This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चत्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcatriṃśaḥ sargaḥ ..4..
तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ १॥
तथा ब्रूवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा । अब्रवीत् लक्ष्मणम् तारा ताराधिप-निभ-आनना॥ १॥
tathā brūvāṇam saumitrim pradīptam iva tejasā . abravīt lakṣmaṇam tārā tārādhipa-nibha-ānanā.. 1..
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥ २॥
न एवम् लक्ष्मण वक्तव्यः न अयम् परुषम् अर्हति । हरीणाम् ईश्वरः श्रोतुम् तव वक्त्रात् विशेषतः॥ २॥
na evam lakṣmaṇa vaktavyaḥ na ayam paruṣam arhati . harīṇām īśvaraḥ śrotum tava vaktrāt viśeṣataḥ.. 2..
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥ ३॥
न एव अकृतज्ञः सुग्रीवः न शठः ना अपि दारुणः । न एव अनृत-कथः वीर न जिह्मः च कपि-ईश्वरः॥ ३॥
na eva akṛtajñaḥ sugrīvaḥ na śaṭhaḥ nā api dāruṇaḥ . na eva anṛta-kathaḥ vīra na jihmaḥ ca kapi-īśvaraḥ.. 3..
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ ४॥
उपकारम् कृतम् वीरः न अपि अयम् विस्मृतः कपिः । रामेण वीर सुग्रीवः यत् अन्यैः दुष्करम् रणे॥ ४॥
upakāram kṛtam vīraḥ na api ayam vismṛtaḥ kapiḥ . rāmeṇa vīra sugrīvaḥ yat anyaiḥ duṣkaram raṇe.. 4..
रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ ५॥
राम-प्रसादात् कीर्तिम् च कपि-राज्यम् च शाश्वतम् । प्राप्तवान् इह सुग्रीवः रुमाम् माम् च परंतप॥ ५॥
rāma-prasādāt kīrtim ca kapi-rājyam ca śāśvatam . prāptavān iha sugrīvaḥ rumām mām ca paraṃtapa.. 5..
सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ ६॥
सु दुःख-शयितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् । प्राप्त-कालम् न जानीते विश्वामित्रः यथा मुनिः॥ ६॥
su duḥkha-śayitaḥ pūrvam prāpya idam sukham uttamam . prāpta-kālam na jānīte viśvāmitraḥ yathā muniḥ.. 6..
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ ७॥
घृताच्याम् किल संसक्तः दश वर्षाणि लक्ष्मण । अहो अमन्यत धर्म-आत्मा विश्वामित्रः महा-मुनिः॥ ७॥
ghṛtācyām kila saṃsaktaḥ daśa varṣāṇi lakṣmaṇa . aho amanyata dharma-ātmā viśvāmitraḥ mahā-muniḥ.. 7..
स हि प्राप्तं न जानीते कालं कालविदां वरः । विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥ ८॥
स हि प्राप्तम् न जानीते कालम् काल-विदाम् वरः । विश्वामित्रः महा-तेजाः किम् पुनर् यः पृथग्जनः॥ ८॥
sa hi prāptam na jānīte kālam kāla-vidām varaḥ . viśvāmitraḥ mahā-tejāḥ kim punar yaḥ pṛthagjanaḥ.. 8..
देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण । अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति॥ ९॥
देह-धर्म-गतस्य अस्य परिश्रान्तस्य लक्ष्मण । अ वितृप्तस्य कामेषु रामः क्षन्तुम् इह अर्हति॥ ९॥
deha-dharma-gatasya asya pariśrāntasya lakṣmaṇa . a vitṛptasya kāmeṣu rāmaḥ kṣantum iha arhati.. 9..
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ १०॥
न च रोष-वशम् तात गन्तुम् अर्हसि लक्ष्मण । निश्चय-अर्थम् अ विज्ञाय सहसा प्राकृतः यथा॥ १०॥
na ca roṣa-vaśam tāta gantum arhasi lakṣmaṇa . niścaya-artham a vijñāya sahasā prākṛtaḥ yathā.. 10..
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्॥ ११॥
सत्त्व-युक्ताः हि पुरुषाः त्वद्विधाः पुरुष-ऋषभ । अ विमृश्य न रोषस्य सहसा यान्ति वश्य-ताम्॥ ११॥
sattva-yuktāḥ hi puruṣāḥ tvadvidhāḥ puruṣa-ṛṣabha . a vimṛśya na roṣasya sahasā yānti vaśya-tām.. 11..
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता । महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ १२॥
प्रसादये त्वाम् धर्म-ज्ञ सुग्रीव-अर्थम् समाहिता । महान् रोष-समुत्पन्नः संरम्भः त्यज्यताम् अयम्॥ १२॥
prasādaye tvām dharma-jña sugrīva-artham samāhitā . mahān roṣa-samutpannaḥ saṃrambhaḥ tyajyatām ayam.. 12..
रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च । रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम॥ १३॥
रुमाम् माम् च अङ्गदम् राज्यम् धन-धान्य-पशूनि च । राम-प्रिय-अर्थम् सुग्रीवः त्यजेत् इति मतिः मम॥ १३॥
rumām mām ca aṅgadam rājyam dhana-dhānya-paśūni ca . rāma-priya-artham sugrīvaḥ tyajet iti matiḥ mama.. 13..
समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्॥ १४॥
समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कम् इव रोहिण्या हत्वा तम् राक्षस-अधमम्॥ १४॥
samāneṣyati sugrīvaḥ sītayā saha rāghavam . śaśāṅkam iva rohiṇyā hatvā tam rākṣasa-adhamam.. 14..
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् । अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥ १५॥
शत-कोटि-सहस्राणि लङ्कायाम् किल रक्षसाम् । अयुतानि च षट्त्रिंशत्-सहस्राणि शतानि च॥ १५॥
śata-koṭi-sahasrāṇi laṅkāyām kila rakṣasām . ayutāni ca ṣaṭtriṃśat-sahasrāṇi śatāni ca.. 15..
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ १६॥
अ हत्वा तान् च दुर्धर्षान् राक्षसान् कामरूपिणः । न शक्यः रावणः हन्तुम् येन सा मैथिली हृता॥ १६॥
a hatvā tān ca durdharṣān rākṣasān kāmarūpiṇaḥ . na śakyaḥ rāvaṇaḥ hantum yena sā maithilī hṛtā.. 16..
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण । रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ १७॥
ते न शक्याः रणे हन्तुम् असहायेन लक्ष्मण । रावणः क्रूर-कर्मा च सुग्रीवेण विशेषतः॥ १७॥
te na śakyāḥ raṇe hantum asahāyena lakṣmaṇa . rāvaṇaḥ krūra-karmā ca sugrīveṇa viśeṣataḥ.. 17..
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः । आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्॥ १८॥
एवम् आख्यातवान् वाली स हि अभिज्ञः हरि-ईश्वरः । आगमः तु न मे व्यक्तः श्रवात् तस्य ब्रवीमि अहम्॥ १८॥
evam ākhyātavān vālī sa hi abhijñaḥ hari-īśvaraḥ . āgamaḥ tu na me vyaktaḥ śravāt tasya bravīmi aham.. 18..
त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः । आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्॥ १९॥
त्वद्-सहाय-निमित्तम् हि प्रेषिताः हरि-पुङ्गवाः । आनेतुम् वानरान् युद्धे सु बहून् हरि-पुङ्गवान्॥ १९॥
tvad-sahāya-nimittam hi preṣitāḥ hari-puṅgavāḥ . ānetum vānarān yuddhe su bahūn hari-puṅgavān.. 19..
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् । राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ २०॥
तान् च प्रतीक्षमाणः अयम् विक्रान्तान् सु महा-बलान् । राघवस्य अर्थ-सिद्धि-अर्थम् न निर्याति हरि-ईश्वरः॥ २०॥
tān ca pratīkṣamāṇaḥ ayam vikrāntān su mahā-balān . rāghavasya artha-siddhi-artham na niryāti hari-īśvaraḥ.. 20..
कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा । अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥ २१॥
कृता सु संस्था सौमित्रे सुग्रीवेण पुरा यथा । अद्य तैः वानरैः सर्वैः आगन्तव्यम् महा-बलैः॥ २१॥
kṛtā su saṃsthā saumitre sugrīveṇa purā yathā . adya taiḥ vānaraiḥ sarvaiḥ āgantavyam mahā-balaiḥ.. 21..
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च । अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम । कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्॥ २२॥
ऋक्ष-कोटि-सहस्राणि गोलाङ्गूल-शतानि च । अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिंदम । कोट्यः अनेकाः तु काकुत्स्थ कपीनाम् दीप्त-तेजसाम्॥ २२॥
ṛkṣa-koṭi-sahasrāṇi golāṅgūla-śatāni ca . adya tvām upayāsyanti jahi kopam ariṃdama . koṭyaḥ anekāḥ tu kākutstha kapīnām dīpta-tejasām.. 22..
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३॥
तव हि मुखम् इदम् निरीक्ष्य कोपात् क्षतज-समे नयने निरीक्षमाणाः । हरि-वर-वनिताः न यान्ति शान्तिम् प्रथम-भयस्य हि शङ्किताः स्म सर्वाः॥ २३॥
tava hi mukham idam nirīkṣya kopāt kṣataja-same nayane nirīkṣamāṇāḥ . hari-vara-vanitāḥ na yānti śāntim prathama-bhayasya hi śaṅkitāḥ sma sarvāḥ.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चत्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcatriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In