This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-२८॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे अष्टाविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe aṣṭāviṃśaḥ sargaḥ ..4..
स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च । वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्॥ १॥
स तदा वालिनम् हत्वा सुग्रीवम् अभिषिच्य च । वसन् माल्यवतः पृष्ठे रामः लक्ष्मणम् अब्रवीत्॥ १॥
sa tadā vālinam hatvā sugrīvam abhiṣicya ca . vasan mālyavataḥ pṛṣṭhe rāmaḥ lakṣmaṇam abravīt.. 1..
अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः । सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः॥ २॥
अयम् स कालः सम्प्राप्तः समयः अद्य जलागमः । सम्पश्य त्वम् नभः मेघैः संवृतम् गिरि-संनिभैः॥ २॥
ayam sa kālaḥ samprāptaḥ samayaḥ adya jalāgamaḥ . sampaśya tvam nabhaḥ meghaiḥ saṃvṛtam giri-saṃnibhaiḥ.. 2..
नवमासधृतं गर्भं भास्करस्य गभस्तिभिः । पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्॥ ३॥
नव-मास-धृतम् गर्भम् भास्करस्य गभस्तिभिः । पीत्वा रसम् समुद्राणाम् द्यौः प्रसूते रसायनम्॥ ३॥
nava-māsa-dhṛtam garbham bhāskarasya gabhastibhiḥ . pītvā rasam samudrāṇām dyauḥ prasūte rasāyanam.. 3..
शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः । कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः॥ ४॥
शक्यम् अम्बरम् आरुह्य मेघ-सोपान-पंक्तिभिः । कुटज-अर्जुन-मालाभिः अलंकर्तुम् दिवाकरः॥ ४॥
śakyam ambaram āruhya megha-sopāna-paṃktibhiḥ . kuṭaja-arjuna-mālābhiḥ alaṃkartum divākaraḥ.. 4..
संध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः । स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्॥ ५॥
संध्या-राग-उत्थितैः ताम्रैः अन्तेषु अपि च पाण्डुभिः । स्निग्धैः अभ्र-पट-छेदैः बद्ध-व्रणम् इव अम्बरम्॥ ५॥
saṃdhyā-rāga-utthitaiḥ tāmraiḥ anteṣu api ca pāṇḍubhiḥ . snigdhaiḥ abhra-paṭa-chedaiḥ baddha-vraṇam iva ambaram.. 5..
मन्दमारुतिनिःश्वासं संध्याचन्दनरञ्जितम् । आपाण्डुजलदं भाति कामातुरमिवाम्बरम्॥ ६॥
मन्द-मारुति-निःश्वासम् संध्या-चन्दन-रञ्जितम् । आपाण्डु-जलदम् भाति काम-आतुरम् इव अम्बरम्॥ ६॥
manda-māruti-niḥśvāsam saṃdhyā-candana-rañjitam . āpāṇḍu-jaladam bhāti kāma-āturam iva ambaram.. 6..
एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता । सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति॥ ७॥
एषा घर्म-परिक्लिष्टा नव-वारि-परिप्लुता । सीता इव शोक-संतप्ता मही बाष्पम् विमुञ्चति॥ ७॥
eṣā gharma-parikliṣṭā nava-vāri-pariplutā . sītā iva śoka-saṃtaptā mahī bāṣpam vimuñcati.. 7..
मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः । शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः॥ ८॥
मेघ-उदर-विनिर्मुक्ताः कर्पूर-दल-शीतलाः । शक्यम् अञ्जलिभिः पातुम् वाताः केतक-गन्धिनः॥ ८॥
megha-udara-vinirmuktāḥ karpūra-dala-śītalāḥ . śakyam añjalibhiḥ pātum vātāḥ ketaka-gandhinaḥ.. 8..
एष फुल्लार्जुनः शैलः केतकैरभिवासितः । सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥ ९॥
एष फुल्ल-अर्जुनः शैलः केतकैः अभिवासितः । सुग्रीवः इव शान्त-अरिः धाराभिः अभिषिच्यते॥ ९॥
eṣa phulla-arjunaḥ śailaḥ ketakaiḥ abhivāsitaḥ . sugrīvaḥ iva śānta-ariḥ dhārābhiḥ abhiṣicyate.. 9..
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः । मारुतापूरितगुहाः प्राधीता इव पर्वताः॥ १०॥
मेघ-कृष्ण-अजिन-धराः धारा-यज्ञ-उपवीतिनः । मारुत-आपूरित-गुहाः प्राधीताः इव पर्वताः॥ १०॥
megha-kṛṣṇa-ajina-dharāḥ dhārā-yajña-upavītinaḥ . māruta-āpūrita-guhāḥ prādhītāḥ iva parvatāḥ.. 10..
कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् । अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्॥ ११॥
कशाभिः इव हैमीभिः विद्युद्भिः अभिताडितम् । अन्तर् स्तनित-निर्घोषम् स वेदनम् इव अम्बरम्॥ ११॥
kaśābhiḥ iva haimībhiḥ vidyudbhiḥ abhitāḍitam . antar stanita-nirghoṣam sa vedanam iva ambaram.. 11..
नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी॥ १२॥
नील-मेघ-आश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावणस्य अङ्के वैदेही इव तपस्विनी॥ १२॥
nīla-megha-āśritā vidyut sphurantī pratibhāti me . sphurantī rāvaṇasya aṅke vaidehī iva tapasvinī.. 12..
इमास्ता मन्मथवतां हिताः प्रतिहता दिशः । अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥ १३॥
इमाः ताः मन्मथवताम् हिताः प्रतिहताः दिशः । अनुलिप्ताः इव घनैः नष्ट-ग्रह-निशाकराः॥ १३॥
imāḥ tāḥ manmathavatām hitāḥ pratihatāḥ diśaḥ . anuliptāḥ iva ghanaiḥ naṣṭa-graha-niśākarāḥ.. 13..
क्वचिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान् । कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु । मम शोकाभिभूतस्य कामसंदीपनान् स्थितान्॥ १४॥
क्वचिद् बाष्प-अभिसंरुद्धान् वर्षागम-समुत्सुकान् । कुटजान् पश्य सौमित्रे पुष्पितान् गिरि-सानुषु । मम शोक-अभिभूतस्य काम-संदीपनान् स्थितान्॥ १४॥
kvacid bāṣpa-abhisaṃruddhān varṣāgama-samutsukān . kuṭajān paśya saumitre puṣpitān giri-sānuṣu . mama śoka-abhibhūtasya kāma-saṃdīpanān sthitān.. 14..
रजः प्रशान्तं सहिमोऽद्य वायु- र्निदाघदोषप्रसराः प्रशान्ताः । स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्॥ १५॥
रजः प्रशान्तम् सहिमः अद्य वायुः निदाघ-दोष-प्रसराः प्रशान्ताः । स्थिताः हि यात्राः वसुधा-अधिपानाम् प्रवासिनः यान्ति नराः स्व-देशान्॥ १५॥
rajaḥ praśāntam sahimaḥ adya vāyuḥ nidāgha-doṣa-prasarāḥ praśāntāḥ . sthitāḥ hi yātrāḥ vasudhā-adhipānām pravāsinaḥ yānti narāḥ sva-deśān.. 15..
सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः । अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति॥ १६॥
सम्प्रस्थिताः मानस-वास-लुब्धाः प्रिय-अन्विताः सम्प्रति चक्रवाकाः । अभीक्ष्ण-वर्ष-उदक-विक्षतेषु यानानि मार्गेषु न सम्पतन्ति॥ १६॥
samprasthitāḥ mānasa-vāsa-lubdhāḥ priya-anvitāḥ samprati cakravākāḥ . abhīkṣṇa-varṣa-udaka-vikṣateṣu yānāni mārgeṣu na sampatanti.. 16..
क्वचित् प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति । क्वचित् क्वचित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य॥ १७॥
क्वचिद् प्रकाशम् क्वचिद् अप्रकाशम् नभः प्रकीर्ण-अम्बुधरम् विभाति । क्वचिद् क्वचिद् पर्वत-संनिरुद्धम् रूपम् यथा शान्त-महा-अर्णवस्य॥ १७॥
kvacid prakāśam kvacid aprakāśam nabhaḥ prakīrṇa-ambudharam vibhāti . kvacid kvacid parvata-saṃniruddham rūpam yathā śānta-mahā-arṇavasya.. 17..
व्यामिश्रितं सर्जकदम्बपुष्पै- र्नवं जलं पर्वतधातुताम्रम् । मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति॥ १८॥
व्यामिश्रितम् सर्ज-कदम्ब-पुष्पैः नवम् जलम् पर्वत-धातु-ताम्रम् । मयूर-केकाभिः अनुप्रयातम् शैल-आपगाः शीघ्रतरम् वहन्ति॥ १८॥
vyāmiśritam sarja-kadamba-puṣpaiḥ navam jalam parvata-dhātu-tāmram . mayūra-kekābhiḥ anuprayātam śaila-āpagāḥ śīghrataram vahanti.. 18..
रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम् । अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्॥ १९॥
रस-आकुलम् षट्पद-संनिकाशम् प्रभुज्यते जम्बु-फलम् प्रकामम् । अनेक-वर्णम् पवन-अवधूतम् भूमौ पतति आम्र-फलम् विपक्वम्॥ १९॥
rasa-ākulam ṣaṭpada-saṃnikāśam prabhujyate jambu-phalam prakāmam . aneka-varṇam pavana-avadhūtam bhūmau patati āmra-phalam vipakvam.. 19..
विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः । गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥ २०॥
विद्युत्पताकाः सबलाक-मालाः शैलेन्द्र-कूट-आकृति-संनिकाशाः । गर्जन्ति मेघाः समुदीर्ण-नादाः मत्ताः गज-इन्द्राः इव संयुग-स्थाः॥ २०॥
vidyutpatākāḥ sabalāka-mālāḥ śailendra-kūṭa-ākṛti-saṃnikāśāḥ . garjanti meghāḥ samudīrṇa-nādāḥ mattāḥ gaja-indrāḥ iva saṃyuga-sthāḥ.. 20..
वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि । वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति॥ २१॥
वर्ष-उदक-आप्यायित-शाद्वलानि प्रवृत्त-नृत्त-उत्सव-बर्हिणानि । वनानि निर्वृष्ट-बलाहकानि पश्य अपराह्णेषु अधिकम् विभान्ति॥ २१॥
varṣa-udaka-āpyāyita-śādvalāni pravṛtta-nṛtta-utsava-barhiṇāni . vanāni nirvṛṣṭa-balāhakāni paśya aparāhṇeṣu adhikam vibhānti.. 21..
समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः । महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति॥ २२॥
समुद्वहन्तः सलिल-अति भारम् बलाकिनः वारिधराः नदन्तः । महत्सु शृङ्गेषु महीधराणाम् विश्रम्य विश्रम्य पुनर् प्रयान्ति॥ २२॥
samudvahantaḥ salila-ati bhāram balākinaḥ vāridharāḥ nadantaḥ . mahatsu śṛṅgeṣu mahīdharāṇām viśramya viśramya punar prayānti.. 22..
मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाकपंक्तिः । वातावधूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य॥ २३॥
मेघ-अभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाक-पंक्तिः । वात-अवधूता वर-पौण्डरीकी लम्बा इव माला रुचिर-अम्बरस्य॥ २३॥
megha-abhikāmā parisampatantī sammoditā bhāti balāka-paṃktiḥ . vāta-avadhūtā vara-pauṇḍarīkī lambā iva mālā rucira-ambarasya.. 23..
बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन । गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन॥ २४॥
बाल-इन्द्रगोप-अन्तर-चित्रितेन विभाति भूमिः नव-शाद्वलेन । गात्र-अनुपृक्तेन शुक-प्रभेण नारी इव लाक्षा-उक्षित-कम्बलेन॥ २४॥
bāla-indragopa-antara-citritena vibhāti bhūmiḥ nava-śādvalena . gātra-anupṛktena śuka-prabheṇa nārī iva lākṣā-ukṣita-kambalena.. 24..
निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति । हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति॥ २५॥
निद्रा शनैस् केशवम् अभ्युपैति द्रुतम् नदी सागरम् अभ्युपैति । हृष्टा बलाका घनम् अभ्युपैति कान्ता स कामा प्रियम् अभ्युपैति॥ २५॥
nidrā śanais keśavam abhyupaiti drutam nadī sāgaram abhyupaiti . hṛṣṭā balākā ghanam abhyupaiti kāntā sa kāmā priyam abhyupaiti.. 25..
जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः । जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा॥ २६॥
जाताः वन-अन्ताः शिखि-सु प्रनृत्ताः जाताः कदम्बाः स कदम्ब-शाखाः । जाताः वृषाः गोषु समान-कामाः जाता मही सस्य-वन-अभिरामा॥ २६॥
jātāḥ vana-antāḥ śikhi-su pranṛttāḥ jātāḥ kadambāḥ sa kadamba-śākhāḥ . jātāḥ vṛṣāḥ goṣu samāna-kāmāḥ jātā mahī sasya-vana-abhirāmā.. 26..
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगमाः॥ २७॥
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यः घनाः मत्त-गजाः वन-अन्ताः प्रिया-विहीनाः शिखिनः प्लवंगमाः॥ २७॥
vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti . nadyaḥ ghanāḥ matta-gajāḥ vana-antāḥ priyā-vihīnāḥ śikhinaḥ plavaṃgamāḥ.. 27..
प्रहर्षिताः केतकिपुष्पगन्ध- माघ्राय मत्ता वननिर्झरेषु । प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति॥ २८॥
प्रहर्षिताः केतकि-पुष्प-गन्धम् आघ्राय मत्ताः वन-निर्झरेषु । प्रपात-शब्द-आकुलिताः गज-इन्द्राः सार्धम् मयूरैः समदाः नदन्ति॥ २८॥
praharṣitāḥ ketaki-puṣpa-gandham āghrāya mattāḥ vana-nirjhareṣu . prapāta-śabda-ākulitāḥ gaja-indrāḥ sārdham mayūraiḥ samadāḥ nadanti.. 28..
धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः । क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति॥ २९॥
धारा-निपातैः अभिहन्यमानाः कदम्ब-शाखासु विलम्बमानाः । क्षण-अर्जितम् पुष्प-रसा अवगाढम् शनैस् मदम् षट्चरणाः त्यजन्ति॥ २९॥
dhārā-nipātaiḥ abhihanyamānāḥ kadamba-śākhāsu vilambamānāḥ . kṣaṇa-arjitam puṣpa-rasā avagāḍham śanais madam ṣaṭcaraṇāḥ tyajanti.. 29..
अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः । जम्बूद्रुमाणां प्रविभान्ति शाखा निपीयमाना इव षट्पदौघैः॥ ३०॥
अङ्गार-चूर्ण-उत्कर-संनिकाशैः फलैः सु पर्याप्त-रसैः समृद्धैः । जम्बु-द्रुमाणाम् प्रविभान्ति शाखाः निपीयमानाः इव षट्पद-ओघैः॥ ३०॥
aṅgāra-cūrṇa-utkara-saṃnikāśaiḥ phalaiḥ su paryāpta-rasaiḥ samṛddhaiḥ . jambu-drumāṇām pravibhānti śākhāḥ nipīyamānāḥ iva ṣaṭpada-oghaiḥ.. 30..
तडित्पताकाभिरलंकृताना- मुदीर्णगम्भीरमहारवाणाम् । विभान्ति रूपाणि बलाहकानां रणोत्सुकानामिव वारणानाम्॥ ३१॥
तडित्-पताकाभिः अलंकृतानाम् उदीर्ण-गम्भीर-महा-रवाणाम् । विभान्ति रूपाणि बलाहकानाम् रण-उत्सुकानाम् इव वारणानाम्॥ ३१॥
taḍit-patākābhiḥ alaṃkṛtānām udīrṇa-gambhīra-mahā-ravāṇām . vibhānti rūpāṇi balāhakānām raṇa-utsukānām iva vāraṇānām.. 31..
मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य । युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः॥ ३२॥
मार्ग-अनुगः शैल-वन-अनुसारी सम्प्रस्थितः मेघ-रवम् निशम्य । युद्ध-अभिकामः प्रतिनाद-शङ्की मत्तः गज-इन्द्रः प्रतिसंनिवृत्तः॥ ३२॥
mārga-anugaḥ śaila-vana-anusārī samprasthitaḥ megha-ravam niśamya . yuddha-abhikāmaḥ pratināda-śaṅkī mattaḥ gaja-indraḥ pratisaṃnivṛttaḥ.. 32..
क्वचित् प्रगीता इव षट्पदौघैः क्वचित् प्रनृत्ता इव नीलकण्ठैः । क्वचित् प्रमत्ता इव वारणेन्द्रै- र्विभान्त्यनेकाश्रयिणो वनान्ताः॥ ३३॥
क्वचिद् प्रगीताः इव षट्पद-ओघैः क्वचिद् प्रनृत्ताः इव नीलकण्ठैः । क्वचिद् प्रमत्ताः इव वारण-इन्द्रैः विभान्ति अनेक-आश्रयिणः वनान्ताः॥ ३३॥
kvacid pragītāḥ iva ṣaṭpada-oghaiḥ kvacid pranṛttāḥ iva nīlakaṇṭhaiḥ . kvacid pramattāḥ iva vāraṇa-indraiḥ vibhānti aneka-āśrayiṇaḥ vanāntāḥ.. 33..
कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्मधुवारिपूर्णा । मयूरमत्ताभिरुतप्रनृत्तै- रापानभूमिप्रतिमा विभाति॥ ३४॥
। मयूर-मत्त-अभिरुत-प्रनृत्तैः रा पान-भूमि-प्रतिमा विभाति॥ ३४॥
. mayūra-matta-abhiruta-pranṛttaiḥ rā pāna-bhūmi-pratimā vibhāti.. 34..
मुक्तासमाभं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम् । हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति॥ ३५॥
मुक्ता-सम-आभम् सलिलम् पतत् वै सु निर्मलम् पत्र-पुटेषु लग्नम् । हृष्टाः विवर्ण-छदनाः विहंगाः सुर-इन्द्र-दत्तम् तृषिताः पिबन्ति॥ ३५॥
muktā-sama-ābham salilam patat vai su nirmalam patra-puṭeṣu lagnam . hṛṣṭāḥ vivarṇa-chadanāḥ vihaṃgāḥ sura-indra-dattam tṛṣitāḥ pibanti.. 35..
षट्पादतन्त्रीमधुराभिधानं प्लवंगमोदीरितकण्ठतालम् । आविष्कृतं मेघमृदङ्गनादै- र्वनेषु संगीतमिव प्रवृत्तम्॥ ३६॥
षट्पाद-तन्त्रीमधुर-अभिधानम् प्लवंगम-उदीरित-कण्ठ-तालम् । आविष्कृतम् मेघ-मृदङ्ग-नादैः वनेषु संगीतम् इव प्रवृत्तम्॥ ३६॥
ṣaṭpāda-tantrīmadhura-abhidhānam plavaṃgama-udīrita-kaṇṭha-tālam . āviṣkṛtam megha-mṛdaṅga-nādaiḥ vaneṣu saṃgītam iva pravṛttam.. 36..
क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः । व्यालम्बबर्हाभरणैर्मयूरै- र्वनेषु संगीतमिव प्रवृत्तम्॥ ३७॥
क्वचिद् प्रनृत्तैः क्वचिद् उन्नदद्भिः क्वचिद् च वृक्ष-अग्र-निषण्ण-कायैः । व्यालम्ब-बर्ह-आभरणैः मयूरैः वनेषु संगीतम् इव प्रवृत्तम्॥ ३७॥
kvacid pranṛttaiḥ kvacid unnadadbhiḥ kvacid ca vṛkṣa-agra-niṣaṇṇa-kāyaiḥ . vyālamba-barha-ābharaṇaiḥ mayūraiḥ vaneṣu saṃgītam iva pravṛttam.. 37..
स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम् । अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति॥ ३८॥
स्वनैः घनानाम् प्लवगाः प्रबुद्धाः विहाय निद्राम् चिर-संनिरुद्धाम् । अनेक-रूप-आकृति-वर्ण-नादाः नव-अम्बु-धारा-अभिहताः नदन्ति॥ ३८॥
svanaiḥ ghanānām plavagāḥ prabuddhāḥ vihāya nidrām cira-saṃniruddhām . aneka-rūpa-ākṛti-varṇa-nādāḥ nava-ambu-dhārā-abhihatāḥ nadanti.. 38..
नद्यः समुद्वाहितचक्रवाका- स्तटानि शीर्णान्यपवाहयित्वा । दृप्ता नवप्रावृतपूर्णभोगा- दृतं स्वभर्तारमुपोपयान्ति॥ ३९॥
नद्यः समुद्वाहित-चक्रवाकाः स्तटानि शीर्णानि अपवाहयित्वा । दृप्ताः नव-प्रावृत-पूर्ण-भोगाः दृतम् स्व-भर्तारम् उपोपयान्ति॥ ३९॥
nadyaḥ samudvāhita-cakravākāḥ staṭāni śīrṇāni apavāhayitvā . dṛptāḥ nava-prāvṛta-pūrṇa-bhogāḥ dṛtam sva-bhartāram upopayānti.. 39..
नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः । दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः॥ ४०॥
नीलेषु नीलाः नव-वारि-पूर्णाः मेघेषु मेघाः प्रतिभान्ति सक्ताः । दव-अग्नि-दग्धेषु दव-अग्नि-दग्धाः शैलेषु शैलाः इव बद्ध-मूलाः॥ ४०॥
nīleṣu nīlāḥ nava-vāri-pūrṇāḥ megheṣu meghāḥ pratibhānti saktāḥ . dava-agni-dagdheṣu dava-agni-dagdhāḥ śaileṣu śailāḥ iva baddha-mūlāḥ.. 40..
प्रमत्तसंनादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि । चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि॥ ४१॥
प्रमत्त-संनादित-बर्हिणानि स शक्रगोप-आकुल-शाद्वलानि । चरन्ति नीप-अर्जुन-वासितानि गजाः सु रम्याणि वन-अन्तराणि॥ ४१॥
pramatta-saṃnādita-barhiṇāni sa śakragopa-ākula-śādvalāni . caranti nīpa-arjuna-vāsitāni gajāḥ su ramyāṇi vana-antarāṇi.. 41..
नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि । कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिबन्ति॥ ४२॥
नव-अम्बु-धारा-हत-केसराणि द्रुतम् परित्यज्य सरोरुहाणि । कदम्ब-पुष्पाणि स केसराणि नवानि हृष्टाः भ्रमराः पिबन्ति॥ ४२॥
nava-ambu-dhārā-hata-kesarāṇi drutam parityajya saroruhāṇi . kadamba-puṣpāṇi sa kesarāṇi navāni hṛṣṭāḥ bhramarāḥ pibanti.. 42..
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः । रम्या नगेन्द्राः निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः॥ ४३॥
मत्ताः गज-इन्द्राः मुदिताः गवेन्द्राः वनेषु विक्रान्ततराः मृग-इन्द्राः । रम्याः नग-इन्द्राः निभृताः नरेन्द्राः प्रक्रीडितः वारिधरैः सुर-इन्द्रः॥ ४३॥
mattāḥ gaja-indrāḥ muditāḥ gavendrāḥ vaneṣu vikrāntatarāḥ mṛga-indrāḥ . ramyāḥ naga-indrāḥ nibhṛtāḥ narendrāḥ prakrīḍitaḥ vāridharaiḥ sura-indraḥ.. 43..
मेघाः समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः । नदीस्तटाकानि सरांसि वापी- र्महीं च कृत्स्नामपवाहयन्ति॥ ४४॥
मेघाः समुद्भूत-समुद्र-नादाः महा-जल-ओघैः गगन-अवलम्बाः । नदीः तटाकानि सरांसि वापीः महीम् च कृत्स्नाम् अपवाहयन्ति॥ ४४॥
meghāḥ samudbhūta-samudra-nādāḥ mahā-jala-oghaiḥ gagana-avalambāḥ . nadīḥ taṭākāni sarāṃsi vāpīḥ mahīm ca kṛtsnām apavāhayanti.. 44..
वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः । प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलं विप्रतिपन्नमार्गाः॥ ४५॥
वर्ष-प्रवेगाः विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्ण-वेगाः । प्रणष्ट-कूलाः प्रवहन्ति शीघ्रम् नद्यः जलम् विप्रतिपन्न-मार्गाः॥ ४५॥
varṣa-pravegāḥ vipulāḥ patanti pravānti vātāḥ samudīrṇa-vegāḥ . praṇaṣṭa-kūlāḥ pravahanti śīghram nadyaḥ jalam vipratipanna-mārgāḥ.. 45..
नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः । घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति॥ ४६॥
नरैः नरेन्द्राः इव पर्वत-इन्द्राः सुर-इन्द्र-दत्तैः पवन-उपनीतैः । घन-अम्बु-कुम्भैः अभिषिच्यमानाः रूपम् श्रियम् स्वामि इव दर्शयन्ति॥ ४६॥
naraiḥ narendrāḥ iva parvata-indrāḥ sura-indra-dattaiḥ pavana-upanītaiḥ . ghana-ambu-kumbhaiḥ abhiṣicyamānāḥ rūpam śriyam svāmi iva darśayanti.. 46..
घनोपगूढं गगनं न तारा न भास्करो दर्शनमभ्युपैति । नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः॥ ४७॥
घन-उपगूढम् गगनम् न तारा न भास्करः दर्शनम् अभ्युपैति । नवैः जल-ओघैः धरणी वितृप्ता तमः-विलिप्ताः न दिशः प्रकाशाः॥ ४७॥
ghana-upagūḍham gaganam na tārā na bhāskaraḥ darśanam abhyupaiti . navaiḥ jala-oghaiḥ dharaṇī vitṛptā tamaḥ-viliptāḥ na diśaḥ prakāśāḥ.. 47..
महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति । महाप्रमाणैर्विपुलैः प्रपातै- र्मुक्ताकलापैरिव लम्बमानैः॥ ४८॥
महान्ति कूटानि महीधराणाम् धारा-विधौतानि अधिकम् विभान्ति । महा-प्रमाणैः विपुलैः प्रपातैः मुक्ता-कलापैः इव लम्बमानैः॥ ४८॥
mahānti kūṭāni mahīdharāṇām dhārā-vidhautāni adhikam vibhānti . mahā-pramāṇaiḥ vipulaiḥ prapātaiḥ muktā-kalāpaiḥ iva lambamānaiḥ.. 48..
शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः । गुहासु संनादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति॥ ४९॥
शैल-उपल-प्रस्खलमान-वेगाः शैल-उत्तमानाम् विपुलाः प्रपाताः । गुहासु संनादित-बर्हिणासु हाराः विकीर्यन्ते इव अवभान्ति॥ ४९॥
śaila-upala-praskhalamāna-vegāḥ śaila-uttamānām vipulāḥ prapātāḥ . guhāsu saṃnādita-barhiṇāsu hārāḥ vikīryante iva avabhānti.. 49..
शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम् । मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते॥ ५०॥
शीघ्र-प्रवेगाः विपुलाः प्रपाताः निर्धौत-शृङ्ग-उपतलाः गिरीणाम् । मुक्ता-कलाप-प्रतिमाः पतन्तः महा-गुहा-उत्सङ्ग-तलैः ध्रियन्ते॥ ५०॥
śīghra-pravegāḥ vipulāḥ prapātāḥ nirdhauta-śṛṅga-upatalāḥ girīṇām . muktā-kalāpa-pratimāḥ patantaḥ mahā-guhā-utsaṅga-talaiḥ dhriyante.. 50..
सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः । पतन्ति चातुला दिक्षु तोयधाराः समन्ततः॥ ५१॥
सुरत-आमर्द-विच्छिन्नाः स्वर्ग-स्त्री-हार-मौक्तिकाः । पतन्ति च अतुलाः दिक्षु तोय-धाराः समन्ततः॥ ५१॥
surata-āmarda-vicchinnāḥ svarga-strī-hāra-mauktikāḥ . patanti ca atulāḥ dikṣu toya-dhārāḥ samantataḥ.. 51..
विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥ ५२॥
विलीयमानैः विहगैः निमीलद्भिः च पङ्कजैः । विकसन्त्या च मालत्या गतः अस्तम् ज्ञायते रविः॥ ५२॥
vilīyamānaiḥ vihagaiḥ nimīladbhiḥ ca paṅkajaiḥ . vikasantyā ca mālatyā gataḥ astam jñāyate raviḥ.. 52..
वृत्ता यात्रा नरेन्द्राणां सेना पथ्येव वर्तते । वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥ ५३॥
वृत्ता यात्रा नरेन्द्राणाम् सेना पथ्या इव वर्तते । वैराणि च एव मार्गाः च सलिलेन समीकृताः॥ ५३॥
vṛttā yātrā narendrāṇām senā pathyā iva vartate . vairāṇi ca eva mārgāḥ ca salilena samīkṛtāḥ.. 53..
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् । अयमध्यायसमयः सामगानामुपस्थितः॥ ५४॥
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् । अयम् अध्याय-समयः सामगानाम् उपस्थितः॥ ५४॥
māsi prauṣṭhapade brahma brāhmaṇānām vivakṣatām . ayam adhyāya-samayaḥ sāmagānām upasthitaḥ.. 54..
निवृत्तकर्मायतनो नूनं संचितसंचयः । आषाढीमभ्युपगतो भरतः कोसलाधिपः॥ ५५॥
निवृत्त-कर्म-आयतनः नूनम् संचित-संचयः । आषाढीम् अभ्युपगतः भरतः कोसल-अधिपः॥ ५५॥
nivṛtta-karma-āyatanaḥ nūnam saṃcita-saṃcayaḥ . āṣāḍhīm abhyupagataḥ bharataḥ kosala-adhipaḥ.. 55..
नूनमापूर्यमाणायाः सरय्वा वर्धते रयः । मां समीक्ष्य समायान्तमयोध्याया इव स्वनः॥ ५६॥
नूनम् आपूर्यमाणायाः सरय्वाः वर्धते रयः । माम् समीक्ष्य समायान्तम् अयोध्यायाः इव स्वनः॥ ५६॥
nūnam āpūryamāṇāyāḥ sarayvāḥ vardhate rayaḥ . mām samīkṣya samāyāntam ayodhyāyāḥ iva svanaḥ.. 56..
इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते । विजितारिः सदारश्च राज्ये महति च स्थितः॥ ५७॥
इमाः स्फीत-गुणाः वर्षाः सुग्रीवः सुखम् अश्नुते । विजित-अरिः स दारः च राज्ये महति च स्थितः॥ ५७॥
imāḥ sphīta-guṇāḥ varṣāḥ sugrīvaḥ sukham aśnute . vijita-ariḥ sa dāraḥ ca rājye mahati ca sthitaḥ.. 57..
अहं तु हृतदारश्च राज्याच्च महतश्च्युतः । नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण॥ ५८॥
अहम् तु हृत-दारः च राज्यात् च महतः च्युतः । नदी-कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण॥ ५८॥
aham tu hṛta-dāraḥ ca rājyāt ca mahataḥ cyutaḥ . nadī-kūlam iva klinnam avasīdāmi lakṣmaṇa.. 58..
शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः । रावणश्च महाञ्छत्रुरपारः प्रतिभाति मे॥ ५९॥
शोकः च मम विस्तीर्णः वर्षाः च भृश-दुर्गमाः । रावणः च महान् शत्रुः अपारः प्रतिभाति मे॥ ५९॥
śokaḥ ca mama vistīrṇaḥ varṣāḥ ca bhṛśa-durgamāḥ . rāvaṇaḥ ca mahān śatruḥ apāraḥ pratibhāti me.. 59..
अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् । प्रणते चैव सुग्रीवे न मया किंचिदीरितम्॥ ६०॥
अयात्राम् च एव दृष्ट्वा इमाम् मार्गान् च भृश-दुर्गमान् । प्रणते च एव सुग्रीवे न मया किंचिद् ईरितम्॥ ६०॥
ayātrām ca eva dṛṣṭvā imām mārgān ca bhṛśa-durgamān . praṇate ca eva sugrīve na mayā kiṃcid īritam.. 60..
अपि चापि परिक्लिष्टं चिराद् दारैः समागतम् । आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्॥ ६१॥
अपि च अपि परिक्लिष्टम् चिरात् दारैः समागतम् । आत्म-कार्य-गरीयः-त्वात् वक्तुम् ना इच्छामि वानरम्॥ ६१॥
api ca api parikliṣṭam cirāt dāraiḥ samāgatam . ātma-kārya-garīyaḥ-tvāt vaktum nā icchāmi vānaram.. 61..
स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् । उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः॥ ६२॥
स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् । उपकारम् च सुग्रीवः वेत्स्यते न अत्र संशयः॥ ६२॥
svayam eva hi viśramya jñātvā kālam upāgatam . upakāram ca sugrīvaḥ vetsyate na atra saṃśayaḥ.. 62..
तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण । सुग्रीवस्य नदीनां च प्रसादमभिकांक्षयन्॥ ६३॥
तस्मात् काल-प्रतीक्षः अहम् स्थितः अस्मि शुभ-लक्षण । सुग्रीवस्य नदीनाम् च प्रसादम् अभिकांक्षयन्॥ ६३॥
tasmāt kāla-pratīkṣaḥ aham sthitaḥ asmi śubha-lakṣaṇa . sugrīvasya nadīnām ca prasādam abhikāṃkṣayan.. 63..
उपकारेण वीरो हि प्रतीकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ६४॥
उपकारेण वीरः हि प्रतीकारेण युज्यते । अकृतज्ञः अप्रतिकृतः हन्ति सत्त्ववताम् मनः॥ ६४॥
upakāreṇa vīraḥ hi pratīkāreṇa yujyate . akṛtajñaḥ apratikṛtaḥ hanti sattvavatām manaḥ.. 64..
अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ ६५॥
अथा एवम् उक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिः तत् प्रतिपूज्य भाषितम् । उवाच रामम् स्वभिराम-दर्शनम् प्रदर्शयन् दर्शनम् आत्मनः शुभम्॥ ६५॥
athā evam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjaliḥ tat pratipūjya bhāṣitam . uvāca rāmam svabhirāma-darśanam pradarśayan darśanam ātmanaḥ śubham.. 65..
यदुक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः । शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ ६६॥
यत् उक्तम् एतत् तव सर्वम् ईप्सितम् नरेन्द्र कर्ता नचिरात् हरि-ईश्वरः । शरद्-प्रतीक्षः क्षमताम् इमम् भवान् जल-प्रपातम् रिपु-निग्रहे धृतः॥ ६६॥
yat uktam etat tava sarvam īpsitam narendra kartā nacirāt hari-īśvaraḥ . śarad-pratīkṣaḥ kṣamatām imam bhavān jala-prapātam ripu-nigrahe dhṛtaḥ.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-२८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे अष्टाविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe aṣṭāviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In