This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-२५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcaviṃśaḥ sargaḥ ..4..
स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः । समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्॥ १॥
स सुग्रीवम् च ताराम् च स अङ्गदाम् सह लक्ष्मणः । समान-शोकः काकुत्स्थः सान्त्वयन् इदम् अब्रवीत्॥ १॥
sa sugrīvam ca tārām ca sa aṅgadām saha lakṣmaṇaḥ . samāna-śokaḥ kākutsthaḥ sāntvayan idam abravīt.. 1..
न शोकपरितापेन श्रेयसा युज्यते मृतः । यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ॥ २॥
न शोक-परितापेन श्रेयसा युज्यते मृतः । यत् अत्र अनन्तरम् कार्यम् तत् समाधातुम् अर्हथ॥ २॥
na śoka-paritāpena śreyasā yujyate mṛtaḥ . yat atra anantaram kāryam tat samādhātum arhatha.. 2..
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् । न कालादुत्तरं किंचित् कर्मशक्यमुपासितुम्॥ ३॥
लोक-वृत्तम् अनुष्ठेयम् कृतम् वः बाष्प-मोक्षणम् । न कालात् उत्तरम् किंचिद् कर्म-शक्यम् उपासितुम्॥ ३॥
loka-vṛttam anuṣṭheyam kṛtam vaḥ bāṣpa-mokṣaṇam . na kālāt uttaram kiṃcid karma-śakyam upāsitum.. 3..
नियतिः कारणं लोके नियतिः कर्मसाधनम् । नियतिः सर्वभूतानां नियोगेष्विह कारणम्॥ ४॥
नियतिः कारणम् लोके नियतिः कर्म-साधनम् । नियतिः सर्व-भूतानाम् नियोगेषु इह कारणम्॥ ४॥
niyatiḥ kāraṇam loke niyatiḥ karma-sādhanam . niyatiḥ sarva-bhūtānām niyogeṣu iha kāraṇam.. 4..
न कर्ता कस्यचित् कश्चिन्नियोगे नापि चेश्वरः । स्वभावे वर्तते लोकस्तस्य कालः परायणम्॥ ५॥
न कर्ता कस्यचिद् कश्चिद् नियोगे ना अपि च ईश्वरः । स्वभावे वर्तते लोकः तस्य कालः परायणम्॥ ५॥
na kartā kasyacid kaścid niyoge nā api ca īśvaraḥ . svabhāve vartate lokaḥ tasya kālaḥ parāyaṇam.. 5..
न कालः कालमत्येति न कालः परिहीयते । स्वभावं च समासाद्य न कश्चिदतिवर्तते॥ ६॥
न कालः कालम् अत्येति न कालः परिहीयते । स्वभावम् च समासाद्य न कश्चिद् अतिवर्तते॥ ६॥
na kālaḥ kālam atyeti na kālaḥ parihīyate . svabhāvam ca samāsādya na kaścid ativartate.. 6..
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः । न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः॥ ७॥
न कालस्य अस्ति बन्धु-त्वम् न हेतुः न पराक्रमः । न मित्र-ज्ञाति-सम्बन्धः कारणम् न आत्मनः वशः॥ ७॥
na kālasya asti bandhu-tvam na hetuḥ na parākramaḥ . na mitra-jñāti-sambandhaḥ kāraṇam na ātmanaḥ vaśaḥ.. 7..
किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥ ८॥
किम् तु काल-परीणामः द्रष्टव्यः साधु पश्यता । धर्मः च अर्थः च कामः च काल-क्रम-समाहिताः॥ ८॥
kim tu kāla-parīṇāmaḥ draṣṭavyaḥ sādhu paśyatā . dharmaḥ ca arthaḥ ca kāmaḥ ca kāla-krama-samāhitāḥ.. 8..
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् । सामदानार्थसंयोगैः पवित्रं प्लवगेश्वरः॥ ९॥
इतस् स्वाम् प्रकृतिम् वाली गतः प्राप्तः क्रिया-फलम् । साम-दान-अर्थ-संयोगैः पवित्रम् प्लवग-ईश्वरः॥ ९॥
itas svām prakṛtim vālī gataḥ prāptaḥ kriyā-phalam . sāma-dāna-artha-saṃyogaiḥ pavitram plavaga-īśvaraḥ.. 9..
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना । स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता॥ १०॥
स्वधर्मस्य च संयोगात् जितः तेन महात्मना । स्वर्गः परिगृहीतः च प्राणान् अ परिरक्षता॥ १०॥
svadharmasya ca saṃyogāt jitaḥ tena mahātmanā . svargaḥ parigṛhītaḥ ca prāṇān a parirakṣatā.. 10..
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः । तदलं परितापेन प्राप्तकालमुपास्यताम्॥ ११॥
एषा वै नियतिः श्रेष्ठा याम् गतः हरि-यूथपः । तत् अलम् परितापेन प्राप्त-कालम् उपास्यताम्॥ ११॥
eṣā vai niyatiḥ śreṣṭhā yām gataḥ hari-yūthapaḥ . tat alam paritāpena prāpta-kālam upāsyatām.. 11..
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा । अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्॥ १२॥
वचन-अन्ते तु रामस्य लक्ष्मणः पर-वीर-हा । अवदत् प्रश्रितम् वाक्यम् सुग्रीवम् गत-चेतसम्॥ १२॥
vacana-ante tu rāmasya lakṣmaṇaḥ para-vīra-hā . avadat praśritam vākyam sugrīvam gata-cetasam.. 12..
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् । ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति॥ १३॥
कुरु त्वम् अस्य सुग्रीव प्रेतकार्यम् अनन्तरम् । तारा-अङ्गदाभ्याम् सहितः वालिनः दहनम् प्रति॥ १३॥
kuru tvam asya sugrīva pretakāryam anantaram . tārā-aṅgadābhyām sahitaḥ vālinaḥ dahanam prati.. 13..
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च । चन्दनानि च दिव्यानि वालिसंस्कारकारणात्॥ १४॥
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च । चन्दनानि च दिव्यानि वालि-संस्कार-कारणात्॥ १४॥
samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca . candanāni ca divyāni vāli-saṃskāra-kāraṇāt.. 14..
समाश्वासय दीनं त्वमङ्गदं दीनचेतसम् । मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्॥ १५॥
समाश्वासय दीनम् त्वम् अङ्गदम् दीन-चेतसम् । मा भूः बालिश-बुद्धिः त्वम् त्वद्-अधीनम् इदम् पुरम्॥ १५॥
samāśvāsaya dīnam tvam aṅgadam dīna-cetasam . mā bhūḥ bāliśa-buddhiḥ tvam tvad-adhīnam idam puram.. 15..
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च । घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्॥ १६॥
अङ्गदः तु आनयेत् माल्यम् वस्त्राणि विविधानि च । घृतम् तैलम् अथो गन्धान् यत् च अत्र समनन्तरम्॥ १६॥
aṅgadaḥ tu ānayet mālyam vastrāṇi vividhāni ca . ghṛtam tailam atho gandhān yat ca atra samanantaram.. 16..
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् । त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः॥ १७॥
त्वम् तार शिबिकाम् शीघ्रम् आदाय आगच्छ सम्भ्रमात् । त्वरा गुणवती युक्ता हि अस्मिन् काले विशेषतः॥ १७॥
tvam tāra śibikām śīghram ādāya āgaccha sambhramāt . tvarā guṇavatī yuktā hi asmin kāle viśeṣataḥ.. 17..
सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः । समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्॥ १८॥
सज्जीभवन्तु प्लवगाः शिबिका-वाहन-उचिताः । समर्थाः बलिनः च एव निर्हरिष्यन्ति वालिनम्॥ १८॥
sajjībhavantu plavagāḥ śibikā-vāhana-ucitāḥ . samarthāḥ balinaḥ ca eva nirhariṣyanti vālinam.. 18..
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः । तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा॥ १९॥
एवम् उक्त्वा तु सुग्रीवम् सुमित्रा-आनन्द-वर्धनः । तस्थौ भ्रातृ-समीप-स्थः लक्ष्मणः पर-वीर-हा॥ १९॥
evam uktvā tu sugrīvam sumitrā-ānanda-vardhanaḥ . tasthau bhrātṛ-samīpa-sthaḥ lakṣmaṇaḥ para-vīra-hā.. 19..
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः । प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः॥ २०॥
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्त-मानसः । प्रविवेश गुहाम् शीघ्रम् शिबिका-सक्त-मानसः॥ २०॥
lakṣmaṇasya vacaḥ śrutvā tāraḥ sambhrānta-mānasaḥ . praviveśa guhām śīghram śibikā-sakta-mānasaḥ.. 20..
आदाय शिबिकां तारः स तु पर्यापतत् पुनः । वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः॥ २१॥
आदाय शिबिकाम् तारः स तु पर्यापतत् पुनर् । वानरैः उह्यमानाम् ताम् शूरैः उद्वहन-उचितैः॥ २१॥
ādāya śibikām tāraḥ sa tu paryāpatat punar . vānaraiḥ uhyamānām tām śūraiḥ udvahana-ucitaiḥ.. 21..
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् । पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्॥ २२॥
दिव्याम् भद्रासन-युताम् शिबिकाम् स्यन्दन-उपमाम् । पक्षि-कर्मभिः आचित्राम् द्रुम-कर्म-विभूषिताम्॥ २२॥
divyām bhadrāsana-yutām śibikām syandana-upamām . pakṣi-karmabhiḥ ācitrām druma-karma-vibhūṣitām.. 22..
आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः । विमानमिव सिद्धानां जालवातायनायुताम्॥ २३॥
आचिताम् चित्र-पत्तीभिः सु निविष्टाम् समन्ततः । विमानम् इव सिद्धानाम् जालवातायन-आयुताम्॥ २३॥
ācitām citra-pattībhiḥ su niviṣṭām samantataḥ . vimānam iva siddhānām jālavātāyana-āyutām.. 23..
सुनियुक्तां विशालां च सुकृतां शिल्पिभिः कृताम् । दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्॥ २४॥
सु नियुक्ताम् विशालाम् च सु कृताम् शिल्पिभिः कृताम् । दारु-पर्वतक-उपेताम् चारु-कर्म-परिष्कृताम्॥ २४॥
su niyuktām viśālām ca su kṛtām śilpibhiḥ kṛtām . dāru-parvataka-upetām cāru-karma-pariṣkṛtām.. 24..
वराभरणहारैश्च चित्रमाल्योपशोभिताम् । गुहागहनसंछन्नां रक्तचन्दनभूषिताम्॥ २५॥
वर-आभरण-हारैः च चित्र-माल्य-उपशोभिताम् । गुहा-गहन-संछन्नाम् रक्तचन्दन-भूषिताम्॥ २५॥
vara-ābharaṇa-hāraiḥ ca citra-mālya-upaśobhitām . guhā-gahana-saṃchannām raktacandana-bhūṣitām.. 25..
पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च । तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्॥ २६॥
पुष्प-ओघैः समभिच्छन्नाम् पद्म-मालाभिः एव च । तरुण-आदित्य-वर्णाभिः भ्राजमानाभिः आवृताम्॥ २६॥
puṣpa-oghaiḥ samabhicchannām padma-mālābhiḥ eva ca . taruṇa-āditya-varṇābhiḥ bhrājamānābhiḥ āvṛtām.. 26..
ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् । क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्॥ २७॥
ईदृशीम् शिबिकाम् दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् । क्षिप्रम् विनीयताम् वाली प्रेतकार्यम् विधीयताम्॥ २७॥
īdṛśīm śibikām dṛṣṭvā rāmaḥ lakṣmaṇam abravīt . kṣipram vinīyatām vālī pretakāryam vidhīyatām.. 27..
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा । आरोपयत विक्रोशन्नङ्गदेन सहैव तु॥ २८॥
ततस् वालिनम् उद्यम्य सुग्रीवः शिबिकाम् तदा । आरोपयत विक्रोशन् अङ्गदेन सह एव तु॥ २८॥
tatas vālinam udyamya sugrīvaḥ śibikām tadā . āropayata vikrośan aṅgadena saha eva tu.. 28..
आरोप्य शिबिकां चैव वालिनं गतजीवितम् । अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्॥ २९॥
आरोप्य शिबिकाम् च एव वालिनम् गत-जीवितम् । अलंकारैः च विविधैः माल्यैः वस्त्रैः च भूषितम्॥ २९॥
āropya śibikām ca eva vālinam gata-jīvitam . alaṃkāraiḥ ca vividhaiḥ mālyaiḥ vastraiḥ ca bhūṣitam.. 29..
आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः । और्ध्वदेहिकमार्यस्य क्रियतामनुकूलतः॥ ३०॥
आज्ञापयत् तदा राजा सुग्रीवः प्लवग-ईश्वरः । और्ध्वदेहिकम् आर्यस्य क्रियताम् अनुकूलतः॥ ३०॥
ājñāpayat tadā rājā sugrīvaḥ plavaga-īśvaraḥ . aurdhvadehikam āryasya kriyatām anukūlataḥ.. 30..
विश्राणयन्तो रत्नानि विविधानि बहूनि च । अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्॥ ३१॥
रत्नानि विविधानि बहूनि च । अग्रतस् प्लवगाः यान्तु शिबिका तद्-अनन्तरम्॥ ३१॥
ratnāni vividhāni bahūni ca . agratas plavagāḥ yāntu śibikā tad-anantaram.. 31..
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः । तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्॥ ३२॥
राज्ञाम् ऋद्धि-विशेषाः हि दृश्यन्ते भुवि यादृशाः । तादृशैः इह कुर्वन्तु वानराः भर्तृ-सत्क्रियाम्॥ ३२॥
rājñām ṛddhi-viśeṣāḥ hi dṛśyante bhuvi yādṛśāḥ . tādṛśaiḥ iha kurvantu vānarāḥ bhartṛ-satkriyām.. 32..
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् । अङ्गदं परिरभ्याशु तारप्रभृतयस्तदा॥ ३३॥
तादृशम् वालिनः क्षिप्रम् प्राकुर्वन् और्ध्वदेहिकम् । अङ्गदम् परिरभ्य आशु तार-प्रभृतयः तदा॥ ३३॥
tādṛśam vālinaḥ kṣipram prākurvan aurdhvadehikam . aṅgadam parirabhya āśu tāra-prabhṛtayaḥ tadā.. 33..
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः । ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः॥ ३४॥
क्रोशन्तः प्रययुः सर्वे वानराः हत-बान्धवाः । ततस् प्रणिहिताः सर्वाः वानर्यः अस्य वश-अनुगाः॥ ३४॥
krośantaḥ prayayuḥ sarve vānarāḥ hata-bāndhavāḥ . tatas praṇihitāḥ sarvāḥ vānaryaḥ asya vaśa-anugāḥ.. 34..
चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम् । ताराप्रभृतयः सर्वा वानर्यो हतबान्धवाः॥ ३५॥
चुक्रुशुः वीर-वीर-इति भूयस् क्रोशन्ति ताः प्रियम् । तारा-प्रभृतयः सर्वाः वानर्यः हत-बान्धवाः॥ ३५॥
cukruśuḥ vīra-vīra-iti bhūyas krośanti tāḥ priyam . tārā-prabhṛtayaḥ sarvāḥ vānaryaḥ hata-bāndhavāḥ.. 35..
अनुजग्मुश्च भर्तारं क्रोशन्त्यः करुणस्वनाः । तासां रुदितशब्देन वानरीणां वनान्तरे॥ ३६॥
अनुजग्मुः च भर्तारम् क्रोशन्त्यः करुण-स्वनाः । तासाम् रुदित-शब्देन वानरीणाम् वन-अन्तरे॥ ३६॥
anujagmuḥ ca bhartāram krośantyaḥ karuṇa-svanāḥ . tāsām rudita-śabdena vānarīṇām vana-antare.. 36..
वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः । पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते॥ ३७॥
वनानि गिरयः च एव विक्रोशन्ति इव सर्वतस् । पुलिने गिरि-नद्याः तु विविक्ते जल-संवृते॥ ३७॥
vanāni girayaḥ ca eva vikrośanti iva sarvatas . puline giri-nadyāḥ tu vivikte jala-saṃvṛte.. 37..
चितां चक्रुः सुबहवो वानरा वनचारिणः । अवरोप्य ततः स्कन्धाच्छिबिकां वानरोत्तमाः॥ ३८॥
चिताम् चक्रुः सु बहवः वानराः वन-चारिणः । अवरोप्य ततस् स्कन्धात् शिबिकाम् वानर-उत्तमाः॥ ३८॥
citām cakruḥ su bahavaḥ vānarāḥ vana-cāriṇaḥ . avaropya tatas skandhāt śibikām vānara-uttamāḥ.. 38..
तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः । ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्॥ ३९॥
तस्थुः एकान्तम् आश्रित्य सर्वे शोक-परायणाः । ततस् तारा पतिम् दृष्ट्वा शिबिका-तल-शायिनम्॥ ३९॥
tasthuḥ ekāntam āśritya sarve śoka-parāyaṇāḥ . tatas tārā patim dṛṣṭvā śibikā-tala-śāyinam.. 39..
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता । हा वानरमहाराज हा नाथ मम वत्सल॥ ४०॥
आरोप्य अङ्के शिरः तस्य विललाप सु दुःखिता । हा वानर-महा-राज हा नाथ मम वत्सल॥ ४०॥
āropya aṅke śiraḥ tasya vilalāpa su duḥkhitā . hā vānara-mahā-rāja hā nātha mama vatsala.. 40..
हा महार्ह महाबाहो हा मम प्रिय पश्य माम् । जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्॥ ४१॥
हा महार्ह महा-बाहो हा मम प्रिय पश्य माम् । जनम् न पश्यसि इमम् त्वम् कस्मात् शोक-अभिपीडितम्॥ ४१॥
hā mahārha mahā-bāho hā mama priya paśya mām . janam na paśyasi imam tvam kasmāt śoka-abhipīḍitam.. 41..
प्रहृष्टमिह ते वक्त्रं गतासोरपि मानद । अस्तार्कसमवर्णं च दृश्यते जीवतो यथा॥ ४२॥
प्रहृष्टम् इह ते वक्त्रम् गतासोः अपि मानद । अस्त-अर्क-सम-वर्णम् च दृश्यते जीवतः यथा॥ ४२॥
prahṛṣṭam iha te vaktram gatāsoḥ api mānada . asta-arka-sama-varṇam ca dṛśyate jīvataḥ yathā.. 42..
एष त्वां रामरूपेण कालः कर्षति वानर । येन स्म विधवाः सर्वाः कृता एकेषुणा रणे॥ ४३॥
एष त्वाम् राम-रूपेण कालः कर्षति वानर । येन स्म विधवाः सर्वाः कृताः एक-इषुणा रणे॥ ४३॥
eṣa tvām rāma-rūpeṇa kālaḥ karṣati vānara . yena sma vidhavāḥ sarvāḥ kṛtāḥ eka-iṣuṇā raṇe.. 43..
इमास्तास्तव राजेन्द्र वानर्योऽप्लवगास्तव । पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे॥ ४४॥
इमाः ताः तव राज-इन्द्र वानर्यः अप्लवगाः तव । पादैः विकृष्टम् अध्वानम् आगताः किम् न बुध्यसे॥ ४४॥
imāḥ tāḥ tava rāja-indra vānaryaḥ aplavagāḥ tava . pādaiḥ vikṛṣṭam adhvānam āgatāḥ kim na budhyase.. 44..
तवेष्टा ननु चैवेमा भार्याश्चन्द्रनिभाननाः । इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वर॥ ४५॥
तव इष्टाः ननु च एव इमाः भार्याः चन्द्र-निभ-आननाः । इदानीम् ना ईक्षसे कस्मात् सुग्रीवम् प्लवग-ईश्वर॥ ४५॥
tava iṣṭāḥ nanu ca eva imāḥ bhāryāḥ candra-nibha-ānanāḥ . idānīm nā īkṣase kasmāt sugrīvam plavaga-īśvara.. 45..
एते हि सचिवा राजंस्तारप्रभृतयस्तव । पुरवासिजनश्चायं परिवार्य विषीदति॥ ४६॥
एते हि सचिवाः राजन् तार-प्रभृतयः तव । पुर-वासि-जनः च अयम् परिवार्य विषीदति॥ ४६॥
ete hi sacivāḥ rājan tāra-prabhṛtayaḥ tava . pura-vāsi-janaḥ ca ayam parivārya viṣīdati.. 46..
विसर्जयैनान् सचिवान् यथापुरमरिंदम । ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः॥ ४७॥
विसर्जय एनान् सचिवान् यथापुरम् अरिंदम । ततस् क्रीडामहे सर्वाः वनेषु मदन-उत्कटाः॥ ४७॥
visarjaya enān sacivān yathāpuram ariṃdama . tatas krīḍāmahe sarvāḥ vaneṣu madana-utkaṭāḥ.. 47..
एवं विलपतीं तारां पतिशोकपरीवृताम् । उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः॥ ४८॥
एवम् विलपतीम् ताराम् पति-शोक-परीवृताम् । उत्थापयन्ति स्म तदा वानर्यः शोक-कर्शिताः॥ ४८॥
evam vilapatīm tārām pati-śoka-parīvṛtām . utthāpayanti sma tadā vānaryaḥ śoka-karśitāḥ.. 48..
सुग्रीवेण ततः सार्धं सोऽङ्गदः पितरं रुदन् । चितामारोपयामास शोकेनाभिप्लुतेन्द्रियः॥ ४९॥
सुग्रीवेण ततस् सार्धम् सः अङ्गदः पितरम् रुदन् । चिताम् आरोपयामास शोकेन अभिप्लुत-इन्द्रियः॥ ४९॥
sugrīveṇa tatas sārdham saḥ aṅgadaḥ pitaram rudan . citām āropayāmāsa śokena abhipluta-indriyaḥ.. 49..
ततोऽग्निं विधिवद् दत्त्वा सोऽपसव्यं चकार ह । पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः॥ ५०॥
ततस् अग्निम् विधिवत् दत्त्वा सः अपसव्यम् चकार ह । पितरम् दीर्घम् अध्वानम् प्रस्थितम् व्याकुल-इन्द्रियः॥ ५०॥
tatas agnim vidhivat dattvā saḥ apasavyam cakāra ha . pitaram dīrgham adhvānam prasthitam vyākula-indriyaḥ.. 50..
संस्कृत्य वालिनं तं तु विधिवत् प्लवगर्षभाः । आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम्॥ ५१॥
संस्कृत्य वालिनम् तम् तु विधिवत् प्लवग-ऋषभाः । आजग्मुः उदकम् कर्तुम् नदीम् शुभ-जलाम् शिवाम्॥ ५१॥
saṃskṛtya vālinam tam tu vidhivat plavaga-ṛṣabhāḥ . ājagmuḥ udakam kartum nadīm śubha-jalām śivām.. 51..
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः । सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्॥ ५२॥
ततस् ते सहिताः तत्र हि अङ्गदम् स्थाप्य च अग्रतस् । सुग्रीव-तारा-सहिताः सिषिचुः वालिने जलम्॥ ५२॥
tatas te sahitāḥ tatra hi aṅgadam sthāpya ca agratas . sugrīva-tārā-sahitāḥ siṣicuḥ vāline jalam.. 52..
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः । समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्॥ ५३॥
सुग्रीवेण एव दीनेन दीनः भूत्वा महा-बलः । समान-शोकः काकुत्स्थः प्रेतकार्याणि अकारयत्॥ ५३॥
sugrīveṇa eva dīnena dīnaḥ bhūtvā mahā-balaḥ . samāna-śokaḥ kākutsthaḥ pretakāryāṇi akārayat.. 53..
ततोऽथ तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् । प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः॥ ५४॥
ततस् अथ तम् वालिनम् अग्र्य-पौरुषम् प्रकाशम् इक्ष्वाकु-वर-इषुणा हतम् । प्रदीप्य दीप्त-अग्नि-समौजसम् तदा स लक्ष्मणम् रामम् उपेयिवान् हरिः॥ ५४॥
tatas atha tam vālinam agrya-pauruṣam prakāśam ikṣvāku-vara-iṣuṇā hatam . pradīpya dīpta-agni-samaujasam tadā sa lakṣmaṇam rāmam upeyivān hariḥ.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-२५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcaviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In