This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe triṃśaḥ sargaḥ ..4..
गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः॥ १॥
गृहम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्ष-रात्रे स्थितः रामः काम-शोक-अभिपीडितः॥ १॥
gṛham praviṣṭe sugrīve vimukte gagane ghanaiḥ . varṣa-rātre sthitaḥ rāmaḥ kāma-śoka-abhipīḍitaḥ.. 1..
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् । शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥ २॥
पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र-मण्डलम् । शारदीम् रजनीम् च एव दृष्ट्वा ज्योत्स्ना-अनुलेपनाम्॥ २॥
pāṇḍuram gaganam dṛṣṭvā vimalam candra-maṇḍalam . śāradīm rajanīm ca eva dṛṣṭvā jyotsnā-anulepanām.. 2..
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् । दृष्ट्वा कालमतीतं च मुमोह परमातुरः॥ ३॥
काम-वृत्तम् च सुग्रीवम् नष्टाम् च जनकात्मजाम् । दृष्ट्वा कालम् अतीतम् च मुमोह परम-आतुरः॥ ३॥
kāma-vṛttam ca sugrīvam naṣṭām ca janakātmajām . dṛṣṭvā kālam atītam ca mumoha parama-āturaḥ.. 3..
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः । मनःस्थामपि वैदेहीं चिन्तयामास राघवः॥ ४॥
स तु संज्ञाम् उपागम्य मुहूर्तात् मतिमान् नृपः । मनः-स्थाम् अपि वैदेहीम् चिन्तयामास राघवः॥ ४॥
sa tu saṃjñām upāgamya muhūrtāt matimān nṛpaḥ . manaḥ-sthām api vaidehīm cintayāmāsa rāghavaḥ.. 4..
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् । सारसारावसंघुष्टं विललापार्तया गिरा॥ ५॥
दृष्ट्वा च विमलम् व्योम गत-विद्युत्-बलाहकम् । सारस-आराव-संघुष्टम् विललाप आर्तया गिरा॥ ५॥
dṛṣṭvā ca vimalam vyoma gata-vidyut-balāhakam . sārasa-ārāva-saṃghuṣṭam vilalāpa ārtayā girā.. 5..
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते । शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्॥ ६॥
आसीनः पर्वतस्य अग्रे हेम-धातु-विभूषिते । शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रियाम्॥ ६॥
āsīnaḥ parvatasya agre hema-dhātu-vibhūṣite . śāradam gaganam dṛṣṭvā jagāma manasā priyām.. 6..
सारसारावसंनादैः सारसारावनादिनी । याऽऽश्रमे रमते बाला साद्य मे रमते कथम्॥ ७॥
सारस-आराव-संनादैः सारस-आराव-नादिनी । या आश्रमे रमते बाला सा अद्य मे रमते कथम्॥ ७॥
sārasa-ārāva-saṃnādaiḥ sārasa-ārāva-nādinī . yā āśrame ramate bālā sā adya me ramate katham.. 7..
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् । कथं सा रमते बाला पश्यन्ती मामपश्यती॥ ८॥
पुष्पितान् च असनान् दृष्ट्वा काञ्चनान् इव निर्मलान् । कथम् सा रमते बाला पश्यन्ती माम् अपश्यती॥ ८॥
puṣpitān ca asanān dṛṣṭvā kāñcanān iva nirmalān . katham sā ramate bālā paśyantī mām apaśyatī.. 8..
या पुरा कलहंसानां कलेन कलभाषिणी । बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्॥ ९॥
या पुरा कलहंसानाम् कलेन कल-भाषिणी । बुध्यते चारु-सर्व-अङ्गी सा अद्य मे रमते कथम्॥ ९॥
yā purā kalahaṃsānām kalena kala-bhāṣiṇī . budhyate cāru-sarva-aṅgī sā adya me ramate katham.. 9..
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् । पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥ १०॥
निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् । पुण्डरीक-विशाल-अक्षी कथम् एषा भविष्यति॥ १०॥
niḥsvanam cakravākānām niśamya sahacāriṇām . puṇḍarīka-viśāla-akṣī katham eṣā bhaviṣyati.. 10..
सरांसि सरितो वापीः काननानि वनानि च । तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे॥ ११॥
सरांसि सरितः वापीः काननानि वनानि च । ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे॥ ११॥
sarāṃsi saritaḥ vāpīḥ kānanāni vanāni ca . tām vinā mṛgaśāvākṣīm caran na adya sukham labhe.. 11..
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् । सुदूरं पीडयेत् कामः शरद्गुणनिरन्तरः॥ १२॥
अपि ताम् मद्-वियोगात् च सौकुमार्यात् च भामिनीम् । सु दूरम् पीडयेत् कामः शरद्-गुण-निरन्तरः॥ १२॥
api tām mad-viyogāt ca saukumāryāt ca bhāminīm . su dūram pīḍayet kāmaḥ śarad-guṇa-nirantaraḥ.. 12..
एवमादि नरश्रेष्ठो विललाप नृपात्मजः । विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥ १३॥
एवमादि नर-श्रेष्ठः विललाप नृप-आत्मजः । विहंगः इव सारङ्गः सलिलम् त्रिदश-ईश्वरात्॥ १३॥
evamādi nara-śreṣṭhaḥ vilalāpa nṛpa-ātmajaḥ . vihaṃgaḥ iva sāraṅgaḥ salilam tridaśa-īśvarāt.. 13..
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्॥ १४॥
ततस् चञ्चूर्य रम्येषु फल-अर्थी गिरि-सानुषु । ददर्श पर्युपावृत्तः लक्ष्मीवान् लक्ष्मणः अग्रजम्॥ १४॥
tatas cañcūrya ramyeṣu phala-arthī giri-sānuṣu . dadarśa paryupāvṛttaḥ lakṣmīvān lakṣmaṇaḥ agrajam.. 14..
स चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी । भ्रातुर्विषादात् त्वरितोऽतिदीनः समीक्ष्य सौमित्रिरुवाच दीनम्॥ १५॥
स चिन्तया दुस्सहया परीतम् विसंज्ञम् एकम् विजने मनस्वी । भ्रातुः विषादात् त्वरितः अति दीनः समीक्ष्य सौमित्रिः उवाच दीनम्॥ १५॥
sa cintayā dussahayā parītam visaṃjñam ekam vijane manasvī . bhrātuḥ viṣādāt tvaritaḥ ati dīnaḥ samīkṣya saumitriḥ uvāca dīnam.. 15..
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन । अयं ह्रिया संह्रियते समाधिः किमत्र योगेन निवर्तते न॥ १६॥
किम् आर्य कामस्य वशंगतेन किम् आत्म-पौरुष्य-पराभवेन । अयम् ह्रिया संह्रियते समाधिः किम् अत्र योगेन निवर्तते न॥ १६॥
kim ārya kāmasya vaśaṃgatena kim ātma-pauruṣya-parābhavena . ayam hriyā saṃhriyate samādhiḥ kim atra yogena nivartate na.. 16..
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् । सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं च कुरुष्व तात॥ १७॥
क्रिया-अभियोगम् मनसः प्रसादम् समाधि-योग-अनुगतम् च कालम् । सहाय-सामर्थ्यम् अदीन-सत्त्वः स्व-कर्म-हेतुम् च कुरुष्व तात॥ १७॥
kriyā-abhiyogam manasaḥ prasādam samādhi-yoga-anugatam ca kālam . sahāya-sāmarthyam adīna-sattvaḥ sva-karma-hetum ca kuruṣva tāta.. 17..
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण । न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कश्चित्॥ १८॥
न जानकी मानव-वंश-नाथ त्वया सनाथा सुलभा परेण । न च अग्नि-चूडाम् ज्वलिताम् उपेत्य न दह्यते वीर वर-अर्ह कश्चिद्॥ १८॥
na jānakī mānava-vaṃśa-nātha tvayā sanāthā sulabhā pareṇa . na ca agni-cūḍām jvalitām upetya na dahyate vīra vara-arha kaścid.. 18..
सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः । हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च॥ १९॥
स लक्षणम् लक्ष्मणम् अप्रधृष्यम् स्वभाव-जम् वाक्यम् उवाच रामः । हितम् च पथ्यम् च नय-प्रसक्तम् स सामधर्म-अर्थ-समाहितम् च॥ १९॥
sa lakṣaṇam lakṣmaṇam apradhṛṣyam svabhāva-jam vākyam uvāca rāmaḥ . hitam ca pathyam ca naya-prasaktam sa sāmadharma-artha-samāhitam ca.. 19..
निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽप्यनुवर्तितव्यः । न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलं च चिन्त्यम्॥ २०॥
निस्संशयम् कार्यम् अवेक्षितव्यम् क्रिया-विशेषः अपि अनुवर्तितव्यः । न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलम् च चिन्त्यम्॥ २०॥
nissaṃśayam kāryam avekṣitavyam kriyā-viśeṣaḥ api anuvartitavyaḥ . na tu pravṛddhasya durāsadasya kumāra vīryasya phalam ca cintyam.. 20..
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥ २१॥
अथ पद्म-पलाश-अक्षीम् मैथिलीम् अनुचिन्तयन् । उवाच लक्ष्मणम् रामः मुखेन परिशुष्यता॥ २१॥
atha padma-palāśa-akṣīm maithilīm anucintayan . uvāca lakṣmaṇam rāmaḥ mukhena pariśuṣyatā.. 21..
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ २२॥
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ २२॥
tarpayitvā sahasrākṣaḥ salilena vasuṃdharām . nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ.. 22..
दीर्घगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः । विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज॥ २३॥
दीर्घ-गम्भीर-निर्घोषाः शैल-द्रुम-पुरोगमाः । विसृज्य सलिलम् मेघाः परिशान्ताः नृप-आत्मज॥ २३॥
dīrgha-gambhīra-nirghoṣāḥ śaila-druma-purogamāḥ . visṛjya salilam meghāḥ pariśāntāḥ nṛpa-ātmaja.. 23..
नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश । विमदा इव मातङ्गाः शान्तवेगाः पयोधराः॥ २४॥
नीलोत्पल-दल-श्यामाः श्यामीकृत्वा दिशः दश । विमदाः इव मातङ्गाः शान्त-वेगाः पयोधराः॥ २४॥
nīlotpala-dala-śyāmāḥ śyāmīkṛtvā diśaḥ daśa . vimadāḥ iva mātaṅgāḥ śānta-vegāḥ payodharāḥ.. 24..
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः । चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः॥ २५॥
जल-गर्भाः महा-वेगाः कुटज-अर्जुन-गन्धिनः । चरित्वा विरताः सौम्य वृष्टि-वाताः समुद्यताः॥ २५॥
jala-garbhāḥ mahā-vegāḥ kuṭaja-arjuna-gandhinaḥ . caritvā viratāḥ saumya vṛṣṭi-vātāḥ samudyatāḥ.. 25..
घनानां वारणानां च मयूराणां च लक्ष्मण । नादः प्रस्रवणानां च प्रशान्तः सहसानघ॥ २६॥
घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण । नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ॥ २६॥
ghanānām vāraṇānām ca mayūrāṇām ca lakṣmaṇa . nādaḥ prasravaṇānām ca praśāntaḥ sahasā anagha.. 26..
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः । अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥ २७॥
अभिवृष्टाः महा-मेघैः निर्मलाः चित्र-सानवः । अनुलिप्ताः इव आभान्ति गिरयः चन्द्र-रश्मिभिः॥ २७॥
abhivṛṣṭāḥ mahā-meghaiḥ nirmalāḥ citra-sānavaḥ . anuliptāḥ iva ābhānti girayaḥ candra-raśmibhiḥ.. 27..
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् । लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता॥ २८॥
शाखासु सप्तच्छद-पादपानाम् प्रभासु तारा-अर्क-निशाकराणाम् । लीलासु च एव उत्तम-वारणानाम् श्रियम् विभज्य अद्य शरद् प्रवृत्ता॥ २८॥
śākhāsu saptacchada-pādapānām prabhāsu tārā-arka-niśākarāṇām . līlāsu ca eva uttama-vāraṇānām śriyam vibhajya adya śarad pravṛttā.. 28..
सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना । सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति॥ २९॥
सम्प्रति अनेक-आश्रय-चित्र-शोभा लक्ष्मीः शरद्-काल-गुण-उपपन्ना । सूर्य-अग्र-हस्त-प्रतिबोधितेषु पद्म-आकरेषु अभ्यधिकम् विभाति॥ २९॥
samprati aneka-āśraya-citra-śobhā lakṣmīḥ śarad-kāla-guṇa-upapannā . sūrya-agra-hasta-pratibodhiteṣu padma-ākareṣu abhyadhikam vibhāti.. 29..
सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः । मत्तद्विपानां पवनानुसारी दर्पं विनेष्यन्नधिकं विभाति॥ ३०॥
सप्तच्छदानाम् कुसुम-उपगन्धी षट्पाद-वृन्दैः अनुगीयमानः । मत्त-द्विपानाम् पवन-अनुसारी दर्पम् विनेष्यन् अधिकम् विभाति॥ ३०॥
saptacchadānām kusuma-upagandhī ṣaṭpāda-vṛndaiḥ anugīyamānaḥ . matta-dvipānām pavana-anusārī darpam vineṣyan adhikam vibhāti.. 30..
अभ्यागतैश्चारुविशालपक्षैः स्मरप्रियैः पद्मरजोऽवकीर्णैः । महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः॥ ३१॥
अभ्यागतैः चारु-विशाल-पक्षैः स्मर-प्रियैः पद्म-रजः-अवकीर्णैः । महा-नदीनाम् पुलिन-उपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः॥ ३१॥
abhyāgataiḥ cāru-viśāla-pakṣaiḥ smara-priyaiḥ padma-rajaḥ-avakīrṇaiḥ . mahā-nadīnām pulina-upayātaiḥ krīḍanti haṃsāḥ saha cakravākaiḥ.. 31..
मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु । प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता॥ ३२॥
मद-प्रगल्भेषु च वारणेषु गवाम् समूहेषु च दर्पितेषु । प्रसन्न-तोयासु च निम्नगासु विभाति लक्ष्मीः बहुधा विभक्ता॥ ३२॥
mada-pragalbheṣu ca vāraṇeṣu gavām samūheṣu ca darpiteṣu . prasanna-toyāsu ca nimnagāsu vibhāti lakṣmīḥ bahudhā vibhaktā.. 32..
नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु । प्रियास्वरक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः॥ ३३॥
नभः समीक्ष्य अम्बुधरैः विमुक्तम् विमुक्त-बर्ह-आभरणाः वनेषु । प्रियासु अरक्ताः विनिवृत्त-शोभाः गत-उत्सवाः ध्यान-पराः मयूराः॥ ३३॥
nabhaḥ samīkṣya ambudharaiḥ vimuktam vimukta-barha-ābharaṇāḥ vaneṣu . priyāsu araktāḥ vinivṛtta-śobhāḥ gata-utsavāḥ dhyāna-parāḥ mayūrāḥ.. 33..
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः । सुवर्णगौरैर्नयनाभिरामै- रुद्योतितानीव वनान्तराणि॥ ३४॥
मनोज्ञ-गन्धैः प्रियकैः अनल्पैः पुष्प-अतिभार-अवनत-अग्र-शाखैः । सुवर्ण-गौरैः नयन-अभिरामैः उद्योतितानि इव वन-अन्तराणि॥ ३४॥
manojña-gandhaiḥ priyakaiḥ analpaiḥ puṣpa-atibhāra-avanata-agra-śākhaiḥ . suvarṇa-gauraiḥ nayana-abhirāmaiḥ udyotitāni iva vana-antarāṇi.. 34..
प्रियान्वितानां नलिनीप्रियाणां वने प्रियाणां कुसुमोद्गतानाम् । मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः॥ ३५॥
प्रिय-अन्वितानाम् नलिनी-प्रियाणाम् वने प्रियाणाम् कुसुम-उद्गतानाम् । मद-उत्कटानाम् मद-लालसानाम् गज-उत्तमानाम् गतयः अद्य मन्दाः॥ ३५॥
priya-anvitānām nalinī-priyāṇām vane priyāṇām kusuma-udgatānām . mada-utkaṭānām mada-lālasānām gaja-uttamānām gatayaḥ adya mandāḥ.. 35..
व्यक्तं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि । कह्लारशीताः पवनाः प्रवान्ति तमो विमुक्ताश्च दिशः प्रकाशाः॥ ३६॥
व्यक्तम् नभः शस्त्र-विधौत-वर्णम् कृश-प्रवाहानि नदी-जलानि । कह्लार-शीताः पवनाः प्रवान्ति तमः विमुक्ताः च दिशः प्रकाशाः॥ ३६॥
vyaktam nabhaḥ śastra-vidhauta-varṇam kṛśa-pravāhāni nadī-jalāni . kahlāra-śītāḥ pavanāḥ pravānti tamaḥ vimuktāḥ ca diśaḥ prakāśāḥ.. 36..
सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः । अन्योन्यवैरेण समायुताना- मुद्योगकालोऽद्य नराधिपानाम्॥ ३७॥
सूर्य-आतप-क्रामण-नष्ट-पङ्का भूमिः चिर-उद्घाटित-सान्द्र-रेणुः । अन्योन्य-वैरेण समायुतानाम् उद्योग-कालः अद्य नराधिपानाम्॥ ३७॥
sūrya-ātapa-krāmaṇa-naṣṭa-paṅkā bhūmiḥ cira-udghāṭita-sāndra-reṇuḥ . anyonya-vaireṇa samāyutānām udyoga-kālaḥ adya narādhipānām.. 37..
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः । मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति॥ ३८॥
शरद्-गुण-आप्यायित-रूप-शोभाः प्रहर्षिताः पांसु-समुत्थित-अङ्गाः । मद-उत्कटाः सम्प्रति युद्ध-लुब्धाः वृषाः गवाम् मध्य-गताः नदन्ति॥ ३८॥
śarad-guṇa-āpyāyita-rūpa-śobhāḥ praharṣitāḥ pāṃsu-samutthita-aṅgāḥ . mada-utkaṭāḥ samprati yuddha-lubdhāḥ vṛṣāḥ gavām madhya-gatāḥ nadanti.. 38..
समन्मथा तीव्रतरानुरागा कुलान्विता मन्दगतिः करेणुः । मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयाति॥ ३९॥
स मन्मथा तीव्रतर-अनुरागा कुल-अन्विता मन्द-गतिः करेणुः । मद-अन्वितम् सम्परिवार्य यान्तम् वनेषु भर्तारम् अनुप्रयाति॥ ३९॥
sa manmathā tīvratara-anurāgā kula-anvitā manda-gatiḥ kareṇuḥ . mada-anvitam samparivārya yāntam vaneṣu bhartāram anuprayāti.. 39..
त्यक्त्वा वराण्यात्मविभूषितानि बर्हाणि तीरोपगता नदीनाम् । निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमना मयूराः॥ ४०॥
त्यक्त्वा वराणि आत्म-विभूषितानि बर्हाणि तीर-उपगताः नदीनाम् । निर्भर्त्स्यमानाः इव सारस-ओघैः प्रयान्ति दीनाः विमनाः मयूराः॥ ४०॥
tyaktvā varāṇi ātma-vibhūṣitāni barhāṇi tīra-upagatāḥ nadīnām . nirbhartsyamānāḥ iva sārasa-oghaiḥ prayānti dīnāḥ vimanāḥ mayūrāḥ.. 40..
वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः । सरस्सुबद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति॥ ४१॥
वित्रास्य कारण्डव-चक्रवाकान् महा-रवैः भिन्न-कटाः गज-इन्द्राः । सरः-सु बद्ध-अम्बुज-भूषणेषु विक्षोभ्य विक्षोभ्य जलम् पिबन्ति॥ ४१॥
vitrāsya kāraṇḍava-cakravākān mahā-ravaiḥ bhinna-kaṭāḥ gaja-indrāḥ . saraḥ-su baddha-ambuja-bhūṣaṇeṣu vikṣobhya vikṣobhya jalam pibanti.. 41..
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु । ससारसारावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः॥ ४२॥
व्यपेत-पङ्कासु स वालुकासु प्रसन्न-तोयासु स गो-कुलासु । स सार-साराव-विनादितासु नदीषु हंसाः निपतन्ति हृष्टाः॥ ४२॥
vyapeta-paṅkāsu sa vālukāsu prasanna-toyāsu sa go-kulāsu . sa sāra-sārāva-vināditāsu nadīṣu haṃsāḥ nipatanti hṛṣṭāḥ.. 42..
नदीघनप्रस्रवणोदकाना- मतिप्रवृद्धानिलबर्हिणानाम् । प्लवंगमानां च गतोत्सवानां ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः॥ ४३॥
नदी-घन-प्रस्रवण-उदकानाम् अति प्रवृद्ध-अनिल-बर्हिणानाम् । प्लवंगमानाम् च गत-उत्सवानाम् ध्रुवम् रवाः सम्प्रति सम्प्रणष्टाः॥ ४३॥
nadī-ghana-prasravaṇa-udakānām ati pravṛddha-anila-barhiṇānām . plavaṃgamānām ca gata-utsavānām dhruvam ravāḥ samprati sampraṇaṣṭāḥ.. 43..
अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः । क्षुधार्दिता घोरविषा बिलेभ्य- श्चिरोषिता विप्रसरन्ति सर्पाः॥ ४४॥
अनेक-वर्णाः सु विनष्ट-कायाः नव-उदितेषु अम्बुधरेषु नष्टाः । क्षुधा-अर्दिताः घोर-विषाः बिलेभ्यः चिर-उषिताः विप्रसरन्ति सर्पाः॥ ४४॥
aneka-varṇāḥ su vinaṣṭa-kāyāḥ nava-uditeṣu ambudhareṣu naṣṭāḥ . kṣudhā-arditāḥ ghora-viṣāḥ bilebhyaḥ cira-uṣitāḥ viprasaranti sarpāḥ.. 44..
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका । अहो रागवती संध्या जहाति स्वयमम्बरम्॥ ४५॥
चञ्चत्-चन्द्रकर-स्पर्श-हर्ष-उन्मीलित-तारका । अहो रागवती संध्या जहाति स्वयम् अम्बरम्॥ ४५॥
cañcat-candrakara-sparśa-harṣa-unmīlita-tārakā . aho rāgavatī saṃdhyā jahāti svayam ambaram.. 45..
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा । ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी॥ ४६॥
रात्रिः शशाङ्क-उदित-सौम्य-वक्त्रा तारा-गण-उन्मीलित-चारु-नेत्रा । ज्योत्स्ना-अंशुक-प्रावरणा विभाति नारी इव शुक्ल-अंशुक-संवृत-अङ्गी॥ ४६॥
rātriḥ śaśāṅka-udita-saumya-vaktrā tārā-gaṇa-unmīlita-cāru-netrā . jyotsnā-aṃśuka-prāvaraṇā vibhāti nārī iva śukla-aṃśuka-saṃvṛta-aṅgī.. 46..
विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः । नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला॥ ४७॥
विपक्व-शालि-प्रसवानि भुक्त्वा प्रहर्षिता सारस-चारु-पङ्क्तिः । नभः समाक्रामति शीघ्र-वेगा वात-अवधूता ग्रथिता इव माला॥ ४७॥
vipakva-śāli-prasavāni bhuktvā praharṣitā sārasa-cāru-paṅktiḥ . nabhaḥ samākrāmati śīghra-vegā vāta-avadhūtā grathitā iva mālā.. 47..
सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति । घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्॥ ४८॥
सुप्त-एक-हंसम् कुमुदैः उपेतम् महा-ह्रद-स्थम् सलिलम् विभाति । घनैः विमुक्तम् निशि पूर्ण-चन्द्रम् तारा-गण-आकीर्णम् इव अन्तरिक्षम्॥ ४८॥
supta-eka-haṃsam kumudaiḥ upetam mahā-hrada-stham salilam vibhāti . ghanaiḥ vimuktam niśi pūrṇa-candram tārā-gaṇa-ākīrṇam iva antarikṣam.. 48..
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् । वाप्युत्तमानामधिकाद्य लक्ष्मी- र्वराङ्गनानामिव भूषितानाम्॥ ४९॥
प्रकीर्ण-हंस-आकुल-मेखलानाम् प्रबुद्ध-पद्म-उत्पल-मालिनीनाम् । वा अपि उत्तमानाम् अधिका अद्य लक्ष्मी वर-अङ्गनानाम् इव भूषितानाम्॥ ४९॥
prakīrṇa-haṃsa-ākula-mekhalānām prabuddha-padma-utpala-mālinīnām . vā api uttamānām adhikā adya lakṣmī vara-aṅganānām iva bhūṣitānām.. 49..
वेणुस्वरव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसम्प्रवृत्तः । सम्मूर्छितो गर्गरगोवृषाणा- मन्योन्यमापूरयतीव शब्दः॥ ५०॥
वेणु-स्वर-व्यञ्जित-तूर्य-मिश्रः प्रत्यूष-काले अनिल-सम्प्रवृत्तः । सम्मूर्छितः गर्गर-गोवृषाणाम् अन्योन्यम् आपूरयति इव शब्दः॥ ५०॥
veṇu-svara-vyañjita-tūrya-miśraḥ pratyūṣa-kāle anila-sampravṛttaḥ . sammūrchitaḥ gargara-govṛṣāṇām anyonyam āpūrayati iva śabdaḥ.. 50..
नवैर्नदीनां कुसुमप्रहासै- र्व्याधूयमानैर्मृदुमारुतेन । धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि॥ ५१॥
नवैः नदीनाम् कुसुम-प्रहासैः व्याधूयमानैः मृदु-मारुतेन । धौत-अमल-क्षौम-पट-प्रकाशैः कूलानि काशैः उपशोभितानि॥ ५१॥
navaiḥ nadīnām kusuma-prahāsaiḥ vyādhūyamānaiḥ mṛdu-mārutena . dhauta-amala-kṣauma-paṭa-prakāśaiḥ kūlāni kāśaiḥ upaśobhitāni.. 51..
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः । वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः॥ ५२॥
वन-प्रचण्डाः मधु-पान-शौण्डाः प्रिय-अन्विताः षष्-चरणाः प्रहृष्टाः । वनेषु मत्ताः पवन-अनुयात्राम् कुर्वन्ति पद्म-आसन-रेणु-गौराः॥ ५२॥
vana-pracaṇḍāḥ madhu-pāna-śauṇḍāḥ priya-anvitāḥ ṣaṣ-caraṇāḥ prahṛṣṭāḥ . vaneṣu mattāḥ pavana-anuyātrām kurvanti padma-āsana-reṇu-gaurāḥ.. 52..
जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्वम् । मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्॥ ५३॥
जलम् प्रसन्नम् कुसुम-प्रहासम् क्रौञ्च-स्वनम् शालि-वनम् विपक्वम् । मृदुः च वायुः विमलः च चन्द्रः शंसन्ति वर्ष-व्यपनीत-कालम्॥ ५३॥
jalam prasannam kusuma-prahāsam krauñca-svanam śāli-vanam vipakvam . mṛduḥ ca vāyuḥ vimalaḥ ca candraḥ śaṃsanti varṣa-vyapanīta-kālam.. 53..
मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः । कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्॥ ५४॥
मीन-उपसंदर्शित-मेखलानाम् नदी-वधूनाम् गतयः अद्य मन्दाः । कान्त-उपभुक्त-अलस-गामिनीनाम् प्रभात-कालेषु इव कामिनीनाम्॥ ५४॥
mīna-upasaṃdarśita-mekhalānām nadī-vadhūnām gatayaḥ adya mandāḥ . kānta-upabhukta-alasa-gāminīnām prabhāta-kāleṣu iva kāminīnām.. 54..
सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि । सपत्ररेखाणि सरोचनानि वधूमुखानीव नदीमुखानि॥ ५५॥
स चक्रवाकानि स शैवलानि काशैः दुकूलैः इव संवृतानि । स पत्र-रेखाणि स रोचनानि वधू-मुखानि इव नदी-मुखानि॥ ५५॥
sa cakravākāni sa śaivalāni kāśaiḥ dukūlaiḥ iva saṃvṛtāni . sa patra-rekhāṇi sa rocanāni vadhū-mukhāni iva nadī-mukhāni.. 55..
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु । गृहीतचापोद्यतदण्डचण्डः प्रचण्डचापोऽद्य वनेषु कामः॥ ५६॥
प्रफुल्ल-बाणासन-चित्रितेषु प्रहृष्ट-षट्पाद-निकूजितेषु । गृहीत-चाप-उद्यत-दण्ड-चण्डः प्रचण्ड-चापः अद्य वनेषु कामः॥ ५६॥
praphulla-bāṇāsana-citriteṣu prahṛṣṭa-ṣaṭpāda-nikūjiteṣu . gṛhīta-cāpa-udyata-daṇḍa-caṇḍaḥ pracaṇḍa-cāpaḥ adya vaneṣu kāmaḥ.. 56..
लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा । निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः॥ ५७॥
लोकम् सु वृष्ट्या परितोषयित्वा नदीः तटाकानि च पूरयित्वा । निष्पन्न-सस्याम् वसुधाम् च कृत्वा त्यक्त्वा नभः तोयधराः प्रणष्टाः॥ ५७॥
lokam su vṛṣṭyā paritoṣayitvā nadīḥ taṭākāni ca pūrayitvā . niṣpanna-sasyām vasudhām ca kṛtvā tyaktvā nabhaḥ toyadharāḥ praṇaṣṭāḥ.. 57..
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगमसव्रीडा जघनानीव योषितः॥ ५८॥
दर्शयन्ति शरद्-नद्यः पुलिनानि शनैस् शनैस् । नव-संगम-स व्रीडाः जघनानि इव योषितः॥ ५८॥
darśayanti śarad-nadyaḥ pulināni śanais śanais . nava-saṃgama-sa vrīḍāḥ jaghanāni iva yoṣitaḥ.. 58..
प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः । चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ ५९॥
प्रसन्न-सलिलाः सौम्य कुरर-अभिविनादिताः । चक्रवाक-गण-आकीर्णाः विभान्ति सलिलाशयाः॥ ५९॥
prasanna-salilāḥ saumya kurara-abhivināditāḥ . cakravāka-gaṇa-ākīrṇāḥ vibhānti salilāśayāḥ.. 59..
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज । उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥ ६०॥
अन्योन्य-बद्धवैराणाम् जिगीषूणाम् नृप-आत्मज । उद्योग-समयः सौम्य पार्थिवानाम् उपस्थितः॥ ६०॥
anyonya-baddhavairāṇām jigīṣūṇām nṛpa-ātmaja . udyoga-samayaḥ saumya pārthivānām upasthitaḥ.. 60..
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज । न च पश्यामि सुग्रीवमुद्योगं च तथाविधम्॥ ६१॥
इयम् सा प्रथमा यात्रा पार्थिवानाम् नृप-आत्मज । न च पश्यामि सुग्रीवम् उद्योगम् च तथाविधम्॥ ६१॥
iyam sā prathamā yātrā pārthivānām nṛpa-ātmaja . na ca paśyāmi sugrīvam udyogam ca tathāvidham.. 61..
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः । दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु॥ ६२॥
असनाः सप्तपर्णाः च कोविदाराः च पुष्पिताः । दृश्यन्ते बन्धुजीवाः च श्यामाः च गिरि-सानुषु॥ ६२॥
asanāḥ saptaparṇāḥ ca kovidārāḥ ca puṣpitāḥ . dṛśyante bandhujīvāḥ ca śyāmāḥ ca giri-sānuṣu.. 62..
हंससारसचक्राह्वैः कुररैश्च समन्ततः । पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण॥ ६३॥
हंस-सारस-चक्राह्वैः कुररैः च समन्ततः । पुलिनानि अवकीर्णानि नदीनाम् पश्य लक्ष्मण॥ ६३॥
haṃsa-sārasa-cakrāhvaiḥ kuraraiḥ ca samantataḥ . pulināni avakīrṇāni nadīnām paśya lakṣmaṇa.. 63..
चत्वारो वार्षिका मासा गता वर्षशतोपमाः । मम शोकाभितप्तस्य तथा सीतामपश्यतः॥ ६४॥
चत्वारः वार्षिकाः मासाः गताः वर्ष-शत-उपमाः । मम शोक-अभितप्तस्य तथा सीताम् अपश्यतः॥ ६४॥
catvāraḥ vārṣikāḥ māsāḥ gatāḥ varṣa-śata-upamāḥ . mama śoka-abhitaptasya tathā sītām apaśyataḥ.. 64..
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् । विषमं दण्डकारण्यमुद्यानमिव चाङ्गना॥ ६५॥
चक्रवाकी इव भर्तारम् पृष्ठतस् अनुगता वनम् । विषमम् दण्डक-अरण्यम् उद्यानम् इव च अङ्गना॥ ६५॥
cakravākī iva bhartāram pṛṣṭhatas anugatā vanam . viṣamam daṇḍaka-araṇyam udyānam iva ca aṅganā.. 65..
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते । कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण॥ ६६॥
प्रिया-विहीने दुःख-आर्ते हृत-राज्ये विवासिते । कृपाम् न कुरुते राजा सुग्रीवः मयि लक्ष्मण॥ ६६॥
priyā-vihīne duḥkha-ārte hṛta-rājye vivāsite . kṛpām na kurute rājā sugrīvaḥ mayi lakṣmaṇa.. 66..
अनाथो हृतराज्योऽहं रावणेन च धर्षितः । दीनो दूरगृहः कामी मां चैव शरणं गतः॥ ६७॥
अनाथः हृत-राज्यः अहम् रावणेन च धर्षितः । दीनः दूरगृहः कामी माम् च एव शरणम् गतः॥ ६७॥
anāthaḥ hṛta-rājyaḥ aham rāvaṇena ca dharṣitaḥ . dīnaḥ dūragṛhaḥ kāmī mām ca eva śaraṇam gataḥ.. 67..
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः । अहं वानरराजस्य परिभूतः परंतपः॥ ६८॥
इति एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः । अहम् वानर-राजस्य परिभूतः परंतपः॥ ६८॥
iti etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ . aham vānara-rājasya paribhūtaḥ paraṃtapaḥ.. 68..
स कालं परिसंख्याय सीतायाः परिमार्गणे । कृतार्थः समयं कृत्वा दुर्मतिर्नाववुध्यते॥ ६९॥
स कालम् परिसंख्याय सीतायाः परिमार्गणे । कृतार्थः समयम् कृत्वा दुर्मतिः न अववुध्यते॥ ६९॥
sa kālam parisaṃkhyāya sītāyāḥ parimārgaṇe . kṛtārthaḥ samayam kṛtvā durmatiḥ na avavudhyate.. 69..
स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम् । मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम॥ ७०॥
स किष्किन्धाम् प्रविश्य त्वम् ब्रूहि वानर-पुङ्गवम् । मूर्खम् ग्राम्य-सुखे सक्तम् सुग्रीवम् वचनात् मम॥ ७०॥
sa kiṣkindhām praviśya tvam brūhi vānara-puṅgavam . mūrkham grāmya-sukhe saktam sugrīvam vacanāt mama.. 70..
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् । आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥ ७१॥
अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् । आशाम् संश्रुत्य यः हन्ति स लोके पुरुष-अधमः॥ ७१॥
arthinām upapannānām pūrvam ca api upakāriṇām . āśām saṃśrutya yaḥ hanti sa loke puruṣa-adhamaḥ.. 71..
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥ ७२॥
शुभम् वा यदि वा पापम् यः हि वाक्यम् उदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुष-उत्तमः॥ ७२॥
śubham vā yadi vā pāpam yaḥ hi vākyam udīritam . satyena parigṛhṇāti sa vīraḥ puruṣa-uttamaḥ.. 72..
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये । तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥ ७३॥
कृतार्थाः हि अकृतार्थानाम् मित्राणाम् न भवन्ति ये । तान् मृतान् अपि क्रव्यादाः कृतघ्नान् न उपभुञ्जते॥ ७३॥
kṛtārthāḥ hi akṛtārthānām mitrāṇām na bhavanti ye . tān mṛtān api kravyādāḥ kṛtaghnān na upabhuñjate.. 73..
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे । द्रष्टुमिच्छसि चापस्य रूपं विद्युद्गणोपमम्॥ ७४॥
नूनम् काञ्चन-पृष्ठस्य विकृष्टस्य मया रणे । द्रष्टुम् इच्छसि चापस्य रूपम् विद्युत्-गण-उपमम्॥ ७४॥
nūnam kāñcana-pṛṣṭhasya vikṛṣṭasya mayā raṇe . draṣṭum icchasi cāpasya rūpam vidyut-gaṇa-upamam.. 74..
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे । निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि॥ ७५॥
घोरम् ज्या-तल-निर्घोषम् क्रुद्धस्य मम संयुगे । निर्घोषम् इव वज्रस्य पुनर् संश्रोतुम् इच्छसि॥ ७५॥
ghoram jyā-tala-nirghoṣam kruddhasya mama saṃyuge . nirghoṣam iva vajrasya punar saṃśrotum icchasi.. 75..
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे । त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज॥ ७६॥
कामम् एवंगते अपि अस्य परिज्ञाते पराक्रमे । त्वद्-सहायस्य मे वीर न चिन्ता स्यात् नृप-आत्मज॥ ७६॥
kāmam evaṃgate api asya parijñāte parākrame . tvad-sahāyasya me vīra na cintā syāt nṛpa-ātmaja.. 76..
यदर्थमयमारम्भः कृतः परपुरंजय । समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥ ७७॥
यद्-अर्थम् अयम् आरम्भः कृतः पर-पुरंजय । समयम् न अभिजानाति कृतार्थः प्लवग-ईश्वरः॥ ७७॥
yad-artham ayam ārambhaḥ kṛtaḥ para-puraṃjaya . samayam na abhijānāti kṛtārthaḥ plavaga-īśvaraḥ.. 77..
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः । व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते॥ ७८॥
वर्षाः समय-कालम् तु प्रतिज्ञाय हरि-ईश्वरः । व्यतीतान् चतुरः मासान् विहरन् न अवबुध्यते॥ ७८॥
varṣāḥ samaya-kālam tu pratijñāya hari-īśvaraḥ . vyatītān caturaḥ māsān viharan na avabudhyate.. 78..
सामात्यपरिषत्क्रीडन् पानमेवोपसेवते । शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्॥ ७९॥
स अमात्य-परिषद्-क्रीडन् पानम् एव उपसेवते । शोक-दीनेषु न अस्मासु सुग्रीवः कुरुते दयाम्॥ ७९॥
sa amātya-pariṣad-krīḍan pānam eva upasevate . śoka-dīneṣu na asmāsu sugrīvaḥ kurute dayām.. 79..
उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल । मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥ ८०॥
उच्यताम् गच्छ सुग्रीवः त्वया वीर महा-बल । मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः॥ ८०॥
ucyatām gaccha sugrīvaḥ tvayā vīra mahā-bala . mama roṣasya yat rūpam brūyāḥ ca enam idam vacaḥ.. 80..
न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ ८१॥
न स संकुचितः पन्थाः येन वाली हतः गतः । समये तिष्ठ सुग्रीव मा वालि-पथम् अन्वगाः॥ ८१॥
na sa saṃkucitaḥ panthāḥ yena vālī hataḥ gataḥ . samaye tiṣṭha sugrīva mā vāli-patham anvagāḥ.. 81..
एक एव रणे वाली शरेण निहतो मया । त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्॥ ८२॥
एकः एव रणे वाली शरेण निहतः मया । त्वाम् तु सत्यात् अतिक्रान्तम् हनिष्यामि स बान्धवम्॥ ८२॥
ekaḥ eva raṇe vālī śareṇa nihataḥ mayā . tvām tu satyāt atikrāntam haniṣyāmi sa bāndhavam.. 82..
यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ । तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥ ८३॥
यत् एवम् विहिते कार्ये यत् हितम् पुरुष-ऋषभ । तत् तत् ब्रूहि नर-श्रेष्ठ त्वर काल-व्यतिक्रमः॥ ८३॥
yat evam vihite kārye yat hitam puruṣa-ṛṣabha . tat tat brūhi nara-śreṣṭha tvara kāla-vyatikramaḥ.. 83..
कुरुष्व सत्यं मम वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् । मा वालिनं प्रेतगतो यमक्षये त्वमद्य पश्येर्मम चोदितः शरैः॥ ८४॥
कुरुष्व सत्यम् मम वानर-ईश्वर प्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् । मा वालिनम् प्रेत-गतः यम-क्षये त्वम् अद्य पश्येः मम चोदितः शरैः॥ ८४॥
kuruṣva satyam mama vānara-īśvara pratiśrutam dharmam avekṣya śāśvatam . mā vālinam preta-gataḥ yama-kṣaye tvam adya paśyeḥ mama coditaḥ śaraiḥ.. 84..
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् । चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशवर्धनः॥ ८५॥
स पूर्वजम् तीव्र-विवृद्ध-कोपम् लालप्यमानम् प्रसमीक्ष्य दीनम् । चकार तीव्राम् मतिम् उग्र-तेजाः हरि-ईश्वरे मानव-वंश-वर्धनः॥ ८५॥
sa pūrvajam tīvra-vivṛddha-kopam lālapyamānam prasamīkṣya dīnam . cakāra tīvrām matim ugra-tejāḥ hari-īśvare mānava-vaṃśa-vardhanaḥ.. 85..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe triṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In