This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-३१॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकत्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekatriṃśaḥ sargaḥ ..4..
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच॥ १॥
स कामिनम् दीनम् अदीन-सत्त्वम् शोक-अभिपन्नम् समुदीर्ण-कोपम् । नरेन्द्र-सूनुः नरदेव-पुत्रम् राम-अनुजः पूर्वजम् इति उवाच॥ १॥
sa kāminam dīnam adīna-sattvam śoka-abhipannam samudīrṇa-kopam . narendra-sūnuḥ naradeva-putram rāma-anujaḥ pūrvajam iti uvāca.. 1..
न वानरः स्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान् । न भोक्ष्यते वानरराज्यलक्ष्मीं तथा हि नातिक्रमतेऽस्य बुद्धिः॥ २॥
न वानरः स्थास्यति साधु-वृत्ते न मन्यते कर्म-फल-अनुषङ्गान् । न भोक्ष्यते वानर-राज्य-लक्ष्मीम् तथा हि न अतिक्रमते अस्य बुद्धिः॥ २॥
na vānaraḥ sthāsyati sādhu-vṛtte na manyate karma-phala-anuṣaṅgān . na bhokṣyate vānara-rājya-lakṣmīm tathā hi na atikramate asya buddhiḥ.. 2..
मतिक्षयाद् ग्राम्यसुखेषु सक्त- स्तव प्रसादात् प्रतिकारबुद्धिः । हतोऽग्रजं पश्यतु वीरवालिनं न राज्यमेवं विगुणस्य देयम्॥ ३॥
मति-क्षयात् ग्राम्य-सुखेषु सक्त तव प्रसादात् प्रतिकार-बुद्धिः । हतः अग्रजम् पश्यतु वीर-वालिनम् न राज्यम् एवम् विगुणस्य देयम्॥ ३॥
mati-kṣayāt grāmya-sukheṣu sakta tava prasādāt pratikāra-buddhiḥ . hataḥ agrajam paśyatu vīra-vālinam na rājyam evam viguṇasya deyam.. 3..
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य । हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु॥ ४॥
न धारये कोपम् उदीर्ण-वेगम् निहन्मि सुग्रीवम् असत्यम् अद्य । हरि-प्रवीरैः सह वालि-पुत्रः नरेन्द्र-पुत्र्या विचयम् करोतु॥ ४॥
na dhāraye kopam udīrṇa-vegam nihanmi sugrīvam asatyam adya . hari-pravīraiḥ saha vāli-putraḥ narendra-putryā vicayam karotu.. 4..
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् । उवाच रामः परवीरहन्ता स्ववीक्षितं सानुनयं च वाक्यम्॥ ५॥
तम् आत्त-बाणासनम् उत्पतन्तम् निवेदित-अर्थम् रण-चण्ड-कोपम् । उवाच रामः पर-वीर-हन्ता स्व-वीक्षितम् स अनुनयम् च वाक्यम्॥ ५॥
tam ātta-bāṇāsanam utpatantam nivedita-artham raṇa-caṇḍa-kopam . uvāca rāmaḥ para-vīra-hantā sva-vīkṣitam sa anunayam ca vākyam.. 5..
नहि वै त्वद्विधो लोके पापमेवं समाचरेत् । कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः॥ ६॥
नहि वै त्वद्विधः लोके पापम् एवम् समाचरेत् । कोपम् आर्येण यः हन्ति स वीरः पुरुष-उत्तमः॥ ६॥
nahi vai tvadvidhaḥ loke pāpam evam samācaret . kopam āryeṇa yaḥ hanti sa vīraḥ puruṣa-uttamaḥ.. 6..
नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण । तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्॥ ७॥
न इदम् अत्र त्वया ग्राह्यम् साधु-वृत्तेन लक्ष्मण । ताम् प्रीतिम् अनुवर्तस्व पूर्व-वृत्तम् च संगतम्॥ ७॥
na idam atra tvayā grāhyam sādhu-vṛttena lakṣmaṇa . tām prītim anuvartasva pūrva-vṛttam ca saṃgatam.. 7..
सामोपहितया वाचा रूक्षाणि परिवर्जयन् । वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये॥ ८॥
साम-उपहितया वाचा रूक्षाणि परिवर्जयन् । वक्तुम् अर्हसि सुग्रीवम् व्यतीतम् काल-पर्यये॥ ८॥
sāma-upahitayā vācā rūkṣāṇi parivarjayan . vaktum arhasi sugrīvam vyatītam kāla-paryaye.. 8..
सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः । प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा॥ ९॥
सः अग्रजेन अनुशिष्ट-अर्थः यथावत् पुरुष-ऋषभः । प्रविवेश पुरीम् वीरः लक्ष्मणः पर-वीर-हा॥ ९॥
saḥ agrajena anuśiṣṭa-arthaḥ yathāvat puruṣa-ṛṣabhaḥ . praviveśa purīm vīraḥ lakṣmaṇaḥ para-vīra-hā.. 9..
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः । लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः॥ १०॥
ततस् शुभ-मतिः प्राज्ञः भ्रातुः प्रिय-हिते रतः । लक्ष्मणः प्रतिसंरब्धः जगाम भवनम् कपेः॥ १०॥
tatas śubha-matiḥ prājñaḥ bhrātuḥ priya-hite rataḥ . lakṣmaṇaḥ pratisaṃrabdhaḥ jagāma bhavanam kapeḥ.. 10..
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम् । प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव॥ ११॥
शक्रबाणासन-प्रख्यम् धनुः काल-अन्तक-उपमम् । प्रगृह्य गिरि-शृङ्ग-आभम् मन्दरः सानुमान् इव॥ ११॥
śakrabāṇāsana-prakhyam dhanuḥ kāla-antaka-upamam . pragṛhya giri-śṛṅga-ābham mandaraḥ sānumān iva.. 11..
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् । बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा॥ १२॥
यथा उक्त-कारी वचनम् उत्तरम् च एव सोत्तरम् । बृहस्पति-समः बुद्ध्या मत्वा राम-अनुजः तदा॥ १२॥
yathā ukta-kārī vacanam uttaram ca eva sottaram . bṛhaspati-samaḥ buddhyā matvā rāma-anujaḥ tadā.. 12..
कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः । प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः॥ १३॥
काम-क्रोध-समुत्थेन भ्रातुः क्रोध-अग्निना वृतः । प्रभञ्जनः इव अ प्रीतः प्रययौ लक्ष्मणः ततस्॥ १३॥
kāma-krodha-samutthena bhrātuḥ krodha-agninā vṛtaḥ . prabhañjanaḥ iva a prītaḥ prayayau lakṣmaṇaḥ tatas.. 13..
सालतालाश्वकर्णांश्च तरसा पातयन् बलात् । पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगितः॥ १४॥
साल-ताल-अश्वकर्णान् च तरसा पातयन् बलात् । पर्यस्यन् गिरि-कूटानि द्रुमान् अन्यान् च वेगितः॥ १४॥
sāla-tāla-aśvakarṇān ca tarasā pātayan balāt . paryasyan giri-kūṭāni drumān anyān ca vegitaḥ.. 14..
शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः । दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्॥ १५॥
शिलाः च शकलीकुर्वन् पद्भ्याम् गजः इव आशु-गः । दूरम् एक-पदम् त्यक्त्वा ययौ कार्य-वशात् द्रुतम्॥ १५॥
śilāḥ ca śakalīkurvan padbhyām gajaḥ iva āśu-gaḥ . dūram eka-padam tyaktvā yayau kārya-vaśāt drutam.. 15..
तामपश्यद् बलाकीर्णां हरिराजमहापुरीम् । दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे॥ १६॥
ताम् अपश्यत् बल-आकीर्णाम् हरि-राज-महा-पुरीम् । दुर्गाम् इक्ष्वाकु-शार्दूलः किष्किन्धाम् गिरि-संकटे॥ १६॥
tām apaśyat bala-ākīrṇām hari-rāja-mahā-purīm . durgām ikṣvāku-śārdūlaḥ kiṣkindhām giri-saṃkaṭe.. 16..
रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः । ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान्॥ १७॥
रोषात् प्रस्फुरमाण-उष्ठः सुग्रीवम् प्रति लक्ष्मणः । ददर्श वानरान् भीमान् किष्किन्धायाम् बहिश्चरान्॥ १७॥
roṣāt prasphuramāṇa-uṣṭhaḥ sugrīvam prati lakṣmaṇaḥ . dadarśa vānarān bhīmān kiṣkindhāyām bahiścarān.. 17..
तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् । शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे॥ १८॥
तम् दृष्ट्वा वानराः सर्वे लक्ष्मणम् पुरुष-ऋषभम् । शैल-शृङ्गाणि शतशस् प्रवृद्धान् च महीरुहान् । जगृहुः कुञ्जर-प्रख्याः वानराः पर्वत-अन्तरे॥ १८॥
tam dṛṣṭvā vānarāḥ sarve lakṣmaṇam puruṣa-ṛṣabham . śaila-śṛṅgāṇi śataśas pravṛddhān ca mahīruhān . jagṛhuḥ kuñjara-prakhyāḥ vānarāḥ parvata-antare.. 18..
तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः । बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः॥ १९॥
तान् गृहीत-प्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः । बभूव द्विगुणम् क्रुद्धः बहु-इन्धनः इव अनलः॥ १९॥
tān gṛhīta-praharaṇān sarvān dṛṣṭvā tu lakṣmaṇaḥ . babhūva dviguṇam kruddhaḥ bahu-indhanaḥ iva analaḥ.. 19..
तं ते भयपरीताङ्गा क्षुब्धं दृष्ट्वा प्लवंगमाः । कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः॥ २०॥
तम् ते भय-परीत-अङ्गा क्षुब्धम् दृष्ट्वा प्लवंगमाः । काल-मृत्यु-युगान्त-आभम् शतशस् विद्रुताः दिशः॥ २०॥
tam te bhaya-parīta-aṅgā kṣubdham dṛṣṭvā plavaṃgamāḥ . kāla-mṛtyu-yugānta-ābham śataśas vidrutāḥ diśaḥ.. 20..
ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः । क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्॥ २१॥
ततस् सुग्रीव-भवनम् प्रविश्य हरि-पुंगवाः । क्रोधम् आगमनम् च एव लक्ष्मणस्य न्यवेदयन्॥ २१॥
tatas sugrīva-bhavanam praviśya hari-puṃgavāḥ . krodham āgamanam ca eva lakṣmaṇasya nyavedayan.. 21..
तारया सहितः कामी सक्तः कपिवृषस्तदा । न तेषां कपिसिंहानां शुश्राव वचनं तदा॥ २२॥
तारया सहितः कामी सक्तः कपि-वृषः तदा । न तेषाम् कपि-सिंहानाम् शुश्राव वचनम् तदा॥ २२॥
tārayā sahitaḥ kāmī saktaḥ kapi-vṛṣaḥ tadā . na teṣām kapi-siṃhānām śuśrāva vacanam tadā.. 22..
ततः सचिवसंदिष्टा हरयो रोमहर्षणाः । गिरिकुञ्जरमेघाभा नगरान्निर्ययुस्तदा॥ २३॥
ततस् सचिव-संदिष्टाः हरयः रोमहर्षणाः । गिरि-कुञ्जर-मेघ-आभाः नगरात् निर्ययुः तदा॥ २३॥
tatas saciva-saṃdiṣṭāḥ harayaḥ romaharṣaṇāḥ . giri-kuñjara-megha-ābhāḥ nagarāt niryayuḥ tadā.. 23..
नखदंष्ट्रायुधाः सर्वे वीरा विकृतदर्शनाः । सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः॥ २४॥
नख-दंष्ट्र-आयुधाः सर्वे वीराः विकृत-दर्शनाः । सर्वे शार्दूल-दंष्ट्राः च सर्वे विवृत-दर्शनाः॥ २४॥
nakha-daṃṣṭra-āyudhāḥ sarve vīrāḥ vikṛta-darśanāḥ . sarve śārdūla-daṃṣṭrāḥ ca sarve vivṛta-darśanāḥ.. 24..
दशनागबलाः केचित् केचिद् दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यवर्चसः॥ २५॥
दश-नाग-बलाः केचिद् केचिद् दश-गुण-उत्तराः । केचिद् नाग-सहस्रस्य बभूवुः तुल्य-वर्चसः॥ २५॥
daśa-nāga-balāḥ kecid kecid daśa-guṇa-uttarāḥ . kecid nāga-sahasrasya babhūvuḥ tulya-varcasaḥ.. 25..
ततस्तैः कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः । अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्॥ २६॥
ततस् तैः कपिभिः व्याप्ताम् द्रुम-हस्तैः महा-बलैः । अपश्यत् लक्ष्मणः क्रुद्धः किष्किन्धाम् ताम् दुरासदाम्॥ २६॥
tatas taiḥ kapibhiḥ vyāptām druma-hastaiḥ mahā-balaiḥ . apaśyat lakṣmaṇaḥ kruddhaḥ kiṣkindhām tām durāsadām.. 26..
ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् । निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा॥ २७॥
ततस् ते हरयः सर्वे प्राकार-परिखा-अन्तरात् । निष्क्रम्य उदग्र-सत्त्वाः तु तस्थुः आविष्कृतम् तदा॥ २७॥
tatas te harayaḥ sarve prākāra-parikhā-antarāt . niṣkramya udagra-sattvāḥ tu tasthuḥ āviṣkṛtam tadā.. 27..
सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान् । दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः॥ २८॥
सुग्रीवस्य प्रमादम् च पूर्वजस्य अर्थम् आत्मवान् । दृष्ट्वा क्रोध-वशम् वीरः पुनर् एव जगाम सः॥ २८॥
sugrīvasya pramādam ca pūrvajasya artham ātmavān . dṛṣṭvā krodha-vaśam vīraḥ punar eva jagāma saḥ.. 28..
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः । बभूव नरशार्दूलः सधूम इव पावकः॥ २९॥
स दीर्घ-उष्ण-महा-उच्छ्वासः कोप-संरक्त-लोचनः । बभूव नर-शार्दूलः स धूमः इव पावकः॥ २९॥
sa dīrgha-uṣṇa-mahā-ucchvāsaḥ kopa-saṃrakta-locanaḥ . babhūva nara-śārdūlaḥ sa dhūmaḥ iva pāvakaḥ.. 29..
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् । स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः॥ ३०॥
बाण-शल्य-स्फुरत्-जिह्वः सायक-आसन-भोगवान् । स्व-तेजः-विष-सम्भूतः पञ्च-आस्यः इव पन्नगः॥ ३०॥
bāṇa-śalya-sphurat-jihvaḥ sāyaka-āsana-bhogavān . sva-tejaḥ-viṣa-sambhūtaḥ pañca-āsyaḥ iva pannagaḥ.. 30..
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् । समासाद्याङ्गदस्त्रासाद् विषादमगमत् परम्॥ ३१॥
तम् दीप्तम् इव कालाग्निम् नाग-इन्द्रम् इव कोपितम् । समासाद्य अङ्गदः त्रासात् विषादम् अगमत् परम्॥ ३१॥
tam dīptam iva kālāgnim nāga-indram iva kopitam . samāsādya aṅgadaḥ trāsāt viṣādam agamat param.. 31..
सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः । सुग्रीवः कथ्यतां वत्स ममागमनमित्युत॥ ३२॥
सः अङ्गदम् रोष-ताम्र-अक्षः संदिदेश महा-यशाः । सुग्रीवः कथ्यताम् वत्स मम आगमनम् इति उत॥ ३२॥
saḥ aṅgadam roṣa-tāmra-akṣaḥ saṃdideśa mahā-yaśāḥ . sugrīvaḥ kathyatām vatsa mama āgamanam iti uta.. 32..
एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम । भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः॥ ३३॥
एष राम-अनुजः प्राप्तः त्वद्-सकाशम् अरिंदम । भ्रातुः व्यसन-संतप्तः द्वारि तिष्ठति लक्ष्मणः॥ ३३॥
eṣa rāma-anujaḥ prāptaḥ tvad-sakāśam ariṃdama . bhrātuḥ vyasana-saṃtaptaḥ dvāri tiṣṭhati lakṣmaṇaḥ.. 33..
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर । इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम॥ ३४॥
तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानर । इति उक्त्वा शीघ्रम् आगच्छ वत्स वाक्यम् अरिंदम॥ ३४॥
tasya vākyam yadi ruciḥ kriyatām sādhu vānara . iti uktvā śīghram āgaccha vatsa vākyam ariṃdama.. 34..
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् । पितुः समीपमागम्य सौमित्रिरयमागतः॥ ३५॥
लक्ष्मणस्य वचः श्रुत्वा शोक-आविष्टः अङ्गदः अब्रवीत् । पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः॥ ३५॥
lakṣmaṇasya vacaḥ śrutvā śoka-āviṣṭaḥ aṅgadaḥ abravīt . pituḥ samīpam āgamya saumitriḥ ayam āgataḥ.. 35..
अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः परिदीनवक्त्रः । निर्गत्य पूर्वं नृपतेस्तरस्वी ततो रुमायाश्चरणौ ववन्दे॥ ३६॥
अथ अङ्गदः तस्य सु तीव्र-वाचा सम्भ्रान्त-भावः परिदीन-वक्त्रः । निर्गत्य पूर्वम् नृपतेः तरस्वी ततस् रुमायाः चरणौ ववन्दे॥ ३६॥
atha aṅgadaḥ tasya su tīvra-vācā sambhrānta-bhāvaḥ paridīna-vaktraḥ . nirgatya pūrvam nṛpateḥ tarasvī tatas rumāyāḥ caraṇau vavande.. 36..
संगृह्य पादौ पितुरुग्रतेजा जग्राह मातुः पुनरेव पादौ । पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम्॥ ३७॥
संगृह्य पादौ पितुः उग्र-तेजाः जग्राह मातुः पुनर् एव पादौ । पादौ रुमायाः च निपीडयित्वा निवेदयामास ततस् तद्-अर्थम्॥ ३७॥
saṃgṛhya pādau pituḥ ugra-tejāḥ jagrāha mātuḥ punar eva pādau . pādau rumāyāḥ ca nipīḍayitvā nivedayāmāsa tatas tad-artham.. 37..
स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान् । बभूव मदमत्तश्च मदनेन च मोहितः॥ ३८॥
स निद्रा-क्लान्त-संवीतः वानरः न विबुद्धवान् । बभूव मद-मत्तः च मदनेन च मोहितः॥ ३८॥
sa nidrā-klānta-saṃvītaḥ vānaraḥ na vibuddhavān . babhūva mada-mattaḥ ca madanena ca mohitaḥ.. 38..
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः । प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः॥ ३९॥
ततस् किलकिलाम् चक्रुः लक्ष्मणम् प्रेक्ष्य वानराः । प्रसादयन्तः तम् क्रुद्धम् भय-मोहित-चेतसः॥ ३९॥
tatas kilakilām cakruḥ lakṣmaṇam prekṣya vānarāḥ . prasādayantaḥ tam kruddham bhaya-mohita-cetasaḥ.. 39..
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् । सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः॥ ४०॥
ते महा-ओघ-निभम् दृष्ट्वा वज्र-अशनि-सम-स्वनम् । सिंह-नादम् समम् चक्रुः लक्ष्मणस्य समीपतस्॥ ४०॥
te mahā-ogha-nibham dṛṣṭvā vajra-aśani-sama-svanam . siṃha-nādam samam cakruḥ lakṣmaṇasya samīpatas.. 40..
तेन शब्देन महता प्रत्यबुध्यत वानरः । मदविह्वलताम्राक्षो व्याकुलः स्रग्विभूषणः॥ ४१॥
तेन शब्देन महता प्रत्यबुध्यत वानरः । मद-विह्वल-ताम्र-अक्षः व्याकुलः स्रज्-विभूषणः॥ ४१॥
tena śabdena mahatā pratyabudhyata vānaraḥ . mada-vihvala-tāmra-akṣaḥ vyākulaḥ sraj-vibhūṣaṇaḥ.. 41..
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ । मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ॥ ४२॥
अथा अङ्गद-वचः श्रुत्वा तेन एव च समागतौ । मन्त्रिणौ वानर-इन्द्रस्य सम्मत-उदार-दर्शनौ॥ ४२॥
athā aṅgada-vacaḥ śrutvā tena eva ca samāgatau . mantriṇau vānara-indrasya sammata-udāra-darśanau.. 42..
प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः । वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः॥ ४३॥
प्लक्षः च एव प्रभावः च मन्त्रिणौ अर्थ-धर्मयोः । वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः॥ ४३॥
plakṣaḥ ca eva prabhāvaḥ ca mantriṇau artha-dharmayoḥ . vaktum uccāvacam prāptam lakṣmaṇam tau śaśaṃsatuḥ.. 43..
प्रसादयित्वा सुग्रीवं वचनैः सार्थनिश्चितैः । आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्॥ ४४॥
प्रसादयित्वा सुग्रीवम् वचनैः सार्थ-निश्चितैः । आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम्॥ ४४॥
prasādayitvā sugrīvam vacanaiḥ sārtha-niścitaiḥ . āsīnam paryupāsīnau yathā śakram marutpatim.. 44..
सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ । मनुष्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ॥ ४५॥
सत्य-संधौ महाभागौ भ्रातरौ राम-लक्ष्मणौ । मनुष्य-भावम् सम्प्राप्तौ राज्य-अर्हौ राज्य-दायिनौ॥ ४५॥
satya-saṃdhau mahābhāgau bhrātarau rāma-lakṣmaṇau . manuṣya-bhāvam samprāptau rājya-arhau rājya-dāyinau.. 45..
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः॥ ४६॥
तयोः एकः धनुष्पाणिः द्वारि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तः नादान् मुञ्चन्ति वानराः॥ ४६॥
tayoḥ ekaḥ dhanuṣpāṇiḥ dvāri tiṣṭhati lakṣmaṇaḥ . yasya bhītāḥ pravepantaḥ nādān muñcanti vānarāḥ.. 46..
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः । व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्॥ ४७॥
सः एष राघव-भ्राता लक्ष्मणः वाक्यसारथिः । व्यवसाय-रथः प्राप्तः तस्य रामस्य शासनात्॥ ४७॥
saḥ eṣa rāghava-bhrātā lakṣmaṇaḥ vākyasārathiḥ . vyavasāya-rathaḥ prāptaḥ tasya rāmasya śāsanāt.. 47..
अयं च तनयो राजंस्ताराया दयितोऽङ्गदः । लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ॥ ४८॥
अयम् च तनयः राजन् तारायाः दयितः अङ्गदः । लक्ष्मणेन सकाशम् ते प्रेषितः त्वरया अनघ॥ ४८॥
ayam ca tanayaḥ rājan tārāyāḥ dayitaḥ aṅgadaḥ . lakṣmaṇena sakāśam te preṣitaḥ tvarayā anagha.. 48..
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् । वानरान् वानरपते चक्षुषा निर्दहन्निव॥ ४९॥
सः अयम् रोष-परीत-अक्षः द्वारि तिष्ठति वीर्यवान् । वानरान् वानर-पते चक्षुषा निर्दहन् इव॥ ४९॥
saḥ ayam roṣa-parīta-akṣaḥ dvāri tiṣṭhati vīryavān . vānarān vānara-pate cakṣuṣā nirdahan iva.. 49..
तस्य मूर्ध्ना प्रणामं त्वं सपुत्रः सहबान्धवः । गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम्॥ ५०॥
तस्य मूर्ध्ना प्रणामम् त्वम् स पुत्रः सहबान्धवः । गच्छ शीघ्रम् महा-राज रोषः हि अद्य उपशाम्यताम्॥ ५०॥
tasya mūrdhnā praṇāmam tvam sa putraḥ sahabāndhavaḥ . gaccha śīghram mahā-rāja roṣaḥ hi adya upaśāmyatām.. 50..
यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः । राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः॥ ५१॥
यथा हि रामः धर्म-आत्मा तत् कुरुष्व समाहितः । राजन् तिष्ठ स्व-समये भव सत्य-प्रतिश्रवः॥ ५१॥
yathā hi rāmaḥ dharma-ātmā tat kuruṣva samāhitaḥ . rājan tiṣṭha sva-samaye bhava satya-pratiśravaḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-३१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकत्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekatriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In