This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुर्थः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe caturthaḥ sargaḥ ..4..
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः । श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः॥ १॥
ततस् प्रहृष्टः हनुमान् कृत्यवान् इति तद्-वचः । श्रुत्वा मधुर-भावम् च सुग्रीवम् मनसा गतः॥ १॥
tatas prahṛṣṭaḥ hanumān kṛtyavān iti tad-vacaḥ . śrutvā madhura-bhāvam ca sugrīvam manasā gataḥ.. 1..
भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः । यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्॥ २॥
भाव्यः राज्य-आगमः तस्य सुग्रीवस्य महात्मनः । यत् अयम् कृत्यवान् प्राप्तः कृत्यम् च एतत् उपागतम्॥ २॥
bhāvyaḥ rājya-āgamaḥ tasya sugrīvasya mahātmanaḥ . yat ayam kṛtyavān prāptaḥ kṛtyam ca etat upāgatam.. 2..
ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः॥ ३॥
ततस् परम-संहृष्टः हनूमान् प्लवग-उत्तमः । प्रत्युवाच ततस् वाक्यम् रामम् वाक्य-विशारदः॥ ३॥
tatas parama-saṃhṛṣṭaḥ hanūmān plavaga-uttamaḥ . pratyuvāca tatas vākyam rāmam vākya-viśāradaḥ.. 3..
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् । आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्॥ ४॥
किमर्थम् त्वम् वनम् घोरम् पम्पा-कानन-मण्डितम् । आगतः स अनुजः दुर्गम् नाना व्याल-मृग-आयुतम्॥ ४॥
kimartham tvam vanam ghoram pampā-kānana-maṇḍitam . āgataḥ sa anujaḥ durgam nānā vyāla-mṛga-āyutam.. 4..
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम्॥ ५॥
तस्य तत् वचनम् श्रुत्वा लक्ष्मणः राम-चोदितः । आचचक्षे महात्मानम् रामम् दशरथ-आत्मजम्॥ ५॥
tasya tat vacanam śrutvā lakṣmaṇaḥ rāma-coditaḥ . ācacakṣe mahātmānam rāmam daśaratha-ātmajam.. 5..
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः । चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन्॥ ६॥
राजा दशरथः नाम द्युतिमान् धर्म-वत्सलः । चातुर्वर्ण्यम् स्वधर्मेण नित्यम् एव अभिपालयन्॥ ६॥
rājā daśarathaḥ nāma dyutimān dharma-vatsalaḥ . cāturvarṇyam svadharmeṇa nityam eva abhipālayan.. 6..
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन । स तु सर्वेषु भूतेषु पितामह इवापरः॥ ७॥
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन । स तु सर्वेषु भूतेषु पितामहः इव अपरः॥ ७॥
na dveṣṭā vidyate tasya sa tu dveṣṭi na kaṃcana . sa tu sarveṣu bhūteṣu pitāmahaḥ iva aparaḥ.. 7..
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः॥ ८॥
अग्निष्टोम-आदिभिः यज्ञैः इष्टवान् आप्त-दक्षिणैः । तस्य अयम् पूर्वजः पुत्रः रामः नाम जनैः श्रुतः॥ ८॥
agniṣṭoma-ādibhiḥ yajñaiḥ iṣṭavān āpta-dakṣiṇaiḥ . tasya ayam pūrvajaḥ putraḥ rāmaḥ nāma janaiḥ śrutaḥ.. 8..
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः । ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः॥ ९॥
शरण्यः सर्व-भूतानाम् पितुः निर्देश-पारगः । ज्येष्ठः दशरथस्य अयम् पुत्राणाम् गुणवत्तरः॥ ९॥
śaraṇyaḥ sarva-bhūtānām pituḥ nirdeśa-pāragaḥ . jyeṣṭhaḥ daśarathasya ayam putrāṇām guṇavattaraḥ.. 9..
राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा । राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः॥ १०॥
राज-लक्षण-संयुक्तः संयुक्तः राज्य-सम्पदा । राज्यात् भ्रष्टः मया वस्तुम् वने सार्धम् इह आगतः॥ १०॥
rāja-lakṣaṇa-saṃyuktaḥ saṃyuktaḥ rājya-sampadā . rājyāt bhraṣṭaḥ mayā vastum vane sārdham iha āgataḥ.. 10..
भार्यया च महाभाग सीतयानुगतो वशी । दिनक्षये महातेजाः प्रभयेव दिवाकरः॥ ११॥
भार्यया च महाभाग सीतया अनुगतः वशी । दिनक्षये महा-तेजाः प्रभया इव दिवाकरः॥ ११॥
bhāryayā ca mahābhāga sītayā anugataḥ vaśī . dinakṣaye mahā-tejāḥ prabhayā iva divākaraḥ.. 11..
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः । कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः॥ १२॥
अहम् अस्य अवरः भ्राता गुणैः दास्यम् उपागतः । कृतज्ञस्य बहु-ज्ञस्य लक्ष्मणः नाम नामतः॥ १२॥
aham asya avaraḥ bhrātā guṇaiḥ dāsyam upāgataḥ . kṛtajñasya bahu-jñasya lakṣmaṇaḥ nāma nāmataḥ.. 12..
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः । ऐश्वर्येण विहीनस्य वनवासे रतस्य च॥ १३॥
सुख-अर्हस्य महार्हस्य सर्व-भूत-हित-आत्मनः । ऐश्वर्येण विहीनस्य वन-वासे रतस्य च॥ १३॥
sukha-arhasya mahārhasya sarva-bhūta-hita-ātmanaḥ . aiśvaryeṇa vihīnasya vana-vāse ratasya ca.. 13..
रक्षसापहृता भार्या रहिते कामरूपिणा । तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता॥ १४॥
रक्षसा अपहृता भार्या रहिते कामरूपिणा । तत् च न ज्ञायते रक्षः पत्नी येन अस्य वा हृता॥ १४॥
rakṣasā apahṛtā bhāryā rahite kāmarūpiṇā . tat ca na jñāyate rakṣaḥ patnī yena asya vā hṛtā.. 14..
दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः । आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः॥ १५॥
दनुः नाम दितेः पुत्रः शापात् राक्षसताम् गतः । आख्यातः तेन सुग्रीवः समर्थः वानर-अधिपः॥ १५॥
danuḥ nāma diteḥ putraḥ śāpāt rākṣasatām gataḥ . ākhyātaḥ tena sugrīvaḥ samarthaḥ vānara-adhipaḥ.. 15..
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् । एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः॥ १६॥
स ज्ञास्यति महा-वीर्यः तव भार्या-अपहारिणम् । एवम् उक्त्वा दनुः स्वर्गम् भ्राजमानः दिवम् गतः॥ १६॥
sa jñāsyati mahā-vīryaḥ tava bhāryā-apahāriṇam . evam uktvā danuḥ svargam bhrājamānaḥ divam gataḥ.. 16..
एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः । अहं चैव च रामश्च सुग्रीवं शरणं गतौ॥ १७॥
एतत् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः । अहम् च एव च रामः च सुग्रीवम् शरणम् गतौ॥ १७॥
etat te sarvam ākhyātam yāthātathyena pṛcchataḥ . aham ca eva ca rāmaḥ ca sugrīvam śaraṇam gatau.. 17..
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः । लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति॥ १८॥
एष दत्त्वा च वित्तानि प्राप्य च अनुत्तमम् यशः । लोक-नाथः पुरा भूत्वा सुग्रीवम् नाथम् इच्छति॥ १८॥
eṣa dattvā ca vittāni prāpya ca anuttamam yaśaḥ . loka-nāthaḥ purā bhūtvā sugrīvam nātham icchati.. 18..
सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः॥ १९॥
सीता यस्य स्नुषा च आसीत् शरण्यः धर्म-वत्सलः । तस्य पुत्रः शरण्यः च सुग्रीवम् शरणम् गतः॥ १९॥
sītā yasya snuṣā ca āsīt śaraṇyaḥ dharma-vatsalaḥ . tasya putraḥ śaraṇyaḥ ca sugrīvam śaraṇam gataḥ.. 19..
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा । गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः॥ २०॥
सर्व-लोकस्य धर्म-आत्मा शरण्यः शरणम् पुरा । गुरुः मे राघवः सः अयम् सुग्रीवम् शरणम् गतः॥ २०॥
sarva-lokasya dharma-ātmā śaraṇyaḥ śaraṇam purā . guruḥ me rāghavaḥ saḥ ayam sugrīvam śaraṇam gataḥ.. 20..
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः । स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते॥ २१॥
यस्य प्रसादे सततम् प्रसीदेयुः इमाः प्रजाः । स रामः वानर-इन्द्रस्य प्रसादम् अभिकांक्षते॥ २१॥
yasya prasāde satatam prasīdeyuḥ imāḥ prajāḥ . sa rāmaḥ vānara-indrasya prasādam abhikāṃkṣate.. 21..
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः । मानिताः सततं राज्ञा सदा दशरथेन वै॥ २२॥
येन सर्व-गुण-उपेताः पृथिव्याम् सर्व-पार्थिवाः । मानिताः सततम् राज्ञा सदा दशरथेन वै॥ २२॥
yena sarva-guṇa-upetāḥ pṛthivyām sarva-pārthivāḥ . mānitāḥ satatam rājñā sadā daśarathena vai.. 22..
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः । सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः॥ २३॥
तस्य अयम् पूर्वजः पुत्रः त्रिषु लोकेषु विश्रुतः । सुग्रीवम् वानर-इन्द्रम् तु रामः शरणम् आगतः॥ २३॥
tasya ayam pūrvajaḥ putraḥ triṣu lokeṣu viśrutaḥ . sugrīvam vānara-indram tu rāmaḥ śaraṇam āgataḥ.. 23..
शोकाभिभूते रामे तु शोकार्ते शरणं गते । कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः॥ २४॥
शोक-अभिभूते रामे तु शोक-आर्ते शरणम् गते । कर्तुम् अर्हति सुग्रीवः प्रसादम् सह यूथपैः॥ २४॥
śoka-abhibhūte rāme tu śoka-ārte śaraṇam gate . kartum arhati sugrīvaḥ prasādam saha yūthapaiḥ.. 24..
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् । हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥ २५॥
एवम् ब्रुवाणम् सौमित्रिम् करुणम् स अश्रु-पातनम् । हनूमान् प्रत्युवाच इदम् वाक्यम् वाक्य-विशारदः॥ २५॥
evam bruvāṇam saumitrim karuṇam sa aśru-pātanam . hanūmān pratyuvāca idam vākyam vākya-viśāradaḥ.. 25..
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः । द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः॥ २६॥
ईदृशाः बुद्धि-सम्पन्नाः जित-क्रोधाः जित-इन्द्रियाः । द्रष्टव्याः वानर-इन्द्रेण दिष्ट्या दर्शनम् आगताः॥ २६॥
īdṛśāḥ buddhi-sampannāḥ jita-krodhāḥ jita-indriyāḥ . draṣṭavyāḥ vānara-indreṇa diṣṭyā darśanam āgatāḥ.. 26..
स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्॥ २७॥
स हि राज्यात् च विभ्रष्टः कृत-वैरः च वालिना । हृत-दारः वने त्रस्तः भ्रात्रा विनिकृतः भृशम्॥ २७॥
sa hi rājyāt ca vibhraṣṭaḥ kṛta-vairaḥ ca vālinā . hṛta-dāraḥ vane trastaḥ bhrātrā vinikṛtaḥ bhṛśam.. 27..
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः । सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे॥ २८॥
करिष्यति स साहाय्यम् युवयोः भास्कर-आत्मजः । सुग्रीवः सह च अस्माभिः सीतायाः परिमार्गणे॥ २८॥
kariṣyati sa sāhāyyam yuvayoḥ bhāskara-ātmajaḥ . sugrīvaḥ saha ca asmābhiḥ sītāyāḥ parimārgaṇe.. 28..
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा । बभाषे साधु गच्छामः सुग्रीवमिति राघवम्॥ २९॥
इति एवम् उक्त्वा हनुमान् श्लक्ष्णम् मधुरया गिरा । बभाषे साधु गच्छामः सुग्रीवम् इति राघवम्॥ २९॥
iti evam uktvā hanumān ślakṣṇam madhurayā girā . babhāṣe sādhu gacchāmaḥ sugrīvam iti rāghavam.. 29..
एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः । प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्॥ ३०॥
एवम् ब्रुवन्तम् धर्म-आत्मा हनूमन्तम् स लक्ष्मणः । प्रतिपूज्य यथान्यायम् इदम् प्रोवाच राघवम्॥ ३०॥
evam bruvantam dharma-ātmā hanūmantam sa lakṣmaṇaḥ . pratipūjya yathānyāyam idam provāca rāghavam.. 30..
कपिः कथयते हृष्टो यथायं मारुतात्मजः । कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव॥ ३१॥
कपिः कथयते हृष्टः यथा अयम् मारुतात्मजः । कृत्यवान् सः अपि सम्प्राप्तः कृतकृत्यः असि राघव॥ ३१॥
kapiḥ kathayate hṛṣṭaḥ yathā ayam mārutātmajaḥ . kṛtyavān saḥ api samprāptaḥ kṛtakṛtyaḥ asi rāghava.. 31..
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते । नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः॥ ३२॥
प्रसन्न-मुख-वर्णः च व्यक्तम् हृष्टः च भाषते । न अनृतम् वक्ष्यते वीरः हनूमान् मारुतात्मजः॥ ३२॥
prasanna-mukha-varṇaḥ ca vyaktam hṛṣṭaḥ ca bhāṣate . na anṛtam vakṣyate vīraḥ hanūmān mārutātmajaḥ.. 32..
ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः । जगामादाय तौ वीरौ हरिराजाय राघवौ॥ ३३॥
ततस् स सु महा-प्राज्ञः हनूमान् मारुतात्मजः । जगाम आदाय तौ वीरौ हरि-राजाय राघवौ॥ ३३॥
tatas sa su mahā-prājñaḥ hanūmān mārutātmajaḥ . jagāma ādāya tau vīrau hari-rājāya rāghavau.. 33..
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः । पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः॥ ३४॥
भिक्षु-रूपम् परित्यज्य वानरम् रूपम् आस्थितः । पृष्ठम् आरोप्य तौ वीरौ जगाम कपि-कुञ्जरः॥ ३४॥
bhikṣu-rūpam parityajya vānaram rūpam āsthitaḥ . pṛṣṭham āropya tau vīrau jagāma kapi-kuñjaraḥ.. 34..
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत् प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम्॥ ३५॥
स तु विपुलयशाः कपि-प्रवीरः पवन-सुतः कृतकृत्यवत् प्रहृष्टः । गिरि-वरम् उरु-विक्रमः प्रयातः स शुभ-मतिः सह राम-लक्ष्मणाभ्याम्॥ ३५॥
sa tu vipulayaśāḥ kapi-pravīraḥ pavana-sutaḥ kṛtakṛtyavat prahṛṣṭaḥ . giri-varam uru-vikramaḥ prayātaḥ sa śubha-matiḥ saha rāma-lakṣmaṇābhyām.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुर्थः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe caturthaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In