This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकोनचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..4..
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्॥ १॥
इति ब्रुवाणम् सुग्रीवम् रामः धर्म-भृताम् वरः । बाहुभ्याम् सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्॥ १॥
iti bruvāṇam sugrīvam rāmaḥ dharma-bhṛtām varaḥ . bāhubhyām sampariṣvajya pratyuvāca kṛtāñjalim.. 1..
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति । आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः॥ २॥
यत् इन्द्रः वर्षते वर्षम् न तत् चित्रम् भविष्यति । आदित्यः असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः॥ २॥
yat indraḥ varṣate varṣam na tat citram bhaviṣyati . ādityaḥ asau sahasrāṃśuḥ kuryāt vitimiram nabhaḥ.. 2..
चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप॥ ३॥
चन्द्रमाः रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् । त्वद्विधः वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप॥ ३॥
candramāḥ rajanīm kuryāt prabhayā saumya nirmalām . tvadvidhaḥ vā api mitrāṇām prītim kuryāt paraṃtapa.. 3..
एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्॥ ४॥
एवम् त्वयि न तत् चित्रम् भवेत् यत् सौम्य शोभनम् । जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय-वादिनम्॥ ४॥
evam tvayi na tat citram bhavet yat saumya śobhanam . jānāmi aham tvām sugrīva satatam priya-vādinam.. 4..
त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि॥ ५॥
त्वद्-सनाथः सखे संख्ये जेता अस्मि सकलान् अरीन् । त्वम् एव मे सुहृद्-मित्रम् साहाय्यम् कर्तुम् अर्हसि॥ ५॥
tvad-sanāthaḥ sakhe saṃkhye jetā asmi sakalān arīn . tvam eva me suhṛd-mitram sāhāyyam kartum arhasi.. 5..
जहारात्मविनाशाय मैथिलीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्॥ ६॥
जहार आत्म-विनाशाय मैथिलीम् राक्षस-अधमः । वञ्चयित्वा तु पौलोमीम् अनुह्लादः यथा शचीम्॥ ६॥
jahāra ātma-vināśāya maithilīm rākṣasa-adhamaḥ . vañcayitvā tu paulomīm anuhlādaḥ yathā śacīm.. 6..
नचिरात् तं वधिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा॥ ७॥
नचिरात् तम् वधिष्यामि रावणम् निशितैः शरैः । पौलोम्याः पितरम् दृप्तम् शतक्रतुः इव अरि-हा॥ ७॥
nacirāt tam vadhiṣyāmi rāvaṇam niśitaiḥ śaraiḥ . paulomyāḥ pitaram dṛptam śatakratuḥ iva ari-hā.. 7..
एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्॥ ८॥
एतस्मिन् अन्तरे च एव रजः समभिवर्तत । उष्ण-तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम्॥ ८॥
etasmin antare ca eva rajaḥ samabhivartata . uṣṇa-tīvrām sahasrāṃśoḥ chādayat gagane prabhām.. 8..
दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः । चचाल च मही सर्वा सशैलवनकानना॥ ९॥
दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः । चचाल च मही सर्वा स शैल-वन-कानना॥ ९॥
diśaḥ paryākulāḥ ca āsan tamasā tena dūṣitāḥ . cacāla ca mahī sarvā sa śaila-vana-kānanā.. 9..
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः॥ १०॥
ततस् नग-इन्द्र-संकाशैः तीक्ष्ण-दंष्ट्रैः महा-बलैः । कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः॥ १०॥
tatas naga-indra-saṃkāśaiḥ tīkṣṇa-daṃṣṭraiḥ mahā-balaiḥ . kṛtsnā saṃchāditā bhūmiḥ asaṃkhyeyaiḥ plavaṃgamaiḥ.. 10..
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः । कोटीशतपरीवारैर्वानरैर्हरियूथपैः॥ ११॥
निमेष-अन्तर-मात्रेण ततस् तैः हरि-यूथपैः । कोटी-शत-परीवारैः वानरैः हरि-यूथपैः॥ ११॥
nimeṣa-antara-mātreṇa tatas taiḥ hari-yūthapaiḥ . koṭī-śata-parīvāraiḥ vānaraiḥ hari-yūthapaiḥ.. 11..
नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः । हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः॥ १२॥
नादेयैः पार्वतेयैः च सामुद्रैः च महा-बलैः । हरिभिः मेघ-निर्ह्रादैः अन्यैः च वन-वासिभिः॥ १२॥
nādeyaiḥ pārvateyaiḥ ca sāmudraiḥ ca mahā-balaiḥ . haribhiḥ megha-nirhrādaiḥ anyaiḥ ca vana-vāsibhiḥ.. 12..
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः । पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः॥ १३॥
तरुण-आदित्य-वर्णैः च शशि-गौरैः च वानरैः । पद्म-केसर-वर्णैः च श्वेतैः हेम-कृत-आलयैः॥ १३॥
taruṇa-āditya-varṇaiḥ ca śaśi-gauraiḥ ca vānaraiḥ . padma-kesara-varṇaiḥ ca śvetaiḥ hema-kṛta-ālayaiḥ.. 13..
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत॥ १४॥
कोटी-सहस्रैः दशभिः श्रीमान् परिवृतः तदा । वीरः शतबलिः नाम वानरः प्रत्यदृश्यत॥ १४॥
koṭī-sahasraiḥ daśabhiḥ śrīmān parivṛtaḥ tadā . vīraḥ śatabaliḥ nāma vānaraḥ pratyadṛśyata.. 14..
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता । अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत॥ १५॥
ततस् काञ्चन-शैल-आभः तारायाः वीर्यवान् पिता । अनेकैः बहु-साहस्रैः कोटिभिः प्रत्यदृश्यत॥ १५॥
tatas kāñcana-śaila-ābhaḥ tārāyāḥ vīryavān pitā . anekaiḥ bahu-sāhasraiḥ koṭibhiḥ pratyadṛśyata.. 15..
तथापरेण कोटीनां सहस्रेण समन्वितः । पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः॥ १६॥
तथा अपरेण कोटीनाम् सहस्रेण समन्वितः । पिता रुमायाः सम्प्राप्तः सुग्रीव-श्वशुरः विभुः॥ १६॥
tathā apareṇa koṭīnām sahasreṇa samanvitaḥ . pitā rumāyāḥ samprāptaḥ sugrīva-śvaśuraḥ vibhuḥ.. 16..
पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः॥ १७॥
पद्म-केसर-संकाशः तरुण-अर्क-निभ-आननः । बुद्धिमान् वानर-श्रेष्ठः सर्व-वानर-सत्तमः॥ १७॥
padma-kesara-saṃkāśaḥ taruṇa-arka-nibha-ānanaḥ . buddhimān vānara-śreṣṭhaḥ sarva-vānara-sattamaḥ.. 17..
अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ १८॥
अनेकैः बहु-साहस्त्रैः वानराणाम् समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ १८॥
anekaiḥ bahu-sāhastraiḥ vānarāṇām samanvitaḥ . pitā hanumataḥ śrīmān kesarī pratyadṛśyata.. 18..
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत॥ १९॥
। वृतः कोटि-सहस्रेण वानराणाम् अदृश्यत॥ १९॥
. vṛtaḥ koṭi-sahasreṇa vānarāṇām adṛśyata.. 19..
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत॥ २०॥
ऋक्षाणाम् भीम-वेगानाम् धूम्रः शत्रु-निबर्हणः । वृतः कोटि-सहस्राभ्याम् द्वाभ्याम् समभिवर्तत॥ २०॥
ṛkṣāṇām bhīma-vegānām dhūmraḥ śatru-nibarhaṇaḥ . vṛtaḥ koṭi-sahasrābhyām dvābhyām samabhivartata.. 20..
महाचलनिभैर्घोरैः पनसो नाम यूथपः । आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः॥ २१॥
महा-अचल-निभैः घोरैः पनसः नाम यूथपः । आजगाम महा-वीर्यः तिसृभिः कोटिभिः वृतः॥ २१॥
mahā-acala-nibhaiḥ ghoraiḥ panasaḥ nāma yūthapaḥ . ājagāma mahā-vīryaḥ tisṛbhiḥ koṭibhiḥ vṛtaḥ.. 21..
नीलाञ्जनचयाकारो नीलो नामैष यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः॥ २२॥
नीलाञ्जन-चय-आकारः नीलः नाम एष यूथपः । अदृश्यत महा-कायः कोटिभिः दशभिः वृतः॥ २२॥
nīlāñjana-caya-ākāraḥ nīlaḥ nāma eṣa yūthapaḥ . adṛśyata mahā-kāyaḥ koṭibhiḥ daśabhiḥ vṛtaḥ.. 22..
ततः काञ्चनशैलाभो गवयो नाम यूथपः । आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः॥ २३॥
ततस् काञ्चन-शैल-आभः गवयः नाम यूथपः । आजगाम महा-वीर्यः कोटिभिः पञ्चभिः वृतः॥ २३॥
tatas kāñcana-śaila-ābhaḥ gavayaḥ nāma yūthapaḥ . ājagāma mahā-vīryaḥ koṭibhiḥ pañcabhiḥ vṛtaḥ.. 23..
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा । वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः॥ २४॥
दरीमुखः च बलवान् यूथपः अभ्याययौ तदा । वृतः कोटि-सहस्रेण सुग्रीवम् समवस्थितः॥ २४॥
darīmukhaḥ ca balavān yūthapaḥ abhyāyayau tadā . vṛtaḥ koṭi-sahasreṇa sugrīvam samavasthitaḥ.. 24..
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणामदृश्यताम्॥ २५॥
मैन्दः च द्विविदः च उभौ अश्वि-पुत्रौ महा-बलौ । कोटि-कोटि-सहस्रेण वानराणाम् अदृश्य-ताम्॥ २५॥
maindaḥ ca dvividaḥ ca ubhau aśvi-putrau mahā-balau . koṭi-koṭi-sahasreṇa vānarāṇām adṛśya-tām.. 25..
गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः॥ २६॥
गजः च बलवान् वीरः तिसृभिः कोटिभिः वृतः । आजगाम महा-तेजाः सुग्रीवस्य समीपतस्॥ २६॥
gajaḥ ca balavān vīraḥ tisṛbhiḥ koṭibhiḥ vṛtaḥ . ājagāma mahā-tejāḥ sugrīvasya samīpatas.. 26..
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः॥ २७॥
ऋक्ष-राजः महा-तेजाः जाम्बवान् नाम नामतः । कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः॥ २७॥
ṛkṣa-rājaḥ mahā-tejāḥ jāmbavān nāma nāmataḥ . koṭibhiḥ daśabhiḥ vyāptaḥ sugrīvasya vaśe sthitaḥ.. 27..
रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः । आगतो बलवांस्तूर्णं कोटीशतसमावृतः॥ २८॥
रुमणः नाम तेजस्वी विक्रान्तैः वानरैः वृतः । आगतः बलवान् तूर्णम् कोटी-शत-समावृतः॥ २८॥
rumaṇaḥ nāma tejasvī vikrāntaiḥ vānaraiḥ vṛtaḥ . āgataḥ balavān tūrṇam koṭī-śata-samāvṛtaḥ.. 28..
ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः॥ २९॥
ततस् कोटि-सहस्राणाम् सहस्रेण शतेन च । पृष्ठतस् अनुगतः प्राप्तः हरिभिः गन्धमादनः॥ २९॥
tatas koṭi-sahasrāṇām sahasreṇa śatena ca . pṛṣṭhatas anugataḥ prāptaḥ haribhiḥ gandhamādanaḥ.. 29..
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः॥ ३०॥
ततस् पद्म-सहस्रेण वृतः शङ्कु-शतेन च । युवराजः अङ्गदः प्राप्तः पितुः तुल्य-पराक्रमः॥ ३०॥
tatas padma-sahasreṇa vṛtaḥ śaṅku-śatena ca . yuvarājaḥ aṅgadaḥ prāptaḥ pituḥ tulya-parākramaḥ.. 30..
ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः । पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत॥ ३१॥
ततस् तारा-द्युतिः तारः हरिभिः भीम-विक्रमैः । पञ्चभिः हरि-कोटीभिः दूरतस् पर्यदृश्यत॥ ३१॥
tatas tārā-dyutiḥ tāraḥ haribhiḥ bhīma-vikramaiḥ . pañcabhiḥ hari-koṭībhiḥ dūratas paryadṛśyata.. 31..
इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत । एकादशानां कोटीनामीश्वरस्तैश्च संवृतः॥ ३२॥
इन्द्रजानुः कविः वीरः यूथपः प्रत्यदृश्यत । एकादशानाम् कोटीनाम् ईश्वरः तैः च संवृतः॥ ३२॥
indrajānuḥ kaviḥ vīraḥ yūthapaḥ pratyadṛśyata . ekādaśānām koṭīnām īśvaraḥ taiḥ ca saṃvṛtaḥ.. 32..
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः । अयुतेन वृतश्चैव सहस्रेण शतेन च॥ ३३॥
ततस् रम्भः तु अनुप्राप्तः तरुण-आदित्य-संनिभः । अयुतेन वृतः च एव सहस्रेण शतेन च॥ ३३॥
tatas rambhaḥ tu anuprāptaḥ taruṇa-āditya-saṃnibhaḥ . ayutena vṛtaḥ ca eva sahasreṇa śatena ca.. 33..
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली॥ ३४॥
ततस् यूथ-पतिः वीरः दुर्मुखः नाम वानरः । प्रत्यदृश्यत कोटीभ्याम् द्वाभ्याम् परिवृतः बली॥ ३४॥
tatas yūtha-patiḥ vīraḥ durmukhaḥ nāma vānaraḥ . pratyadṛśyata koṭībhyām dvābhyām parivṛtaḥ balī.. 34..
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत॥ ३५॥
कैलास-शिखर-आकारैः वानरैः भीम-विक्रमैः । वृतः कोटि-सहस्रेण हनुमान् प्रत्यदृश्यत॥ ३५॥
kailāsa-śikhara-ākāraiḥ vānaraiḥ bhīma-vikramaiḥ . vṛtaḥ koṭi-sahasreṇa hanumān pratyadṛśyata.. 35..
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च॥ ३६॥
नलः च अपि महा-वीर्यः संवृतः द्रुमवासिभिः । कोटी-शतेन सम्प्राप्तः सहस्रेण शतेन च॥ ३६॥
nalaḥ ca api mahā-vīryaḥ saṃvṛtaḥ drumavāsibhiḥ . koṭī-śatena samprāptaḥ sahasreṇa śatena ca.. 36..
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः । सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः॥ ३७॥
ततस् दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः । सम्प्राप्तः अभिनदन् तस्य सुग्रीवस्य महात्मनः॥ ३७॥
tatas dadhimukhaḥ śrīmān koṭibhiḥ daśabhiḥ vṛtaḥ . samprāptaḥ abhinadan tasya sugrīvasya mahātmanaḥ.. 37..
शरभः कुमुदो वह्निर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः॥ ३८॥
शरभः कुमुदः वह्निः वानरः रंहः एव च । एते च अन्ये च बहवः वानराः कामरूपिणः॥ ३८॥
śarabhaḥ kumudaḥ vahniḥ vānaraḥ raṃhaḥ eva ca . ete ca anye ca bahavaḥ vānarāḥ kāmarūpiṇaḥ.. 38..
आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च । यूथपाः समनुप्राप्ता येषां संख्या न विद्यते॥ ३९॥
आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च । यूथपाः समनुप्राप्ताः येषाम् संख्या न विद्यते॥ ३९॥
āvṛtya pṛthivīm sarvām parvatān ca vanāni ca . yūthapāḥ samanuprāptāḥ yeṣām saṃkhyā na vidyate.. 39..
आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥ ४०॥
आगताः च निविष्टाः च पृथिव्याम् सर्व-वानराः । आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवंगमाः । अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र-गणाः इव॥ ४०॥
āgatāḥ ca niviṣṭāḥ ca pṛthivyām sarva-vānarāḥ . āplavantaḥ plavantaḥ ca garjantaḥ ca plavaṃgamāḥ . abhyavartanta sugrīvam sūryam abhra-gaṇāḥ iva.. 40..
कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः । शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥ ४१॥
कुर्वाणाः बहु-शब्दान् च प्रकृष्टाः बाहु-शालिनः । शिरोभिः वानर-इन्द्राय सुग्रीवाय न्यवेदयन्॥ ४१॥
kurvāṇāḥ bahu-śabdān ca prakṛṣṭāḥ bāhu-śālinaḥ . śirobhiḥ vānara-indrāya sugrīvāya nyavedayan.. 41..
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा॥ ४२॥
अपरे वानर-श्रेष्ठाः संगम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयः तदा॥ ४२॥
apare vānara-śreṣṭhāḥ saṃgamya ca yathocitam . sugrīveṇa samāgamya sthitāḥ prāñjalayaḥ tadā.. 42..
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्॥ ४३॥
सुग्रीवः त्वरितः रामे सर्वान् तान् वानर-ऋषभान् । निवेदयित्वा धर्म-ज्ञः स्थितः प्राञ्जलिः अब्रवीत्॥ ४३॥
sugrīvaḥ tvaritaḥ rāme sarvān tān vānara-ṛṣabhān . nivedayitvā dharma-jñaḥ sthitaḥ prāñjaliḥ abravīt.. 43..
यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः । निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे॥ ४४॥
यथासुखम् पर्वत-निर्झरेषु वनेषु सर्वेषु च वानर-इन्द्राः । निवेशयित्वा विधिवत् बलानि बलम् बल-ज्ञः प्रतिपत्तुम् ईष्टे॥ ४४॥
yathāsukham parvata-nirjhareṣu vaneṣu sarveṣu ca vānara-indrāḥ . niveśayitvā vidhivat balāni balam bala-jñaḥ pratipattum īṣṭe.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकोनचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In