This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-२९॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकोनत्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekonatriṃśaḥ sargaḥ ..4..
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् । सारसाकुलसंघुष्टं रम्यज्योत्स्नानुलेपनम्॥ १॥
समीक्ष्य विमलम् व्योम गत-विद्युत्-बलाहकम् । ॥ १॥
samīkṣya vimalam vyoma gata-vidyut-balāhakam . .. 1..
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् । अत्यर्थं चासतां मार्गमेकान्तगतमानसम्॥ २॥
समृद्ध-अर्थम् च सुग्रीवम् मन्द-धर्म-अर्थ-संग्रहम् । अत्यर्थम् च असताम् मार्गम् एकान्त-गत-मानसम्॥ २॥
samṛddha-artham ca sugrīvam manda-dharma-artha-saṃgraham . atyartham ca asatām mārgam ekānta-gata-mānasam.. 2..
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्॥ ३॥
निवृत्त-कार्यम् सिद्धार्थम् प्रमदा-अभिरतम् सदा । प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान्॥ ३॥
nivṛtta-kāryam siddhārtham pramadā-abhiratam sadā . prāptavantam abhipretān sarvān eva manorathān.. 3..
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्॥ ४॥
स्वाम् च पत्नीम् अभिप्रेताम् ताराम् च अपि समीप्सिताम् । विहरन्तम् अहोरात्रम् कृतार्थम् विगत-ज्वरम्॥ ४॥
svām ca patnīm abhipretām tārām ca api samīpsitām . viharantam ahorātram kṛtārtham vigata-jvaram.. 4..
क्रीडन्तमिव देवेशं गन्धर्वाप्सरसां गणैः । मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्॥ ५॥
क्रीडन्तम् इव देवेशम् गन्धर्व-अप्सरसाम् गणैः । मन्त्रिषु न्यस्त-कार्यम् च मन्त्रिणाम् अनवेक्षकम्॥ ५॥
krīḍantam iva deveśam gandharva-apsarasām gaṇaiḥ . mantriṣu nyasta-kāryam ca mantriṇām anavekṣakam.. 5..
उच्छिन्नराज्यसंदेहं कामवृत्तमिव स्थितम् । निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्॥ ६॥
उच्छिन्न-राज्य-संदेहम् काम-वृत्तम् इव स्थितम् । निश्चित-अर्थः अर्थ-तत्त्व-ज्ञः काल-धर्म-विशेष-विद्॥ ६॥
ucchinna-rājya-saṃdeham kāma-vṛttam iva sthitam . niścita-arthaḥ artha-tattva-jñaḥ kāla-dharma-viśeṣa-vid.. 6..
प्रसाद्य वाक्यैर्विविधैर्हेतुमद्भिर्मनोरमैः । वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः॥ ७॥
प्रसाद्य वाक्यैः विविधैः हेतुमद्भिः मनोरमैः । वाक्य-विद् वाक्य-तत्त्व-ज्ञम् हरि-ईशम् मारुतात्मजः॥ ७॥
prasādya vākyaiḥ vividhaiḥ hetumadbhiḥ manoramaiḥ . vākya-vid vākya-tattva-jñam hari-īśam mārutātmajaḥ.. 7..
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्॥ ८॥
हितम् तथ्यम् च पथ्यम् च साम-धर्म-अर्थ-नीतिमत् । प्रणय-प्रीति-संयुक्तम् विश्वास-कृत-निश्चयम्॥ ८॥
hitam tathyam ca pathyam ca sāma-dharma-artha-nītimat . praṇaya-prīti-saṃyuktam viśvāsa-kṛta-niścayam.. 8..
हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत् । राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता॥ ९॥
हरि-ईश्वरम् उपागम्य हनूमान् वाक्यम् अब्रवीत् । राज्यम् प्राप्तम् यशः च एव कौली श्रीः अभिवर्धिता॥ ९॥
hari-īśvaram upāgamya hanūmān vākyam abravīt . rājyam prāptam yaśaḥ ca eva kaulī śrīḥ abhivardhitā.. 9..
मित्राणां संग्रहः शेषस्तद् भवान् कर्तुमर्हति । यो हि मित्रेषु कालज्ञः सततं साधु वर्तते॥ १०॥
मित्राणाम् संग्रहः शेषः तत् भवान् कर्तुम् अर्हति । यः हि मित्रेषु काल-ज्ञः सततम् साधु वर्तते॥ १०॥
mitrāṇām saṃgrahaḥ śeṣaḥ tat bhavān kartum arhati . yaḥ hi mitreṣu kāla-jñaḥ satatam sādhu vartate.. 10..
तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते । यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप । समान्येतानि सर्वाणि स राज्यं महदश्नुते॥ ११॥
तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते । यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप । समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते॥ ११॥
tasya rājyam ca kīrtiḥ ca pratāpaḥ ca api vardhate . yasya kośaḥ ca daṇḍaḥ ca mitrāṇi ātmā ca bhūmipa . samāni etāni sarvāṇi sa rājyam mahat aśnute.. 11..
तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये । मित्रार्थमभिनीतार्थं यथावत् कर्तुमर्हति॥ १२॥
तत् भवान् वृत्त-सम्पन्नः स्थितः पथि निरत्यये । मित्र-अर्थम् अभिनीत-अर्थम् यथावत् कर्तुम् अर्हति॥ १२॥
tat bhavān vṛtta-sampannaḥ sthitaḥ pathi niratyaye . mitra-artham abhinīta-artham yathāvat kartum arhati.. 12..
संत्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते । सम्भ्रमाद् विकृतोत्साहः सोऽनर्थैर्नावरुध्यते॥ १३॥
संत्यज्य सर्व-कर्माणि मित्र-अर्थे यः न वर्तते । सम्भ्रमात् विकृत-उत्साहः सः अनर्थैः न अवरुध्यते॥ १३॥
saṃtyajya sarva-karmāṇi mitra-arthe yaḥ na vartate . sambhramāt vikṛta-utsāhaḥ saḥ anarthaiḥ na avarudhyate.. 13..
यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते । स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते॥ १४॥
यः हि काल-व्यतीतेषु मित्र-कार्येषु वर्तते । स कृत्वा महतः अपि अर्थान् न मित्र-अर्थेन युज्यते॥ १४॥
yaḥ hi kāla-vyatīteṣu mitra-kāryeṣu vartate . sa kṛtvā mahataḥ api arthān na mitra-arthena yujyate.. 14..
तदिदं मित्रकार्यं नः कालातीतमरिंदम । क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम्॥ १५॥
तत् इदम् मित्र-कार्यम् नः काल-अतीतम् अरिंदम । क्रियताम् राघवस्य एतत् वैदेह्याः परिमार्गणम्॥ १५॥
tat idam mitra-kāryam naḥ kāla-atītam ariṃdama . kriyatām rāghavasya etat vaidehyāḥ parimārgaṇam.. 15..
न च कालमतीतं ते निवेदयति कालवित् । त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः॥ १६॥
न च कालम् अतीतम् ते निवेदयति काल-विद् । त्वरमाणः अपि स प्राज्ञः तव राजन् वश-अनुगः॥ १६॥
na ca kālam atītam te nivedayati kāla-vid . tvaramāṇaḥ api sa prājñaḥ tava rājan vaśa-anugaḥ.. 16..
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः । अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः॥ १७॥
कुलस्य हेतुः स्फीतस्य दीर्घ-बन्धुः च राघवः । अप्रमेय-प्रभावः च स्वयम् च अप्रतिमः गुणैः॥ १७॥
kulasya hetuḥ sphītasya dīrgha-bandhuḥ ca rāghavaḥ . aprameya-prabhāvaḥ ca svayam ca apratimaḥ guṇaiḥ.. 17..
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव । हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि॥ १८॥
तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव । हरि-ईश्वर कपि-श्रेष्ठान् आज्ञापयितुम् अर्हसि॥ १८॥
tasya tvam kuru vai kāryam pūrvam tena kṛtam tava . hari-īśvara kapi-śreṣṭhān ājñāpayitum arhasi.. 18..
नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते । चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः॥ १९॥
नहि तावत् भवेत् कालः व्यतीतः चोदनात् ऋते । चोदितस्य हि कार्यस्य भवेत् काल-व्यतिक्रमः॥ १९॥
nahi tāvat bhavet kālaḥ vyatītaḥ codanāt ṛte . coditasya hi kāryasya bhavet kāla-vyatikramaḥ.. 19..
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर । किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च॥ २०॥
अकर्तुः अपि कार्यस्य भवान् कर्ता हरि-ईश्वर । किम् पुनर् प्रतिकर्तुः ते राज्येन च वधेन च॥ २०॥
akartuḥ api kāryasya bhavān kartā hari-īśvara . kim punar pratikartuḥ te rājyena ca vadhena ca.. 20..
शक्तिमानतिविक्रान्तो वानरर्क्षगणेश्वर । कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे॥ २१॥
शक्तिमान् अतिविक्रान्तः वानर-ऋक्ष-गण-ईश्वर । कर्तुम् दाशरथेः प्रीतिम् आज्ञायाम् किम् नु सज्जसे॥ २१॥
śaktimān ativikrāntaḥ vānara-ṛkṣa-gaṇa-īśvara . kartum dāśaratheḥ prītim ājñāyām kim nu sajjase.. 21..
कामं खलु शरैः शक्तः सुरासुरमहोरगान् । वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते॥ २२॥
कामम् खलु शरैः शक्तः सुर-असुर-महा-उरगान् । वशे दाशरथिः कर्तुम् त्वद्-प्रतिज्ञाम् अवेक्षते॥ २२॥
kāmam khalu śaraiḥ śaktaḥ sura-asura-mahā-uragān . vaśe dāśarathiḥ kartum tvad-pratijñām avekṣate.. 22..
प्राणत्यागाविशंकेन कृतं तेन महत् प्रियम् । तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे॥ २३॥
प्राणत्याग-अ विशंकेन कृतम् तेन महत् प्रियम् । तस्य वैदेहीम् पृथिव्याम् अपि च अम्बरे॥ २३॥
prāṇatyāga-a viśaṃkena kṛtam tena mahat priyam . tasya vaidehīm pṛthivyām api ca ambare.. 23..
देवदानवगन्धर्वा असुराः समरुद्गणाः । न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः॥ २४॥
देव-दानव-गन्धर्वाः असुराः स मरुत्-गणाः । न च यक्षाः भयम् तस्य कुर्युः किम् इव राक्षसाः॥ २४॥
deva-dānava-gandharvāḥ asurāḥ sa marut-gaṇāḥ . na ca yakṣāḥ bhayam tasya kuryuḥ kim iva rākṣasāḥ.. 24..
तदेवं शक्तियुक्तस्य पूर्वं प्रतिकृतस्तथा । रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्॥ २५॥
तत् एवम् शक्ति-युक्तस्य पूर्वम् प्रतिकृतः तथा । रामस्य अर्हसि पिङ्ग-ईश कर्तुम् सर्व-आत्मना प्रियम्॥ २५॥
tat evam śakti-yuktasya pūrvam pratikṛtaḥ tathā . rāmasya arhasi piṅga-īśa kartum sarva-ātmanā priyam.. 25..
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे । कस्यचित् सज्जतेऽस्माकं कपीश्वर तवाज्ञया॥ २६॥
न अधस्तात् अवनौ न अप्सु गतिः ना उपरि च अम्बरे । कस्यचिद् सज्जते अस्माकम् कपि-ईश्वर तव आज्ञया॥ २६॥
na adhastāt avanau na apsu gatiḥ nā upari ca ambare . kasyacid sajjate asmākam kapi-īśvara tava ājñayā.. 26..
तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु । हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ॥ २७॥
तत् आज्ञापय कः किम् ते कुतस् वा अपि व्यवस्यतु । हरयः हि अप्रधृष्याः ते सन्ति कोटि-अग्रतस् अनघ॥ २७॥
tat ājñāpaya kaḥ kim te kutas vā api vyavasyatu . harayaḥ hi apradhṛṣyāḥ te santi koṭi-agratas anagha.. 27..
तस्य तद् वचनं श्रुत्वा काले साधु निरूपितम् । सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्॥ २८॥
तस्य तत् वचनम् श्रुत्वा काले साधु निरूपितम् । सुग्रीवः सत्त्व-सम्पन्नः चकार मतिम् उत्तमाम्॥ २८॥
tasya tat vacanam śrutvā kāle sādhu nirūpitam . sugrīvaḥ sattva-sampannaḥ cakāra matim uttamām.. 28..
संदिदेशातिमतिमान् नीलं नित्यकृतोद्यमम् । दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे॥ २९॥
संदिदेश अति मतिमान् नीलम् नित्य-कृत-उद्यमम् । दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे॥ २९॥
saṃdideśa ati matimān nīlam nitya-kṛta-udyamam . dikṣu sarvāsu sarveṣām sainyānām upasaṃgrahe.. 29..
यथा सेना समग्रा मे यूथपालाश्च सर्वशः । समागच्छन्त्यसङ्गेन सेनाग्र्ये ण तथा कुरु॥ ३०॥
यथा सेना समग्रा मे यूथ-पालाः च सर्वशस् । समागच्छन्ति असङ्गेन सेना-अग्र्ये न तथा कुरु॥ ३०॥
yathā senā samagrā me yūtha-pālāḥ ca sarvaśas . samāgacchanti asaṅgena senā-agrye na tathā kuru.. 30..
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः । समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम । स्वयं चानन्तरं कार्यं भवानेवानुपश्यतु॥ ३१॥
ये तु अन्तपालाः प्लवगाः शीघ्रगाः व्यवसायिनः । समानयन्तु ते शीघ्रम् त्वरिताः शासनात् मम । स्वयम् च अनन्तरम् कार्यम् भवान् एव अनुपश्यतु॥ ३१॥
ye tu antapālāḥ plavagāḥ śīghragāḥ vyavasāyinaḥ . samānayantu te śīghram tvaritāḥ śāsanāt mama . svayam ca anantaram kāryam bhavān eva anupaśyatu.. 31..
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः । तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा॥ ३२॥
त्रि-पञ्च-रात्रात् ऊर्ध्वम् यः प्राप्नुयात् इह वानरः । तस्य प्राणान्तिकः दण्डः न अत्र कार्या विचारणा॥ ३२॥
tri-pañca-rātrāt ūrdhvam yaḥ prāpnuyāt iha vānaraḥ . tasya prāṇāntikaḥ daṇḍaḥ na atra kāryā vicāraṇā.. 32..
हरींश्च वृद्धानुपयातु साङ्गदो भवान् ममाज्ञामधिकृत्य निश्चितम् । इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान्॥ ३३॥
हरीन् च वृद्धान् उपयातु स अङ्गदः भवान् मम आज्ञाम् अधिकृत्य निश्चितम् । इति व्यवस्थाम् हरि-पुङ्गव-ईश्वरः विधाय वेश्म प्रविवेश वीर्यवान्॥ ३३॥
harīn ca vṛddhān upayātu sa aṅgadaḥ bhavān mama ājñām adhikṛtya niścitam . iti vyavasthām hari-puṅgava-īśvaraḥ vidhāya veśma praviveśa vīryavān.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-२९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकोनत्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekonatriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In