This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe catvāriṃśaḥ sargaḥ ..4..
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । उवाच नरशार्दूलं रामं परबलार्दनम्॥ १॥
अथ राजा समृद्ध-अर्थः सुग्रीवः प्लवग-ईश्वरः । उवाच नर-शार्दूलम् रामम् पर-बल-अर्दनम्॥ १॥
atha rājā samṛddha-arthaḥ sugrīvaḥ plavaga-īśvaraḥ . uvāca nara-śārdūlam rāmam para-bala-ardanam.. 1..
आगता विनिविष्टाश्च बलिनः कामरूपिणः । वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः॥ २॥
आगताः विनिविष्टाः च बलिनः कामरूपिणः । वानर-इन्द्राः महा-इन्द्र-आभाः ये मद्-विषय-वासिनः॥ २॥
āgatāḥ viniviṣṭāḥ ca balinaḥ kāmarūpiṇaḥ . vānara-indrāḥ mahā-indra-ābhāḥ ye mad-viṣaya-vāsinaḥ.. 2..
त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ३॥
ते इमे बहु-विक्रान्तैः बलिभिः भीम-विक्रमैः । आगताः वानराः घोराः दैत्य-दानव-संनिभाः॥ ३॥
te ime bahu-vikrāntaiḥ balibhiḥ bhīma-vikramaiḥ . āgatāḥ vānarāḥ ghorāḥ daitya-dānava-saṃnibhāḥ.. 3..
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥ ४॥
ख्यात-कर्म-अपदानाः च बलवन्तः जित-क्लमाः । पराक्रमेषु विख्याताः व्यवसायेषु च उत्तमाः॥ ४॥
khyāta-karma-apadānāḥ ca balavantaḥ jita-klamāḥ . parākrameṣu vikhyātāḥ vyavasāyeṣu ca uttamāḥ.. 4..
पृथिव्यम्बुचरा राम नानानगनिवासिनः । कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः॥ ५॥
पृथिवी-अम्बु-चराः राम नाना नग-निवासिनः । कोटि-ओघाः च इमे प्राप्ताः वानराः तव किंकराः॥ ५॥
pṛthivī-ambu-carāḥ rāma nānā naga-nivāsinaḥ . koṭi-oghāḥ ca ime prāptāḥ vānarāḥ tava kiṃkarāḥ.. 5..
निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः । अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम॥ ६॥
निदेश-वर्तिनः सर्वे सर्वे गुरु-हिते स्थिताः । अभिप्रेतम् अनुष्ठातुम् तव शक्ष्यन्ति अरिंदम॥ ६॥
nideśa-vartinaḥ sarve sarve guru-hite sthitāḥ . abhipretam anuṣṭhātum tava śakṣyanti ariṃdama.. 6..
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ७॥
ते इमे बहु-साहस्रैः अनीकैः भीम-विक्रमैः । आगताः वानराः घोराः दैत्य-दानव-संनिभाः॥ ७॥
te ime bahu-sāhasraiḥ anīkaiḥ bhīma-vikramaiḥ . āgatāḥ vānarāḥ ghorāḥ daitya-dānava-saṃnibhāḥ.. 7..
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥ ८॥
यत् मन्यसे नर-व्याघ्र प्राप्त-कालम् तत् उच्यताम् । त्वद्-सैन्यम् त्वद्-वशे युक्तम् आज्ञापयितुम् अर्हसि॥ ८॥
yat manyase nara-vyāghra prāpta-kālam tat ucyatām . tvad-sainyam tvad-vaśe yuktam ājñāpayitum arhasi.. 8..
काममेषामिदं कार्यं विदितं मम तत्त्वतः । तथापि तु यथायुक्तमाज्ञापयितुमर्हसि॥ ९॥
कामम् एषाम् इदम् कार्यम् विदितम् मम तत्त्वतः । तथा अपि तु यथा युक्तम् आज्ञापयितुम् अर्हसि॥ ९॥
kāmam eṣām idam kāryam viditam mama tattvataḥ . tathā api tu yathā yuktam ājñāpayitum arhasi.. 9..
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्॥ १०॥
तथा ब्रुवाणम् सुग्रीवम् रामः दशरथ-आत्मजः । बाहुभ्याम् सम्परिष्वज्य इदम् वचनम् अब्रवीत्॥ १०॥
tathā bruvāṇam sugrīvam rāmaḥ daśaratha-ātmajaḥ . bāhubhyām sampariṣvajya idam vacanam abravīt.. 10..
ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा । स च देशो महाप्राज्ञ यस्मिन् वसति रावणः॥ ११॥
ज्ञायताम् सौम्य वैदेही यदि जीवति वा न वा । स च देशः महा-प्राज्ञ यस्मिन् वसति रावणः॥ ११॥
jñāyatām saumya vaidehī yadi jīvati vā na vā . sa ca deśaḥ mahā-prājña yasmin vasati rāvaṇaḥ.. 11..
अधिगम्य तु वैदेहीं निलयं रावणस्य च । प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया॥ १२॥
अधिगम्य तु वैदेहीम् निलयम् रावणस्य च । प्राप्त-कालम् विधास्यामि तस्मिन् काले सह त्वया॥ १२॥
adhigamya tu vaidehīm nilayam rāvaṇasya ca . prāpta-kālam vidhāsyāmi tasmin kāle saha tvayā.. 12..
नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः । त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥ १३॥
न अहम् अस्मिन् प्रभुः कार्ये वानर-इन्द्र न लक्ष्मणः । त्वम् अस्य हेतुः कार्यस्य प्रभुः च प्लवग-ईश्वर॥ १३॥
na aham asmin prabhuḥ kārye vānara-indra na lakṣmaṇaḥ . tvam asya hetuḥ kāryasya prabhuḥ ca plavaga-īśvara.. 13..
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । त्वं हि जानासि मे कार्यं मम वीर न संशयः॥ १४॥
त्वम् एव आज्ञापय विभो मम कार्य-विनिश्चयम् । त्वम् हि जानासि मे कार्यम् मम वीर न संशयः॥ १४॥
tvam eva ājñāpaya vibho mama kārya-viniścayam . tvam hi jānāsi me kāryam mama vīra na saṃśayaḥ.. 14..
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः॥ १५॥
। भवान् अस्मद्-हिते युक्तः सुहृद् आप्तः अर्थ-वित्तमः॥ १५॥
. bhavān asmad-hite yuktaḥ suhṛd āptaḥ artha-vittamaḥ.. 15..
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः॥ १६॥
एवम् उक्तः तु सुग्रीवः विनतम् नाम यूथपम् । अब्रवीत् राम-सांनिध्ये लक्ष्मणस्य च धीमतः॥ १६॥
evam uktaḥ tu sugrīvaḥ vinatam nāma yūthapam . abravīt rāma-sāṃnidhye lakṣmaṇasya ca dhīmataḥ.. 16..
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् । सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम॥ १७॥
शैल-आभम् मेघ-निर्घोषम् ऊर्जितम् प्लवग-ईश्वरम् । सोम-सूर्य-निभैः सार्धम् वानरैः वानर-उत्तम॥ १७॥
śaila-ābham megha-nirghoṣam ūrjitam plavaga-īśvaram . soma-sūrya-nibhaiḥ sārdham vānaraiḥ vānara-uttama.. 17..
देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये । वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ १८॥
देश-काल-नयैः युक्तः विज्ञः कार्य-विनिश्चये । वृतः शत-सहस्रेण वानराणाम् तरस्विनाम्॥ १८॥
deśa-kāla-nayaiḥ yuktaḥ vijñaḥ kārya-viniścaye . vṛtaḥ śata-sahasreṇa vānarāṇām tarasvinām.. 18..
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् । तत्र सीतां च वैदेहीं निलयं रावणस्य च॥ १९॥
अधिगच्छ दिशम् पूर्वाम् स शैल-वन-काननाम् । तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च॥ १९॥
adhigaccha diśam pūrvām sa śaila-vana-kānanām . tatra sītām ca vaidehīm nilayam rāvaṇasya ca.. 19..
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च । नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा॥ २०॥
मार्गध्वम् गिरि-दुर्गेषु वनेषु च नदीषु च । नदीम् भागीरथीम् रम्याम् सरयूम् कौशिकीम् तथा॥ २०॥
mārgadhvam giri-durgeṣu vaneṣu ca nadīṣu ca . nadīm bhāgīrathīm ramyām sarayūm kauśikīm tathā.. 20..
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् । सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्॥ २१॥
कालिन्दीम् यमुनाम् रम्याम् यामुनम् च महा-गिरिम् । सरस्वतीम् च सिन्धुम् च शोणम् मणि-निभ-उदकम्॥ २१॥
kālindīm yamunām ramyām yāmunam ca mahā-girim . sarasvatīm ca sindhum ca śoṇam maṇi-nibha-udakam.. 21..
महीं कालमहीं चापि शैलकाननशोभिताम् । ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्॥ २२॥
महीम् काल-महीम् च अपि शैल-कानन-शोभिताम् । ब्रह्ममालान् विदेहान् च मालवान् काशि-कोसलान्॥ २२॥
mahīm kāla-mahīm ca api śaila-kānana-śobhitām . brahmamālān videhān ca mālavān kāśi-kosalān.. 22..
मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च । भूमिं च कोशकाराणां भूमिं च रजताकराम्॥ २३॥
मागधान् च महाग्रामान् पुण्ड्रान् तु अङ्गान् तथा एव च । भूमिम् च कोशकाराणाम् भूमिम् च रजत-आकराम्॥ २३॥
māgadhān ca mahāgrāmān puṇḍrān tu aṅgān tathā eva ca . bhūmim ca kośakārāṇām bhūmim ca rajata-ākarām.. 23..
सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः । रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्॥ २४॥
सर्वम् च तत् विचेतव्यम् मार्गयद्भिः ततस् ततस् । रामस्य दयिताम् भार्याम् सीताम् दशरथ-स्नुषाम्॥ २४॥
sarvam ca tat vicetavyam mārgayadbhiḥ tatas tatas . rāmasya dayitām bhāryām sītām daśaratha-snuṣām.. 24..
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च । मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः॥ २५॥
समुद्रम् अवगाढान् च पर्वतान् पत्तनानि च । मन्दरस्य च ये कोटिम् संश्रिताः केचिद् आलयाः॥ २५॥
samudram avagāḍhān ca parvatān pattanāni ca . mandarasya ca ye koṭim saṃśritāḥ kecid ālayāḥ.. 25..
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः । घोरलोहमुखाश्चैव जवनाश्चैकपादकाः॥ २६॥
कर्णप्रावरणाः च एव तथा च अपि ओष्ठकर्णकाः । घोरलोहमुखाः च एव जवनाः च एकपादकाः॥ २६॥
karṇaprāvaraṇāḥ ca eva tathā ca api oṣṭhakarṇakāḥ . ghoralohamukhāḥ ca eva javanāḥ ca ekapādakāḥ.. 26..
अक्षया बलवन्तश्च तथैव पुरुषादकाः । किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः॥ २७॥
अक्षयाः बलवन्तः च तथा एव पुरुषादकाः । किराताः तीक्ष्ण-चूडाः च हेम-आभाः प्रिय-दर्शनाः॥ २७॥
akṣayāḥ balavantaḥ ca tathā eva puruṣādakāḥ . kirātāḥ tīkṣṇa-cūḍāḥ ca hema-ābhāḥ priya-darśanāḥ.. 27..
आममीनाशनाश्चापि किराता द्वीपवासिनः । अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः॥ २८॥
आम-मीन-अशनाः च अपि किराताः द्वीप-वासिनः । अन्तर् जलचराः घोराः नर-व्याघ्राः इति स्मृताः॥ २८॥
āma-mīna-aśanāḥ ca api kirātāḥ dvīpa-vāsinaḥ . antar jalacarāḥ ghorāḥ nara-vyāghrāḥ iti smṛtāḥ.. 28..
एतेषामाश्रयाः सर्वे विचेयाः काननौकसः । गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च॥ २९॥
एतेषाम् आश्रयाः सर्वे विचेयाः काननौकसः । गिरिभिः ये च गम्यन्ते प्लवनेन प्लवेन च॥ २९॥
eteṣām āśrayāḥ sarve viceyāḥ kānanaukasaḥ . giribhiḥ ye ca gamyante plavanena plavena ca.. 29..
यत्नवन्तो यवद्वीपं सप्तराजोपशोभितम् । सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम्॥ ३०॥
यत्नवन्तः यवद्वीपम् सप्त-राज-उपशोभितम् । सुवर्ण-रूप्यक-द्वीपम् सुवर्ण-आकर-मण्डितम्॥ ३०॥
yatnavantaḥ yavadvīpam sapta-rāja-upaśobhitam . suvarṇa-rūpyaka-dvīpam suvarṇa-ākara-maṇḍitam.. 30..
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः । दिवं स्पृशति शृङ्गेण देवदानवसेवितः॥ ३१॥
यवद्वीपम् अतिक्रम्य शिशिरः नाम पर्वतः । दिवम् स्पृशति शृङ्गेण देव-दानव-सेवितः॥ ३१॥
yavadvīpam atikramya śiśiraḥ nāma parvataḥ . divam spṛśati śṛṅgeṇa deva-dānava-sevitaḥ.. 31..
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम्॥ ३२॥
एतेषाम् गिरि-दुर्गेषु प्रपातेषु वनेषु च । मार्गध्वम् सहिताः सर्वे राम-पत्नीम् यशस्विनीम्॥ ३२॥
eteṣām giri-durgeṣu prapāteṣu vaneṣu ca . mārgadhvam sahitāḥ sarve rāma-patnīm yaśasvinīm.. 32..
ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम् । गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्॥ ३३॥
ततस् रक्तजलम् प्राप्य शोण-आख्यम् शीघ्र-वाहिनम् । गत्वा पारम् समुद्रस्य सिद्ध-चारण-सेवितम्॥ ३३॥
tatas raktajalam prāpya śoṇa-ākhyam śīghra-vāhinam . gatvā pāram samudrasya siddha-cāraṇa-sevitam.. 33..
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ३४॥
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ ३४॥
tasya tīrtheṣu ramyeṣu vicitreṣu vaneṣu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 34..
पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः । मार्गितव्या दरीमन्तः पर्वताश्च वनानि च॥ ३५॥
पर्वत-प्रभवाः नद्यः सु भीम-बहु-निष्कुटाः । मार्गितव्याः दरीमन्तः पर्वताः च वनानि च॥ ३५॥
parvata-prabhavāḥ nadyaḥ su bhīma-bahu-niṣkuṭāḥ . mārgitavyāḥ darīmantaḥ parvatāḥ ca vanāni ca.. 35..
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ । ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम्॥ ३६॥
ततस् समुद्र-द्वीपान् च सु भीमान् द्रष्टुम् अर्हथ । ऊर्मिमन्तम् महा-रौद्रम् क्रोशन्तम् अनिल-उद्धतम्॥ ३६॥
tatas samudra-dvīpān ca su bhīmān draṣṭum arhatha . ūrmimantam mahā-raudram krośantam anila-uddhatam.. 36..
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥ ३७॥
तत्र असुराः महा-कायाः छायाम् गृह्णन्ति नित्यशस् । ब्रह्मणा समनुज्ञाताः दीर्घ-कालम् बुभुक्षिताः॥ ३७॥
tatra asurāḥ mahā-kāyāḥ chāyām gṛhṇanti nityaśas . brahmaṇā samanujñātāḥ dīrgha-kālam bubhukṣitāḥ.. 37..
तं कालमेघप्रतिमं महोरगनिषेवितम् । अभिगम्य महानादं तीर्थेनैव महोदधिम्॥ ३८॥
तम् काल-मेघ-प्रतिमम् महा-उरग-निषेवितम् । अभिगम्य महानादम् तीर्थेन एव महा-उदधिम्॥ ३८॥
tam kāla-megha-pratimam mahā-uraga-niṣevitam . abhigamya mahānādam tīrthena eva mahā-udadhim.. 38..
ततो रक्तजलं भीमं लोहितं नाम सागरम् । गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्॥ ३९॥
ततस् रक्त-जलम् भीमम् लोहितम् नाम सागरम् । गत्वा प्रेक्ष्यथ ताम् च एव बृहतीम् कूटशाल्मलीम्॥ ३९॥
tatas rakta-jalam bhīmam lohitam nāma sāgaram . gatvā prekṣyatha tām ca eva bṛhatīm kūṭaśālmalīm.. 39..
गृहं च वैनतेयस्य नानारत्नविभूषितम् । तत्र कैलाससंकाशं विहितं विश्वकर्मणा॥ ४०॥
गृहम् च वैनतेयस्य नाना रत्न-विभूषितम् । तत्र कैलास-संकाशम् विहितम् विश्वकर्मणा॥ ४०॥
gṛham ca vainateyasya nānā ratna-vibhūṣitam . tatra kailāsa-saṃkāśam vihitam viśvakarmaṇā.. 40..
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥ ४१॥
तत्र शैल-निभाः भीमाः मन्देहाः नाम राक्षसाः । शैल-शृङ्गेषु लम्बन्ते नाना रूपाः भय-आवहाः॥ ४१॥
tatra śaila-nibhāḥ bhīmāḥ mandehāḥ nāma rākṣasāḥ . śaila-śṛṅgeṣu lambante nānā rūpāḥ bhaya-āvahāḥ.. 41..
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः॥ ४२॥
ते पतन्ति जले नित्यम् सूर्यस्य उदयनम् प्रति । अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनर् पुनर्॥ ४२॥
te patanti jale nityam sūryasya udayanam prati . abhitaptāḥ sma sūryeṇa lambante sma punar punar.. 42..
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्॥ ४३॥
निहताः ब्रह्म-तेजोभिः अहनि अहनि राक्षसाः । ततस् पाण्डुर-मेघ-आभम् क्षीरोदम् नाम सागरम्॥ ४३॥
nihatāḥ brahma-tejobhiḥ ahani ahani rākṣasāḥ . tatas pāṇḍura-megha-ābham kṣīrodam nāma sāgaram.. 43..
गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः । तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः॥ ४४॥
गत्वा द्रक्ष्यथ दुर्धर्षाः मुक्ता-हारम् इव ऊर्मिभिः । तस्य मध्ये महान् श्वेतः ऋषभः नाम पर्वतः॥ ४४॥
gatvā drakṣyatha durdharṣāḥ muktā-hāram iva ūrmibhiḥ . tasya madhye mahān śvetaḥ ṛṣabhaḥ nāma parvataḥ.. 44..
दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः । सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः॥ ४५॥
दिव्य-गन्धैः कुसुमितैः आचितैः च नगैः वृतः । सरः च राजतैः पद्मैः ज्वलितैः हेम-केसरैः॥ ४५॥
divya-gandhaiḥ kusumitaiḥ ācitaiḥ ca nagaiḥ vṛtaḥ . saraḥ ca rājataiḥ padmaiḥ jvalitaiḥ hema-kesaraiḥ.. 45..
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् । विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः॥ ४६॥
नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम् । विबुधाः चारणाः यक्षाः किंनराः च अप्सरः-गणाः॥ ४६॥
nāmnā sudarśanam nāma rājahaṃsaiḥ samākulam . vibudhāḥ cāraṇāḥ yakṣāḥ kiṃnarāḥ ca apsaraḥ-gaṇāḥ.. 46..
हृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः । क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः॥ ४७॥
हृष्टाः समधिगच्छन्ति नलिनीम् ताम् रिरंसवः । क्षीरोदम् समतिक्रम्य तदा द्रक्ष्यथ वानराः॥ ४७॥
hṛṣṭāḥ samadhigacchanti nalinīm tām riraṃsavaḥ . kṣīrodam samatikramya tadā drakṣyatha vānarāḥ.. 47..
जलोदं सागरं शीघ्रं सर्वभूतभयावहम् । तत्र तत्कोपजं तेजः कृतं हयमुखं महत्॥ ४८॥
जल-उदम् सागरम् शीघ्रम् सर्व-भूत-भय-आवहम् । तत्र तद्-कोप-जम् तेजः कृतम् हयमुखम् महत्॥ ४८॥
jala-udam sāgaram śīghram sarva-bhūta-bhaya-āvaham . tatra tad-kopa-jam tejaḥ kṛtam hayamukham mahat.. 48..
अस्याहुस्तन्महावेगमोदनं सचराचरम् । तत्र विक्रोशतां नादो भूतानां सागरौकसाम् । श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम्॥ ४९॥
अस्य आहुः तत् महा-वेगम् ओदनम् सचराचरम् । तत्र विक्रोशताम् नादः भूतानाम् सागरौकसाम् । श्रूयते च असमर्थानाम् दृष्ट्वा अभूत् वडवामुखम्॥ ४९॥
asya āhuḥ tat mahā-vegam odanam sacarācaram . tatra vikrośatām nādaḥ bhūtānām sāgaraukasām . śrūyate ca asamarthānām dṛṣṭvā abhūt vaḍavāmukham.. 49..
स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश । जातरूपशिलो नाम सुमहान् कनकप्रभः॥ ५०॥
स्वादु-उदस्य उत्तरे तीरे योजनानि त्रयोदश । जातरूपशिलः नाम सु महान् कनक-प्रभः॥ ५०॥
svādu-udasya uttare tīre yojanāni trayodaśa . jātarūpaśilaḥ nāma su mahān kanaka-prabhaḥ.. 50..
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः॥ ५१॥
तत्र चन्द्र-प्रतीकाशम् पन्नगम् धरणीधरम् । पद्म-पत्र-विशाल-अक्षम् ततस् द्रक्ष्यथ वानराः॥ ५१॥
tatra candra-pratīkāśam pannagam dharaṇīdharam . padma-patra-viśāla-akṣam tatas drakṣyatha vānarāḥ.. 51..
आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम् । सहस्रशिरसं देवमनन्तं नीलवाससम्॥ ५२॥
आसीनम् पर्वतस्य अग्रे सर्व-देव-नमस्कृतम् । सहस्र-शिरसम् देवम् अनन्तम् नील-वाससम्॥ ५२॥
āsīnam parvatasya agre sarva-deva-namaskṛtam . sahasra-śirasam devam anantam nīla-vāsasam.. 52..
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । स्थापितः पर्वतस्याग्रे विराजति सवेदिकः॥ ५३॥
त्रिशिराः काञ्चनः केतुः तालः तस्य महात्मनः । स्थापितः पर्वतस्य अग्रे विराजति स वेदिकः॥ ५३॥
triśirāḥ kāñcanaḥ ketuḥ tālaḥ tasya mahātmanaḥ . sthāpitaḥ parvatasya agre virājati sa vedikaḥ.. 53..
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः । ततः परं हेममयः श्रीमानुदयपर्वतः॥ ५४॥
पूर्वस्याम् दिशि निर्माणम् कृतम् तत् त्रिदश-ईश्वरैः । ततस् परम् हेम-मयः श्रीमान् उदयपर्वतः॥ ५४॥
pūrvasyām diśi nirmāṇam kṛtam tat tridaśa-īśvaraiḥ . tatas param hema-mayaḥ śrīmān udayaparvataḥ.. 54..
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता । जातरूपमयी दिव्या विराजति सवेदिका॥ ५५॥
तस्य कोटिः दिवम् स्पृष्ट्वा शत-योजनम् आयता । जातरूप-मयी दिव्या विराजति स वेदिका॥ ५५॥
tasya koṭiḥ divam spṛṣṭvā śata-yojanam āyatā . jātarūpa-mayī divyā virājati sa vedikā.. 55..
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः॥ ५६॥
सालैः तालैः तमालैः च कर्णिकारैः च पुष्पितैः । जातरूप-मयैः दिव्यैः शोभते सूर्य-संनिभैः॥ ५६॥
sālaiḥ tālaiḥ tamālaiḥ ca karṇikāraiḥ ca puṣpitaiḥ . jātarūpa-mayaiḥ divyaiḥ śobhate sūrya-saṃnibhaiḥ.. 56..
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्॥ ५७॥
तत्र योजन-विस्तारम् उच्छ्रितम् दश-योजनम् । शृङ्गम् सौमनसम् नाम जातरूप-मयम् ध्रुवम्॥ ५७॥
tatra yojana-vistāram ucchritam daśa-yojanam . śṛṅgam saumanasam nāma jātarūpa-mayam dhruvam.. 57..
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः॥ ५८॥
तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुः त्रिविक्रमे । द्वितीयम् शिखरे मेरोः चकार पुरुषोत्तमः॥ ५८॥
tatra pūrvam padam kṛtvā purā viṣṇuḥ trivikrame . dvitīyam śikhare meroḥ cakāra puruṣottamaḥ.. 58..
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्॥ ५९॥
उत्तरेण परिक्रम्य जम्बूद्वीपम् दिवाकरः । दृश्यः भवति भूयिष्ठम् शिखरम् तत् महा-उच्छ्रयम्॥ ५९॥
uttareṇa parikramya jambūdvīpam divākaraḥ . dṛśyaḥ bhavati bhūyiṣṭham śikharam tat mahā-ucchrayam.. 59..
तत्र वैखानसा नाम वालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः॥ ६०॥
तत्र वैखानसाः नाम वालखिल्याः महा-ऋषयः । प्रकाशमानाः दृश्यन्ते सूर्य-वर्णाः तपस्विनः॥ ६०॥
tatra vaikhānasāḥ nāma vālakhilyāḥ mahā-ṛṣayaḥ . prakāśamānāḥ dṛśyante sūrya-varṇāḥ tapasvinaḥ.. 60..
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि॥ ६१॥
अयम् सुदर्शनः द्वीपः पुरस् यस्य प्रकाशते । तस्मिन् तेजः च चक्षुः च सर्व-प्राणभृताम् अपि॥ ६१॥
ayam sudarśanaḥ dvīpaḥ puras yasya prakāśate . tasmin tejaḥ ca cakṣuḥ ca sarva-prāṇabhṛtām api.. 61..
शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ६२॥
शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ ६२॥
śailasya tasya pṛṣṭheṣu kandareṣu vaneṣu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 62..
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते॥ ६३॥
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते॥ ६३॥
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ . āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate.. 63..
पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च । सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते॥ ६४॥
पूर्वम् एतत् कृतम् द्वारम् पृथिव्याः भुवनस्य च । सूर्यस्य उदयनम् च एव पूर्वा हि एषा दिश् उच्यते॥ ६४॥
pūrvam etat kṛtam dvāram pṛthivyāḥ bhuvanasya ca . sūryasya udayanam ca eva pūrvā hi eṣā diś ucyate.. 64..
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ६५॥
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ ६५॥
tasya śailasya pṛṣṭheṣu nirjhareṣu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 65..
ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता । रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता॥ ६६॥
ततस् परम-गम्या स्यात् दिश्-पूर्वा त्रिदश-आवृता । रहिता चन्द्र-सूर्याभ्याम् अदृश्या तमसा आवृता॥ ६६॥
tatas parama-gamyā syāt diś-pūrvā tridaśa-āvṛtā . rahitā candra-sūryābhyām adṛśyā tamasā āvṛtā.. 66..
शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च । ये च नोक्ता मयोद्देशा विचेया तेषु जानकी॥ ६७॥
शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च । ये च ना उक्ताः मया उद्देशाः विचेया तेषु जानकी॥ ६७॥
śaileṣu teṣu sarveṣu kandareṣu nadīṣu ca . ye ca nā uktāḥ mayā uddeśāḥ viceyā teṣu jānakī.. 67..
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ६८॥
एतावत् वानरैः शक्यम् गन्तुम् वानर-पुङ्गवाः । अभास्करम् अमर्यादम् न जानीमः ततस् परम्॥ ६८॥
etāvat vānaraiḥ śakyam gantum vānara-puṅgavāḥ . abhāskaram amaryādam na jānīmaḥ tatas param.. 68..
अभिगम्य तु वैदेहीं निलयं रावणस्य च । मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्॥ ६९॥
अभिगम्य तु वैदेहीम् निलयम् रावणस्य च । मासे पूर्णे निवर्तध्वम् उदयम् प्राप्य पर्वतम्॥ ६९॥
abhigamya tu vaidehīm nilayam rāvaṇasya ca . māse pūrṇe nivartadhvam udayam prāpya parvatam.. 69..
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्॥ ७०॥
ऊर्ध्वम् मासात् न वस्तव्यम् वसन् वध्यः भवेत् मम । सिद्धार्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम्॥ ७०॥
ūrdhvam māsāt na vastavyam vasan vadhyaḥ bhavet mama . siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm.. 70..
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः । अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ॥ ७१॥
महा-इन्द्र-कान्ताम् वन-षण्ड-मण्डिताम् दिशम् चरित्वा निपुणेन वानराः । अवाप्य सीताम् रघु-वंश-ज-प्रियाम् ततस् निवृत्ताः सुखिनः भविष्यथ॥ ७१॥
mahā-indra-kāntām vana-ṣaṇḍa-maṇḍitām diśam caritvā nipuṇena vānarāḥ . avāpya sītām raghu-vaṃśa-ja-priyām tatas nivṛttāḥ sukhinaḥ bhaviṣyatha.. 71..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe catvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In