This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुस्त्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe catustriṃśaḥ sargaḥ ..4..
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् । सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १॥
तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुष-ऋषभम् । सुग्रीवः लक्ष्मणम् दृष्ट्वा बभूव व्यथित-इन्द्रियः॥ १॥
tam apratihatam kruddham praviṣṭam puruṣa-ṛṣabham . sugrīvaḥ lakṣmaṇam dṛṣṭvā babhūva vyathita-indriyaḥ.. 1..
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा । भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ २॥
क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा । भ्रातुः व्यसन-संतप्तम् दृष्ट्वा दशरथ-आत्मजम्॥ २॥
kruddham niḥśvasamānam tam pradīptam iva tejasā . bhrātuḥ vyasana-saṃtaptam dṛṣṭvā daśaratha-ātmajam.. 2..
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् । महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ ३॥
उत्पपात हरि-श्रेष्ठः हित्वा सौवर्णम् आसनम् । महान् महा-इन्द्रस्य यथा सु अलंकृतः इव ध्वजः॥ ३॥
utpapāta hari-śreṣṭhaḥ hitvā sauvarṇam āsanam . mahān mahā-indrasya yathā su alaṃkṛtaḥ iva dhvajaḥ.. 3..
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः । सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ ४॥
उत्पतन्तम् अनूत्पेतुः रुमा-प्रभृतयः स्त्रियः । सुग्रीवम् गगने पूर्णम् चन्द्रम् तारा-गणाः इव॥ ४॥
utpatantam anūtpetuḥ rumā-prabhṛtayaḥ striyaḥ . sugrīvam gagane pūrṇam candram tārā-gaṇāḥ iva.. 4..
संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः । बभूवावस्थितस्तत्र कल्पवृक्षो महानिव॥ ५॥
संरक्त-नयनः श्रीमान् संचचार कृताञ्जलिः । बभूव अवस्थितः तत्र कल्पवृक्षः महान् इव॥ ५॥
saṃrakta-nayanaḥ śrīmān saṃcacāra kṛtāñjaliḥ . babhūva avasthitaḥ tatra kalpavṛkṣaḥ mahān iva.. 5..
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् । अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥ ६॥
रुमा-द्वितीयम् सुग्रीवम् नारी-मध्य-गतम् स्थितम् । अब्रवीत् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा॥ ६॥
rumā-dvitīyam sugrīvam nārī-madhya-gatam sthitam . abravīt lakṣmaṇaḥ kruddhaḥ sa tāram śaśinam yathā.. 6..
सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः । कृतज्ञः सत्यवादी च राजा लोके महीयते॥ ७॥
सत्त्व-अभिजन-सम्पन्नः स अनुक्रोशः जित-इन्द्रियः । कृतज्ञः सत्य-वादी च राजा लोके महीयते॥ ७॥
sattva-abhijana-sampannaḥ sa anukrośaḥ jita-indriyaḥ . kṛtajñaḥ satya-vādī ca rājā loke mahīyate.. 7..
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् । मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ ८॥
यः तु राजा स्थितः अधर्मे मित्राणाम् उपकारिणाम् । मिथ्या प्रतिज्ञाम् कुरुते कः नृशंसतरः ततस्॥ ८॥
yaḥ tu rājā sthitaḥ adharme mitrāṇām upakāriṇām . mithyā pratijñām kurute kaḥ nṛśaṃsataraḥ tatas.. 8..
शतमश्वानृते हन्ति सहस्रं तु गवानृते । आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ ९॥
शतम् अश्व-अनृते हन्ति सहस्रम् तु गवानृते । आत्मानम् स्व-जनम् हन्ति पुरुषः पुरुष-अनृते॥ ९॥
śatam aśva-anṛte hanti sahasram tu gavānṛte . ātmānam sva-janam hanti puruṣaḥ puruṣa-anṛte.. 9..
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः । कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ १०॥
पूर्वम् कृतार्थः मित्राणाम् न तत् प्रतिकरोति यः । कृतघ्नः सर्व-भूतानाम् स वध्यः प्लवग-ईश्वर॥ १०॥
pūrvam kṛtārthaḥ mitrāṇām na tat pratikaroti yaḥ . kṛtaghnaḥ sarva-bhūtānām sa vadhyaḥ plavaga-īśvara.. 10..
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः । दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम॥ ११॥
गीतः अयम् ब्रह्मणा श्लोकः सर्व-लोक-नमस्कृतः । दृष्ट्वा कृतघ्नम् क्रुद्धेन तत् निबोध प्लवंगम॥ ११॥
gītaḥ ayam brahmaṇā ślokaḥ sarva-loka-namaskṛtaḥ . dṛṣṭvā kṛtaghnam kruddhena tat nibodha plavaṃgama.. 11..
गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १२॥
गो-घ्ने च एव सुरापे च चौरे भग्न-व्रते तथा । निष्कृतिः विहिता सद्भिः कृतघ्ने ना अस्ति निष्कृतिः॥ १२॥
go-ghne ca eva surāpe ca caure bhagna-vrate tathā . niṣkṛtiḥ vihitā sadbhiḥ kṛtaghne nā asti niṣkṛtiḥ.. 12..
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर । पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ १३॥
अनार्यः त्वम् कृतघ्नः च मिथ्या वादी च वानर । पूर्वम् कृतार्थः रामस्य न तत् प्रतिकरोषि यत्॥ १३॥
anāryaḥ tvam kṛtaghnaḥ ca mithyā vādī ca vānara . pūrvam kṛtārthaḥ rāmasya na tat pratikaroṣi yat.. 13..
ननु नाम कृतार्थेन त्वया रामस्य वानर । सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता॥ १४॥
ननु नाम कृतार्थेन त्वया रामस्य वानर । सीतायाः मार्गणे यत्नः कर्तव्यः कृतम् इच्छता॥ १४॥
nanu nāma kṛtārthena tvayā rāmasya vānara . sītāyāḥ mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā.. 14..
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः । न त्वां रामो विजानीते सर्पं मण्डूकराविणम्॥ १५॥
स त्वम् ग्राम्येषु भोगेषु सक्तः मिथ्या प्रतिश्रवः । न त्वाम् रामः विजानीते सर्पम् मण्डूक-राविणम्॥ १५॥
sa tvam grāmyeṣu bhogeṣu saktaḥ mithyā pratiśravaḥ . na tvām rāmaḥ vijānīte sarpam maṇḍūka-rāviṇam.. 15..
महाभागेन रामेण पापः करुणवेदिना । हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥ १६॥
महाभागेन रामेण पापः करुण-वेदिना । हरीणाम् प्रापितः राज्यम् त्वम् दुरात्मा महात्मना॥ १६॥
mahābhāgena rāmeṇa pāpaḥ karuṇa-vedinā . harīṇām prāpitaḥ rājyam tvam durātmā mahātmanā.. 16..
कृतं चेन्नातिजानीषे राघवस्य महात्मनः । सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥ १७॥
कृतम् चेद् न अतिजानीषे राघवस्य महात्मनः । सद्यस् त्वम् निशितैः बाणैः हतः द्रक्ष्यसि वालिनम्॥ १७॥
kṛtam ced na atijānīṣe rāghavasya mahātmanaḥ . sadyas tvam niśitaiḥ bāṇaiḥ hataḥ drakṣyasi vālinam.. 17..
न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ १८॥
न स संकुचितः पन्थाः येन वाली हतः गतः । समये तिष्ठ सुग्रीव मा वालि-पथम् अन्वगाः॥ १८॥
na sa saṃkucitaḥ panthāḥ yena vālī hataḥ gataḥ . samaye tiṣṭha sugrīva mā vāli-patham anvagāḥ.. 18..
न नूनमिक्ष्वाकुवरस्य कार्मुका- च्छरांश्च तान् पश्यसि वज्रसंनिभान् । ततः सुखं नाम विषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे॥ १९॥
न नूनम् इक्ष्वाकु-वरस्य कार्मुकात् शरान् च तान् पश्यसि वज्र-संनिभान् । ततस् सुखम् नाम विषेवसे सुखी न राम-कार्यम् मनसा अपि अवेक्षसे॥ १९॥
na nūnam ikṣvāku-varasya kārmukāt śarān ca tān paśyasi vajra-saṃnibhān . tatas sukham nāma viṣevase sukhī na rāma-kāryam manasā api avekṣase.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुस्त्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe catustriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In