This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षट्त्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaṭtriṃśaḥ sargaḥ ..4..
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥ १॥
इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म-संहितम् । मृदु-स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः॥ १॥
iti uktaḥ tārayā vākyam praśritam dharma-saṃhitam . mṛdu-svabhāvaḥ saumitriḥ pratijagrāha tat vacaḥ.. 1..
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत्॥ २॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरि-गण-ईश्वरः । लक्ष्मणात् सु महत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत्॥ २॥
tasmin pratigṛhīte tu vākye hari-gaṇa-īśvaraḥ . lakṣmaṇāt su mahat trāsam vastram klinnam iva atyajat.. 2..
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् । चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः॥ ३॥
ततस् कण्ठ-गतम् माल्यम् चित्रम् बहु-गुणम् महत् । चिच्छेद विमदः च आसीत् सुग्रीवः वानर-ईश्वरः॥ ३॥
tatas kaṇṭha-gatam mālyam citram bahu-guṇam mahat . ciccheda vimadaḥ ca āsīt sugrīvaḥ vānara-īśvaraḥ.. 3..
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्॥ ४॥
स लक्ष्मणम् भीम-बलम् सर्व-वानर-सत्तमः । अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः सम्प्रहर्षयन्॥ ४॥
sa lakṣmaṇam bhīma-balam sarva-vānara-sattamaḥ . abravīt praśritam vākyam sugrīvaḥ sampraharṣayan.. 4..
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया॥ ५॥
प्रणष्टा श्रीः च कीर्तिः च कपि-राज्यम् च शाश्वतम् । राम-प्रसादात् सौमित्रे पुनर् च आप्तम् इदम् मया॥ ५॥
praṇaṣṭā śrīḥ ca kīrtiḥ ca kapi-rājyam ca śāśvatam . rāma-prasādāt saumitre punar ca āptam idam mayā.. 5..
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज॥ ६॥
कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशम् प्रतिकुर्वीत अंशेन अपि नृप-आत्मज॥ ६॥
kaḥ śaktaḥ tasya devasya khyātasya svena karmaṇā . tādṛśam pratikurvīta aṃśena api nṛpa-ātmaja.. 6..
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहायमात्रेण मया राघवः स्वेन तेजसा॥ ७॥
सीताम् प्राप्स्यति धर्म-आत्मा वधिष्यति च रावणम् । सहाय-मात्रेण मया राघवः स्वेन तेजसा॥ ७॥
sītām prāpsyati dharma-ātmā vadhiṣyati ca rāvaṇam . sahāya-mātreṇa mayā rāghavaḥ svena tejasā.. 7..
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः । गिरिश्च वसुधा चैव बाणेनैकेन दारिताः॥ ८॥
सहाय-कृत्यम् किम् तस्य येन सप्त महा-द्रुमाः । गिरिः च वसुधा च एव बाणेन एकेन दारिताः॥ ८॥
sahāya-kṛtyam kim tasya yena sapta mahā-drumāḥ . giriḥ ca vasudhā ca eva bāṇena ekena dāritāḥ.. 8..
धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण । सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै॥ ९॥
धनुः विस्फारमाणस्य यस्य शब्देन लक्ष्मण । स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै॥ ९॥
dhanuḥ visphāramāṇasya yasya śabdena lakṣmaṇa . sa śailā kampitā bhūmiḥ sahāyaiḥ kim nu tasya vai.. 9..
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ । गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्॥ १०॥
अनुयात्राम् नरेन्द्रस्य करिष्ये अहम् नर-ऋषभ । गच्छतः रावणम् हन्तुम् वैरिणम् स पुरस्सरम्॥ १०॥
anuyātrām narendrasya kariṣye aham nara-ṛṣabha . gacchataḥ rāvaṇam hantum vairiṇam sa purassaram.. 10..
यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति॥ ११॥
यदि किंचिद् अतिक्रान्तम् विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यम् मे न कश्चिद् न अपराध्यति॥ ११॥
yadi kiṃcid atikrāntam viśvāsāt praṇayena vā . preṣyasya kṣamitavyam me na kaścid na aparādhyati.. 11..
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः । अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह॥ १२॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः । अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह॥ १२॥
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ . abhavat lakṣmaṇaḥ prītaḥ premṇā ca idam uvāca ha.. 12..
सर्वथा हि मम भ्राता सनाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥ १३॥
सर्वथा हि मम भ्राता सनाथः वानर-ईश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥ १३॥
sarvathā hi mama bhrātā sanāthaḥ vānara-īśvara . tvayā nāthena sugrīva praśritena viśeṣataḥ.. 13..
यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम् । अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्॥ १४॥
यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् । अर्हः त्वम् कपि-राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम्॥ १४॥
yaḥ te prabhāvaḥ sugrīva yat ca te śaucam īdṛśam . arhaḥ tvam kapi-rājyasya śriyam bhoktum anuttamām.. 14..
सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वधिष्यति रणे शत्रूनचरान्नात्र संशयः॥ १५॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वधिष्यति रणे शत्रून् अचरान् न अत्र संशयः॥ १५॥
sahāyena ca sugrīva tvayā rāmaḥ pratāpavān . vadhiṣyati raṇe śatrūn acarān na atra saṃśayaḥ.. 15..
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः । उपपन्नं च युक्तं च सुग्रीव तव भाषितम्॥ १६॥
धर्म-ज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः । उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम्॥ १६॥
dharma-jñasya kṛtajñasya saṃgrāmeṣu anivartinaḥ . upapannam ca yuktam ca sugrīva tava bhāṣitam.. 16..
दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति । वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम॥ १७॥
दोष-ज्ञः सति सामर्थ्ये कः अन्यः भाषितुम् अर्हति । वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर-सत्तम॥ १७॥
doṣa-jñaḥ sati sāmarthye kaḥ anyaḥ bhāṣitum arhati . varjayitvā mama jyeṣṭham tvām ca vānara-sattama.. 17..
सदृशश्चासि रामेण विक्रमेण बलेन च । सहायो दैवतैर्दत्तश्चिराय हरिपुंगव॥ १८॥
सदृशः च असि रामेण विक्रमेण बलेन च । सहायः दैवतैः दत्तः चिराय हरि-पुंगव॥ १८॥
sadṛśaḥ ca asi rāmeṇa vikrameṇa balena ca . sahāyaḥ daivataiḥ dattaḥ cirāya hari-puṃgava.. 18..
किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह । सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥ १९॥
किम् तु शीघ्रम् इतस् वीर निष्क्रम त्वम् मया सह । सान्त्वयस्व वयस्यम् च भार्या-हरण-दुःखितम्॥ १९॥
kim tu śīghram itas vīra niṣkrama tvam mayā saha . sāntvayasva vayasyam ca bhāryā-haraṇa-duḥkhitam.. 19..
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥ २०॥
यत् च शोक-अभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम॥ २०॥
yat ca śoka-abhibhūtasya śrutvā rāmasya bhāṣitam . mayā tvam paruṣāṇi uktaḥ tat kṣamasva sakhe mama.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षट्त्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaṭtriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In