This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रयस्त्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe trayastriṃśaḥ sargaḥ ..4..
अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा । प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात्॥ १॥
अथ प्रतिसमादिष्टः लक्ष्मणः पर-वीर-हा । प्रविवेश गुहाम् रम्याम् किष्किन्धाम् राम-शासनात्॥ १॥
atha pratisamādiṣṭaḥ lakṣmaṇaḥ para-vīra-hā . praviveśa guhām ramyām kiṣkindhām rāma-śāsanāt.. 1..
द्वारस्था हरयस्तत्र महाकाया महाबलाः । बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः॥ २॥
द्वार-स्थाः हरयः तत्र महा-कायाः महा-बलाः । बभूवुः लक्ष्मणम् दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः॥ २॥
dvāra-sthāḥ harayaḥ tatra mahā-kāyāḥ mahā-balāḥ . babhūvuḥ lakṣmaṇam dṛṣṭvā sarve prāñjalayaḥ sthitāḥ.. 2..
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् । बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्॥ ३॥
निःश्वसन्तम् तु तम् दृष्ट्वा क्रुद्धम् दशरथ-आत्मजम् । बभूवुः हरयः त्रस्ताः न च एनम् पर्यवारयन्॥ ३॥
niḥśvasantam tu tam dṛṣṭvā kruddham daśaratha-ātmajam . babhūvuḥ harayaḥ trastāḥ na ca enam paryavārayan.. 3..
स तां रत्नमयीं दिव्यां श्रीमान् पुष्पितकाननाम् । रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्॥ ४॥
स ताम् रत्न-मयीम् दिव्याम् श्रीमान् पुष्पित-काननाम् । रम्याम् रत्न-समाकीर्णाम् ददर्श महतीम् गुहाम्॥ ४॥
sa tām ratna-mayīm divyām śrīmān puṣpita-kānanām . ramyām ratna-samākīrṇām dadarśa mahatīm guhām.. 4..
हर्म्यप्रासादसम्बाधां नानारत्नोपशोभिताम् । सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्॥ ५॥
हर्म्य-प्रासाद-सम्बाधाम् नाना रत्न-उपशोभिताम् । सर्व-काम-फलैः वृक्षैः पुष्पितैः उपशोभिताम्॥ ५॥
harmya-prāsāda-sambādhām nānā ratna-upaśobhitām . sarva-kāma-phalaiḥ vṛkṣaiḥ puṣpitaiḥ upaśobhitām.. 5..
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः । दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः॥ ६॥
देव-गन्धर्व-पुत्रैः च वानरैः कामरूपिभिः । दिव्य-माल्य-अम्बर-धरैः शोभिताम् प्रिय-दर्शनैः॥ ६॥
deva-gandharva-putraiḥ ca vānaraiḥ kāmarūpibhiḥ . divya-mālya-ambara-dharaiḥ śobhitām priya-darśanaiḥ.. 6..
चन्दनागुरुपद्मानां गन्धैः सुरभिगन्धिताम् । मैरेयाणां मधूनां च सम्मोदितमहापथाम्॥ ७॥
चन्दन-अगुरु-पद्मानाम् गन्धैः सुरभि-गन्धि-ताम् । मैरेयाणाम् मधूनाम् च सम्मोदित-महा-पथाम्॥ ७॥
candana-aguru-padmānām gandhaiḥ surabhi-gandhi-tām . maireyāṇām madhūnām ca sammodita-mahā-pathām.. 7..
विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः । ददर्श गिरिनद्यश्च विमलास्तत्र राघवः॥ ८॥
विन्ध्य-मेरु-गिरि-प्रख्यैः प्रासादैः ना एक-भूमिभिः । ददर्श गिरि-नद्यः च विमलाः तत्र राघवः॥ ८॥
vindhya-meru-giri-prakhyaiḥ prāsādaiḥ nā eka-bhūmibhiḥ . dadarśa giri-nadyaḥ ca vimalāḥ tatra rāghavaḥ.. 8..
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ ९॥
अङ्गदस्य गृहम् रम्यम् मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ ९॥
aṅgadasya gṛham ramyam maindasya dvividasya ca . gavayasya gavākṣasya gajasya śarabhasya ca.. 9..
विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः । वीरबाहोः सुबाहोश्च नलस्य च महात्मनः॥ १०॥
विद्युन्मालेः च सम्पातेः सूर्याक्षस्य हनूमतः । वीरबाहोः सुबाहोः च नलस्य च महात्मनः॥ १०॥
vidyunmāleḥ ca sampāteḥ sūryākṣasya hanūmataḥ . vīrabāhoḥ subāhoḥ ca nalasya ca mahātmanaḥ.. 10..
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा । दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः॥ ११॥
कुमुदस्य सुषेणस्य तार-जाम्बवतोः तथा । दधिवक्त्रस्य नीलस्य सुपाटल-सुनेत्रयोः॥ ११॥
kumudasya suṣeṇasya tāra-jāmbavatoḥ tathā . dadhivaktrasya nīlasya supāṭala-sunetrayoḥ.. 11..
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् । ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः॥ १२॥
एतेषाम् कपि-मुख्यानाम् राजमार्गे महात्मनाम् । ददर्श गृह-मुख्यानि महा-साराणि लक्ष्मणः॥ १२॥
eteṣām kapi-mukhyānām rājamārge mahātmanām . dadarśa gṛha-mukhyāni mahā-sārāṇi lakṣmaṇaḥ.. 12..
पाण्डुराभ्रप्रकाशानि गन्धमाल्ययुतानि च । प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च॥ १३॥
पाण्डुर-अभ्र-प्रकाशानि गन्ध-माल्य-युतानि च । प्रभूत-धन-धान्यानि स्त्री-रत्नैः शोभितानि च॥ १३॥
pāṇḍura-abhra-prakāśāni gandha-mālya-yutāni ca . prabhūta-dhana-dhānyāni strī-ratnaiḥ śobhitāni ca.. 13..
पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् । वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्॥ १४॥
पाण्डुरेण तु शैलेन परिक्षिप्तम् दुरासदम् । वानर-इन्द्र-गृहम् रम्यम् महा-इन्द्र-सदन-उपमम्॥ १४॥
pāṇḍureṇa tu śailena parikṣiptam durāsadam . vānara-indra-gṛham ramyam mahā-indra-sadana-upamam.. 14..
शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः । सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्॥ १५॥
शुक्लैः प्रासाद-शिखरैः कैलास-शिखर-उपमैः । सर्व-काम-फलैः वृक्षैः पुष्पितैः उपशोभितम्॥ १५॥
śuklaiḥ prāsāda-śikharaiḥ kailāsa-śikhara-upamaiḥ . sarva-kāma-phalaiḥ vṛkṣaiḥ puṣpitaiḥ upaśobhitam.. 15..
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः । दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः॥ १६॥
महा-इन्द्र-दत्तैः श्रीमद्भिः नील-जीमूत-संनिभैः । दिव्य-पुष्प-फलैः वृक्षैः शीत-छायैः मनोरमैः॥ १६॥
mahā-indra-dattaiḥ śrīmadbhiḥ nīla-jīmūta-saṃnibhaiḥ . divya-puṣpa-phalaiḥ vṛkṣaiḥ śīta-chāyaiḥ manoramaiḥ.. 16..
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः । दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्॥ १७॥
हरिभिः संवृत-द्वारम् बलिभिः शस्त्र-पाणिभिः । दिव्य-माल्य-आवृतम् शुभ्रम् तप्त-काञ्चन-तोरणम्॥ १७॥
haribhiḥ saṃvṛta-dvāram balibhiḥ śastra-pāṇibhiḥ . divya-mālya-āvṛtam śubhram tapta-kāñcana-toraṇam.. 17..
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः । अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः॥ १८॥
सुग्रीवस्य गृहम् रम्यम् प्रविवेश महा-बलः । अ वार्यमाणः सौमित्रिः महा-अभ्रम् इव भास्करः॥ १८॥
sugrīvasya gṛham ramyam praviveśa mahā-balaḥ . a vāryamāṇaḥ saumitriḥ mahā-abhram iva bhāskaraḥ.. 18..
स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः । ददर्श सुमहद्गुप्तं ददर्शान्तःपुरं महत्॥ १९॥
स सप्त कक्ष्याः धर्म-आत्मा यान-आसन-समावृताः । ददर्श सु महत् गुप्तम् ददर्श अन्तःपुरम् महत्॥ १९॥
sa sapta kakṣyāḥ dharma-ātmā yāna-āsana-samāvṛtāḥ . dadarśa su mahat guptam dadarśa antaḥpuram mahat.. 19..
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः । महार्हास्तरणोपेतैस्तत्र तत्र समावृतम्॥ २०॥
हैम-राजत-पर्यङ्कैः बहुभिः च वरासनैः । महार्ह-आस्तरण-उपेतैः तत्र तत्र समावृतम्॥ २०॥
haima-rājata-paryaṅkaiḥ bahubhiḥ ca varāsanaiḥ . mahārha-āstaraṇa-upetaiḥ tatra tatra samāvṛtam.. 20..
प्रविशन्नेव सततं शुश्राव मधुरस्वनम् । तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम्॥ २१॥
प्रविशन् एव सततम् शुश्राव मधुर-स्वनम् । तन्त्री-गीत-समाकीर्णम् सम-ताल-पद-अक्षरम्॥ २१॥
praviśan eva satatam śuśrāva madhura-svanam . tantrī-gīta-samākīrṇam sama-tāla-pada-akṣaram.. 21..
बह्वीश्च विविधाकारा रूपयौवनगर्विताः । स्त्रियः सुग्रीवभवने ददर्श स महाबलः॥ २२॥
बह्वीः च विविध-आकाराः रूप-यौवन-गर्विताः । स्त्रियः सुग्रीव-भवने ददर्श स महा-बलः॥ २२॥
bahvīḥ ca vividha-ākārāḥ rūpa-yauvana-garvitāḥ . striyaḥ sugrīva-bhavane dadarśa sa mahā-balaḥ.. 22..
दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्रजः । वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः॥ २३॥
दृष्ट्वा अभिजन-सम्पन्नाः तत्र माल्य-कृत-स्रजः । वर-माल्य-कृत-व्यग्राः भूषण-उत्तम-भूषिताः॥ २३॥
dṛṣṭvā abhijana-sampannāḥ tatra mālya-kṛta-srajaḥ . vara-mālya-kṛta-vyagrāḥ bhūṣaṇa-uttama-bhūṣitāḥ.. 23..
नातृप्तान् नाति चाव्यग्रान् नानुदात्तपरिच्छदान् । सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः॥ २४॥
न अतृप्तान् न अति च अव्यग्रान् न अनुदात्त-परिच्छदान् । सुग्रीव-अनुचरान् च अपि लक्षयामास लक्ष्मणः॥ २४॥
na atṛptān na ati ca avyagrān na anudātta-paricchadān . sugrīva-anucarān ca api lakṣayāmāsa lakṣmaṇaḥ.. 24..
कूजितं नूपुराणां च काञ्चीनां निःस्वनं तथा । स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत्॥ २५॥
कूजितम् नूपुराणाम् च काञ्चीनाम् निःस्वनम् तथा । स निशम्य ततस् श्रीमान् सौमित्रिः लज्जितः अभवत्॥ २५॥
kūjitam nūpurāṇām ca kāñcīnām niḥsvanam tathā . sa niśamya tatas śrīmān saumitriḥ lajjitaḥ abhavat.. 25..
रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् । चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन्॥ २६॥
रोष-वेग-प्रकुपितः श्रुत्वा च आभरण-स्वनम् । चकार ज्या-स्वनम् वीरः दिशः शब्देन पूरयन्॥ २६॥
roṣa-vega-prakupitaḥ śrutvā ca ābharaṇa-svanam . cakāra jyā-svanam vīraḥ diśaḥ śabdena pūrayan.. 26..
चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः । तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः॥ २७॥
चारित्रेण महा-बाहुः अपकृष्टः स लक्ष्मणः । तस्थौ एकान्तम् आश्रित्य राम-कोप-समन्वितः॥ २७॥
cāritreṇa mahā-bāhuḥ apakṛṣṭaḥ sa lakṣmaṇaḥ . tasthau ekāntam āśritya rāma-kopa-samanvitaḥ.. 27..
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः । विज्ञायागमनं त्रस्तः स चचाल वरासनात्॥ २८॥
तेन चाप-स्वनेन अथ सुग्रीवः प्लवग-अधिपः । विज्ञाय आगमनम् त्रस्तः स चचाल वरासनात्॥ २८॥
tena cāpa-svanena atha sugrīvaḥ plavaga-adhipaḥ . vijñāya āgamanam trastaḥ sa cacāla varāsanāt.. 28..
अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम् । सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः॥ २९॥
अङ्गदेन यथा मह्यम् पुरस्तात् प्रतिवेदितम् । सु व्यक्तम् एष सम्प्राप्तः सौमित्रिः भ्रातृ-वत्सलः॥ २९॥
aṅgadena yathā mahyam purastāt prativeditam . su vyaktam eṣa samprāptaḥ saumitriḥ bhrātṛ-vatsalaḥ.. 29..
अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः । बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत॥ ३०॥
अङ्गदेन समाख्यातः ज्या-स्वनेन च वानरः । बुबुधे लक्ष्मणम् प्राप्तम् मुखम् च अस्य व्यशुष्यत॥ ३०॥
aṅgadena samākhyātaḥ jyā-svanena ca vānaraḥ . bubudhe lakṣmaṇam prāptam mukham ca asya vyaśuṣyata.. 30..
ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् । उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः॥ ३१॥
ततस् ताराम् हरि-श्रेष्ठः सुग्रीवः प्रिय-दर्शनाम् । उवाच हितम् अव्यग्रः त्रास-सम्भ्रान्त-मानसः॥ ३१॥
tatas tārām hari-śreṣṭhaḥ sugrīvaḥ priya-darśanām . uvāca hitam avyagraḥ trāsa-sambhrānta-mānasaḥ.. 31..
किं नु रुट्कारणं सुभ्रु प्रकृत्या मृदुमानसः । सरोष इव सम्प्राप्तो येनायं राघवानुजः॥ ३२॥
किम् नु रुट्कारणम् सुभ्रु प्रकृत्याः मृदु-मानसः । स रोषः इव सम्प्राप्तः येन अयम् राघव-अनुजः॥ ३२॥
kim nu ruṭkāraṇam subhru prakṛtyāḥ mṛdu-mānasaḥ . sa roṣaḥ iva samprāptaḥ yena ayam rāghava-anujaḥ.. 32..
किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते । न खल्वकारणे कोपमाहरेन्नरपुङ्गवः॥ ३३॥
किम् पश्यसि कुमारस्य रोष-स्थानम् अनिन्दिते । न खलु अकारणे कोपम् आहरेत् नर-पुङ्गवः॥ ३३॥
kim paśyasi kumārasya roṣa-sthānam anindite . na khalu akāraṇe kopam āharet nara-puṅgavaḥ.. 33..
यद्यस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् । तद्बुद्ध्या सम्प्रधार्याशु क्षिप्रमेवाभिधीयताम्॥ ३४॥
यदि अस्य कृतम् अस्माभिः बुध्यसे किंचिद् अप्रियम् । तद्-बुद्ध्या सम्प्रधार्य आशु क्षिप्रम् एव अभिधीयताम्॥ ३४॥
yadi asya kṛtam asmābhiḥ budhyase kiṃcid apriyam . tad-buddhyā sampradhārya āśu kṣipram eva abhidhīyatām.. 34..
अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि । वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि॥ ३५॥
अथवा स्वयम् एव एनम् द्रष्टुम् अर्हसि भामिनि । वचनैः सान्त्व-युक्तैः च प्रसादयितुम् अर्हसि॥ ३५॥
athavā svayam eva enam draṣṭum arhasi bhāmini . vacanaiḥ sāntva-yuktaiḥ ca prasādayitum arhasi.. 35..
त्वद्दर्शने विशुद्धात्मा न स्म कोपं करिष्यति । नहि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम्॥ ३६॥
त्वद्-दर्शने विशुद्ध-आत्मा न स्म कोपम् करिष्यति । नहि स्त्रीषु महात्मानः क्वचिद् कुर्वन्ति दारुणम्॥ ३६॥
tvad-darśane viśuddha-ātmā na sma kopam kariṣyati . nahi strīṣu mahātmānaḥ kvacid kurvanti dāruṇam.. 36..
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् । ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम्॥ ३७॥
त्वया सान्त्वैः उपक्रान्तम् प्रसन्न-इन्द्रिय-मानसम् । ततस् कमल-पत्र-अक्षम् द्रक्ष्यामि अहम् अरिंदमम्॥ ३७॥
tvayā sāntvaiḥ upakrāntam prasanna-indriya-mānasam . tatas kamala-patra-akṣam drakṣyāmi aham ariṃdamam.. 37..
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा । सलक्षणा लक्ष्मणसंनिधानं जगाम तारा नमिताङ्गयष्टिः॥ ३८॥
सा प्रस्खलन्ती मद-विह्वल-अक्षी प्रलम्ब-काञ्ची-गुण-हेमसूत्रा । स लक्षणा लक्ष्मण-संनिधानम् जगाम तारा नमित-अङ्ग-यष्टिः॥ ३८॥
sā praskhalantī mada-vihvala-akṣī pralamba-kāñcī-guṇa-hemasūtrā . sa lakṣaṇā lakṣmaṇa-saṃnidhānam jagāma tārā namita-aṅga-yaṣṭiḥ.. 38..
स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा । अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसंनिकर्षाद् विनिवृत्तकोपः॥ ३९॥
स ताम् समीक्ष्य एव हरि-ईश-पत्नीम् तस्थौ उदासीन-तया महात्मा । अवाङ्मुखः अभूत् मनुज-इन्द्र-पुत्रः स्त्री-संनिकर्षात् विनिवृत्त-कोपः॥ ३९॥
sa tām samīkṣya eva hari-īśa-patnīm tasthau udāsīna-tayā mahātmā . avāṅmukhaḥ abhūt manuja-indra-putraḥ strī-saṃnikarṣāt vinivṛtta-kopaḥ.. 39..
सा पानयोगाच्च निवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः । उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वरूपम्॥ ४०॥
सा पान-योगात् च निवृत्त-लज्जा दृष्टि-प्रसादात् च नरेन्द्र-सूनोः । उवाच तारा प्रणय-प्रगल्भम् वाक्यम् महार्थम् परिसान्त्व-रूपम्॥ ४०॥
sā pāna-yogāt ca nivṛtta-lajjā dṛṣṭi-prasādāt ca narendra-sūnoḥ . uvāca tārā praṇaya-pragalbham vākyam mahārtham parisāntva-rūpam.. 40..
किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्निदेशे । कः शुष्कवृक्षं वनमापतन्तं दावाग्निमासीदति निर्विशङ्कः॥ ४१॥
किम् कोप-मूलम् मनुज-इन्द्र-पुत्र कः ते न संतिष्ठति वाच्-निदेशे । कः शुष्क-वृक्षम् वनम् आपतन्तम् दाव-अग्निम् आसीदति निर्विशङ्कः॥ ४१॥
kim kopa-mūlam manuja-indra-putra kaḥ te na saṃtiṣṭhati vāc-nideśe . kaḥ śuṣka-vṛkṣam vanam āpatantam dāva-agnim āsīdati nirviśaṅkaḥ.. 41..
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः । भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्॥ ४२॥
स तस्याः वचनम् श्रुत्वा सान्त्व-पूर्वम् अशङ्कितः । भूयस् प्रणय-दृष्ट-अर्थम् लक्ष्मणः वाक्यम् अब्रवीत्॥ ४२॥
sa tasyāḥ vacanam śrutvā sāntva-pūrvam aśaṅkitaḥ . bhūyas praṇaya-dṛṣṭa-artham lakṣmaṇaḥ vākyam abravīt.. 42..
किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः । भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे॥ ४३॥
किम् अयम् काम-वृत्तः ते लुप्त-धर्म-अर्थ-संग्रहः । भर्ता भर्तृ-हिते युक्ते न च एनम् अवबुध्यसे॥ ४३॥
kim ayam kāma-vṛttaḥ te lupta-dharma-artha-saṃgrahaḥ . bhartā bhartṛ-hite yukte na ca enam avabudhyase.. 43..
न चिन्तयति राज्यार्थं सोऽस्मान् शोकपरायणान् । सामात्यपरिषत् तारे काममेवोपसेवते॥ ४४॥
न चिन्तयति राज्य-अर्थम् सः अस्मान् शोक-परायणान् । स अमात्य-परिषद् तारे कामम् एव उपसेवते॥ ४४॥
na cintayati rājya-artham saḥ asmān śoka-parāyaṇān . sa amātya-pariṣad tāre kāmam eva upasevate.. 44..
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः । व्यतीतांस्तान् मदोदग्रो विहरन् नावबुध्यते॥ ४५॥
स मासान् चतुरः कृत्वा प्रमाणम् प्लवग-ईश्वरः । व्यतीतान् तान् मद-उदग्रः विहरन् न अवबुध्यते॥ ४५॥
sa māsān caturaḥ kṛtvā pramāṇam plavaga-īśvaraḥ . vyatītān tān mada-udagraḥ viharan na avabudhyate.. 45..
नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते । पानादर्थश्च कामश्च धर्मश्च परिहीयते॥ ४६॥
नहि धर्म-अर्थ-सिद्धि-अर्थम् पानम् एवम् प्रशस्यते । पानात् अर्थः च कामः च धर्मः च परिहीयते॥ ४६॥
nahi dharma-artha-siddhi-artham pānam evam praśasyate . pānāt arthaḥ ca kāmaḥ ca dharmaḥ ca parihīyate.. 46..
धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः । अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्॥ ४७॥
धर्म-लोपः महान् तावत् कृते हि अप्रतिकुर्वतः । अर्थ-लोपः च मित्रस्य नाशे गुणवतः महान्॥ ४७॥
dharma-lopaḥ mahān tāvat kṛte hi apratikurvataḥ . artha-lopaḥ ca mitrasya nāśe guṇavataḥ mahān.. 47..
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् । तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्॥ ४८॥
मित्रम् हि अर्थ-गुण-श्रेष्ठम् सत्य-धर्म-परायणम् । तत् द्वयम् तु परित्यक्तम् न तु धर्मे व्यवस्थितम्॥ ४८॥
mitram hi artha-guṇa-śreṣṭham satya-dharma-parāyaṇam . tat dvayam tu parityaktam na tu dharme vyavasthitam.. 48..
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् । तत् कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि॥ ४९॥
तत् एवम् प्रस्तुते कार्ये कार्यम् अस्माभिः उत्तरम् । तत् कार्यम् कार्य-तत्त्व-ज्ञे त्वम् उदाहर्तुम् अर्हसि॥ ४९॥
tat evam prastute kārye kāryam asmābhiḥ uttaram . tat kāryam kārya-tattva-jñe tvam udāhartum arhasi.. 49..
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् । तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः॥ ५०॥
सा तस्य धर्म-अर्थ-समाधि-युक्तम् निशम्य वाक्यम् मधुर-स्वभावम् । तारा गत-अर्थे मनुज-इन्द्र-कार्ये विश्वास-युक्तम् तम् उवाच भूयस्॥ ५०॥
sā tasya dharma-artha-samādhi-yuktam niśamya vākyam madhura-svabhāvam . tārā gata-arthe manuja-indra-kārye viśvāsa-yuktam tam uvāca bhūyas.. 50..
न कोपकालः क्षितिपालपुत्र न चापि कोपः स्वजने विधेयः । त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्॥ ५१॥
न कोप-कालः क्षितिपाल-पुत्र न च अपि कोपः स्व-जने विधेयः । त्वद्-अर्थ-कामस्य जनस्य तस्य प्रमादम् अपि अर्हसि वीर सोढुम्॥ ५१॥
na kopa-kālaḥ kṣitipāla-putra na ca api kopaḥ sva-jane vidheyaḥ . tvad-artha-kāmasya janasya tasya pramādam api arhasi vīra soḍhum.. 51..
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे । कस्त्वद्विधः कोपवशं हि गच्छेत् सत्त्वावरुद्धस्तपसः प्रसूतिः॥ ५२॥
कोपम् कथम् नाम गुण-प्रकृष्टः कुमार कुर्यात् अपकृष्ट-सत्त्वे । कः त्वद्विधः कोप-वशम् हि गच्छेत् सत्त्व-अवरुद्धः तपसः प्रसूतिः॥ ५२॥
kopam katham nāma guṇa-prakṛṣṭaḥ kumāra kuryāt apakṛṣṭa-sattve . kaḥ tvadvidhaḥ kopa-vaśam hi gacchet sattva-avaruddhaḥ tapasaḥ prasūtiḥ.. 52..
जानामि कोपं हरिवीरबन्धो- र्जानामि कार्यस्य च कालसङ्गम् । जानामि कार्यं त्वयि यत्कृतं न- स्तच्चापि जानामि यदत्र कार्यम्॥ ५३॥
जानामि कोपम् हरि-वीर-बन्धोः जानामि कार्यस्य च काल-सङ्गम् । जानामि कार्यम् त्वयि यत् कृतम् न स्तत् च अपि जानामि यत् अत्र कार्यम्॥ ५३॥
jānāmi kopam hari-vīra-bandhoḥ jānāmi kāryasya ca kāla-saṅgam . jānāmi kāryam tvayi yat kṛtam na stat ca api jānāmi yat atra kāryam.. 53..
तच्चापि जानामि तथाविषह्यं बलं नरश्रेष्ठ शरीरजस्य । जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य॥ ५४॥
तत् च अपि जानामि तथा अविषह्यम् बलम् नर-श्रेष्ठ शरीरजस्य । जानामि यस्मिन् च जने अवबद्धम् कामेन सुग्रीवम् असक्तम् अद्य॥ ५४॥
tat ca api jānāmi tathā aviṣahyam balam nara-śreṣṭha śarīrajasya . jānāmi yasmin ca jane avabaddham kāmena sugrīvam asaktam adya.. 54..
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः । न देशकालौ हि यथार्थधर्मा- ववेक्षते कामरतिर्मनुष्यः॥ ५५॥
न काम-तन्त्रे तव बुद्धिः अस्ति त्वम् वै यथा मन्यु-वशम् प्रपन्नः । न देश-कालौ हि यथा अर्थ-धर्मा अववेक्षते काम-रतिः मनुष्यः॥ ५५॥
na kāma-tantre tava buddhiḥ asti tvam vai yathā manyu-vaśam prapannaḥ . na deśa-kālau hi yathā artha-dharmā avavekṣate kāma-ratiḥ manuṣyaḥ.. 55..
तं कामवृत्तं मम संनिकृष्टं कामाभियोगाच्च विमुक्तलज्जम् । क्षमस्व तावत् परवीरहन्त- स्त्वद्भ्रातरं वानरवंशनाथम्॥ ५६॥
तम् काम-वृत्तम् मम संनिकृष्टम् काम-अभियोगात् च विमुक्त-लज्जम् । क्षमस्व तावत् पर-वीर-हन्त त्वद्-भ्रातरम् वानर-वंश-नाथम्॥ ५६॥
tam kāma-vṛttam mama saṃnikṛṣṭam kāma-abhiyogāt ca vimukta-lajjam . kṣamasva tāvat para-vīra-hanta tvad-bhrātaram vānara-vaṃśa-nātham.. 56..
महर्षयो धर्मतपोऽभिरामाः कामानुकामाः प्रतिबद्धमोहाः । अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा॥ ५७॥
महा-ऋषयः धर्म-तपः-अभिरामाः काम-अनुकामाः प्रतिबद्ध-मोहाः । अयम् प्रकृत्या चपलः कपिः तु कथम् न सज्जेत सुखेषु राजा॥ ५७॥
mahā-ṛṣayaḥ dharma-tapaḥ-abhirāmāḥ kāma-anukāmāḥ pratibaddha-mohāḥ . ayam prakṛtyā capalaḥ kapiḥ tu katham na sajjeta sukheṣu rājā.. 57..
इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् । पुनः सखेदं मदविह्वलाक्षी भर्तुर्हितं वाक्यमिदं बभाषे॥ ५८॥
इति एवम् उक्त्वा वचनम् महार्थम् सा वानरी लक्ष्मणम् अप्रमेयम् । पुनर् सखेदम् मद-विह्वल-अक्षी भर्तुः हितम् वाक्यम् इदम् बभाषे॥ ५८॥
iti evam uktvā vacanam mahārtham sā vānarī lakṣmaṇam aprameyam . punar sakhedam mada-vihvala-akṣī bhartuḥ hitam vākyam idam babhāṣe.. 58..
उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम । कामस्यापि विधेयेन तवार्थप्रतिसाधने॥ ५९॥
उद्योगः तु चिर-आज्ञप्तः सुग्रीवेण नरोत्तम । कामस्य अपि विधेयेन तव अर्थ-प्रतिसाधने॥ ५९॥
udyogaḥ tu cira-ājñaptaḥ sugrīveṇa narottama . kāmasya api vidheyena tava artha-pratisādhane.. 59..
आगता हि महावीर्या हरयः कामरूपिणः । कोटीः शतसहस्राणि नानानगनिवासिनः॥ ६०॥
आगताः हि महा-वीर्याः हरयः कामरूपिणः । कोटीः शत-सहस्राणि नाना नग-निवासिनः॥ ६०॥
āgatāḥ hi mahā-vīryāḥ harayaḥ kāmarūpiṇaḥ . koṭīḥ śata-sahasrāṇi nānā naga-nivāsinaḥ.. 60..
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया । अच्छलं मित्रभावेन सतां दारावलोकनम्॥ ६१॥
तत् आगच्छ महा-बाहो चारित्रम् रक्षितम् त्वया । अच्छलम् मित्र-भावेन सताम् दार-अवलोकनम्॥ ६१॥
tat āgaccha mahā-bāho cāritram rakṣitam tvayā . acchalam mitra-bhāvena satām dāra-avalokanam.. 61..
तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः । प्रविवेश महाबाहुरभ्यन्तरमरिंदमः॥ ६२॥
तारया च अभ्यनुज्ञातः त्वरया वा अपि चोदितः । प्रविवेश महा-बाहुः अभ्यन्तरम् अरिंदमः॥ ६२॥
tārayā ca abhyanujñātaḥ tvarayā vā api coditaḥ . praviveśa mahā-bāhuḥ abhyantaram ariṃdamaḥ.. 62..
ततः सुग्रीवमासीनं काञ्चने परमासने । महार्हास्तरणोपेते ददर्शादित्यसंनिभम्॥ ६३॥
ततस् सुग्रीवम् आसीनम् काञ्चने परम-आसने । महार्ह-आस्तरण-उपेते ददर्श आदित्य-संनिभम्॥ ६३॥
tatas sugrīvam āsīnam kāñcane parama-āsane . mahārha-āstaraṇa-upete dadarśa āditya-saṃnibham.. 63..
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् । दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्॥ ६४॥
दिव्य-आभरण-चित्र-अङ्गम् दिव्य-रूपम् यशस्विनम् । दिव्य-माल्य-अम्बर-धरम् महा-इन्द्रम् इव दुर्जयम्॥ ६४॥
divya-ābharaṇa-citra-aṅgam divya-rūpam yaśasvinam . divya-mālya-ambara-dharam mahā-indram iva durjayam.. 64..
दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् । संरब्धतररक्ताक्षो बभूवान्तकसंनिभः॥ ६५॥
दिव्य-आभरण-माल्याभिः प्रमदाभिः समावृतम् । संरब्धतर-रक्त-अक्षः बभूव अन्तक-संनिभः॥ ६५॥
divya-ābharaṇa-mālyābhiḥ pramadābhiḥ samāvṛtam . saṃrabdhatara-rakta-akṣaḥ babhūva antaka-saṃnibhaḥ.. 65..
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः । ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः स विशालनेत्रम्॥ ६६॥
रुमाम् तु वीरः परिरभ्य गाढम् वरासन-स्थः वर-हेम-वर्णः । ददर्श सौमित्रिम् अदीन-सत्त्वम् विशाल-नेत्रः स विशाल-नेत्रम्॥ ६६॥
rumām tu vīraḥ parirabhya gāḍham varāsana-sthaḥ vara-hema-varṇaḥ . dadarśa saumitrim adīna-sattvam viśāla-netraḥ sa viśāla-netram.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रयस्त्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe trayastriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In