This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रयोविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe trayoviṃśaḥ sargaḥ ..4..
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् । पतिं लोकश्रुता तारा मृतं वचनमब्रवीत्॥ १॥
ततस् समुपजिघ्रन्ती कपि-राजस्य तत् मुखम् । पतिम् लोक-श्रुता तारा मृतम् वचनम् अब्रवीत्॥ १॥
tatas samupajighrantī kapi-rājasya tat mukham . patim loka-śrutā tārā mṛtam vacanam abravīt.. 1..
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले॥ २॥
शेषे त्वम् विषमे दुःखम् अ कृत्वा वचनम् मम । उपल-उपचिते वीर सु दुःखे वसुधा-तले॥ २॥
śeṣe tvam viṣame duḥkham a kṛtvā vacanam mama . upala-upacite vīra su duḥkhe vasudhā-tale.. 2..
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे॥ ३॥
मत्तः प्रियतरा नूनम् वानर-इन्द्र मही तव । शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे॥ ३॥
mattaḥ priyatarā nūnam vānara-indra mahī tava . śeṣe hi tām pariṣvajya mām ca na pratibhāṣase.. 3..
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो । सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय॥ ४॥
सुग्रीवस्य वशम् प्राप्तः विधिः एष भवति अहो । सुग्रीवः एव विक्रान्तः वीर साहसिक-प्रिय॥ ४॥
sugrīvasya vaśam prāptaḥ vidhiḥ eṣa bhavati aho . sugrīvaḥ eva vikrāntaḥ vīra sāhasika-priya.. 4..
ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते । तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः॥ ५॥
ऋक्ष-वानर-मुख्याः त्वाम् बलिनम् पर्युपासते । तेषाम् विलपितम् कृच्छ्रम् अङ्गदस्य च शोचतः॥ ५॥
ṛkṣa-vānara-mukhyāḥ tvām balinam paryupāsate . teṣām vilapitam kṛcchram aṅgadasya ca śocataḥ.. 5..
मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे । इदं तद् वीरशयनं तत्र शेषे हतो युधि॥ ६॥
मम च इमाः गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे । इदम् तत् वीर-शयनम् तत्र शेषे हतः युधि॥ ६॥
mama ca imāḥ giraḥ śrutvā kim tvam na pratibudhyase . idam tat vīra-śayanam tatra śeṣe hataḥ yudhi.. 6..
शायिता निहता यत्र त्वयैव रिपवः पुरा । विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय॥ ७॥
शायिताः निहताः यत्र त्वया एव रिपवः पुरा । विशुद्ध-सत्त्व-अभिजन प्रिय-युद्ध मम प्रिय॥ ७॥
śāyitāḥ nihatāḥ yatra tvayā eva ripavaḥ purā . viśuddha-sattva-abhijana priya-yuddha mama priya.. 7..
मामनाथां विहायैकां गतस्त्वमसि मानद । शूराय न प्रदातव्या कन्या खलु विपश्चिता॥ ८॥
माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद । शूराय न प्रदातव्या कन्या खलु विपश्चिता॥ ८॥
mām anāthām vihāya ekām gataḥ tvam asi mānada . śūrāya na pradātavyā kanyā khalu vipaścitā.. 8..
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् । अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः॥ ९॥
शूर-भार्याम् हताम् पश्य सद्यस् माम् विधवाम् कृताम् । अवभग्नः च मे मानः भग्ना मे शाश्वती गतिः॥ ९॥
śūra-bhāryām hatām paśya sadyas mām vidhavām kṛtām . avabhagnaḥ ca me mānaḥ bhagnā me śāśvatī gatiḥ.. 9..
अगाधे च निमग्नास्मि विपुले शोकसागरे । अश्मसारमयं नूनमिदं मे हृदयं दृढम्॥ १०॥
अगाधे च निमग्ना अस्मि विपुले शोक-सागरे । अश्मसार-मयम् नूनम् इदम् मे हृदयम् दृढम्॥ १०॥
agādhe ca nimagnā asmi vipule śoka-sāgare . aśmasāra-mayam nūnam idam me hṛdayam dṛḍham.. 10..
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम् । सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः॥ ११॥
भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा कृतम् । सुहृद् च एव च भर्ता च प्रकृत्या च मम प्रियः॥ ११॥
bhartāram nihatam dṛṣṭvā yat na adya śatadhā kṛtam . suhṛd ca eva ca bhartā ca prakṛtyā ca mama priyaḥ.. 11..
प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः । पतिहीना तु या नारी कामं भवतु पुत्रिणी॥ १२॥
प्रहारे च पराक्रान्तः शूरः पञ्चत्वम् आगतः । पति-हीना तु या नारी कामम् भवतु पुत्रिणी॥ १२॥
prahāre ca parākrāntaḥ śūraḥ pañcatvam āgataḥ . pati-hīnā tu yā nārī kāmam bhavatu putriṇī.. 12..
धनधान्यसमृद्धापि विधवेत्युच्यते जनैः । स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले॥ १३॥
धन-धान्य-समृद्धा अपि विधवा इति उच्यते जनैः । स्व-गात्र-प्रभवे वीर शेषे रुधिर-मण्डले॥ १३॥
dhana-dhānya-samṛddhā api vidhavā iti ucyate janaiḥ . sva-gātra-prabhave vīra śeṣe rudhira-maṇḍale.. 13..
कृमिरागपरिस्तोमे स्वकीये शयने यथा । रेणुशोणितसंवीतं गात्रं तव समन्ततः॥ १४॥
कृमिरागपरिस्तोमे स्वकीये शयने यथा । रेणु-शोणित-संवीतम् गात्रम् तव समन्ततः॥ १४॥
kṛmirāgaparistome svakīye śayane yathā . reṇu-śoṇita-saṃvītam gātram tava samantataḥ.. 14..
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ । कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे॥ १५॥
परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवग-ऋषभ । कृतकृत्यः अद्य सुग्रीवः वैरे अस्मिन् अति दारुणे॥ १५॥
parirabdhum na śaknomi bhujābhyām plavaga-ṛṣabha . kṛtakṛtyaḥ adya sugrīvaḥ vaire asmin ati dāruṇe.. 15..
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् । शरेण हृदि लग्नेन गात्रसंस्पर्शने तव॥ १६॥
यस्य राम-विमुक्तेन हृतम् एक-इषुणा भयम् । शरेण हृदि लग्नेन गात्र-संस्पर्शने तव॥ १६॥
yasya rāma-vimuktena hṛtam eka-iṣuṇā bhayam . śareṇa hṛdi lagnena gātra-saṃsparśane tava.. 16..
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते । उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा॥ १७॥
त्वाम् निरीक्षन्ती त्वयि पञ्चत्वम् आगते । शरम् नीलः तस्य गात्र-गतम् तदा॥ १७॥
tvām nirīkṣantī tvayi pañcatvam āgate . śaram nīlaḥ tasya gātra-gatam tadā.. 17..
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा । तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः॥ १८॥
गिरि-गह्वर-संलीनम् दीप्तम् आशीविषम् यथा । तस्य निष्कृष्यमाणस्य बाणस्य अपि बभौ द्युतिः॥ १८॥
giri-gahvara-saṃlīnam dīptam āśīviṣam yathā . tasya niṣkṛṣyamāṇasya bāṇasya api babhau dyutiḥ.. 18..
अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव । पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः॥ १९॥
अस्त-मस्तक-संरुद्ध-रश्मेः दिनकरात् इव । पेतुः क्षतज-धाराः तु व्रणेभ्यः तस्य सर्वशस्॥ १९॥
asta-mastaka-saṃruddha-raśmeḥ dinakarāt iva . petuḥ kṣataja-dhārāḥ tu vraṇebhyaḥ tasya sarvaśas.. 19..
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् । अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना॥ २०॥
ताम्र-गैरिक-सम्पृक्ताः धाराः इव धराधरात् । अवकीर्णम् विमार्जन्ती भर्तारम् रण-रेणुना॥ २०॥
tāmra-gairika-sampṛktāḥ dhārāḥ iva dharādharāt . avakīrṇam vimārjantī bhartāram raṇa-reṇunā.. 20..
अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् । रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्॥ २१॥
अस्रैः नयन-जैः शूरम् सिषेच अस्त्र-समाहतम् । रुधिर-उक्षित-सर्व-अङ्गम् दृष्ट्वा विनिहतम् पतिम्॥ २१॥
asraiḥ nayana-jaiḥ śūram siṣeca astra-samāhatam . rudhira-ukṣita-sarva-aṅgam dṛṣṭvā vinihatam patim.. 21..
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना । अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्॥ २२॥
उवाच तारा पिङ्ग-अक्षम् पुत्रम् अङ्गदम् अङ्गना । अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सु दारुणाम्॥ २२॥
uvāca tārā piṅga-akṣam putram aṅgadam aṅganā . avasthām paścimām paśya pituḥ putra su dāruṇām.. 22..
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा । बालसूर्योज्ज्वलतनुं प्रयातं यमसादनम्॥ २३॥
सम्प्रसक्तस्य वैरस्य गतः अन्तः पाप-कर्मणा । बाल-सूर्य-उज्ज्वल-तनुम् प्रयातम् यम-सादनम्॥ २३॥
samprasaktasya vairasya gataḥ antaḥ pāpa-karmaṇā . bāla-sūrya-ujjvala-tanum prayātam yama-sādanam.. 23..
अभिवादय राजानं पितरं पुत्र मानदम् । एवमुक्तः समुत्थाय जग्राह चरणौ पितुः॥ २४॥
अभिवादय राजानम् पितरम् पुत्र मानदम् । एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः॥ २४॥
abhivādaya rājānam pitaram putra mānadam . evam uktaḥ samutthāya jagrāha caraṇau pituḥ.. 24..
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् । अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा॥ २५॥
भुजाभ्याम् पीन-वृत्ताभ्याम् अङ्गदः अहम् इति ब्रुवन् । अभिवादयमानम् त्वाम् अङ्गदम् त्वम् यथा पुरा॥ २५॥
bhujābhyām pīna-vṛttābhyām aṅgadaḥ aham iti bruvan . abhivādayamānam tvām aṅgadam tvam yathā purā.. 25..
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे । अहं पुत्रसहाया त्वामुपासे गतचेतनम् । सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम्॥ २६॥
दीर्घ-आयुः भव पुत्र इति किमर्थम् न अभिभाषसे । अहम् पुत्र-सहाया त्वाम् उपासे गत-चेतनम् । सिंहेन पातितम् सद्यस् गौः स वत्सा इव गो-वृषम्॥ २६॥
dīrgha-āyuḥ bhava putra iti kimartham na abhibhāṣase . aham putra-sahāyā tvām upāse gata-cetanam . siṃhena pātitam sadyas gauḥ sa vatsā iva go-vṛṣam.. 26..
इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा । तस्मन्नवभृथे स्नातः कथं पत्न्या मया विना॥ २७॥
इष्ट्वा संग्राम-यज्ञेन राम-प्रहरण-अम्भसा । तस्मत् नवभृथे स्नातः कथम् पत्न्या मया विना॥ २७॥
iṣṭvā saṃgrāma-yajñena rāma-praharaṇa-ambhasā . tasmat navabhṛthe snātaḥ katham patnyā mayā vinā.. 27..
या दत्ता देवराजेन तव तुष्टेन संयुगे । शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम्॥ २८॥
या दत्ता देवराजेन तव तुष्टेन संयुगे । शातकौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम्॥ २८॥
yā dattā devarājena tava tuṣṭena saṃyuge . śātakaumbhīm priyām mālām tām te paśyāmi na iha kim.. 28..
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद । सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥ २९॥
राज्य-श्रीः न जहाति त्वाम् गतासुम् अपि मानद । सूर्यस्य आवर्तमानस्य शैलराजम् इव प्रभा॥ २९॥
rājya-śrīḥ na jahāti tvām gatāsum api mānada . sūryasya āvartamānasya śailarājam iva prabhā.. 29..
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव । हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामपि॥ ३०॥
न मे वचः पथ्यम् इदम् त्वया कृतम् न च अस्मि शक्ता हि निवारणे तव । हता स पुत्रा अस्मि हतेन संयुगे सह त्वया श्रीः विजहाति माम् अपि॥ ३०॥
na me vacaḥ pathyam idam tvayā kṛtam na ca asmi śaktā hi nivāraṇe tava . hatā sa putrā asmi hatena saṃyuge saha tvayā śrīḥ vijahāti mām api.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रयोविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe trayoviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In