This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-३८॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे अष्टात्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe aṣṭātriṃśaḥ sargaḥ ..4..
प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत्॥ १॥
प्रतिगृह्य च तत् सर्वम् उपायनम् उपाहृतम् । वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत्॥ १॥
pratigṛhya ca tat sarvam upāyanam upāhṛtam . vānarān sāntvayitvā ca sarvān eva vyasarjayat.. 1..
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः । मेने कृतार्थमात्मानं राघवं च महाबलम्॥ २॥
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः । मेने कृतार्थम् आत्मानम् राघवम् च महा-बलम्॥ २॥
visarjayitvā sa harīn sahasrān kṛtakarmaṇaḥ . mene kṛtārtham ātmānam rāghavam ca mahā-balam.. 2..
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्॥ ३॥
स लक्ष्मणः भीम-बलम् सर्व-वानर-सत्तमम् । अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् सम्प्रहर्षयन्॥ ३॥
sa lakṣmaṇaḥ bhīma-balam sarva-vānara-sattamam . abravīt praśritam vākyam sugrīvam sampraharṣayan.. 3..
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते । तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्॥ ४॥
किष्किन्धायाः विनिष्क्राम यदि ते सौम्य रोचते । तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम्॥ ४॥
kiṣkindhāyāḥ viniṣkrāma yadi te saumya rocate . tasya tat vacanam śrutvā lakṣmaṇasya subhāṣitam.. 4..
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह । एवं भवतु गच्छाम स्थेयं त्वच्छासने मया॥ ५॥
सुग्रीवः परम-प्रीतः वाक्यम् एतत् उवाच ह । एवम् भवतु गच्छाम स्थेयम् त्वद्-शासने मया॥ ५॥
sugrīvaḥ parama-prītaḥ vākyam etat uvāca ha . evam bhavatu gacchāma stheyam tvad-śāsane mayā.. 5..
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् । विसर्जयामास तदा ताराद्याश्चैव योषितः॥ ६॥
तम् एवम् उक्त्वा सुग्रीवः लक्ष्मणम् शुभ-लक्षणम् । विसर्जयामास तदा तारा-आद्याः च एव योषितः॥ ६॥
tam evam uktvā sugrīvaḥ lakṣmaṇam śubha-lakṣaṇam . visarjayāmāsa tadā tārā-ādyāḥ ca eva yoṣitaḥ.. 6..
एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् । तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः॥ ७॥
एहि इति उच्चैस् हरि-वरान् सुग्रीवः समुदाहरत् । तस्य तत् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः॥ ७॥
ehi iti uccais hari-varān sugrīvaḥ samudāharat . tasya tat vacanam śrutvā harayaḥ śīghram āyayuḥ.. 7..
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः । तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः॥ ८॥
बद्धाञ्जलि-पुटाः सर्वे ये स्युः स्त्री-दर्शन-क्षमाः । तान् उवाच ततस् प्राप्तान् राजा अर्क-सदृश-प्रभः॥ ८॥
baddhāñjali-puṭāḥ sarve ye syuḥ strī-darśana-kṣamāḥ . tān uvāca tatas prāptān rājā arka-sadṛśa-prabhaḥ.. 8..
उपस्थापयत क्षिप्रं शिबिकां मम वानराः । श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः॥ ९॥
उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः । श्रुत्वा तु वचनम् तस्य हरयः शीघ्र-विक्रमाः॥ ९॥
upasthāpayata kṣipram śibikām mama vānarāḥ . śrutvā tu vacanam tasya harayaḥ śīghra-vikramāḥ.. 9..
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् । तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः॥ १०॥
समुपस्थापयामासुः शिबिकाम् प्रिय-दर्शनाम् । ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानर-अधिपः॥ १०॥
samupasthāpayāmāsuḥ śibikām priya-darśanām . tām upasthāpitām dṛṣṭvā śibikām vānara-adhipaḥ.. 10..
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् । इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्॥ ११॥
लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् । इति उक्त्वा काञ्चनम् यानम् सुग्रीवः सूर्य-संनिभम्॥ ११॥
lakṣmaṇa āruhyatām śīghram iti saumitrim abravīt . iti uktvā kāñcanam yānam sugrīvaḥ sūrya-saṃnibham.. 11..
बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि॥ १२॥
बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः । पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि॥ १२॥
bahubhiḥ haribhiḥ yuktam āruroha sa lakṣmaṇaḥ . pāṇḍureṇa ātapatreṇa dhriyamāṇena mūrdhani.. 12..
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः । शंखभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः॥ १३॥
शुक्लैः च वाल-व्यजनैः धूयमानैः समन्ततः । शंख-भेरी-निनादैः च बन्दिभिः च अभिनन्दितः॥ १३॥
śuklaiḥ ca vāla-vyajanaiḥ dhūyamānaiḥ samantataḥ . śaṃkha-bherī-ninādaiḥ ca bandibhiḥ ca abhinanditaḥ.. 13..
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् । स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः॥ १४॥
निर्ययौ प्राप्य सुग्रीवः राज्य-श्रियम् अनुत्तमाम् । स वानर-शतैः तीक्ष्णैः बहुभिः शस्त्र-पाणिभिः॥ १४॥
niryayau prāpya sugrīvaḥ rājya-śriyam anuttamām . sa vānara-śataiḥ tīkṣṇaiḥ bahubhiḥ śastra-pāṇibhiḥ.. 14..
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः । स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्॥ १५॥
परिकीर्णः ययौ तत्र यत्र रामः व्यवस्थितः । स तम् देशम् अनुप्राप्य श्रेष्ठम् राम-निषेवितम्॥ १५॥
parikīrṇaḥ yayau tatra yatra rāmaḥ vyavasthitaḥ . sa tam deśam anuprāpya śreṣṭham rāma-niṣevitam.. 15..
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः । आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्॥ १६॥
अवातरत् महा-तेजाः शिबिकायाः स लक्ष्मणः । आसाद्य च ततस् रामम् कृत-अञ्जलि-पुटः अभवत्॥ १६॥
avātarat mahā-tejāḥ śibikāyāḥ sa lakṣmaṇaḥ . āsādya ca tatas rāmam kṛta-añjali-puṭaḥ abhavat.. 16..
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा । तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्॥ १७॥
कृत-अञ्जलौ स्थिते तस्मिन् वानराः च अभवन् तथा । तटाकम् इव तम् दृष्ट्वा रामः कुड्मल-पङ्कजम्॥ १७॥
kṛta-añjalau sthite tasmin vānarāḥ ca abhavan tathā . taṭākam iva tam dṛṣṭvā rāmaḥ kuḍmala-paṅkajam.. 17..
वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत् । पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्॥ १८॥
वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् । पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरि-ईश्वरम्॥ १८॥
vānarāṇām mahat sainyam sugrīve prītimān abhūt . pādayoḥ patitam mūrdhnā tam utthāpya hari-īśvaram.. 18..
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे । परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्॥ १९॥
प्रेम्णा च बहु-मानात् च राघवः परिषस्वजे । परिष्वज्य च धर्म-आत्मा निषीद इति ततस् अब्रवीत्॥ १९॥
premṇā ca bahu-mānāt ca rāghavaḥ pariṣasvaje . pariṣvajya ca dharma-ātmā niṣīda iti tatas abravīt.. 19..
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः । धर्ममर्थं च कामं च काले यस्तु निषेवते॥ २०॥
निषण्णम् तम् ततस् दृष्ट्वा क्षितौ रामः अब्रवीत् ततस् । धर्मम् अर्थम् च कामम् च काले यः तु निषेवते॥ २०॥
niṣaṇṇam tam tatas dṛṣṭvā kṣitau rāmaḥ abravīt tatas . dharmam artham ca kāmam ca kāle yaḥ tu niṣevate.. 20..
विभज्य सततं वीर स राजा हरिसत्तम । हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते॥ २१॥
विभज्य सततम् वीर स राजा हरि-सत्तम । हित्वा धर्मम् तथा अर्थम् च कामम् यः तु निषेवते॥ २१॥
vibhajya satatam vīra sa rājā hari-sattama . hitvā dharmam tathā artham ca kāmam yaḥ tu niṣevate.. 21..
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः॥ २२॥
स वृक्ष-अग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणाम् वधे युक्तः मित्राणाम् संग्रहे रतः॥ २२॥
sa vṛkṣa-agre yathā suptaḥ patitaḥ pratibudhyate . amitrāṇām vadhe yuktaḥ mitrāṇām saṃgrahe rataḥ.. 22..
त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते । उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन॥ २३॥
त्रिवर्ग-फल-भोक्ता च राजा धर्मेण युज्यते । उद्योग-समयः तु एष प्राप्तः शत्रु-निषूदन॥ २३॥
trivarga-phala-bhoktā ca rājā dharmeṇa yujyate . udyoga-samayaḥ tu eṣa prāptaḥ śatru-niṣūdana.. 23..
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः । एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्॥ २४॥
संचिन्त्यताम् हि पिङ्ग-ईश हरिभिः सह मन्त्रिभिः । एवम् उक्तः तु सुग्रीवः रामम् वचनम् अब्रवीत्॥ २४॥
saṃcintyatām hi piṅga-īśa haribhiḥ saha mantribhiḥ . evam uktaḥ tu sugrīvaḥ rāmam vacanam abravīt.. 24..
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया॥ २५॥
प्रणष्टा श्रीः च कीर्तिः च कपि-राज्यम् च शाश्वतम् । त्वद्-प्रसादात् महा-बाहो पुनर् प्राप्तम् इदम् मया॥ २५॥
praṇaṣṭā śrīḥ ca kīrtiḥ ca kapi-rājyam ca śāśvatam . tvad-prasādāt mahā-bāho punar prāptam idam mayā.. 25..
तव देव प्रसादाच्च भ्रातुश्च जयतां वर । कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषकः॥ २६॥
तव देव प्रसादात् च भ्रातुः च जयताम् वर । कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् हि दूषकः॥ २६॥
tava deva prasādāt ca bhrātuḥ ca jayatām vara . kṛtam na pratikuryāt yaḥ puruṣāṇām hi dūṣakaḥ.. 26..
एते वानरमुख्याश्च शतशः शत्रुसूदन । प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्॥ २७॥
एते वानर-मुख्याः च शतशस् शत्रु-सूदन । प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व-वानरान्॥ २७॥
ete vānara-mukhyāḥ ca śataśas śatru-sūdana . prāptāḥ ca ādāya balinaḥ pṛthivyām sarva-vānarān.. 27..
ऋक्षाश्च वानराः शूरा गोलाङ्गूलाश्च राघव । कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः॥ २८॥
ऋक्षाः च वानराः शूराः गोलाङ्गूलाः च राघव । कान्तार-वन-दुर्गाणाम् अभिज्ञाः घोर-दर्शनाः॥ २८॥
ṛkṣāḥ ca vānarāḥ śūrāḥ golāṅgūlāḥ ca rāghava . kāntāra-vana-durgāṇām abhijñāḥ ghora-darśanāḥ.. 28..
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव॥ २९॥
देव-गन्धर्व-पुत्राः च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव॥ २९॥
deva-gandharva-putrāḥ ca vānarāḥ kāmarūpiṇaḥ . svaiḥ svaiḥ parivṛtāḥ sainyaiḥ vartante pathi rāghava.. 29..
शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा । अयुतैश्चावृता वीर शङ्कुभिश्च परंतप॥ ३०॥
शतैः शत-सहस्रैः च वर्तन्ते कोटिभिः तथा । अयुतैः च आवृता वीर शङ्कुभिः च परंतप॥ ३०॥
śataiḥ śata-sahasraiḥ ca vartante koṭibhiḥ tathā . ayutaiḥ ca āvṛtā vīra śaṅkubhiḥ ca paraṃtapa.. 30..
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः । समुद्राश्च परार्धाश्च हरयो हरियूथपाः॥ ३१॥
अर्बुदैः अर्बुद-शतैः मध्यैः च अन्त्यैः च वानराः । समुद्राः च परार्धाः च हरयः हरि-यूथपाः॥ ३१॥
arbudaiḥ arbuda-śataiḥ madhyaiḥ ca antyaiḥ ca vānarāḥ . samudrāḥ ca parārdhāḥ ca harayaḥ hari-yūthapāḥ.. 31..
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः । मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः॥ ३२॥
आगमिष्यन्ति ते राजन् महा-इन्द्र-सम-विक्रमाः । मेघपर्वत-संकाशाः मेरु-विन्ध्य-कृत-आलयाः॥ ३२॥
āgamiṣyanti te rājan mahā-indra-sama-vikramāḥ . meghaparvata-saṃkāśāḥ meru-vindhya-kṛta-ālayāḥ.. 32..
ते त्वामभिगमिष्यन्ति राक्षसं योद्धुमाहवे । निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम्॥ ३३॥
ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे । निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम्॥ ३३॥
te tvām abhigamiṣyanti rākṣasam yoddhum āhave . nihatya rāvaṇam yuddhe hi ānayiṣyanti maithilīm.. 33..
ततः समुद्योगमवेक्ष्य वीर्यवान् हरिप्रवीरस्य निदेशवर्तिनः । बभूव हर्षाद् वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः॥ ३४॥
ततस् समुद्योगम् अवेक्ष्य वीर्यवान् हरि-प्रवीरस्य निदेश-वर्तिनः । बभूव हर्षात् वसुधा-अधिप-आत्मजः प्रबुद्ध-नीलोत्पल-तुल्य-दर्शनः॥ ३४॥
tatas samudyogam avekṣya vīryavān hari-pravīrasya nideśa-vartinaḥ . babhūva harṣāt vasudhā-adhipa-ātmajaḥ prabuddha-nīlotpala-tulya-darśanaḥ.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-३८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे अष्टात्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe aṣṭātriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In