥
सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् । कृष्यमाणम् भविष्येण बुद्धि-मोहेन माम् बलात्॥ ३॥
sugrīva doṣeṇa na mām gantum arhasi kilbiṣāt . kṛṣyamāṇam bhaviṣyeṇa buddhi-mohena mām balāt.. 3..
युगपद् विहितं तात न मन्ये सुखमावयोः । सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा॥ ४॥
युगपद् विहितम् तात न मन्ये सुखम् आवयोः । सौहार्दम् भ्रातृ-युक्तम् हि तत् इदम् जातम् अन्यथा॥ ४॥
yugapad vihitam tāta na manye sukham āvayoḥ . sauhārdam bhrātṛ-yuktam hi tat idam jātam anyathā.. 4..
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् । मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्॥ ५॥
प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वनौकसाम् । माम् अपि अद्य एव गच्छन्तम् विद्धि वैवस्वत-क्षयम्॥ ५॥
pratipadya tvam adya eva rājyam eṣām vanaukasām . mām api adya eva gacchantam viddhi vaivasvata-kṣayam.. 5..
जीवितं च हि राज्यं च श्रियं च विपुलां तथा । प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः॥ ६॥
जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् तथा । प्रजहामि एष वै तूर्णम् अहम् च अगर्हितम् यशः॥ ६॥
jīvitam ca hi rājyam ca śriyam ca vipulām tathā . prajahāmi eṣa vai tūrṇam aham ca agarhitam yaśaḥ.. 6..
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः । यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि॥ ७॥
अस्याम् तु अहम् अवस्थायाम् वीर वक्ष्यामि यत् वचः । यदि अपि असुकरम् राजन् कर्तुम् एव त्वम् अर्हसि॥ ७॥
asyām tu aham avasthāyām vīra vakṣyāmi yat vacaḥ . yadi api asukaram rājan kartum eva tvam arhasi.. 7..
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् । बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्॥ ८॥
सुख-अर्हम् सुख-संवृद्धम् बालम् एनम् अबालिशम् । बाष्प-पूर्ण-मुखम् पश्य भूमौ पतितम् अङ्गदम्॥ ८॥
sukha-arham sukha-saṃvṛddham bālam enam abāliśam . bāṣpa-pūrṇa-mukham paśya bhūmau patitam aṅgadam.. 8..
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् । मया हीनमहीनार्थं सर्वतः परिपालय॥ ९॥
मम प्राणैः प्रियतरम् पुत्रम् पुत्रम् इव औरसम् । मया हीनम् अहीन-अर्थम् सर्वतस् परिपालय॥ ९॥
mama prāṇaiḥ priyataram putram putram iva aurasam . mayā hīnam ahīna-artham sarvatas paripālaya.. 9..
त्वमप्यस्य पिता दाता परित्राता च सर्वशः । भयेष्वभयदश्चैव यथाहं प्लवगेश्वर॥ १०॥
त्वम् अपि अस्य पिता दाता परित्राता च सर्वशस् । भयेषु अभय-दः च एव यथा अहम् प्लवग-ईश्वर॥ १०॥
tvam api asya pitā dātā paritrātā ca sarvaśas . bhayeṣu abhaya-daḥ ca eva yathā aham plavaga-īśvara.. 10..
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः । रक्षसां च वधे तेषामग्रतस्ते भविष्यति॥ ११॥
एष तारा-आत्मजः श्रीमान् त्वया तुल्य-पराक्रमः । रक्षसाम् च वधे तेषाम् अग्रतस् ते भविष्यति॥ ११॥
eṣa tārā-ātmajaḥ śrīmān tvayā tulya-parākramaḥ . rakṣasām ca vadhe teṣām agratas te bhaviṣyati.. 11..
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे । करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः॥ १२॥
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे । करिष्यति एष तारेयः तेजस्वी तरुणः अङ्गदः॥ १२॥
anurūpāṇi karmāṇi vikramya balavān raṇe . kariṣyati eṣa tāreyaḥ tejasvī taruṇaḥ aṅgadaḥ.. 12..
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये । औत्पातिके च विविधे सर्वतः परिनिष्ठिता॥ १३॥
सुषेण-दुहिता च इयम् अर्थ-सूक्ष्म-विनिश्चये । औत्पातिके च विविधे सर्वतस् परिनिष्ठिता॥ १३॥
suṣeṇa-duhitā ca iyam artha-sūkṣma-viniścaye . autpātike ca vividhe sarvatas pariniṣṭhitā.. 13..
यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् । नहि तारामतं किंचिदन्यथा परिवर्तते॥ १४॥
यत् एषा साधु इति ब्रूयात् कार्यम् तत् मुक्त-संशयम् । नहि तारा-मतम् किंचिद् अन्यथा परिवर्तते॥ १४॥
yat eṣā sādhu iti brūyāt kāryam tat mukta-saṃśayam . nahi tārā-matam kiṃcid anyathā parivartate.. 14..
राघवस्य च ते कार्यं कर्तव्यमविशङ्कया । स्यादधर्मो ह्यकरणे त्वां च हिंस्यादमानितः॥ १५॥
राघवस्य च ते कार्यम् कर्तव्यम् अविशङ्कया । स्यात् अधर्मः हि अकरणे त्वाम् च हिंस्यात् अमानितः॥ १५॥
rāghavasya ca te kāryam kartavyam aviśaṅkayā . syāt adharmaḥ hi akaraṇe tvām ca hiṃsyāt amānitaḥ.. 15..
इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् । उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि॥ १६॥
इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव काञ्चनीम् । उदारा श्रीः स्थिता हि अस्याम् सम्प्रजह्यात् मृते मयि॥ १६॥
imām ca mālām ādhatsva divyām sugrīva kāñcanīm . udārā śrīḥ sthitā hi asyām samprajahyāt mṛte mayi.. 16..
इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् । हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्॥ १७॥
इति एवम् उक्तः सुग्रीवः वालिना भ्रातृ-सौहृदात् । हर्षम् त्यक्त्वा पुनर् दीनः ग्रह-ग्रस्तः इव उडुराज्॥ १७॥
iti evam uktaḥ sugrīvaḥ vālinā bhrātṛ-sauhṛdāt . harṣam tyaktvā punar dīnaḥ graha-grastaḥ iva uḍurāj.. 17..
तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः । जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्॥ १८॥
तद्-वालि-वचनात् शान्तः कुर्वन् युक्तम् अतन्द्रितः । जग्राह सः अभ्यनुज्ञातः मालाम् ताम् च एव काञ्चनीम्॥ १८॥
tad-vāli-vacanāt śāntaḥ kurvan yuktam atandritaḥ . jagrāha saḥ abhyanujñātaḥ mālām tām ca eva kāñcanīm.. 18..
तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम् । संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्॥ १९॥
ताम् मालाम् काञ्चनीम् दत्त्वा दृष्ट्वा च एव आत्मजम् स्थितम् । संसिद्धः प्रेत्यभावाय स्नेहात् अङ्गदम् अब्रवीत्॥ १९॥
tām mālām kāñcanīm dattvā dṛṣṭvā ca eva ātmajam sthitam . saṃsiddhaḥ pretyabhāvāya snehāt aṅgadam abravīt.. 19..
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये । सुखदुःखसहः काले सुग्रीववशगो भव॥ २०॥
देश-कालौ भजस्व अद्य क्षममाणः प्रिय-अप्रिये । सुख-दुःख-सहः काले सुग्रीव-वश-गः भव॥ २०॥
deśa-kālau bhajasva adya kṣamamāṇaḥ priya-apriye . sukha-duḥkha-sahaḥ kāle sugrīva-vaśa-gaḥ bhava.. 20..
यथा हि त्वं महाबाहो लालितः सततं मया । न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते॥ २१॥
यथा हि त्वम् महा-बाहो लालितः सततम् मया । न तथा वर्तमानम् त्वाम् सुग्रीवः बहु मन्यते॥ २१॥
yathā hi tvam mahā-bāho lālitaḥ satatam mayā . na tathā vartamānam tvām sugrīvaḥ bahu manyate.. 21..
नास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम । भर्तुरर्थपरो दान्तः सुग्रीववशगो भव॥ २२॥
न अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम । भर्तुः अर्थ-परः दान्तः सुग्रीव-वश-गः भव॥ २२॥
na asya amitraiḥ gatam gaccheḥ mā śatrubhiḥ ariṃdama . bhartuḥ artha-paraḥ dāntaḥ sugrīva-vaśa-gaḥ bhava.. 22..
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते । उभयं हि महादोषं तस्मादन्तरदृग् भव॥ २३॥
न च अतिप्रणयः कार्यः कर्तव्यः अ प्रणयः च ते । उभयम् हि महा-दोषम् तस्मात् अन्तर-दृश् भव॥ २३॥
na ca atipraṇayaḥ kāryaḥ kartavyaḥ a praṇayaḥ ca te . ubhayam hi mahā-doṣam tasmāt antara-dṛś bhava.. 23..
इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम् । विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः॥ २४॥
इति उक्त्वा अथ विवृत्त-अक्षः शर-सम्पीडितः भृशम् । विवृतैः दशनैः भीमैः बभूव उत्क्रान्त-जीवितः॥ २४॥
iti uktvā atha vivṛtta-akṣaḥ śara-sampīḍitaḥ bhṛśam . vivṛtaiḥ daśanaiḥ bhīmaiḥ babhūva utkrānta-jīvitaḥ.. 24..
ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः । परिदेवयमानास्ते सर्वे प्लवगसत्तमाः॥ २५॥
ततस् विचुक्रुशुः तत्र वानराः हत-यूथपाः । परिदेवयमानाः ते सर्वे प्लवग-सत्तमाः॥ २५॥
tatas vicukruśuḥ tatra vānarāḥ hata-yūthapāḥ . paridevayamānāḥ te sarve plavaga-sattamāḥ.. 25..
किष्किन्धा ह्यद्य शून्या च स्वर्गते वानरेश्वरे । उद्यानानि च शून्यानि पर्वताः काननानि च॥ २६॥
किष्किन्धा हि अद्य शून्या च स्वर्गते वानर-ईश्वरे । उद्यानानि च शून्यानि पर्वताः काननानि च॥ २६॥
kiṣkindhā hi adya śūnyā ca svargate vānara-īśvare . udyānāni ca śūnyāni parvatāḥ kānanāni ca.. 26..
हते प्लवगशार्दूले निष्प्रभा वानराः कृताः । यस्य वेगेन महता काननानि वनानि च॥ २७॥
हते प्लवग-शार्दूले निष्प्रभाः वानराः कृताः । यस्य वेगेन महता काननानि वनानि च॥ २७॥
hate plavaga-śārdūle niṣprabhāḥ vānarāḥ kṛtāḥ . yasya vegena mahatā kānanāni vanāni ca.. 27..
पुष्पौघेणानुबद्ध्यन्ते करिष्यति तदद्य कः । येन दत्तं महद् युद्धं गन्धर्वस्य महात्मनः॥ २८॥
पुष्प-ओघेण अनुबद्धि-अन्ते करिष्यति तत् अद्य कः । येन दत्तम् महत् युद्धम् गन्धर्वस्य महात्मनः॥ २८॥
puṣpa-ogheṇa anubaddhi-ante kariṣyati tat adya kaḥ . yena dattam mahat yuddham gandharvasya mahātmanaḥ.. 28..
गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च । नैव रात्रौ न दिवसे तद् युद्धमुपशाम्यति॥ २९॥
गोलभस्य महाबाहोः दश वर्षाणि पञ्च च । न एव रात्रौ न दिवसे तत् युद्धम् उपशाम्यति॥ २९॥
golabhasya mahābāhoḥ daśa varṣāṇi pañca ca . na eva rātrau na divase tat yuddham upaśāmyati.. 29..
ततः षोडशमे वर्षे गोलभो विनिपातितः । तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान् । सर्वाभयंकरोऽस्माकं कथमेष निपातितः॥ ३०॥
ततस् षोडशमे वर्षे गोलभः विनिपातितः । तम् हत्वा दुर्विनीतम् तु वाली दंष्ट्रा-करालवान् । सर्व-अभयंकरः अस्माकम् कथम् एष निपातितः॥ ३०॥
tatas ṣoḍaśame varṣe golabhaḥ vinipātitaḥ . tam hatvā durvinītam tu vālī daṃṣṭrā-karālavān . sarva-abhayaṃkaraḥ asmākam katham eṣa nipātitaḥ.. 30..
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे । वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ॥ ३१॥
हते तु वीरे प्लवग-अधिपे तदा प्लवङ्गमाः तत्र न शर्म लेभिरे । वनेचराः सिंह-युते महा-वने यथा हि गावः निहते गवाम् पतौ॥ ३१॥
hate tu vīre plavaga-adhipe tadā plavaṅgamāḥ tatra na śarma lebhire . vanecarāḥ siṃha-yute mahā-vane yathā hi gāvaḥ nihate gavām patau.. 31..
ततस्तु तारा व्यसनार्णवप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा । जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता॥ ३२॥
ततस् तु तारा व्यसन-अर्णव-प्लुता मृतस्य भर्तुः वदनम् समीक्ष्य सा । जगाम भूमिम् परिरभ्य वालिनम् महा-द्रुमम् छिन्नम् इव आश्रिता लता॥ ३२॥
tatas tu tārā vyasana-arṇava-plutā mṛtasya bhartuḥ vadanam samīkṣya sā . jagāma bhūmim parirabhya vālinam mahā-drumam chinnam iva āśritā latā.. 32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-२२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्वाविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dvāviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In