This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे तृतीयः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe tṛtīyaḥ sargaḥ ..4..
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतादृष्यमूकात् तु पुप्लुवे यत्र राघवौ॥ १॥
वचः विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतात् ऋष्यमूकात् तु पुप्लुवे यत्र राघवौ॥ १॥
vacaḥ vijñāya hanumān sugrīvasya mahātmanaḥ . parvatāt ṛṣyamūkāt tu pupluve yatra rāghavau.. 1..
कपिरूपं परित्यज्य हनुमान् मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥ २॥
कपि-रूपम् परित्यज्य हनुमान् मारुतात्मजः । भिक्षु-रूपम् ततस् भेजे शठ-बुद्धि-तया कपिः॥ २॥
kapi-rūpam parityajya hanumān mārutātmajaḥ . bhikṣu-rūpam tatas bheje śaṭha-buddhi-tayā kapiḥ.. 2..
ततश्च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया । विनीतवदुपागम्य राघवौ प्रणिपत्य च॥ ३॥
ततस् च हनुमान् वाचा श्लक्ष्णया सु मनोज्ञया । विनीत-वत् उपागम्य राघवौ प्रणिपत्य च॥ ३॥
tatas ca hanumān vācā ślakṣṇayā su manojñayā . vinīta-vat upāgamya rāghavau praṇipatya ca.. 3..
आबभाषे च तौ वीरौ यथावत् प्रशशंस च । सम्पूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः॥ ४॥
आबभाषे च तौ वीरौ यथावत् प्रशशंस च । सम्पूज्य विधिवत् वीरौ हनुमान् वानर-उत्तमः॥ ४॥
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca . sampūjya vidhivat vīrau hanumān vānara-uttamaḥ.. 4..
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ । राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ॥ ५॥
उवाच कामतः वाक्यम् मृदु सत्य-पराक्रमौ । राजर्षि-देव-प्रतिमौ तापसौ संशित-व्रतौ॥ ५॥
uvāca kāmataḥ vākyam mṛdu satya-parākramau . rājarṣi-deva-pratimau tāpasau saṃśita-vratau.. 5..
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ । त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः॥ ६॥
देशम् कथम् इमम् प्राप्तौ भवन्तौ वर-वर्णिनौ । त्रासयन्तौ मृग-गणान् अन्यान् च वन-चारिणः॥ ६॥
deśam katham imam prāptau bhavantau vara-varṇinau . trāsayantau mṛga-gaṇān anyān ca vana-cāriṇaḥ.. 6..
पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः । इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ॥ ७॥
पम्पा-तीर-रुहान् वृक्षान् वीक्षमाणौ समन्ततः । इमाम् नदीम् शुभ-जलाम् शोभयन्तौ तरस्विनौ॥ ७॥
pampā-tīra-ruhān vṛkṣān vīkṣamāṇau samantataḥ . imām nadīm śubha-jalām śobhayantau tarasvinau.. 7..
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ । निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः॥ ८॥
धैर्यवन्तौ सुवर्ण-आभौ कौ युवाम् चीर-वाससौ । निःश्वसन्तौ वर-भुजौ पीडयन्तौ इमाः प्रजाः॥ ८॥
dhairyavantau suvarṇa-ābhau kau yuvām cīra-vāsasau . niḥśvasantau vara-bhujau pīḍayantau imāḥ prajāḥ.. 8..
सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ । शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ॥ ९॥
सिंह-विप्रेक्षितौ वीरौ महा-बल-पराक्रमौ । शक्र-चाप-निभे चापे गृहीत्वा शत्रु-नाशनौ॥ ९॥
siṃha-viprekṣitau vīrau mahā-bala-parākramau . śakra-cāpa-nibhe cāpe gṛhītvā śatru-nāśanau.. 9..
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ॥ १०॥
श्रीमन्तौ रूप-सम्पन्नौ वृषभ-श्रेष्ठ-विक्रमौ । हस्ति-हस्त-उपम-भुजौ द्युतिमन्तौ नर-ऋषभौ॥ १०॥
śrīmantau rūpa-sampannau vṛṣabha-śreṣṭha-vikramau . hasti-hasta-upama-bhujau dyutimantau nara-ṛṣabhau.. 10..
प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः । राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ॥ ११॥
प्रभया पर्वत-इन्द्रः असौ युवयोः अवभासितः । राज्य-अर्हौ अमर-प्रख्यौ कथम् देशम् इह आगतौ॥ ११॥
prabhayā parvata-indraḥ asau yuvayoḥ avabhāsitaḥ . rājya-arhau amara-prakhyau katham deśam iha āgatau.. 11..
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ । अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ॥ १२॥
पद्म-पत्र-ईक्षणौ वीरौ जटा-मण्डल-धारिणौ । अन्योन्य-सदृशौ वीरौ देव-लोकात् इह आगतौ॥ १२॥
padma-patra-īkṣaṇau vīrau jaṭā-maṇḍala-dhāriṇau . anyonya-sadṛśau vīrau deva-lokāt iha āgatau.. 12..
यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम् । विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ॥ १३॥
यदृच्छया इव सम्प्राप्तौ चन्द्र-सूर्यौ वसुंधराम् । विशाल-वक्षसौ वीरौ मानुषौ देव-रूपिणौ॥ १३॥
yadṛcchayā iva samprāptau candra-sūryau vasuṃdharām . viśāla-vakṣasau vīrau mānuṣau deva-rūpiṇau.. 13..
सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ । आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः॥ १४॥
सिंह-स्कन्धौ महा-उत्साहौ स मदौ इव गो-वृषौ । आयताः च सु वृत्ताः च बाहवः परिघ-उपमाः॥ १४॥
siṃha-skandhau mahā-utsāhau sa madau iva go-vṛṣau . āyatāḥ ca su vṛttāḥ ca bāhavaḥ parigha-upamāḥ.. 14..
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः । उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्॥ १५॥
सर्व-भूषण-भूषा-अर्हाः किमर्थम् न विभूषिताः । उभौ योग्यौ अहम् मन्ये रक्षितुम् पृथिवीम् इमाम्॥ १५॥
sarva-bhūṣaṇa-bhūṣā-arhāḥ kimartham na vibhūṣitāḥ . ubhau yogyau aham manye rakṣitum pṛthivīm imām.. 15..
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् । इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने॥ १६॥
स सागर-वनाम् कृत्स्नाम् विन्ध्य-मेरु-विभूषिताम् । इमे च धनुषी चित्रे श्लक्ष्णे चित्र-अनुलेपने॥ १६॥
sa sāgara-vanām kṛtsnām vindhya-meru-vibhūṣitām . ime ca dhanuṣī citre ślakṣṇe citra-anulepane.. 16..
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते । सम्पूर्णाश्च शितैर्बाणैस्तूणाश्च शुभदर्शनाः॥ १७॥
प्रकाशेते यथा इन्द्रस्य वज्रे हेम-विभूषिते । सम्पूर्णाः च शितैः बाणैः तूणाः च शुभ-दर्शनाः॥ १७॥
prakāśete yathā indrasya vajre hema-vibhūṣite . sampūrṇāḥ ca śitaiḥ bāṇaiḥ tūṇāḥ ca śubha-darśanāḥ.. 17..
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः । महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ॥ १८॥
जीवितान्त-करैः घोरैः ज्वलद्भिः इव पन्नगैः । महा-प्रमाणौ विपुलौ तप्त-हाटक-भूषणौ॥ १८॥
jīvitānta-karaiḥ ghoraiḥ jvaladbhiḥ iva pannagaiḥ . mahā-pramāṇau vipulau tapta-hāṭaka-bhūṣaṇau.. 18..
खड्गावेतौ विराजेते निर्मुक्तभुजगाविव । एवं मां परिभाषन्तं कस्माद् वै नाभिभाषतः॥ १९॥
खड्गौ एतौ विराजेते निर्मुक्त-भुजगौ इव । एवम् माम् परिभाषन्तम् कस्मात् वै न अभिभाषतः॥ १९॥
khaḍgau etau virājete nirmukta-bhujagau iva . evam mām paribhāṣantam kasmāt vai na abhibhāṣataḥ.. 19..
सुग्रीवो नाम धर्मात्मा कश्चिद् वानरपुङ्गवः । वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः॥ २०॥
सुग्रीवः नाम धर्म-आत्मा कश्चिद् वानर-पुङ्गवः । वीरः विनिकृतः भ्रात्रा जगत् भ्रमति दुःखितः॥ २०॥
sugrīvaḥ nāma dharma-ātmā kaścid vānara-puṅgavaḥ . vīraḥ vinikṛtaḥ bhrātrā jagat bhramati duḥkhitaḥ.. 20..
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना । राज्ञा वानरमुख्यानां हनुमान् नाम वानरः॥ २१॥
प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना । राज्ञा वानर-मुख्यानाम् हनुमान् नाम वानरः॥ २१॥
prāptaḥ aham preṣitaḥ tena sugrīveṇa mahātmanā . rājñā vānara-mukhyānām hanumān nāma vānaraḥ.. 21..
युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति । तस्य मां सचिवं वित्तं वानरं पवनात्मजम्॥ २२॥
युवाभ्याम् स हि धर्म-आत्मा सुग्रीवः सख्यम् इच्छति । तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम्॥ २२॥
yuvābhyām sa hi dharma-ātmā sugrīvaḥ sakhyam icchati . tasya mām sacivam vittam vānaram pavanātmajam.. 22..
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात् । ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम्॥ २३॥
भिक्षु-रूप-प्रतिच्छन्नम् सुग्रीव-प्रिय-कारणात् । ऋष्यमूकात् इह प्राप्तम् काम-गम् काम-चारिणम्॥ २३॥
bhikṣu-rūpa-praticchannam sugrīva-priya-kāraṇāt . ṛṣyamūkāt iha prāptam kāma-gam kāma-cāriṇam.. 23..
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ । वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किंचन॥ २४॥
एवम् उक्त्वा तु हनुमान् तौ वीरौ राम-लक्ष्मणौ । वाक्य-ज्ञः वाक्य-कुशलः पुनर् न उवाच किंचन॥ २४॥
evam uktvā tu hanumān tau vīrau rāma-lakṣmaṇau . vākya-jñaḥ vākya-kuśalaḥ punar na uvāca kiṃcana.. 24..
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्॥ २५॥
एतत् श्रुत्वा वचः तस्य रामः लक्ष्मणम् अब्रवीत् । प्रहृष्ट-वदनः श्रीमान् भ्रातरम् पार्श्वतस् स्थितम्॥ २५॥
etat śrutvā vacaḥ tasya rāmaḥ lakṣmaṇam abravīt . prahṛṣṭa-vadanaḥ śrīmān bhrātaram pārśvatas sthitam.. 25..
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव कांक्षमाणस्य ममान्तिकमिहागतः॥ २६॥
सचिवः अयम् कपि-इन्द्रस्य सुग्रीवस्य महात्मनः । तम् एव कांक्षमाणस्य मम अन्तिकम् इह आगतः॥ २६॥
sacivaḥ ayam kapi-indrasya sugrīvasya mahātmanaḥ . tam eva kāṃkṣamāṇasya mama antikam iha āgataḥ.. 26..
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्॥ २७॥
तम् अभ्यभाष सौमित्रे सुग्रीव-सचिवम् कपिम् । वाक्य-ज्ञम् मधुरैः वाक्यैः स्नेह-युक्तम् अरिंदमम्॥ २७॥
tam abhyabhāṣa saumitre sugrīva-sacivam kapim . vākya-jñam madhuraiḥ vākyaiḥ sneha-yuktam ariṃdamam.. 27..
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः । नासामवेदविदुषः शक्यमेवं विभाषितुम्॥ २८॥
न अन् ऋग्वेद-विनीतस्य न अ यजुर्वेद-धारिणः । न अ सामवेद-विदुषः शक्यम् एवम् विभाषितुम्॥ २८॥
na an ṛgveda-vinītasya na a yajurveda-dhāriṇaḥ . na a sāmaveda-viduṣaḥ śakyam evam vibhāṣitum.. 28..
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरतानेन न किंचिदपशब्दितम्॥ २९॥
नूनम् व्याकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् । बहु व्याहरत अनेन न किंचिद् अपशब्दितम्॥ २९॥
nūnam vyākaraṇam kṛtsnam anena bahudhā śrutam . bahu vyāharata anena na kiṃcid apaśabditam.. 29..
न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा । अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित्॥ ३०॥
न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा । अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचिद्॥ ३०॥
na mukhe netrayoḥ ca api lalāṭe ca bhruvoḥ tathā . anyeṣu api ca sarveṣu doṣaḥ saṃviditaḥ kvacid.. 30..
अविस्तरमसंदिग्धमविलम्बितमव्यथम् । उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम्॥ ३१॥
अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् । उरः-स्थम् कण्ठ-गम् वाक्यम् वर्तते मध्यम-स्वरम्॥ ३१॥
avistaram asaṃdigdham avilambitam avyatham . uraḥ-stham kaṇṭha-gam vākyam vartate madhyama-svaram.. 31..
संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम्॥ ३२॥
संस्कार-क्रम-सम्पन्नाम् अद्भुताम् अविलम्बिताम् । उच्चारयति कल्याणीम् वाचम् हृदय-हर्षिणीम्॥ ३२॥
saṃskāra-krama-sampannām adbhutām avilambitām . uccārayati kalyāṇīm vācam hṛdaya-harṣiṇīm.. 32..
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥ ३३॥
अनया चित्रया वाचा त्रि-स्थान-व्यञ्जन-स्थया । कस्य ना आराध्यते चित्तम् उद्यत-असेः अरेः अपि॥ ३३॥
anayā citrayā vācā tri-sthāna-vyañjana-sthayā . kasya nā ārādhyate cittam udyata-aseḥ areḥ api.. 33..
एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु । सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ॥ ३४॥
एवंविधः यस्य दूतः न भवेत् पार्थिवस्य तु । सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयः अनघ॥ ३४॥
evaṃvidhaḥ yasya dūtaḥ na bhavet pārthivasya tu . siddhyanti hi katham tasya kāryāṇām gatayaḥ anagha.. 34..
एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः॥ ३५॥
एवंगुण-गणैः युक्ताः यस्य स्युः कार्य-साधकाः । तस्य सिद्धि-अन्ति सर्वे अर्थाः दूत-वाक्य-प्रचोदिताः॥ ३५॥
evaṃguṇa-gaṇaiḥ yuktāḥ yasya syuḥ kārya-sādhakāḥ . tasya siddhi-anti sarve arthāḥ dūta-vākya-pracoditāḥ.. 35..
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्॥ ३६॥
एवम् उक्तः तु सौमित्रिः सुग्रीव-सचिवम् कपिम् । अभ्यभाषत वाक्य-ज्ञः वाक्य-ज्ञम् पवनात्मजम्॥ ३६॥
evam uktaḥ tu saumitriḥ sugrīva-sacivam kapim . abhyabhāṣata vākya-jñaḥ vākya-jñam pavanātmajam.. 36..
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः । तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥ ३७॥
विदिताः नौ गुणाः विद्वन् सुग्रीवस्य महात्मनः । तम् एव च आवाम् मार्गावः सुग्रीवम् प्लवग-ईश्वरम्॥ ३७॥
viditāḥ nau guṇāḥ vidvan sugrīvasya mahātmanaḥ . tam eva ca āvām mārgāvaḥ sugrīvam plavaga-īśvaram.. 37..
यथा ब्रवीषि हनुमन् सुग्रीववचनादिह । तत् तथा हि करिष्यावो वचनात् तव सत्तम॥ ३८॥
यथा ब्रवीषि हनुमन् सुग्रीव-वचनात् इह । तत् तथा हि करिष्यावः वचनात् तव सत्तम॥ ३८॥
yathā bravīṣi hanuman sugrīva-vacanāt iha . tat tathā hi kariṣyāvaḥ vacanāt tava sattama.. 38..
तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः । मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्॥ ३९॥
तत् तस्य वाक्यम् निपुणम् निशम्य प्रहृष्ट-रूपः पवनात्मजः कपिः । मनः समाधाय जय-उपपत्तौ सख्यम् तदा कर्तुम् इयेष ताभ्याम्॥ ३९॥
tat tasya vākyam nipuṇam niśamya prahṛṣṭa-rūpaḥ pavanātmajaḥ kapiḥ . manaḥ samādhāya jaya-upapattau sakhyam tadā kartum iyeṣa tābhyām.. 39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे तृतीयः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe tṛtīyaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In