This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptaviṃśaḥ sargaḥ ..4..
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥ १॥
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम्॥ १॥
abhiṣikte tu sugrīve praviṣṭe vānare guhām . ājagāma saha bhrātrā rāmaḥ prasravaṇam girim.. 1..
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसंकुलम्॥ २॥
शार्दूल-मृग-संघुष्टम् सिंहैः भीम-रवैः वृतम् । नाना गुल्म-लता-गूढम् बहु-पादप-संकुलम्॥ २॥
śārdūla-mṛga-saṃghuṣṭam siṃhaiḥ bhīma-ravaiḥ vṛtam . nānā gulma-latā-gūḍham bahu-pādapa-saṃkulam.. 2..
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् । मेघराशिनिभं शैलं नित्यं शुचिकरं शिवम्॥ ३॥
ऋक्ष-वानर-गोपुच्छैः मार्जारैः च निषेवितम् । मेघ-राशि-निभम् शैलम् नित्यम् शुचि-करम् शिवम्॥ ३॥
ṛkṣa-vānara-gopucchaiḥ mārjāraiḥ ca niṣevitam . megha-rāśi-nibham śailam nityam śuci-karam śivam.. 3..
तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृह्णीत वासार्थं रामः सौमित्रिणा सह॥ ४॥
तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् । प्रत्यगृह्णीत वास-अर्थम् रामः सौमित्रिणा सह॥ ४॥
tasya śailasya śikhare mahatīm āyatām guhām . pratyagṛhṇīta vāsa-artham rāmaḥ saumitriṇā saha.. 4..
कृत्वा च समयं रामः सुग्रीवेण सहानघः । कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः॥ ५॥
कृत्वा च समयम् रामः सुग्रीवेण सह अनघः । काल-युक्तम् महत् वाक्यम् उवाच रघुनन्दनः॥ ५॥
kṛtvā ca samayam rāmaḥ sugrīveṇa saha anaghaḥ . kāla-yuktam mahat vākyam uvāca raghunandanaḥ.. 5..
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् । इयं गिरिगुहा रम्या विशाला युक्तमारुता॥ ६॥
विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि-वर्धनम् । इयम् गिरि-गुहा रम्या विशाला युक्त-मारुता॥ ६॥
vinītam bhrātaram bhrātā lakṣmaṇam lakṣmi-vardhanam . iyam giri-guhā ramyā viśālā yukta-mārutā.. 6..
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम । गिरिशृङ्गमिदं रम्यमुत्तमं पार्थिवात्मज॥ ७॥
अस्याम् वत्स्याम सौमित्रे वर्ष-रात्रम् अरिंदम । गिरि-शृङ्गम् इदम् रम्यम् उत्तमम् पार्थिव-आत्मज॥ ७॥
asyām vatsyāma saumitre varṣa-rātram ariṃdama . giri-śṛṅgam idam ramyam uttamam pārthiva-ātmaja.. 7..
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् । नानाधातुसमाकीर्णं नदीदर्दुरसंयुतम्॥ ८॥
श्वेताभिः कृष्ण-ताम्राभिः शिलाभिः उपशोभितम् । नाना धातु-समाकीर्णम् नदी-दर्दुर-संयुतम्॥ ८॥
śvetābhiḥ kṛṣṇa-tāmrābhiḥ śilābhiḥ upaśobhitam . nānā dhātu-samākīrṇam nadī-dardura-saṃyutam.. 8..
विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम् । नानाविहगसंघुष्टं मयूरवरनादितम्॥ ९॥
विविधैः वृक्ष-षण्डैः च चारु-चित्र-लता-युतम् । नाना विहग-संघुष्टम् मयूर-वर-नादितम्॥ ९॥
vividhaiḥ vṛkṣa-ṣaṇḍaiḥ ca cāru-citra-latā-yutam . nānā vihaga-saṃghuṣṭam mayūra-vara-nāditam.. 9..
मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः । कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्॥ १०॥
मालती-कुन्द-गुल्मैः च सिन्दुवारैः शिरीषकैः । कदम्ब-अर्जुन-सर्जैः च पुष्पितैः उपशोभितम्॥ १०॥
mālatī-kunda-gulmaiḥ ca sinduvāraiḥ śirīṣakaiḥ . kadamba-arjuna-sarjaiḥ ca puṣpitaiḥ upaśobhitam.. 10..
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता । नातिदूरे गुहाया नौ भविष्यति नृपात्मज॥ ११॥
इयम् च नलिनी रम्या फुल्ल-पङ्कज-मण्डिता । न अति दूरे गुहायाः नौ भविष्यति नृप-आत्मज॥ ११॥
iyam ca nalinī ramyā phulla-paṅkaja-maṇḍitā . na ati dūre guhāyāḥ nau bhaviṣyati nṛpa-ātmaja.. 11..
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति । पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति॥ १२॥
प्राच्-उदक्-प्रवणे देशे गुहा साधु भविष्यति । पश्चात् च एव उन्नता सौम्य निवाता इयम् भविष्यति॥ १२॥
prāc-udak-pravaṇe deśe guhā sādhu bhaviṣyati . paścāt ca eva unnatā saumya nivātā iyam bhaviṣyati.. 12..
गुहाद्वारे च सौमित्रे शिला समतला शिवा । कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥ १३॥
गुहा-द्वारे च सौमित्रे शिला सम-तला शिवा । कृष्णा च एव आयता च एव भिन्नाञ्जन-चय-उपमा॥ १३॥
guhā-dvāre ca saumitre śilā sama-talā śivā . kṛṣṇā ca eva āyatā ca eva bhinnāñjana-caya-upamā.. 13..
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् । भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम्॥ १४॥
गिरि-शृङ्गम् इदम् तात पश्य च उत्तरतस् शुभम् । भिन्नाञ्जन-चय-आकारम् अम्भोधरम् इव उदितम्॥ १४॥
giri-śṛṅgam idam tāta paśya ca uttaratas śubham . bhinnāñjana-caya-ākāram ambhodharam iva uditam.. 14..
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम् । कैलासशिखरप्रख्यं नानाधातुविराजितम्॥ १५॥
दक्षिणस्याम् अपि दिशि स्थितम् श्वेतम् इव अम्बरम् । कैलास-शिखर-प्रख्यम् नाना धातु-विराजितम्॥ १५॥
dakṣiṇasyām api diśi sthitam śvetam iva ambaram . kailāsa-śikhara-prakhyam nānā dhātu-virājitam.. 15..
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् । गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव॥ १६॥
प्राचीनवाहिनीम् च एव नदीम् भृश-मकर्दमाम् । गुहायाः परतस् पश्य त्रिकूटे जाह्नवीम् इव॥ १६॥
prācīnavāhinīm ca eva nadīm bhṛśa-makardamām . guhāyāḥ paratas paśya trikūṭe jāhnavīm iva.. 16..
चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः । पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्॥ १७॥
चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः । पद्मकैः सरलैः च एव अशोकैः च एव शोभिताम्॥ १७॥
candanaiḥ tilakaiḥ sālaiḥ tamālaiḥ atimuktakaiḥ . padmakaiḥ saralaiḥ ca eva aśokaiḥ ca eva śobhitām.. 17..
वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि । हिन्तालैस्तिनिशैर्नीपैर्वेतसैः कृतमालकैः॥ १८॥
वानीरैः तिमिदैः च एव बकुलैः केतकैः अपि । हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः॥ १८॥
vānīraiḥ timidaiḥ ca eva bakulaiḥ ketakaiḥ api . hintālaiḥ tiniśaiḥ nīpaiḥ vetasaiḥ kṛtamālakaiḥ.. 18..
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः । वसनाभरणोपेता प्रमदेवाभ्यलंकृता॥ १९॥
तीरजैः शोभिता भाति नाना रूपैः ततस् ततस् । वसन-आभरण-उपेता प्रमदा इव अभ्यलंकृता॥ १९॥
tīrajaiḥ śobhitā bhāti nānā rūpaiḥ tatas tatas . vasana-ābharaṇa-upetā pramadā iva abhyalaṃkṛtā.. 19..
शतशः पक्षिसङ्घैश्च नानानादविनादिता । एकैकमनुरक्तैश्च चक्रवाकैरलंकृता॥ २०॥
शतशस् पक्षि-सङ्घैः च नाना नाद-विनादिता । एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता॥ २०॥
śataśas pakṣi-saṅghaiḥ ca nānā nāda-vināditā . ekaikam anuraktaiḥ ca cakravākaiḥ alaṃkṛtā.. 20..
पुलिनैरतिरम्यैश्च हंससारससेविता । प्रहसन्त्येव भात्येषा नानारत्नसमन्विता॥ २१॥
पुलिनैः अति रम्यैः च हंस-सारस-सेविता । प्रहसन्ती एव भाति एषा नाना रत्न-समन्विता॥ २१॥
pulinaiḥ ati ramyaiḥ ca haṃsa-sārasa-sevitā . prahasantī eva bhāti eṣā nānā ratna-samanvitā.. 21..
क्वचिन्नीलोत्पलैश्छन्ना भातिरक्तोत्पलैः क्वचित् । क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः॥ २२॥
क्वचिद् नीलोत्पलैः छन्ना भाति-रक्त-उत्पलैः क्वचिद् । क्वचिद् आभाति शुक्लैः च दिव्यैः कुमुद-कुड्मलैः॥ २२॥
kvacid nīlotpalaiḥ channā bhāti-rakta-utpalaiḥ kvacid . kvacid ābhāti śuklaiḥ ca divyaiḥ kumuda-kuḍmalaiḥ.. 22..
पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता । रमणीया नदी सौम्य मुनिसङ्घनिषेविता॥ २३॥
पारिप्लव-शतैः जुष्टा बर्हि-क्रौञ्च-विनादिता । रमणीया नदी सौम्य मुनि-सङ्घ-निषेविता॥ २३॥
pāriplava-śataiḥ juṣṭā barhi-krauñca-vināditā . ramaṇīyā nadī saumya muni-saṅgha-niṣevitā.. 23..
पश्य चन्दनवृक्षाणां पङ्क्तिः सुरुचिरा इव । ककुभानां च दृश्यन्ते मनसैवोदिताः समम्॥ २४॥
पश्य चन्दन-वृक्षाणाम् पङ्क्तिः सु रुचिरा इव । ककुभानाम् च दृश्यन्ते मनसा एव उदिताः समम्॥ २४॥
paśya candana-vṛkṣāṇām paṅktiḥ su rucirā iva . kakubhānām ca dṛśyante manasā eva uditāḥ samam.. 24..
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन । दृढं रंस्याव सौमित्रे साध्वत्र निवसावहे॥ २५॥
अहो सु रमणीयः अयम् देशः शत्रु-निषूदन । दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे॥ २५॥
aho su ramaṇīyaḥ ayam deśaḥ śatru-niṣūdana . dṛḍham raṃsyāva saumitre sādhu atra nivasāvahe.. 25..
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज॥ २६॥
इतस् च न अति दूरे सा किष्किन्धा चित्र-कानना । सुग्रीवस्य पुरी रम्या भविष्यति नृप-आत्मज॥ २६॥
itas ca na ati dūre sā kiṣkindhā citra-kānanā . sugrīvasya purī ramyā bhaviṣyati nṛpa-ātmaja.. 26..
गीतवादित्रनिर्घोषः श्रूयते जयतां वर । नदतां वानराणां च मृदङ्गाडम्बरैः सह॥ २७॥
गीत-वादित्र-निर्घोषः श्रूयते जयताम् वर । नदताम् वानराणाम् च मृदङ्ग-आडम्बरैः सह॥ २७॥
gīta-vāditra-nirghoṣaḥ śrūyate jayatām vara . nadatām vānarāṇām ca mṛdaṅga-āḍambaraiḥ saha.. 27..
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः । ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्॥ २८॥
लब्ध्वा भार्याम् कपि-वरः प्राप्य राज्यम् सुहृद्-वृतः । ध्रुवम् नन्दति सुग्रीवः सम्प्राप्य महतीम् श्रियम्॥ २८॥
labdhvā bhāryām kapi-varaḥ prāpya rājyam suhṛd-vṛtaḥ . dhruvam nandati sugrīvaḥ samprāpya mahatīm śriyam.. 28..
इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः । बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ॥ २९॥
इति उक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः । बहु-दृश्य-दरी-कुञ्जे तस्मिन् प्रस्रवणे गिरौ॥ २९॥
iti uktvā nyavasat tatra rāghavaḥ sahalakṣmaṇaḥ . bahu-dṛśya-darī-kuñje tasmin prasravaṇe girau.. 29..
सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे । वसतस्तस्य रामस्य रतिरल्पापि नाभवत्॥ ३०॥
सु सुखे हि बहु-द्रव्ये तस्मिन् हि धरणीधरे । वसतः तस्य रामस्य रतिः अल्पा अपि ना अभवत्॥ ३०॥
su sukhe hi bahu-dravye tasmin hi dharaṇīdhare . vasataḥ tasya rāmasya ratiḥ alpā api nā abhavat.. 30..
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् । उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः॥ ३१॥
हृताम् हि भार्याम् स्मरतः प्राणेभ्यः अपि गरीयसीम् । उदय-अभ्युदितम् दृष्ट्वा शशाङ्कम् च विशेषतः॥ ३१॥
hṛtām hi bhāryām smarataḥ prāṇebhyaḥ api garīyasīm . udaya-abhyuditam dṛṣṭvā śaśāṅkam ca viśeṣataḥ.. 31..
आविवेश न तं निद्रा निशासु शयनं गतम् । तत्समुत्थेन शोकेन बाष्पोपहतचेतनम्॥ ३२॥
आविवेश न तम् निद्रा निशासु शयनम् गतम् । तद्-समुत्थेन शोकेन बाष्प-उपहत-चेतनम्॥ ३२॥
āviveśa na tam nidrā niśāsu śayanam gatam . tad-samutthena śokena bāṣpa-upahata-cetanam.. 32..
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् । तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयं वचः॥ ३३॥
तम् शोचमानम् काकुत्स्थम् नित्यम् शोक-परायणम् । तुल्य-दुःखः अब्रवीत् भ्राता लक्ष्मणः अनुनयम् वचः॥ ३३॥
tam śocamānam kākutstham nityam śoka-parāyaṇam . tulya-duḥkhaḥ abravīt bhrātā lakṣmaṇaḥ anunayam vacaḥ.. 33..
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि । शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते॥ ३४॥
अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि । शोचतः हि अवसीदन्ति सर्व-अर्थाः विदितम् हि ते॥ ३४॥
alam vīra vyathām gatvā na tvam śocitum arhasi . śocataḥ hi avasīdanti sarva-arthāḥ viditam hi te.. 34..
भवान् क्रियापरो लोके भवान् देवपरायणः । आस्तिको धर्मशीलश्च व्यवसायी च राघव॥ ३५॥
भवान् क्रिया-परः लोके भवान् देव-परायणः । आस्तिकः धर्म-शीलः च व्यवसायी च राघव॥ ३५॥
bhavān kriyā-paraḥ loke bhavān deva-parāyaṇaḥ . āstikaḥ dharma-śīlaḥ ca vyavasāyī ca rāghava.. 35..
न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः । समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम्॥ ३६॥
न हि अ व्यवसितः शत्रुम् राक्षसम् तम् विशेषतः । समर्थः त्वम् रणे हन्तुम् विक्रमे जिह्म-कारिणम्॥ ३६॥
na hi a vyavasitaḥ śatrum rākṣasam tam viśeṣataḥ . samarthaḥ tvam raṇe hantum vikrame jihma-kāriṇam.. 36..
समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु । ततः सपरिवारं तं राक्षसं हन्तुमर्हसि॥ ३७॥
समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरीकुरु । ततस् स परिवारम् तम् राक्षसम् हन्तुम् अर्हसि॥ ३७॥
samunmūlaya śokam tvam vyavasāyam sthirīkuru . tatas sa parivāram tam rākṣasam hantum arhasi.. 37..
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् । परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम्॥ ३८॥
पृथिवीम् अपि काकुत्स्थ स सागर-वन-अचलाम् । परिवर्तयितुम् शक्तः किम् पुनर् तम् हि रावणम्॥ ३८॥
pṛthivīm api kākutstha sa sāgara-vana-acalām . parivartayitum śaktaḥ kim punar tam hi rāvaṇam.. 38..
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः । ततः सराष्ट्रं सगणं रावणं तं वधिष्यसि॥ ३९॥
शरद्-कालम् प्रतीक्षस्व प्रावृष्-कालः अयम् आगतः । ततस् स राष्ट्रम् स गणम् रावणम् तम् वधिष्यसि॥ ३९॥
śarad-kālam pratīkṣasva prāvṛṣ-kālaḥ ayam āgataḥ . tatas sa rāṣṭram sa gaṇam rāvaṇam tam vadhiṣyasi.. 39..
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये । दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्॥ ४०॥
अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये । दीप्तैः आहुतिभिः काले भस्म-छन्नम् इव अनलम्॥ ४०॥
aham tu khalu te vīryam prasuptam pratibodhaye . dīptaiḥ āhutibhiḥ kāle bhasma-channam iva analam.. 40..
लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम् । राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्॥ ४१॥
लक्ष्मणस्य हि तत् वाक्यम् प्रतिपूज्य हितम् शुभम् । राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत्॥ ४१॥
lakṣmaṇasya hi tat vākyam pratipūjya hitam śubham . rāghavaḥ suhṛdam snigdham idam vacanam abravīt.. 41..
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च । सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया॥ ४२॥
वाच्यम् यत् अनुरक्तेन स्निग्धेन च हितेन च । सत्य-विक्रम-युक्तेन तत् उक्तम् लक्ष्मण त्वया॥ ४२॥
vācyam yat anuraktena snigdhena ca hitena ca . satya-vikrama-yuktena tat uktam lakṣmaṇa tvayā.. 42..
एष शोकः परित्यक्तः सर्वकार्यावसादकः । विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्॥ ४३॥
एष शोकः परित्यक्तः सर्व-कार्य-अवसादकः । विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम्॥ ४३॥
eṣa śokaḥ parityaktaḥ sarva-kārya-avasādakaḥ . vikrameṣu apratihatam tejaḥ protsāhayāmi aham.. 43..
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव । सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥ ४४॥
शरद्-कालम् प्रतीक्षिष्ये स्थितः अस्मि वचने तव । सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन्॥ ४४॥
śarad-kālam pratīkṣiṣye sthitaḥ asmi vacane tava . sugrīvasya nadīnām ca prasādam anupālayan.. 44..
उपकारेण वीरस्तु प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ४५॥
उपकारेण वीरः तु प्रतिकारेण युज्यते । अकृतज्ञः अप्रतिकृतः हन्ति सत्त्ववताम् मनः॥ ४५॥
upakāreṇa vīraḥ tu pratikāreṇa yujyate . akṛtajñaḥ apratikṛtaḥ hanti sattvavatām manaḥ.. 45..
तदेव युक्तं प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ ४६॥
तत् एव युक्तम् प्रणिधाय लक्ष्मणः कृताञ्जलिः तत् प्रतिपूज्य भाषितम् । उवाच रामम् स्वभिराम-दर्शनम् प्रदर्शयन् दर्शनम् आत्मनः शुभम्॥ ४६॥
tat eva yuktam praṇidhāya lakṣmaṇaḥ kṛtāñjaliḥ tat pratipūjya bhāṣitam . uvāca rāmam svabhirāma-darśanam pradarśayan darśanam ātmanaḥ śubham.. 46..
यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिरात् तु वानरः । शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ ४७॥
यथा उक्तम् एतत् तव सर्वम् ईप्सितम् नरेन्द्र कर्ता नचिरात् तु वानरः । शरद्-प्रतीक्षः क्षमताम् इमम् भवान् जल-प्रपातम् रिपु-निग्रहे धृतः॥ ४७॥
yathā uktam etat tava sarvam īpsitam narendra kartā nacirāt tu vānaraḥ . śarad-pratīkṣaḥ kṣamatām imam bhavān jala-prapātam ripu-nigrahe dhṛtaḥ.. 47..
नियम्य कोपं परिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह । वसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् शत्रुवधे समर्थः॥ ४८॥
नियम्य कोपम् परिपाल्यताम् शरद् क्षमस्व मासान् चतुरः मया सह । वस अचले अस्मिन् मृगराज-सेविते संवर्तयन् शत्रु-वधे समर्थः॥ ४८॥
niyamya kopam paripālyatām śarad kṣamasva māsān caturaḥ mayā saha . vasa acale asmin mṛgarāja-sevite saṃvartayan śatru-vadhe samarthaḥ.. 48..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे सप्तविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe saptaviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In