This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-२४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुर्विंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe caturviṃśaḥ sargaḥ ..4..
तामाशु वेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन । पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे॥ १॥
ताम् आशु वेगेन दुरासदेन तु अभिप्लुताम् शोक-महा-अर्णवेन । पश्यन् तदा वालि-अनुजः तरस्वी भ्रातुः वधेन अप्रतिमेन तेपे॥ १॥
tām āśu vegena durāsadena tu abhiplutām śoka-mahā-arṇavena . paśyan tadā vāli-anujaḥ tarasvī bhrātuḥ vadhena apratimena tepe.. 1..
स बाष्पपूर्णेन मुखेन पश्यन् क्षणेन निर्विण्णमना मनस्वी । जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः॥ २॥
स बाष्प-पूर्णेन मुखेन पश्यन् क्षणेन निर्विण्ण-मनाः मनस्वी । जगाम रामस्य शनैस् समीपम् भृत्यैः वृतः सम्परिदूयमानः॥ २॥
sa bāṣpa-pūrṇena mukhena paśyan kṣaṇena nirviṇṇa-manāḥ manasvī . jagāma rāmasya śanais samīpam bhṛtyaiḥ vṛtaḥ samparidūyamānaḥ.. 2..
स तं समासाद्य गृहीतचाप- मुदात्तमाशीविषतुल्यबाणम् । यशस्विनं लक्षणलक्षिताङ्ग- मवस्थितं राघवमित्युवाच॥ ३॥
स तम् समासाद्य गृहीत-चापम् उदात्तम् आशीविष-तुल्य-बाणम् । यशस्विनम् लक्षण-लक्षित-अङ्गम् अवस्थितम् राघवम् इति उवाच॥ ३॥
sa tam samāsādya gṛhīta-cāpam udāttam āśīviṣa-tulya-bāṇam . yaśasvinam lakṣaṇa-lakṣita-aṅgam avasthitam rāghavam iti uvāca.. 3..
यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म । ममाद्य भोगेषु नरेन्द्रसूनो मनो निवृत्तं हतजीवितेन॥ ४॥
यथा प्रतिज्ञातम् इदम् नरेन्द्र कृतम् त्वया दृष्ट-फलम् च कर्म । मम अद्य भोगेषु नरेन्द्र-सूनो मनः निवृत्तम् हत-जीवितेन॥ ४॥
yathā pratijñātam idam narendra kṛtam tvayā dṛṣṭa-phalam ca karma . mama adya bhogeṣu narendra-sūno manaḥ nivṛttam hata-jīvitena.. 4..
अस्यां महिष्यां तु भृशं रुदत्यां पुरेऽतिविक्रोशति दुःखतप्ते । हते नृपे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे॥ ५॥
अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरे अति विक्रोशति दुःख-तप्ते । हते नृपे संशयिते अङ्गदे च न राम राज्ये रमते मनः मे॥ ५॥
asyām mahiṣyām tu bhṛśam rudatyām pure ati vikrośati duḥkha-tapte . hate nṛpe saṃśayite aṅgade ca na rāma rājye ramate manaḥ me.. 5..
क्रोधादमर्षादतिविप्रधर्षाद् भ्रातुर्वधो मेऽनुमतः पुरस्तात् । हते त्विदानीं हरियूथपेऽस्मिन् सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये॥ ६॥
क्रोधात् अमर्षात् अति विप्रधर्षात् भ्रातुः वधः मे अनुमतः पुरस्तात् । हते तु इदानीम् हरि-यूथपे अस्मिन् सु तीक्ष्णम् इक्ष्वाकु-वर प्रतप्स्ये॥ ६॥
krodhāt amarṣāt ati vipradharṣāt bhrātuḥ vadhaḥ me anumataḥ purastāt . hate tu idānīm hari-yūthape asmin su tīkṣṇam ikṣvāku-vara pratapsye.. 6..
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन् हि वासश्चिरमृष्यमूके । यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः॥ ७॥
श्रेयः अद्य मन्ये मम शैल-मुख्ये तस्मिन् हि वासः चिरम् ऋष्यमूके । यथा तथा वर्तयतः स्व-वृत्त्या न इमम् निहत्य त्रिदिवस्य लाभः॥ ७॥
śreyaḥ adya manye mama śaila-mukhye tasmin hi vāsaḥ ciram ṛṣyamūke . yathā tathā vartayataḥ sva-vṛttyā na imam nihatya tridivasya lābhaḥ.. 7..
न त्वा जिघांसामि चरेति यन्मा- मयं महात्मा मतिमानुवाच । तस्यैव तद् राम वचोऽनुरूप- मिदं वचः कर्म च मेऽनुरूपम्॥ ८॥
न त्वा जिघांसामि चर इति यत् मा मयम् महात्मा मतिमान् उवाच । तस्य एव तत् राम वचः अनुरूपम् इदम् वचः कर्म च मे अनुरूपम्॥ ८॥
na tvā jighāṃsāmi cara iti yat mā mayam mahātmā matimān uvāca . tasya eva tat rāma vacaḥ anurūpam idam vacaḥ karma ca me anurūpam.. 8..
भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राम विरोचयेत । राज्यस्य दुःखस्य च वीर सारं विचिन्तयन् कामपुरस्कृतोऽपि॥ ९॥
भ्राता कथम् नाम महा-गुणस्य भ्रातुः वधम् राम विरोचयेत । राज्यस्य दुःखस्य च वीर सारम् विचिन्तयन् काम-पुरस्कृतः अपि॥ ९॥
bhrātā katham nāma mahā-guṇasya bhrātuḥ vadham rāma virocayeta . rājyasya duḥkhasya ca vīra sāram vicintayan kāma-puraskṛtaḥ api.. 9..
वधो हि मे मतो नासीत् स्वमाहात्म्यव्यतिक्रमात् । ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः॥ १०॥
वधः हि मे मतः ना आसीत् स्व-माहात्म्य-व्यतिक्रमात् । मम आसीत् बुद्धि-दौरात्म्यात् प्राण-हारी व्यतिक्रमः॥ १०॥
vadhaḥ hi me mataḥ nā āsīt sva-māhātmya-vyatikramāt . mama āsīt buddhi-daurātmyāt prāṇa-hārī vyatikramaḥ.. 10..
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन् । सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि॥ ११॥
द्रुम-शाखा-अवभग्नः अहम् मुहूर्तम् परिनिष्टनन् । सान्त्वयित्वा तु अनेन उक्तः न पुनर् कर्तुम् अर्हसि॥ ११॥
druma-śākhā-avabhagnaḥ aham muhūrtam pariniṣṭanan . sāntvayitvā tu anena uktaḥ na punar kartum arhasi.. 11..
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः । मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्॥ १२॥
भ्रातृ-त्वम् आर्य-भावः च धर्मः च अनेन रक्षितः । मया क्रोधः च कामः च कपि-त्वम् च प्रदर्शितम्॥ १२॥
bhrātṛ-tvam ārya-bhāvaḥ ca dharmaḥ ca anena rakṣitaḥ . mayā krodhaḥ ca kāmaḥ ca kapi-tvam ca pradarśitam.. 12..
अचिन्तनीयं परिवर्जनीय- मनीप्सनीयं स्वनवेक्षणीयम् । प्राप्तोऽस्मि पाप्मानमिदं वयस्य भ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः॥ १३॥
अ चिन्तनीयम् परिवर्जनीय-मनीप्सनीयम् स्वन्-अवेक्षणीयम् । प्राप्तः अस्मि पाप्मानम् इदम् वयस्य भ्रातुः वधात् त्वाष्ट्र-वधात् इव इन्द्रः॥ १३॥
a cintanīyam parivarjanīya-manīpsanīyam svan-avekṣaṇīyam . prāptaḥ asmi pāpmānam idam vayasya bhrātuḥ vadhāt tvāṣṭra-vadhāt iva indraḥ.. 13..
पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च । को नाम पाप्मानमिमं सहेत शाखामृगस्य प्रतिपत्तुमिच्छेत्॥ १४॥
पाप्मानम् इन्द्रस्य मही जलम् च वृक्षाः च कामम् जगृहुः स्त्रियः च । कः नाम पाप्मानम् इमम् सहेत शाखामृगस्य प्रतिपत्तुम् इच्छेत्॥ १४॥
pāpmānam indrasya mahī jalam ca vṛkṣāḥ ca kāmam jagṛhuḥ striyaḥ ca . kaḥ nāma pāpmānam imam saheta śākhāmṛgasya pratipattum icchet.. 14..
नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् । अधर्मयुक्तं कुलनाशयुक्त- मेवंविधं राघव कर्म कृत्वा॥ १५॥
न अर्हामि सम्मानम् इमम् प्रजानाम् न यौवराज्यम् कुतस् एव राज्यम् । अधर्म-युक्तम् कुल-नाश-युक्तम् एवंविधम् राघव कर्म कृत्वा॥ १५॥
na arhāmi sammānam imam prajānām na yauvarājyam kutas eva rājyam . adharma-yuktam kula-nāśa-yuktam evaṃvidham rāghava karma kṛtvā.. 15..
पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य लोके । शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः॥ १६॥
पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोक-अपकृतस्य लोके । शोकः महान् माम् अभिवर्तते अयम् वृष्टेः यथा निम्नम् इव अम्बु-वेगः॥ १६॥
pāpasya kartāsmi vigarhitasya kṣudrasya loka-apakṛtasya loke . śokaḥ mahān mām abhivartate ayam vṛṣṭeḥ yathā nimnam iva ambu-vegaḥ.. 16..
सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः । एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः॥ १७॥
सोदर्य-घात-अपर-गात्र-वालः संताप-हस्त-अक्षि-शिरः-विषाणः । एनः-मयः माम् अभिहन्ति हस्ती दृप्तः नदी-कूलम् इव प्रवृद्धः॥ १७॥
sodarya-ghāta-apara-gātra-vālaḥ saṃtāpa-hasta-akṣi-śiraḥ-viṣāṇaḥ . enaḥ-mayaḥ mām abhihanti hastī dṛptaḥ nadī-kūlam iva pravṛddhaḥ.. 17..
अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम् । अग्नौ विवर्णं परितप्यमानं किट्टं यथा राघव जातरूपम्॥ १८॥
अंहः बत इदम् नृवर-अविषह्यम् निवर्तते मे हृदि साधु-वृत्तम् । अग्नौ विवर्णम् परितप्यमानम् किट्टम् यथा राघव जातरूपम्॥ १८॥
aṃhaḥ bata idam nṛvara-aviṣahyam nivartate me hṛdi sādhu-vṛttam . agnau vivarṇam paritapyamānam kiṭṭam yathā rāghava jātarūpam.. 18..
महाबलानां हरियूथपाना- मिदं कुलं राघव मन्निमित्तम् । अस्याङ्गदस्यापि च शोकतापा- दर्धस्थितप्राणमितीव मन्ये॥ १९॥
महा-बलानाम् हरि-यूथपानाम् इदम् कुलम् राघव मद्-निमित्तम् । अस्य अङ्गदस्य अपि च शोक-तापात् अर्ध-स्थित-प्राणम् इति इव मन्ये॥ १९॥
mahā-balānām hari-yūthapānām idam kulam rāghava mad-nimittam . asya aṅgadasya api ca śoka-tāpāt ardha-sthita-prāṇam iti iva manye.. 19..
सुतः सुलभ्यः सुजनः सुवश्यः कुतस्तु पुत्रः सदृशोऽङ्गदेन । न चापि विद्येत स वीर देशो यस्मिन् भवेत् सोदरसंनिकर्षः॥ २०॥
सुतः सुलभ्यः सु जनः सु वश्यः कुतस् तु पुत्रः सदृशः अङ्गदेन । न च अपि विद्येत स वीर देशः यस्मिन् भवेत् सोदर-संनिकर्षः॥ २०॥
sutaḥ sulabhyaḥ su janaḥ su vaśyaḥ kutas tu putraḥ sadṛśaḥ aṅgadena . na ca api vidyeta sa vīra deśaḥ yasmin bhavet sodara-saṃnikarṣaḥ.. 20..
अद्याङ्गदो वीरवरो न जीवे- ज्जीवेत माता परिपालनार्थम् । विना तु पुत्रं परितापदीना सा नैव जीवेदिति निश्चितं मे॥ २१॥
अद्य अङ्गदः वीर-वरः न जीवेत् जीवेत माता परिपालन-अर्थम् । विना तु पुत्रम् परिताप-दीना सा ना एव जीवेत् इति निश्चितम् मे॥ २१॥
adya aṅgadaḥ vīra-varaḥ na jīvet jīveta mātā paripālana-artham . vinā tu putram paritāpa-dīnā sā nā eva jīvet iti niścitam me.. 21..
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन् । इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे परिवर्तमानाः॥ २२॥
सः अहम् प्रवेक्ष्यामि अति दीप्तम् अग्निम् भ्रात्रा च पुत्रेण च सख्यम् इच्छन् । इमे विचेष्यन्ति हरि-प्रवीराः सीताम् निदेशे परिवर्तमानाः॥ २२॥
saḥ aham pravekṣyāmi ati dīptam agnim bhrātrā ca putreṇa ca sakhyam icchan . ime viceṣyanti hari-pravīrāḥ sītām nideśe parivartamānāḥ.. 22..
कृत्स्नं तु ते सेत्स्यति कार्यमेत- न्मय्यप्यतीते मनुजेन्द्रपुत्र । कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्॥ २३॥
कृत्स्नम् तु ते सेत्स्यति कार्यम् एतत् मयि अपि अतीते मनुज-इन्द्र-पुत्र । कुलस्य हन्तारम् अ जीवन-अर्हम् राम अनुजानीहि कृत-आगसम् माम्॥ २३॥
kṛtsnam tu te setsyati kāryam etat mayi api atīte manuja-indra-putra . kulasya hantāram a jīvana-arham rāma anujānīhi kṛta-āgasam mām.. 23..
इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वालिजघन्यजस्य । संजातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव॥ २४॥
इति एवम् आर्तस्य रघु-प्रवीरः श्रुत्वा वचः वालि-जघन्य-जस्य । संजात-बाष्पः पर-वीर-हन्ता रामः मुहूर्तम् विमनाः बभूव॥ २४॥
iti evam ārtasya raghu-pravīraḥ śrutvā vacaḥ vāli-jaghanya-jasya . saṃjāta-bāṣpaḥ para-vīra-hantā rāmaḥ muhūrtam vimanāḥ babhūva.. 24..
तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणः क्षितिक्षमावान् भुवनस्य गोप्ता । रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्॥ २५॥
तस्मिन् क्षणे अभीक्ष्णम् अवेक्षमाणः क्षिति-क्षमावान् भुवनस्य गोप्ता । रामः रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सः अथ ददर्श ताराम्॥ २५॥
tasmin kṣaṇe abhīkṣṇam avekṣamāṇaḥ kṣiti-kṣamāvān bhuvanasya goptā . rāmaḥ rudantīm vyasane nimagnām samutsukaḥ saḥ atha dadarśa tārām.. 25..
तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम् । उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिराजपत्नीम्॥ २६॥
ताम् चारु-नेत्राम् कपि-सिंह-नाथाम् पतिम् समाश्लिष्य तदा शयानाम् । उत्थापयामासुः अदीन-सत्त्वाम् मन्त्रि-प्रधानाः कपि-राज-पत्नीम्॥ २६॥
tām cāru-netrām kapi-siṃha-nāthām patim samāśliṣya tadā śayānām . utthāpayāmāsuḥ adīna-sattvām mantri-pradhānāḥ kapi-rāja-patnīm.. 26..
सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपादपनीयमाना । ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्॥ २७॥
सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपात् अपनीयमाना । ददर्श रामम् शर-चाप-पाणिम् स्व-तेजसा सूर्यम् इव ज्वलन्तम्॥ २७॥
sā visphurantī parirabhyamāṇā bhartuḥ samīpāt apanīyamānā . dadarśa rāmam śara-cāpa-pāṇim sva-tejasā sūryam iva jvalantam.. 27..
सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा । अदृष्टपूर्वं पुरुषप्रधान- मयं स काकुत्स्थ इति प्रजज्ञे॥ २८॥
सु संवृतम् पार्थिव-लक्षणैः च तम् चारु-नेत्रम् मृग-शाव-नेत्रा । अ दृष्ट-पूर्वम् पुरुष-प्रधान-मयम् स काकुत्स्थः इति प्रजज्ञे॥ २८॥
su saṃvṛtam pārthiva-lakṣaṇaiḥ ca tam cāru-netram mṛga-śāva-netrā . a dṛṣṭa-pūrvam puruṣa-pradhāna-mayam sa kākutsthaḥ iti prajajñe.. 28..
तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या । आर्तातितूर्णं व्यसनं प्रपन्ना जगाम तारा परिविह्वलन्ती॥ २९॥
तस्य इन्द्र-कल्पस्य दुरासदस्य महा-अनुभावस्य समीपम् आर्या । आर्ता अति तूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती॥ २९॥
tasya indra-kalpasya durāsadasya mahā-anubhāvasya samīpam āryā . ārtā ati tūrṇam vyasanam prapannā jagāma tārā parivihvalantī.. 29..
तं सा समासाद्य विशुद्धसत्त्वं शोकेन सम्भ्रान्तशरीरभावा । मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्ष्यम्॥ ३०॥
तम् सा समासाद्य विशुद्ध-सत्त्वम् शोकेन सम्भ्रान्त-शरीर-भावा । मनस्विनी वाक्यम् उवाच तारा रामम् रण-उत्कर्षण-लब्ध-लक्ष्यम्॥ ३०॥
tam sā samāsādya viśuddha-sattvam śokena sambhrānta-śarīra-bhāvā . manasvinī vākyam uvāca tārā rāmam raṇa-utkarṣaṇa-labdha-lakṣyam.. 30..
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधर्मकश्च । अक्षीणकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः॥ ३१॥
त्वम् अप्रमेयः च दुरासदः च जित-इन्द्रियः च उत्तम-धर्मकः च । अक्षीण-कीर्तिः च विचक्षणः च क्षिति-क्षमावान् क्षतज-उपम-अक्षः॥ ३१॥
tvam aprameyaḥ ca durāsadaḥ ca jita-indriyaḥ ca uttama-dharmakaḥ ca . akṣīṇa-kīrtiḥ ca vicakṣaṇaḥ ca kṣiti-kṣamāvān kṣataja-upama-akṣaḥ.. 31..
त्वमात्तबाणासनबाणपाणि- र्महाबलः संहननोपपन्नः । मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः॥ ३२॥
त्वम् आत्त-बाणासन-बाण-पाणिः महा-बलः संहनन-उपपन्नः । मनुष्य-देह-अभ्युदयम् विहाय दिव्येन देह-अभ्युदयेन युक्तः॥ ३२॥
tvam ātta-bāṇāsana-bāṇa-pāṇiḥ mahā-balaḥ saṃhanana-upapannaḥ . manuṣya-deha-abhyudayam vihāya divyena deha-abhyudayena yuktaḥ.. 32..
येनैव बाणेन हतः प्रियो मे तेनैव बाणेन हि मां जहीहि । हता गमिष्यामि समीपमस्य न मां विना वीर रमेत वाली॥ ३३॥
येन एव बाणेन हतः प्रियः मे तेन एव बाणेन हि माम् जहीहि । हता गमिष्यामि समीपम् अस्य न माम् विना वीर रमेत वाली॥ ३३॥
yena eva bāṇena hataḥ priyaḥ me tena eva bāṇena hi mām jahīhi . hatā gamiṣyāmi samīpam asya na mām vinā vīra rameta vālī.. 33..
स्वर्गेऽपि पद्मामलपत्रनेत्र समेत्य सम्प्रेक्ष्य च मामपश्यन् । न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत्॥ ३३॥
स्वर्गे अपि पद्म-अमल-पत्र-नेत्र समेत्य सम्प्रेक्ष्य च माम् अपश्यन् । न हि एषः उच्चावच-ताम्र-चूडाः विचित्र-वेषा अप्सरसः अभजिष्यत्॥ ३३॥
svarge api padma-amala-patra-netra sametya samprekṣya ca mām apaśyan . na hi eṣaḥ uccāvaca-tāmra-cūḍāḥ vicitra-veṣā apsarasaḥ abhajiṣyat.. 33..
स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली । रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम्॥ ३५॥
स्वर्गे अपि शोकम् च विवर्ण-ताम् च मया विना प्राप्स्यति वीर वाली । रम्ये नग-इन्द्रस्य तट-अवकाशे विदेह-कन्या-रहितः यथा त्वम्॥ ३५॥
svarge api śokam ca vivarṇa-tām ca mayā vinā prāpsyati vīra vālī . ramye naga-indrasya taṭa-avakāśe videha-kanyā-rahitaḥ yathā tvam.. 35..
त्वं वेत्थ तावद् वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः । तत् त्वं प्रजानञ्जहि मां न वाली दुःखं ममादर्शनजं भजेत॥ ३६॥
त्वम् वेत्थ तावत् वनिता-विहीनः प्राप्नोति दुःखम् पुरुषः कुमारः । तत् त्वम् प्रजानन् जहि माम् न वाली दुःखम् मम अदर्शन-जम् भजेत॥ ३६॥
tvam vettha tāvat vanitā-vihīnaḥ prāpnoti duḥkham puruṣaḥ kumāraḥ . tat tvam prajānan jahi mām na vālī duḥkham mama adarśana-jam bhajeta.. 36..
यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषस्तु भवेन्न मह्यम् । आत्मेयमस्येति हि मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र॥ ३७॥
यत् च अपि मन्येत भवान् महात्मा स्त्री-घात-दोषः तु भवेत् न मह्यम् । आत्मा इयम् अस्य इति हि माम् जहि त्वम् न स्त्री-वधः स्यात् मनुज-इन्द्र-पुत्र॥ ३७॥
yat ca api manyeta bhavān mahātmā strī-ghāta-doṣaḥ tu bhavet na mahyam . ātmā iyam asya iti hi mām jahi tvam na strī-vadhaḥ syāt manuja-indra-putra.. 37..
शास्त्रप्रयोगाद् विविधाश्च वेदा- दनन्यरूपाः पुरुषस्य दाराः । दारप्रदानाद्धि न दानमन्यत् प्रदृश्यते ज्ञानवतां हि लोके॥ ३८॥
शास्त्र-प्रयोगात् विविधाः च वेदात् अनन्य-रूपाः पुरुषस्य दाराः । दार-प्रदानात् हि न दानम् अन्यत् प्रदृश्यते ज्ञानवताम् हि लोके॥ ३८॥
śāstra-prayogāt vividhāḥ ca vedāt ananya-rūpāḥ puruṣasya dārāḥ . dāra-pradānāt hi na dānam anyat pradṛśyate jñānavatām hi loke.. 38..
त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर । अनेन दानेन न लप्स्यसे त्व- मधर्मयोगं मम वीर घातात्॥ ३९॥
त्वम् च अपि माम् तस्य मम प्रियस्य प्रदास्यसे धर्मम् अवेक्ष्य वीर । अनेन दानेन न लप्स्यसे त्वम् अधर्म-योगम् मम वीर घातात्॥ ३९॥
tvam ca api mām tasya mama priyasya pradāsyase dharmam avekṣya vīra . anena dānena na lapsyase tvam adharma-yogam mama vīra ghātāt.. 39..
आर्तामनाथामपनीयमाना- मेवंगतां नार्हसि मामहन्तुम् । अहं हि मातङ्गविलासगामिना प्लवंगमानामृषभेण धीमता । विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्॥ ४०॥
आर्ताम् अनाथाम् अपनीयमानाम् एवंगताम् ना अर्हसि माम् अ हन्तुम् । अहम् हि मातङ्ग-विलास-गामिना प्लवंगमानाम् ऋषभेण धीमता । विना वर-अर्ह-उत्तम-हेम-मालिना चिरम् न शक्ष्यामि नरेन्द्र जीवितुम्॥ ४०॥
ārtām anāthām apanīyamānām evaṃgatām nā arhasi mām a hantum . aham hi mātaṅga-vilāsa-gāminā plavaṃgamānām ṛṣabheṇa dhīmatā . vinā vara-arha-uttama-hema-mālinā ciram na śakṣyāmi narendra jīvitum.. 40..
इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे । मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा॥ ४१॥
इति एवम् उक्तः तु विभुः महात्मा ताराम् समाश्वास्य हितम् बभाषे । मा वीर-भार्ये विमतिम् कुरुष्व लोकः हि सर्वः विहितः विधात्रा॥ ४१॥
iti evam uktaḥ tu vibhuḥ mahātmā tārām samāśvāsya hitam babhāṣe . mā vīra-bhārye vimatim kuruṣva lokaḥ hi sarvaḥ vihitaḥ vidhātrā.. 41..
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत् तेन कृतं विधात्रा । त्रयोऽपि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य॥ ४२॥
तम् च एव सर्वम् सुख-दुःख-योगम् लोकः अब्रवीत् तेन कृतम् विधात्रा । त्रयः अपि लोकाः विहितम् विधानम् न अतिक्रमन्ते वश-गाः हि तस्य॥ ४२॥
tam ca eva sarvam sukha-duḥkha-yogam lokaḥ abravīt tena kṛtam vidhātrā . trayaḥ api lokāḥ vihitam vidhānam na atikramante vaśa-gāḥ hi tasya.. 42..
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रश्च ते प्राप्स्यति यौवराज्यम् । धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति॥ ४३॥
प्रीतिम् पराम् प्राप्स्यसि ताम् तथा एव पुत्रः च ते प्राप्स्यति यौवराज्यम् । धात्रा विधानम् विहितम् तथा एव न शूर-पत्न्यः परिदेवयन्ति॥ ४३॥
prītim parām prāpsyasi tām tathā eva putraḥ ca te prāpsyati yauvarājyam . dhātrā vidhānam vihitam tathā eva na śūra-patnyaḥ paridevayanti.. 43..
आश्वासिता तेन महात्मना तु प्रभावयुक्तेन परंतपेन । सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा॥ ४४॥
आश्वासिता तेन महात्मना तु प्रभाव-युक्तेन परंतपेन । सा वीर-पत्नी ध्वनता मुखेन सु वेष-रूपा विरराम तारा॥ ४४॥
āśvāsitā tena mahātmanā tu prabhāva-yuktena paraṃtapena . sā vīra-patnī dhvanatā mukhena su veṣa-rūpā virarāma tārā.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-२४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुर्विंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe caturviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In